निर्वाणप्रकरणं - सर्गः ८३
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
चिन्मात्रपरमाकाश एष यः कथितो मया ।
एषोऽसौ शिव इत्युक्तस्तदा रुद्रः प्रनृत्यति ॥१॥
यासौ तस्याकृतिर्नासावाकृतिः कृतिनां वर ।
तच्चिन्मात्रघनं व्योम तथा कचति तादृशम् ॥२॥
मया दृष्टा तदाकाशमेव शान्तं तदाकृतिः ।
मयेव तत्परिज्ञातं नान्यः पश्यति तत्तथा ॥३॥
यथा नाम स कल्पान्तः स रुद्रः सा च भैरवी ।
मायामात्रं तथा सर्वं परिज्ञातमलं मया ॥४॥
चिद्व्योमैव परं शून्यं संनिवेशेन तेन तत् ।
तथा संलक्ष्यते नाम भैरवाकारतां गतम् ॥५॥
वाच्यवाचकसंबन्धं विना बोधो न जायते ।
यस्मात्तस्मात्त्वयि मया दृष्टमेव प्रवर्णितम् ॥६॥
यदेव वाच्युपारूढमेतद्राम सदैव ते ।
रूढाधिभौतिकदृशः क्षणान्मायात्मतां गतम् ॥७॥
न भैरवी सा नैवासौ भैरवो नैव संक्षयः ।
समस्तमेव तद्भ्रान्तिमात्रं चिद्व्योम भासते ॥८॥
स्वप्ननिर्माणपुरवत्संकल्परणवेगवत् ।
कथार्थसार्थरसवन्मनोराज्यविलासवत् ॥९॥
यथा स्वप्नपुरं स्वच्छे व्योम्नि मौक्तिकधीर्यथा ।
यथाकेशोण्ड्रकं व्योम्नि तथाऽचिद्भाति चिद्धने ॥१०॥
चिन्मात्राकाशमेवाच्छं कचति स्वात्मनात्मनि ।
तथा नाम यदाभाति तदात्मैवं जगत्तया ॥११॥
यथा चिद्व्योम्नि कचति स्व एवात्मा तथा पटे ।
तथा कचति तत्तत्र कल्पान्तानलनर्तने ॥१२॥
शिवयोरेवमाकारो निराकारोऽङ्ग वर्णितः ।
अधुना श्रृणु ते वक्ष्ये नृत्यस्यानृत्ततास्थितिम् ॥१३॥
चेतनं चेतनाधातोः किंचित्संस्पदनं विना ।
क्वचित्स्थातुं न शक्नोति वस्त्ववस्तुतया यथा ॥१४॥
स्वभावाच्चेतनं तस्माद्रुद्रत्वेन तथा स्थितम् ।
हेमेव रूपकत्वेन संनिवेशविलासिना ॥१५॥
यन्नाम चेतनं यत्र तदवश्यं स्वभावतः ।
स्पन्दधर्मि भवत्येव वस्तुता हि स्वभावजा ॥१६॥
यः स्पन्दश्चिद्धनस्यास्य शिवस्यास्य स एव नः ।
स्ववासनावेशवशान्नृत्यमेव विराजते ॥१७॥
अतः स कल्पान्तशिवो रुद्रो रौद्राकृतिर्द्रुतम् ।
यन्नृत्यति हि तद्विद्धि चिद्धनस्पन्दनं निजम् ॥१८॥
श्रीराम उवाच ।
प्रामाणिकदृशा दृश्यमिदं नास्त्येव वस्तुतः ।
यदेवास्तीव तत्सर्वं कल्पान्ते प्रविनश्यति ॥१९॥
तत्कल्पान्तमहाशून्ये एतस्मिन्परमाम्बरे ।
कथं चिन्नाम वाऽचेत्यं चेता चेतति चिद्धनः ॥२०॥
श्रीवसिष्ठ उवाच ।
एतदेव तदाप्यङ्ग द्वैतैक्याम्भोधिशान्तये ।
यदि चिन्मात्रनभसश्चेत्यमस्ति न किंचन ॥२१॥
न किंचिच्चेतति ततः क्वचित्किंचित्कदाचन ।
सर्वं शान्तं दृषन्मौनं विज्ञानघनमम्बरम् ॥२२॥
यच्चेदं चेत्यते नाम तत्स्वभावोऽस्य वल्गति ।
चित्स्वभावस्य शान्तस्य स्वसत्तायामवस्थितेः ॥२३॥
यथा स्वप्ने चिदेवान्तः पुरपत्तनवद्भवेत् ।
पुरादि न तु तत्किंचिद्विज्ञानाकाशमेव तत् ॥२४॥
आत्मनात्मनि चिच्छून्यं ज्ञात्वा च ज्ञेयमप्यलम् ।
तथा च सर्गादारभ्य वेत्ति स्वं कचनं च तत् ॥२५॥
स्वयमन्तः कचन्ती चित्स्वभावाकाशकोटरे ।
क्षणकल्पजगद्भ्रान्तिं धत्ते कल्पनया स्वया ॥२६॥
स्वयमन्तः कचत्कान्तिश्चिदाकाशः स्वभावखे ।
अयं सोहमयं च त्वं करोतीत्यादिकल्पनम् ॥२७॥
तस्मान्न द्वैतमस्तीह न चैक्यं न च शून्यता ।
न चेतनाचेतनं वै मौनमेव न तच्च वा ॥२८॥
न चेतति क्वचित्किंचित्कश्चिच्चेत्यात्मभावतः ।
तेन चेतापि नास्तीव मौनमेवावशिष्यते ॥२९॥
निर्विकल्पसमाधिर्हि सिद्धान्तः सर्ववाड्मये ।
तच्च जीवदृषन्मौनं तूष्णीमेवात आस्यताम् ॥३०॥
कुर्वन्निजं प्रकृतमेव यथाप्रवाह-
माचारजालमचलः परमार्थमौनात् ।
निर्मानमोहमदभेदमनङ्गजीव-
माकाशकोशविशदाशयशान्तमास्व ॥३१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रक० उत्तरार्धे पाषा० विश्वरूपदर्शनं नाम त्र्यशीतितमः सर्गः ॥८३॥
N/A
References : N/A
Last Updated : September 30, 2021
TOP