निर्वाणप्रकरणं - सर्गः ८७
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
ततश्चिदाकाशवपुर्व्याप्यनन्तो निरामयः ।
दत्तावधानो वपुषि तदा पश्याम्यहं क्वचित् ॥१॥
यावदन्तर्गतः सर्गः संस्थितोऽङ्कुरितोपमः ।
कुसूलस्येव बीजस्य सिक्तस्येवाङ्कुरो हृदि ॥२॥
ऊर्ध्वमुच्छून एवान्तःसेकाद्बीजे यथाङ्कुरः ।
आकारवत्यनाकारे चित्त्वाचित्त्वे तथा जगत् ॥३॥
यथोन्मिषति दृश्यश्रीः सुषुप्ताद्बोधमेयुषः ।
जाग्रद्वा विगते स्वप्ने चिन्मात्रस्य स्वचेतनात् ॥४॥
तथैवात्मनि सर्गादावनुभूतस्वरूपिणि ।
हृदि सर्गोदयो नान्यरूप आकाशरूपतः ॥५॥
श्रीराम उवाच।
आकाशरूप आकाशे परमाकाश कथ्यताम् ।
भूयो निपुणबोधाय कथं सर्गः प्रवर्तते ॥६॥
श्रीवसिष्ठ उवाच ।
शृणु राम यथापूर्वं स्वयंभूत्वं मया तदा ।
अनुभूतमसत्सद्वदिदं स्वप्नपुरोपमम् ॥७॥
तमालोक्य महाकल्पसंभ्रमं व्योमरूपिणा ।
भागेऽन्यत्र शरीरस्य संविदुन्मेषिता मया ॥८॥
यदैव सामला संवित्किंचिदुन्मेषिता स्थिता ।
तदैवाहं क्वचित्तत्र पश्याम्याकाशतामिव ॥९॥
गतं स्वभावं चिद्व्योम यथा त्वं राम निद्रया ।
जाग्रद्वा स्वप्नलोकं वा विशन्वेत्सि ससं घनम् ॥१०॥
दिङ्मात्राकाशमेवादौ ततोऽस्मीत्येव वेदनम् ।
तद्घनं कथ्यते बुद्धिः सा घना मन उच्यते ॥११॥
तद्वेत्ति शब्दतन्मात्रं तन्मात्राणीतराण्यथ ।
पञ्चेन्द्रियाणि तत्स्थौल्यादितीन्द्रियगणोदयः ॥१२॥
सुषुप्ताद्विशतः स्वप्नं जगद्दृश्यघनोदयम् ।
यथा तथैव सर्गादौ दुःखं भाति निमेषतः ॥१३॥
तुल्यकालमनन्तेऽस्मिन्दृश्यजालावभासने ।
कथयन्ति क्रमं केचित्केचिन्न कथयन्ति च ॥१४॥
परमाणुकणे कान्ते संपन्नमनुभूतवान् ।
अहं चेतनमात्मानं वस्तुतोऽमलमेव खम् ॥१५॥
यथा स्वभावतो व्योम्नि चलत्येवानिशं मरुत् ।
तथा स्वभावात्सर्वत्र पश्यत्येव वपुस्त्विति ॥१६॥
यादृशं चेतितं रूपं शक्त्या परमया तया ।
तच्छक्नोत्यन्यथाकर्तुं नैषा यत्नेन भूयसा ॥१७॥
ततः पश्याम्यहं यावत्संपन्नोऽप्यणुरूपकः ।
चित्त्वाच्चेतस्तदेवाशु तथाभूतोऽस्मि संस्थितः ॥१८॥
ततोऽहं बुद्धवान्रूपं तनु तेजःकणाकृति ।
तदेव भावयन्पश्चाद्गतोऽहं स्थूलतामिव ॥१९॥
प्रेक्षे तावदहं किंचिदिति बोधाल्लघोस्ततः ।
मनागालोकनायैव संप्रवृत्तोऽनुभूतवान् ॥२०॥
यन्नाम तत्र तत्किंचित्तस्येहाद्य रघूद्वह ।
शृणु नामानि मुख्यानि कल्पितानि भवादृशैः ॥२१॥
द्रष्टुं प्रवृत्तो रन्ध्रेण येन तच्चक्षुरुच्यते ।
यच्च पश्यामि तद्दृश्यं दर्शनं तु फलं ततः ॥२२॥
यदा पश्यामि कालोऽसौ यथा पश्यामि स क्रमः ।
प्रौढा नियतिरित्यस्य यत्र पश्यामि तन्नभः ॥२३॥
स्थितोऽस्मि यत्र देशोऽसावित्यद्यैषा प्रकल्पना ।
तदा त्वहं चिदुन्मेषमात्रात्तन्मात्रकारणम् ॥२४॥
पश्यामीति ततस्तत्र मनाग्वोधो ममोदभूत् ।
ततो रन्ध्रद्वयेनाहमपश्यं यत्तदप्यखम् ॥२५॥
याभ्यामपश्यं रन्ध्राभ्यां त इमे लोचने स्थिते ।
ततः किंचिच्छृणोमीति संविदित्युदिता मम ॥२६॥
ततः किंचिन्मनाङ्मात्रं झंकारं श्रुतत्रानहम् ।
प्रध्मातस्येव शङ्खस्य शब्दं व्योम्नः स्वभावजम् ॥२७॥
याभ्यामहमथाश्रौषं त इमे श्रवणव्रणे ।
प्रदेशाभ्यां विचरता मरुता विततस्वनम् ॥२८॥
स्पर्शसंवेदनं किंचिदहमत्रानुभूतवान् ।
येन नाम प्रदेशेन तेन सा त्वक्च कथ्यते ॥२९॥
येन स्पृष्टमिवाङ्गं तत्तदाहमनुभूतवान् ।
सत्संवेदनमात्रात्मा सोऽयं वायुरिति स्मृतः ॥३०॥
स्पर्शनेन्द्रियतन्मात्रमिति वेदिनि संस्थितम् ।
आस्वादसंविद्याभून्मे तदास्वाद्यरसेन्द्रियम् ॥३१॥
प्राणान्मे घ्राणतन्मात्रमुदितं व्योमरूपिणः ।
इत्थं न किंचित्संपन्नं सर्वं संपन्नमत्र मे ॥३२॥
एवमिन्द्रियतन्मात्रजालं चेत्तत्र संस्थितः ।
यावत्तावद्विदः पञ्च बलादेव ममोदिताः ॥३३॥
शब्दरूपरसस्पर्शगन्धमात्रशरीरिकाः ।
अनाकारास्तथा भातस्वरूपिण्यो भ्रमात्मिकाः ॥३४॥
एवंरूपमहं जालं भावयन्यत्तदास्थितः ।
तदहंकार इत्यद्य कथ्यते त्वादृशैर्जनैः ॥३५॥
एष एव घनीभूतो बुद्धिरित्यभिधीयते ।
साथ बुद्धिर्घनीभूता मन इत्यभिधीयते ॥३६॥
अन्तःकरणरूपत्वमेवमत्राहमास्थितः ।
आतिवाहिकदेहात्मा चिन्मयव्योमरूपवान् ॥३७॥
पवनाद्यप्यहं शून्यः केवलाकाशमात्रकः ।
सर्वेषामेव भावानां शून्याकृतिररोधकः ॥३८॥
अथैवंभावनाच्चाहं यदा तत्र चिरं स्थितः ।
तदाहं देहवान्दृष्ट इति मे प्रत्ययोऽभवत् ॥३९॥
तेनाहंप्रत्ययेनाथ शब्दं कर्तुं प्रवृत्तवान् ।
शून्य एव यथा सुप्तः स्वप्नोड्डीननरो रवम् ॥४०॥
अथ पूर्वं कृतः शब्दो बालेनेव तदोमिति ।
ततः स एष ओंकार इति नीतः पुनः प्रथाम् ॥४१॥
ततः स्वप्ननरेणेव यत्किंचिद्गदितं मया ।
तदेतद्विद्धि वाचं त्वं पश्चान्नीतां प्रथामिह ॥४२॥
ब्रह्मैव सोऽस्मि संपन्नः सृष्टेः कर्ता जगद्गुरुः ।
ततो मनोमयेनैव कल्पिताः सृष्टयो मया ॥४३॥
एवमस्मि समुत्पन्नो न तु जातोऽस्मि किंचन ।
दृष्टवानस्मि ब्रह्माण्डं ब्रह्माण्डान्तं न किंचन ॥४४॥
एवं जगति संपन्ने ममैतस्मिन्मनोमये ।
न किंचित्तत्र संपन्नं तच्छून्यं व्योम केवलम् ॥४५॥
इत्थं संशून्यमेवेदं सर्वं वेदनमात्रकम् ।
मनागपि न सन्त्येते भावाः पृथ्व्यादयः किल ॥४६॥
जगन्मृगतृडम्बूनि भान्ति संविदि संविदः ।
न बाह्यमस्ति नो बाह्ये खे तद्व्योम तथा स्थितम् ॥४७॥
मरौ नास्त्येव सलिलं संवित्पश्यति तत्तथा ।
निर्मूलमन्तःसंतप्ता स्वसंभ्रमवती भ्रमम् ॥४८॥
नास्त्येव ब्रह्मणि जगत् संवित्पश्यति तत्तथा ।
निर्मूलमेव संवित्त्वादेवं भ्रान्तेश्च संभ्रमम् ॥४९॥
असदेवेदमाभाति हृद्येव जगदाततम् ।
संकल्पनमनोराज्यं यथा स्वप्नपुरादिवत् ॥५०॥
पार्श्वसुप्तजनस्वप्नस्तच्चित्तावेशनं विना ।
यथा न किंचित्तच्चित्तावेशनादनुभूयते ॥५१॥
तथा जगत्तद्दृषदं संप्रविश्यानुभूयते ।
आदर्शबिम्बिताकारं दृष्टमप्यन्यथाप्यसत् ॥५२॥
आधिभौतिकभावेन नेत्रेण यदि लक्ष्यते ।
तत्तन्न दृश्यते किंचिद्गिरिरेव प्रदृश्यते ॥५३॥
आतिवाहिकदेहेन परं बोधदृशा यदि ।
प्रेक्ष्यते दृश्यते सर्गः परमात्मैव चामलः ॥५४॥
सर्वत्र सर्गनिर्वाणं प्रज्ञालोकेन लक्ष्यते ।
ब्रह्मात्मैवान्यथा चेत्तन्न किंचिदभिलक्ष्यते ॥५५॥
यत्पश्यत्यवदाता धीः सोपपत्तिविचारणा ।
न तन्नेत्रैस्त्रिभिः शर्वो नेन्द्रो नेत्रशतैरपि ॥५६॥
यथा खमावृतं सर्गैस्तथा भूरिति बुद्धवान् ।
तदाहमभवं ध्याता धराधारणयान्वितः ॥५७॥
तया धराधारणया धरारूपधरोऽभवम् ।
अत्यजन्नेव चिद्व्योमवपुः सम्राडिवाचिरात् ॥५८॥
धराधारणया चैव धराधातूदरं गतः ।
द्वीपाद्रितृणवृक्षादिदेहोऽहमनुभूतवान् ॥५९॥
संपन्नोऽस्म्यथ भूपीठे नानावनतनूरुहम् ।
नानारत्नावलीव्याप्तॆ नानानगरभूषणम् ॥६०॥
ग्रामगह्वरपर्वाढ्यं पातालसुषिरोदरम् ।
कुलाचलभुजाश्लिष्टद्वीपाब्धिवलयान्वितम् ॥६१॥
तृणौघतनुरोमाढ्यं गिरिखण्डकगुल्मकम् ।
दिग्वारणकटव्यूहधृतं शेषशिरःशतैः ॥६२॥
ह्रियमाणं महीपालः शोभमानेभतन्तुभिः ।
प्राणिभिर्भुज्यमानाङ्गं वर्धमानं व्यवस्थया ॥६३॥
हिमवद्विन्ध्यसुस्कन्धं सुमेरूदारकन्धरम् ।
गङ्गादिसरिदापूरमुक्ताहाररणत्तनुम् ॥६४॥
गुहागहनकच्छादि सागरादर्शमण्डलम् ।
मरूषरस्थलश्वेतसुवराम्बरसुन्दरम् ॥६५॥
भूतपूर्वैः परापूर्णं परिपूतं महार्णवैः ।
अलंकृतं पुष्पवनैः समारब्धं रजोघनैः ॥६६॥
नित्यं कृषीवलैः कृष्टं वीजितं शिशिरानिलैः ।
तापितं तपनैस्तप्तैरुक्षितं प्रावृडम्बुभिः ॥६७॥
विपुलाग्रस्थलोरस्कं पद्माकरकृतेक्षणम् ।
सितासितघनोष्णीषं दशाशोदरमन्दिरम् ॥६८॥
लोकालोकमहाखातवलयोग्रास्यभीषणम् ।
अनन्तभूतसंघातपरिस्पन्दैकचेतनम् ॥६९॥
व्याप्तमन्तर्बहिश्चैव नानाभूतगणैः पृथक् ।
देवदानवगन्धर्वैर्बहिरन्तस्तु कीटकैः ॥७०॥
पातालेन्द्रियरन्धेषु नागासुरकृमिव्रजैः ।
सप्तस्वर्णवकोशेषु नानाजातिजलेचरैः ॥७१॥
व्याप्तं नदीवनसमुद्रदिगन्तशैल-
द्वीपाख्यजन्तुविषयस्थलजङ्गलौघैः ।
नानावलीवलितमण्डलकोशखण्डं
वल्लीसरःसरिदरातिगणाब्जखण्डैः ॥७२॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो- नि० उ० पा० पार्थिवधात्वन्तर्गतजगदानन्त्यप्रतिपादनं नाम सप्ताशीतितमः सर्गः ॥८७॥
N/A
References : N/A
Last Updated : September 30, 2021
TOP