संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १६१

निर्वाणप्रकरणं - सर्गः १६१

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
यन्मुनिव्याधयोरेतद्वृत्तं नानादशाशतम् ।
अन्यकारणकं किं स्यादेतत्किं वा स्वभावजम् ॥१॥
श्रीवसिष्ठ उवाच ।
ईदृशाः प्रतिभावर्ताः परमात्ममहाम्बुधौ ।
अनारतं प्रवर्तन्ते स्वतः स्वात्मनि खात्मकाः ॥२॥
यथा स्पन्दात्मनो वायोरजस्रं स्पन्दलेखिकाः ।
उद्यन्त्येव सतश्चित्त्वाच्चिद्व्योम्नि प्रतिभायुताः ॥३॥
या यथा स्वाङ्गभूतास्मादुदिता प्रतिभा प्रभा ।
तावत्सेह तथैवास्ते न हता यावदन्यया ॥४॥
नानावयववानेक एवेहावयवी यथा ।
चिद्ब्रह्मैकमिदं व्योम तथैवं प्रतिभात्मकम् ॥५॥
ब्रह्म काश्चित्स्थिराः काश्चिदस्थिराः प्रतिभार्थवत् ।
देहावस्था इवात्मस्थाः स्थितमात्मनि खात्मनि ॥६॥
स्वात्मनि स्वप्नपुरवद्भानं चिति चमत्कृतिः ।
किं सारं किमसारं वा किं सत्किं वाप्यसद्भवेत् ॥७॥
परिज्ञातमिदं यावत्सर्वं चिद्व्योममात्रकम् ।
दृश्यं जगद्भवद्बुद्धं न सन्नासत्किमुच्यते ॥८॥
चिद्व्योममात्रकचनं संसारे सर्वतः शिवे ।
आस्थानास्थादि किं तज्ज्ञा यथासंस्थानमास्थित ॥९॥
समुद्यन्ति स्वतोऽम्भोधेर्वीचिवत्प्रतिभाकृताः ।
स्वात्मिकाः स्वात्मनो देवात्कार्यकारणदृक्तया ॥१०॥
स्फारं यत्परमं व्योम्नः स्वसंकल्पस्वसर्गवत् ।
तत्तेनैव जगद्बुद्धं कुतः पृथ्व्यादयोऽत्र के ॥११॥
भात्येवमयमाभासो नैव भाति च किंचन ।
ब्रह्मण्येव स्थितं ब्रह्म तदविद्याभिधं स्वतः ॥१२॥
घनता चिद्धनेनेह चिद्व्योमैवाखिलं जगत् ।
इत्येव परमो बोध एतत्प्रौढिस्तु मुक्तता ॥१३॥
चिद्व्योमशून्यतारूपमात्रमाभास आततः ।
इदमप्रतिघं शान्तं जगदित्येव भासते ॥१४॥
ध्यायिनः क्षीणदेहस्य ध्याने दृक्त्वे क्षणं स्थिते ।
चिन्मात्रव्यतिरेकेण शक्तत्वं स्यात्किमुच्यताम् ॥१५॥
चिद्धातुव्योमभागो यो भाति यत्र यथा यथा ।
तथा तथा स तत्रास्ते यावदित्थं स्वभावतः ॥१६॥
अविचारवतो दृश्यभ्रान्तिर्गगनमय्यपि ।
जातितैमिरिकद्वीन्दुदोषवन्नोपशाम्यति ॥१७॥
यदिदं दृश्यते किंचित्तद्ब्रह्मैव निरामयम् ।
चिदाकाशमनाद्यन्तं तत्कथं किं प्रशाम्यति ॥१८॥
स्वमसन्त्यजतो रूपं स्वच्छसंवेदनात्मकम् ।
स्वप्नवत्कचनं स्वस्य यन्नाम तदिदं जगत् ॥१९॥
शास्त्रार्थैस्तीक्ष्णया बुद्ध्या मिथो यन्न विकल्पनैः ।
कृत्वा सुप्तमिवात्मानं किंचिद्बुद्धेन बोध्यते ॥२०॥
रूढा येयमविद्येति संविदव्यभिचारिणी ।
भवतां ननु नास्त्येव सा सरित्स्विव पांसुभूः ॥२१॥
यथा स्वप्नेऽवनिर्नास्ति स्वानुभूतापि कुत्रचित् ।
तथेयं दृश्यता नास्ति स्वानुभूताप्यसन्मयी ॥२२॥
चिद्व्योममात्रमेवार्थाऽनलवद्भासते यथा ।
स्वप्ने तथैव जाग्रत्त्वेऽनलं स्वस्यैव लक्ष्यते ॥२३॥
इदं जाग्रदयं स्वप्न इति नास्त्येव भिन्नता ।
सत्ये वस्तुनि निःशेषसमयोर्यानुभूतितः ॥२४॥
नैतदेवमिति स्वप्नप्रबोधात्प्रत्ययो यथा ।
मृत्वामुत्र प्रबुद्धस्य जाग्रति प्रत्ययस्तथा ॥२५॥
कालमल्पमनल्पं च स्वप्नजाग्रदितीह धीः ।
वर्तमानानुभवनसाम्यात्तुल्ये तयोर्द्वयोः ॥२६॥
बाह्ये तदेवमित्यादिगुणसाम्यादशेषतः ।
न जाग्रत्स्वप्नयोर्ज्यायानेकोऽपि यमयोरिव ॥२७॥
यदेव जाग्रत्स्वप्नोऽयं यः स्वप्नो जाग्रदेव तत् ।
नैतदेवं किलेत्यस्ति धीः कालेनोभयोरपि ॥२८॥
आजीवितान्तं स्वप्नानां शतान्यनियतं यथा ।
अनिर्वाणमहाबोधे तथा जाग्रच्छतान्यपि ॥२९॥
उत्पन्नध्वंसिनः स्वप्नाः स्मर्यन्ते बहवो यथा ।
तथैव बुद्धैः स्मर्यन्ते सिद्धैर्जन्मशतान्यपि ॥३०॥
एवं समस्तसाधर्म्ये समस्तानुभवात्मनि ।
कचति स्वप्नवज्जाग्रज्जाग्रद्वत्स्वप्नवेदनम् ॥३१॥
यथा दृश्यं जगच्चेति नित्यमेकार्थतां गतौ ।
उभौ शब्दौ तथैवैतज्जाग्रत्स्वप्नात्मकौ स्मृतौ ॥३२॥
एवं स्वप्नपुरं स्फारं यथा व्योमैव चिन्मयम् ।
तथैवेदं जगदतः क्वाविद्या दृश्यते कुतः ॥३३॥
तदेवाकाशमात्रात्म यद्यविद्येति कथ्यते ।
तद्यदास्ते तदेवाहं बन्धः स्वकलनात्मकः ॥३४॥
तन्मैवं क्रियतामेतदबन्धस्यैव बन्धनम् ।
कान्यता अमलव्योम्नश्चिन्मयस्य निराकृतेः ॥३५॥
चिन्मयाकाशकचने क्वास्मिन्किल निराकृतेः ।
दृश्यनामन्यविद्याख्ये बन्धो मोक्षोऽथवा कुतः॥३६॥
नाविद्या विद्यते नाम बन्धो बन्धो न कस्यचित् ।
मोक्षो न कस्यचिन्मोक्षश्चास्तिनास्तीति नास्त्यलम्॥
नास्त्येव विद्याऽविद्या वा चिदेवेयं कचत्यजा ।
ख एव खाकृतिः स्वप्न इव सर्गस्वदेहिनी ॥३८॥
देशाद्देशान्तरप्राप्तौ यन्मध्ये संविदो वपुः ।
तज्जाग्रत्स्वप्नदृश्यस्य रूपमित्येव निश्चयः ॥३९॥
सबाह्याभ्यन्तरे दृश्ये शान्तनिद्रस्य यद्वपुः ।
एकस्य निशि तद्रूपं जाग्रत्स्वप्नदृशामिह ॥४०॥
विद्धि तद्रूपमेवेदं भेदवेदनमित्यपि ।
चित्यन्तमागतः कोऽन्यो नाम स्याद्भेदवेदने ॥४१॥
चिद्व्योमैवाभेदबुद्धिश्चिद्व्योमैव च भेदधीः ।
द्वैताद्वैते चैकमेव तथा शान्तमखण्डितम् ॥४२॥
सदंशो बोधतद्ग्राह्यमय एव यथा तथा ।
दृष्टा य एव दृश्यं तद्द्वैतवेदनमेककम् ॥४३॥
तद्ब्रह्म खं विदुर्द्वैतमद्वैताद्वैतमेव च ।
सर्ग एव परं ब्रह्म द्वैतमद्वैतमेव सत् ॥४४॥
नेति नेति विनिर्णीय सर्वतोऽभिभवत्यपि ।
पश्चात्त्यक्त्वा चिदाकाशे शिलां कृत्वास्यतामिह ॥४५॥
यथाक्रमं सुभग यथास्थितस्थिति
यथोदयं व्रज पिब भुंक्ष्व भोजय ।
अभीप्सितं गतमननो निरिङ्गनः
सुचिन्मये परमपदोपलो भवान् ॥४६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० अ० वि० श० निर्वाणवर्णनं नामैकषष्टयधिकशततमः सर्गः ॥१६१॥

N/A

References : N/A
Last Updated : October 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP