संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १४५

निर्वाणप्रकरणं - सर्गः १४५

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


मुनिरुवाच ।
बहिष्ठैर्बाह्यमेवान्तरन्तस्थैः स्वप्नमिन्द्रियैः ।
जीवो वेत्ति द्वयस्थातितीव्रसंवेगिभिर्द्वयम् ॥१॥
यदेन्द्रियाणि तिष्ठन्ति बाह्यतश्च समाकुलम् ।
तदा म्लानानुभवनः संकल्पार्थोऽनुभूयते ॥२॥
यदा त्वन्तर्मुखान्येव सन्त्यक्षाणि तदा जगत् ।
अणुमात्रं स्ववपुषि जीवस्तेनातिवेत्ति तत् ॥३॥
जगप्सप्रतिघं नास्ति किंचिदेव कदाचन ।
जीवेक्षणानामक्षाणां दृष्टिरप्रतिघा जगत् ॥४॥
जीवनेत्राणीन्द्रियाणि यदा बाह्यमयान्यलम् ।
तदा बाह्यात्मकं वेत्ति चिति जीवो जगद्वपुः ॥५॥
श्रोत्रं त्वगीक्षणं घ्राणं जिह्वा चेतीहितात्मकः ।
संघातः प्रोच्यते जीवश्चिद्रूपोऽनिलमूर्तिमान् ॥६॥
सर्वत्र सर्वदा जीवः सर्वेन्द्रियमयः स्थितः ।
चिच्चिद्व्योमाव्ययस्तेन सर्वं सर्वत्र पश्यति ॥७॥
श्लेष्मात्मना रसेनान्तर्जीव आपूर्यते यदा ।
तेऽक्षाणुकेऽणुरूपात्मा तदा तत्रैव विन्दति ॥८॥
क्षीरार्णव इवोड्डीनो नभश्चन्द्रोदयान्वितम् ।
सरांसि फुल्लपद्मानि कह्लारवलितानि च ॥९॥
पुष्पाभ्रप्रतिधानानि परिगीतानि षट्पदैः ।
वसन्तान्तःपुराण्यन्तरुद्यानान्युदितानि खे ॥१०॥
उत्सवान्मङ्गलाकीर्णांल्लीलालोलाङ्गनागणान् ।
भक्ष्यभोज्यान्नपानश्रीपरिपूर्णगृहाजिरान् ॥११॥
सपुष्पाः फेनहसनास्तरलातरलेक्षणाः ।
विलासेनाम्बुधिं यान्ति सरितो मत्तयौवनाः ॥१२॥
हिमवच्छुभ्रशृङ्गाणि सौधानि शिशिराण्यलम् ।
सुधावधौतभित्तीनि कृतानीन्दुतलैरिव ॥१३॥
शिशिरासारहेमन्तप्रावृण्मेघवृतानि च ।
स्थलानि नीलनलिनीलताशाद्वलवन्ति च ॥१४॥
पुष्पप्रकरसंछन्ना विश्रान्तहरिणाध्वगाः ।
स्निग्धपत्रतरुच्छायाः पुरोपवनभूमिकाः ॥१५॥
कदम्बकुन्दमन्दारमकरन्देन्दुकान्तिभिः ।
भासमानासनस्थानसंस्थानाः कुसुमस्थलीः ॥१६॥
नलिनीजालिनीर्नीलाः पुष्पकस्थलधारिणीः ।
वनावलीर्विलीनाभ्रनिर्मलाकाशकोमलाः ॥१७॥
कदलीकन्दलीकुन्दकदम्बकृतशेखराः ।
गिरिमालाश्चलच्चारुलीलापल्लवपेलवाः ॥१८॥
हेलावलितधम्मिल्लमुक्तमालतिकालताः ।
इव बालाङ्गना नृत्यं तन्वानास्तनुगात्रिकाः ॥१९॥
उत्फुल्लश्वेतनलिनीनिभा नरपतेः सभाः ।
चारुचामरभृङ्गारवितानकशतावृताः ॥२०॥
वल्लीवलयविन्यासविलासवलिताङ्गिकाः ।
वनमाला विलोलाम्बुप्रणालीकाकलीकलाः ॥२१॥
धराभरकरालाङ्गधाराधरधराधराः ।
दिशः सीकरनीहारहारोदरधरा दश ॥२२॥
पित्तात्मना रसेनान्तर्जीव आपूर्यते यदा ।
ओजोन्तरणुमात्रात्मा तदा तत्रैव विन्दति ॥२३॥
पवनस्पन्दसंशुष्ककिंशुकद्रुमशोभनाः ।
ज्वालालीरुज्ज्वलाम्भोजदलपल्लवपेलवाः ॥२४॥
संतप्तसिकतासेकसनीहारसरिच्छिराः ।
दावानलशिखाश्यामधूमश्यामलदिङ्मुखाः ॥२५॥
कृशानुकर्कशानर्कांश्चक्रधाराशितत्विषः ।
दावदाहविषावेशविपरीतरसाकरान् ॥२६॥
स्वेदमुष्णीकृताब्धिं वा स्विन्नं त्रैलोक्यमण्डलम् ।
क्षरत्क्षाराण्यरण्यानि प्रतर्दगहनान्यपि ॥२७॥
प्रतरन्मृगतृष्णाम्बुसरत्सारसरूपि च ।
स्थलान्यदृष्टपूर्वाणि भूतपूर्वतरूणि च ॥२८॥
अध्वगं संभ्रमवशात्तप्तधूलिविधूसरम् ।
दूरादमृतवद्दृष्टं स्निग्धच्छायाध्वपादपम् ॥२९॥
ज्वरज्वालितमाकारं भुवनं तप्तमग्निवत् ।
पांसूपहतदेशानि दिङ्मुखानि च खानि च ॥३०॥
ग्रहग्रामार्णवाद्व्यब्धिवनव्योमाग्निका दिशः ।
तुहिनाहारहानन्तासंख्याम्बुदघटोद्भटान् ॥३१॥
शरद्ग्रीष्मवसन्तांश्च तापानातपदायिनः ।
तृणपत्रलतौघाभ्रराश्यूष्मपिहितावनीः ॥३२॥
सौवर्णमम्बरतलं भूतलं दिक्तटानि च ।
तप्तान्यदभ्रसरसीहिमशैलस्थलानि व ॥३३॥
रसानुरिक्ते वातेन जीव आपूर्यते यदा ।
ओजोन्तरणुमात्रात्मा तदा तत्रैव विन्दते ॥३४॥
वातविक्षुब्धसंवित्त्वादपूर्वं वसुधातलम् ।
अपूर्वा नगरग्रामशैलाब्धिवनमण्डलीः ॥३५॥
उड्डीयमानमात्मानं शिलाः शैलस्थलानिव ।
घनघुंघुमसारावानचक्रभ्रमणादि च ॥३६॥
हयोष्ट्रगरुडाम्भोदहंसयानावरोहणम् ।
यक्षविद्याधरादीनां गत्यागमनसंचरम् ॥३७॥
साद्रिद्यूर्वीनदीशानां वनभूग्रामपूर्दिशाम् ।
कम्पं भयोन्मुखाङ्गानां बुद्बुदानामिवार्णवे ॥३८॥
अन्धकूपे निपतितं विपुले संकटेऽथवा ।
अथवा रूढमात्मानं खमाभं पादपं गिरिम् ॥३९॥
वात्पित्तश्लेष्मयुक्तो जीव आपूर्यते यदा ।
भागैर्वातवशं प्राप्तैरार्तोऽसौ विन्दते तदा ॥४०॥
पतन्तीं पार्वतीं वृष्टिं सुशिलावृष्टिसंकटम् ।
स्फुटाट्टकटकारावभ्रमत्पादपमण्डलम् ॥४१॥
भ्रमद्भिर्वनविन्यासैः संदिग्धाम्भोधरोत्कटम् ।
सिंहवारणवर्षाभ्रनिरन्तरदिगन्तरम् ॥४२॥
तालीतमालहिंतालमालाज्वलनसंकुलम् ।
गुहाघुंघुमनिर्ह्रादभांकारघनघर्घरम् ॥४३॥
मन्द्रमन्दरमन्थानशब्दसंदर्भसुन्दरीम् ।
दरीं दलनदुर्वारमिथःसंघट्टघट्टिताम् ॥४४॥
श्रृङ्गसंघट्टसदृशाः क्रेंकारोत्करकर्कशाः ।
नदीर्मुक्तालतापातसस्रग्दामनभस्तलाः ॥४५॥
शिलाशकलपूर्णार्णपूर्णाम्बरमहार्णवम् ।
वहद्वनघनोद्धातघट्टितब्रह्ममण्डलम् ॥४६॥
परस्परविनिर्मृष्टदशदर्शनदन्तुरम् ।
चटत्कटकटारावस्फुटत्कटकटङ्कितम् ॥४७॥
खपातपवनाधूतवनवातलतोदयम् ।
रणदात्मदृषच्चूर्णकर्बुराम्बुजधारिणम् ॥४८॥
प्राग्भटोद्भटभेदोत्थैर्मन्द्रैर्मरमरारवैः ।
क्रूराक्रन्दैरिवाभाति विराजितजगत्र्त्रयम् ॥४९॥
इति तैः काष्ठपाषाणमृद्युग्वातभटैर्वृतः ।
परिपीडित एवास्ते यदा जीवो जडीकृतः ॥५०॥
मृदन्तःकीटकणवच्छिलान्तर्गतभेकवत् ।
गर्भस्थापक्वशिशुवत्फलान्तर्गतबीजवत् ॥५१॥
बीजोदरस्थाङ्कुरवद्द्रव्यपिण्डोदराणुवत् ।
अश्रान्तस्तम्बकोशस्थदारुपुत्रकदेहवत् ॥५२॥
सौषिर्यासंभवात्प्राणपवनस्पन्दवर्जितः ।
प्रोन्नमत्पर्शुपूरेण शिलापूरेण तर्जितः ॥५३॥
तदा निविडतेजोन्तरेवानुभवति स्वयम् ।
सुषुप्तं शैलकोशाभमन्धकूपोदरोपमम् ॥५४॥
यदा परिणतं यत्नं पुनः सौषिर्यमागतम् ।
पुनर्वेत्ति तदा जीवः स्वप्नं प्राणावबोधितः ॥५५॥
यदा तस्मिन्प्रदेशेऽन्तर्भागभागान्पतन्ति ते ।
देहे परिणमन्तोऽन्तस्तदेवात्यद्रिवर्षणम् ॥५६॥
बह्वेव वह्निबहुना स्वल्पेनाल्पं प्रपश्यति ।
वातपित्तादियोगेन बहिरन्तश्च संभ्रमम् ॥५७॥
पश्यत्येतद्यथैवान्तरेष जीवो वशीकृतः ।
वातपित्तादिवलितो बहिर्वेत्त्येवमेति वा ॥५८॥
क्षुब्धैरन्तर्बहिश्चैव स्वल्पैः स्वल्पं प्रपश्यति ।
समैः सममिदं दृश्यं वातपित्तकफादिना ॥५९॥
बहिः पश्यत्ययं जीवः कुपितैरेभिरावृतः ।
स्पन्दं भूम्यद्रिनभसां ज्वलनं वानलोच्चयैः ॥६०॥
आकाशगमनं चैव चन्द्रोदयहिमाचलान् ।
गहनं वृक्षशैलानां नभःप्लवनमर्णसाम् ॥६१॥
मज्जनोन्मज्जनं वाब्धौ सुरतं सुरसद्मसु ।
शैलोपवनशुभ्राभ्रपीठविश्रमणोच्चयम् ॥६२॥
बृहत्क्रकचनिष्पेषं नरकानुभवभ्रमम् ।
तालीतमालहिंतालमालावलनमम्बरे ॥६३॥
चक्रवृत्तैश्च पतनं झगित्युत्पतनं दिवि ।
शून्येऽपि जनतावृन्दं स्थलेऽप्यब्धिनिमज्जनम् ॥६४॥
विचित्रं विपरीतं च व्यवहारं महानिशि ।
अह्नीव भास्करालोकं दुर्भेद्यं चाह्नि वा तमः ॥६५॥
साद्रिभूतलमाकाशे कुड्यबन्धे घने स्थलम् ।
कुड्यबन्धांश्च गगने मित्रभावं च विद्विषि ॥६६॥
स्वजने परताबुद्धिं सुजनत्वं च दुर्जने ।
सुसमस्थलतां श्वभ्रे श्वभ्रत्वं सुसमे स्थले ॥६७॥
उद्गीतालापमसृणान्सुधाधौतान्सुचित्रितान् ।
अद्रीञ्छ्वेतमयान्वापि नवनीतमयान्श्च वा ॥६८॥
कदम्बनीपजम्बीरपत्रस्तबकसद्मसु ।
सुखविश्रमणं स्त्रीभिः नाकं पद्मेष्विवालिनः ॥६९॥
अन्तर्निमीलिता ह्येताः पश्यन्त्युन्मीलिता बहिः ।
धातूनामिति वैषम्याद्भ्रान्तिमिन्द्रियवृत्तयः ॥७०॥
एवंविधान्यनेकानि पश्यन्त्यनुभवन्ति च ।
बहिरेव यथा स्वप्ने वस्तुन्यसमधातवः ॥७१॥
बहिश्चान्तश्च दृश्यन्ते विपरीतान्यनेकशः ।
कार्याण्यतिकरालानि जीवैरसमधातुभिः ॥७२॥
समेषु धातुष्वेषोऽन्तर्जीवोऽनुभवति स्वयम् ।
तेजोन्तर्गत एवेमां व्यवहारस्थितिं समाम् ॥७३॥
यथास्थितां पुरग्रामपत्तनारण्यसंततिम् ।
सौम्यवारितरुच्छायादेशाध्वगगमागमम् ॥७४॥
सुखातपमयेन्द्वर्कताराहोरात्रमण्डितम् ।
एवमेतदसद्भूतं सद्भूतमिव भासते ॥७५॥
दृश्योपलम्भं चित्तत्त्वे स्पन्दनं पवने यथा ।
असदेव सदाभासमभिन्नं भिन्नवत्स्थितम् ॥७६॥
शान्तादुदेति सकलं जगदम्बरात्म
शान्तं न किंचन न नाम सदित्युदेति ।
तद्व्योमनीदृशमनन्तचितेः शरीरे
भामात्रमाततमनन्तवपुर्विभाति ॥७७॥

इ० वा० महारामा० वा० दे० मो० नि० उ० अ० वि० श० जाग्रत्स्वप्नसुषुप्तिवर्णनं नाम पञ्चचत्वारिंशदधिकशततमः सर्गः ॥१४५॥

N/A

References : N/A
Last Updated : October 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP