संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः ४४

निर्वाणप्रकरणं - सर्गः ४४

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीराम उवाच ।
क्रमात्समाधानतरोराजीवफलशालिनीम् ।
सलताकुसुमां ब्रूहि सत्तां विश्रान्तिदां मुने ॥१॥
श्रीवसिष्ठ उवाच ।
आजीवमुद्यदुत्सेधं विवेकिजनकानने ।
पत्रपुष्पफलोपेतं समाधानतरुं शृणु ॥२॥
यथाकथंचिदुदितं दुःखेन स्वयमेव च ।
संसारवननिर्वेदं बीजमस्य विदुर्बुधाः ॥३॥
शुभजालहलाकृष्टं रसासिक्तमहर्निशम् ।
प्रवहच्छ्वसनाकुल्यं क्षेत्रमस्य विदुर्बुधाः ॥४॥
समाधिबीजं संसारनिर्वेदः पतति स्वयम् ।
चित्तभूमौ विविक्तायां विवेकिजनकानने ॥५॥
स्वचित्तभूमौ पतितं ध्यानबीजं महाधिया ।
सेकैरमीभिर्यत्नेन संसेक्तव्यमखेदिना ॥६॥
शुद्धैः स्निग्धैः पवित्रैश्च मधुरैरात्मनोहितैः ।
सत्संगमनवक्षीरैरैन्दवैरमृतैरिव ॥७॥
अन्तःशून्यप्रदैः पूर्णैः स्वच्छैरमृतशीतलैः ।
विसृतैरमृताकुल्याशास्त्रार्थवरवारिभिः ॥८॥
स्वचित्तभूमौ पतितं परिज्ञाय महाधिया ।
बीजं संसारनिर्वेदो रक्ष्यं ध्यानस्य यत्नतः ॥९॥
तपःप्रकारदानेन पदार्थघटनेशितैः ।
तीर्थायतनविश्रान्तिवृतिविस्तारकल्पनैः ॥१०॥
कर्तव्योऽङ्कुरितस्यास्य रक्षिता शिक्षिताशयः ।
संतोषनामा प्रियया नित्यं मुदितयान्वितः ॥११॥
पश्चात्स्थिताशाविहगान्परप्रणयपक्षिणः ।
अस्मादापततः कामगर्वगृध्रान्निवारयेत् ॥१२॥
मृदुभिः सत्क्रियाकुन्तैर्विवेकार्कातपैरपि ।
अचिन्त्यालोकदैरस्मान्मार्जितव्यं रजस्तमः ॥१३॥
संपदः प्रमदाश्चैव तरङ्गा भोगभङ्गुराः ।
पतन्त्यशनयस्तस्मिन्दुष्कृताभ्रसमीरिताः ॥१४॥
धैर्यौदार्यदयामन्त्रैर्जपस्नानतपोदमैः ।
विनिवारयितव्यास्ताः प्रणवार्थत्रिशूलिना ॥१५॥
इति संरक्षितादस्माद्ध्यानबीजात्प्रवर्तते ।
आभिजात्योन्नतः श्रीमान्विवेकाख्यो नवाङ्कुरः ॥१६॥
तेन सा चित्तभूर्भाति सप्रकाशा विकासिनी ।
भवत्यालोकरम्या च खं यथाभिनवेन्दुना ॥१७॥
तस्मादङ्कुरतः पत्रे उभौ विकसतः स्वयम् ।
एकं शास्त्राभिगमनं द्वितीयं साधुसंगमः ॥१८॥
स्तम्भमेष निबध्नाति स्थैर्यं नाम समुन्नतिम् ।
संतोषत्वग्विवलितं वैराग्यरसरञ्जितम् ॥१९॥
वैराग्यरसपुष्टात्मा शास्त्रार्थप्रावृषान्वितः ।
स्वल्पेनैव स्वकालेन परामेति समुन्नतिम् ॥२०॥
शास्त्रार्थसाधुसंपर्कवैराग्यरसपीवरः ।
रागद्वेषकपिक्षोभैर्न मनागपि कम्पते ॥२१॥
अथ तस्मात्प्रजायन्ते विज्ञानालंकृताकृतेः ।
लता रसविलासिन्य इमा विततदेशगाः ॥२२॥
स्फुटता सत्यता सत्ता धीरता निर्विकल्पता ।
समता शान्तता मैत्री करुणा कीर्तिरार्यता ॥२३॥
लताभिर्गुणपत्राभिः स ध्यानतरुरूर्जितः ।
यशःपुष्पाभिरेताभिः पारिजातायते यतेः ॥२४॥
इत्यसौ ज्ञानविटपी लतापल्लवपुष्पवान् ।
भविष्यज्ज्ञानफलदो दिनानुदिनमुत्तमः ॥२५॥
यशःकुसुमगुच्छाढ्यो गुणपल्लवलासवान् ।
वैराग्यरसविस्तारी प्रज्ञामञ्जरिताकृतिः ॥२६॥
सर्वाः शीतलयत्याशाः प्रावृषीव पयोधरः ।
सर्गातपं शमयति सूर्यतापमिवोडुपः ॥२७॥
प्रतनोति शमच्छायां छायामिव घनागमः ।
निरोधमास्फारयति शमोऽनिल इवाम्बुदम् ॥२८॥
निबध्नात्यात्मना पीठं कुलाचल इव स्थितम् ।
फलस्य रचयत्यूर्ध्वं घटिकां मङ्गलादिताम् ॥२९॥
विवेककल्पवृक्षे तु वर्धमाने दिने दिने ।
छायावितानवलिते पुंसो हृदयकानने ॥३०॥
प्रवर्तते शीतलता तलतापापहारिणी ।
अभ्युल्लसन्मतिलता तुषारोदरसुन्दरी ॥३१॥
यस्यामवान्तरश्रान्तो विश्राम्यति मनोमृगः ।
आजन्मजीर्णपथिकः पथि कोलाहलाकुलः ॥३२॥
सत्तामात्रात्मशारीरचर्मार्थं प्रेक्षितोऽरिभिः ।
नानातासारसाकारगोपयज्जर्जरोन्मुखः ॥३३॥
संसारारण्यविसरद्वासनापवनेरितः ।
अहंतातापसरिता सर्वदा विप्रदारदी ॥३४॥
दीर्घादरी दूरचितसारसंचारजर्जरः ।
पुत्रपौत्रपरामर्शप्रतापात्पतितोऽवटे ॥३५॥
लक्ष्मीलताविलुठनात्संकटैः कुण्ठिताङ्गकः ।
तृष्णाश्रीसरितं गृह्णन्कल्लोलैर्दूरमाहतः ॥३६॥
तं व्याधिदुर्व्याधवैधुर्यपलायनपरायणः ॥
अशङ्कितविधिर्व्याधपातादिव कृताकृतिः ॥३७॥
ज्ञेयास्पदसमायातदुःखसायकशङ्कितः ।
वैरिविद्रवणव्यग्रो दृषदाहरणाङ्कितः ॥३८॥
उन्नतानतसंपातनिपातेनातिघूर्णितः ।
विकारोपलनिर्घातैः पारम्पर्येण चूर्णितः ॥३९॥
तृष्णाचारुलताजालप्रवेशवशविक्षतः ।
स्वप्रज्ञारचिताचारः परमायास्वशिक्षितः ॥४०॥
इन्द्रियग्राममागत्य प्रपलायनतत्परः ।
सुदुर्ग्रहगजेन्द्रोग्रविस्फूर्जनविमर्दितः ॥४१॥
विषयाजगरोदारविषफूत्कारमूर्च्छितः ।
कामुकः कामिनीभूमौ रसात्प्रायो विपोथितः ॥४२॥
कोपदावानलप्लुष्टपृष्ठविस्फोटदाहवान् ।
सदा गतागतानेकदीर्घदुःखप्रदाहवान् ॥४३॥
स्वात्मलग्नाभिलाषांशदंशदोषैरुपद्रुतः ।
भोगलोभलसन्मोदशृगालचिरविद्रुतः ॥४४॥
स्वकर्मकर्तृतोद्भान्तदारिद्र्यद्वीप्यनुद्रुतः ।
व्यामोहमिहिकान्धत्वकूटावटलुठत्तनुः ॥४५॥
मानसिंहसमुल्लासहृदयोत्कम्पनातुरः ।
मरणेन रणे येन वृकपुष्पमिवेक्षितः ॥४६॥
गर्वेण गिरणायाशु दूरतोजनसेवितः ।
कामैः समन्ततो दन्तवितानितयवाङ्कुरः ॥४७॥
तारुण्यनारीसुहृदा क्षणमालिङ्ग्य वर्जितः ।
दुःसंचारेषु पवनैः कुपितैरिव वर्जितः ॥४८॥
कदाचिन्निर्वृतिं याति सशमं च तरौ क्वचित् ।
मनोहरिणको राजन्नाजीवमिव भास्वति ॥४९॥
तालीतमालबकुलादिकवृक्षगुल्म-
विश्रान्तिषु प्रचुरपुष्पविलासहासैः ।
नामापि यस्य न विदन्ति सुखस्य मूढाः
प्राप्नोति तच्छमतरोः स्वमनोमृगो वः ॥५०॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे उ० मनोमृगविपद्वर्णनं नाम चतुश्चत्वारिंशः सर्गः ॥४४॥  

N/A

References : N/A
Last Updated : September 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP