निर्वाणप्रकरणं - सर्गः १९९
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
नित्यं ज्ञानैकनिष्ठत्वादात्मारामतया तथा ।
मुक्तैः कर्मपरित्यागः कस्मान्न क्रियते मुने ॥१॥
श्रीवसिष्ठ उवाच ।
हेयोपादेयदृष्टी द्वे यस्य क्षीणे हि तस्य वै ।
क्रियात्यागेन कोऽर्थः स्यात्क्रियासंश्रयणेन वा ॥२॥
न तदस्तीह यत्त्याज्यं ज्ञस्योद्वेगकरं भवेत् ।
न वास्ति यदुपादेयं तज्ज्ञसंश्रेयतां गतम् ॥३॥
ज्ञस्य नार्थः कर्मत्यागैर्नार्थः कर्मसमाश्रयैः ।
तेन स्थितं यथा यद्यत्तत्तथैव करोत्यसौ ॥४॥
यावदायुरियं राम निश्चितं स्पन्दते तनुः ।
तद्यथाप्राप्तमव्यग्रं स्पन्दतामपरेण किम् ॥५॥
अन्यथान्यत्र चेत्कार्या क्रिया त्यक्त्वा निजं क्रमम् ।
समाने हि क्रियास्पन्दे को दोषः सत्क्रमे किल ॥६॥
समया स्वच्छया बुद्ध्या सततं निर्विकारया ।
यथा यत्क्रियते राम तददोषाय सर्वदा ॥७॥
इह मह्यां महाबाहो बहवो बहुदृष्टयः ।
बहुधा बहुदोषेषु विहरन्ति विचक्षणाः ॥८॥
गतसङ्गतया बुद्ध्या विहरन्ति यथास्थितेः ।
गृहस्थारम्भिणः केचिज्जीवन्मुक्ताः स्थिता भुवि ॥९॥
तज्ज्ञा राजर्षयश्चान्ये वीतरागा भवादृशाः ।
असंसक्तधियो राज्यं कुर्वन्ति विगतज्वराः ॥१०॥
केचित्प्रकृतवेदार्थव्यवहारानुसारिणः ।
यज्ञशिष्टाशिनो नित्यमग्निहोत्रे व्यवस्थिताः ॥११॥
केचिच्चतुर्षु वर्णेषु ध्यानदेवार्चनादिकाम् ।
स्वक्रियामनुतिष्ठन्तः स्थिता विविधयेहया ॥१२॥
केचित्सर्वपरित्यागमन्तः कृत्वा महाशयाः ।
सर्वकर्मपरा नित्यं तज्ज्ञा एवाज्ञवत्स्थिताः ॥१३॥
स्वप्नेऽप्यदृष्टलोकासु मुग्धमुग्धमृगासु च ।
वनावनीषु शून्यासु केचिद्ध्यानपरायणाः ॥१४॥
पुण्यवद्भिः सदा जुष्टे पुण्योपचयकारिणि ।
शमशालिसमाचारे केचिदायतने स्थिताः ॥१५॥
रागद्वेषप्रहाणार्थं त्यक्त्वा देशं समाशयाः ।
केचिदन्यत्र देशे च पदमालम्ब्य संस्थिताः ॥१६॥
वनाद्वनं पुराद्ग्रामं स्थानात्स्थानं गिरेर्गिरिम् ।
भ्रमन्तः संस्थिताः केचित्संसारोच्छित्तये बुधाः१७
वाराणस्यां महापुर्यां प्रयागे चैव पावने ।
श्रीपर्वते सिद्धपुरे बदर्याश्रमके तथा ॥१८॥
शालग्रामे महापुण्ये कलापग्रामकोटरे ।
मथुरायां च पुण्यायां तथा कालञ्जरे गिरौ ॥१९॥
महेन्द्रवनगुल्मेषु गन्धमादनसानुषु ।
दर्दुराचलवप्रेषु सह्यकाचलभूमिषु ॥२०॥
विन्ध्यशैलस्य कच्छेषु मलयस्योदरेषु च ।
कैलासवनजालेषु ऋक्षवत्कुहरेषु च ॥२१॥
एतेष्वन्येषु चान्येषु वनेष्वायतनेषु च ।
तपस्विनस्तथा राम बहवो बहुदृष्टयः ॥२२॥
केचित्त्यक्तनिजाचाराः केचिच्च क्रमसंस्थिताः ।
केचित्प्रबुद्धमतयो नित्यमुन्मत्तचेष्टिताः ॥२३॥
केचित्स्वदेशरहिताः केचित्त्यक्तनिजास्पदाः ।
एकस्थानरताः केचिद्भ्रमन्तः केचिदास्थिताः ॥२४॥
एतेषां महतां मध्ये नभस्तलनिवासिनाम् ।
पातालनिरतानां च दैत्यादीनां महामते ॥२५॥
विज्ञातलोकपर्यायाः सम्यग्दर्शननिर्मलाः ।
केचित्प्रबुद्धमतयो दृष्टदृश्यपरावराः ॥२६॥
अप्रबुद्धधियः केचिद्दोलान्दोलितचेतसः ।
निवृत्ताः पापकाचारात्सुजनानुगताः स्थिताः ॥२७॥
अर्धप्रबुद्धमतयः केचिज्ज्ञानावलेपतः ।
परित्यक्तक्रियाचारा उभयभ्रष्टता गताः ॥२८॥
इत्थमस्मिञ्जनानीके जन्मसंतरणार्थिनः ।
बहवः संस्थिता राम बहुधा बहुदृष्टयः ॥२९॥
संसारोत्तरणे तत्र न हेतुर्वनवासिता ।
नापि स्वदेशवासित्वं न च कष्टतपःक्रियाः ॥३०॥
न क्रियायाः परित्यागो न क्रियायाः समाश्रयः ।
नाचारेषु समारम्भविचित्रफलपालयः ॥३१॥
स्वभावः कारणं नाम संसारोत्तरणं प्रति ।
असंसक्तं मनो यस्य स तीर्णो भवसागरात् ॥३२॥
शुभाशुभाः क्रिया नित्यं कुर्वन्परिहरन्नपि ।
पुनरेति न संसारमसंसक्तमना मुनिः ॥३३॥
शुभाशुभाः क्रिया नित्यमकुर्वन्नपि दुर्मतिः ।
निमज्जत्येव संसारे परित्यक्तमनाः शठः ॥३४॥
मक्षिकेवान्तःसारज्ञा दुःखादुःखप्रदायिनी ।
न निवारयितुं शक्या न च मारयितुं मतिः ॥३५॥
काकतालीययोगेन कदाचित्स्वस्य चेतसः ।
प्रवृत्तिर्जायते सिध्यै स्वयमात्मावलोकने ॥३६॥
अवलोकनतो लब्ध्वा तत्त्वं नैर्मल्यमागतम् ।
चेतो भवति निर्द्वन्द्वमसंसक्तमनामयम् ॥३७॥
अचित्तत्वं प्रयातेन सत्त्वरूपेण चेतसा ।
समो भूत्वा सुखं तिष्ठ पराकाशांशरूपभृत् ॥३८॥
अधिगतपरमार्थस्त्यक्तरागादिदोषः
सममतिरुदितात्मा त्वं महात्मा महात्मन् ।
रघुतनय विशोकस्तिष्ठ निःशङ्कमेको
जननमरणमुक्तं पावनं तत्पदं त्वम् ॥३९॥
प्रकृतिमलविकारोपाधिबोधादिरूपं
जगति विमलरूपे नास्ति किंचित्क्वचिच्च ।
स्फुटमकृतकमस्ति ब्रह्म चिद्धाम तच्च
स्वयमहमिति मत्वा तिष्ठ निःशङ्कमेकः ॥४०॥
अधिकवचनगम्यं नान्यदस्त्यङ्ग किंचि-
त्तव शुभमुपदेश्यं ज्ञानसंबोधनाय ।
उदितमखिलमाद्यं ज्ञानसारं समग्रं
विदितसकलवेद्यो राघव त्वं हि जातः ॥४१॥
श्रीवाल्मीकिरुवाच ।
इत्युक्त्वा मुनिनायको व्यपगताशेषैषणे राघवे
सर्वस्मिंश्च सभाजने स्थितवति ध्यानैकतानोपमे ।
प्राप्ते ब्रह्मपदं धिया धवलया तूष्णीमभूत्षट्पदः
कृत्वेवारणितं सरोजपटले पातुं प्रवृत्तो रसम् ॥४२॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० नि० उ० मुक्तपुरुषस्थितिवर्णनं नाम नवनवत्यधिकशततमः सर्गः ॥१९९॥
N/A
References : N/A
Last Updated : October 10, 2021
TOP