संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः २९

निर्वाणप्रकरणं - सर्गः २९

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
नित्यमन्तर्मुखस्तिष्ठ वीतरागो विवासनः ।
चिन्मात्रममलं शान्तं कर्म सर्वत्र भावयन् ॥१॥
आकाशविशदः प्राज्ञश्चिन्मात्रैकघनस्थितिः ।
समः सौम्यः समानन्दः स ब्रह्माऽऽबृंहिताशयः ॥२॥
शोकेष्वापत्सु घोरेषु संकटेष्ववटेषु च ।
यथाप्राप्तेषु सर्वेषु खर्वेषून्नतिमत्सु च ॥३॥
यथाक्रमं यथादेशं कुरु दुःखमदुःखितः ।
वाष्पक्रन्दादिपर्यन्तं द्वन्द्वयुक्तसुखानि च ॥४॥
समागमेषु कान्तानामुत्सवेषूदयेषु च ।
आनन्दं भज सौम्यात्मा वासनाक्रान्तमूढवत् ॥५॥
भूतानि मृत्युकार्येषु संग्रामादिषु निर्दह ।
दावानलस्तृणानीव वासनाक्रान्तमूढवत् ॥६॥
क्रमागतेष्वखिन्नोऽर्थं बकवच्चिन्तयार्जय ।
अर्थोपार्जनकार्येषु वासनाक्रान्तमूढवत् ॥७॥
बलाद्विदलयाशेषानरीनरिनिषूदन ।
वातो रिक्तानिवाम्भोदान् वासनाक्रान्तमूढवत् ॥८॥
जनेषु करुणार्हेषु धैर्यं कुरु महात्मसु ।
आत्माराममना मौनी वासनाक्रान्तमूढवत् ॥९॥
मुदितो भव हर्षेषु दुःखेषु भव दुःखितः ।
करुणां कुरु दीनेषु भव वीरेषु वीर्यवान् ॥१०॥
अन्तर्मुखः सदानन्दः स्वात्मारामतयान्वितः ।
यः करोति शमोदारस्तत्र कर्तासि नानघ ॥११॥
आत्मभावनया साधो नित्यमन्तर्मुखस्थितेः ।
वज्रधारापि ते राम पतिता याति कुण्ठताम् ॥१२॥
संकल्पकलनोन्मुक्ते स्वसंविन्मात्रकोटरे ।
यस्तिष्ठत्यात्मनि स्वैरमात्मारामो महेश्वरः ॥१३॥
न तं भिन्दन्ति शस्त्राणि न दहन्ति हुताशनाः ।
न क्लेदयन्ति वारीणि शोषयन्ति न मारुताः ॥१४॥
सुस्तम्भमजमालिङ्ग्य स्वात्मानमजरामरम् ।
तिष्ठावष्टभ्य धीरात्मा सुस्तम्भमिव मन्दिरम् ॥१५॥
जगद्वृक्षपदार्थौघपुष्पामोदश्रियं पूराम् ।
संविदं संविदः स्वस्थामास्वान्तर्मुखमच्युतम् ॥१६॥
अन्तर्मुखतया नित्यं कार्यमाहरतां बहिः ।
जीवतामपि नोदेति वासना दृषदामिव ॥१७॥
पुनः प्रसरणोन्मुक्तमन्तःसुप्तं मनः कुरु ।
कुर्वन्सर्वाणि कर्माणि कृर्माङ्गवदवृत्तिमान् ॥१८॥
अन्तर्वृत्तिविहीनेन बहिर्वृत्तिमतेव च ।
सुप्तप्रबुद्धप्रायेण कार्यमाचर चेतसा ॥१९॥
बालमूकादिविज्ञानवदन्तस्त्यक्तवासनम् ।
भवतः कुर्वतः कार्यं खवच्चित्तं न लिप्यते ॥२०॥
वृत्तित्यागविलीनेन किंचित्प्रसरता बहिः ।
अन्तरत्यन्तसुप्तेन चेतसा तिष्ठ विज्वरः ॥२१॥
असंकल्पकलङ्कायां ज्ञानाच्चित्तक्षयोदये ।
शुद्धायां संविदि स्थित्वा कुरु मा कुरु वानघ ॥२२॥
सुषुप्तसमया वृत्त्या जाग्रद्व्यवहरन्व्रजन् ।
गृहाण मा किंचिदपि मा वा किंचित्परित्यज ॥२३॥
जाग्रत्यपि सुषुप्तश्चेज्जागर्षि च सुषुप्तके ।
जाग्रत्सषुप्तयोरैक्यात्तदस्त्यसि निरामयः ॥२४॥
एवमाद्यन्तरहितमभ्यासेन शनैःशनैः ।
पदमासादयाद्वन्द्वमतीतं सर्ववस्तुतः ॥२५॥
न च द्वैतं न चैवैक्यं जगदित्येव निश्चयी ।
परमामेहि विश्रान्तिमाकाशविशदाशयः ॥२६॥
श्रीराम उवाच ।
यद्येवं मुनिशार्दूल तदहंप्रत्ययात्मकः ।
भवानेवेह किं तावद्वसिष्ठाख्यः स्थितो वद ॥२७॥
श्रीवाल्मीकिरुवाच ।
राघवे गदति त्वेवं वसिष्ठो वदतां वरः ।
तूष्णीमेव मुहूर्तार्धमतिष्ठत्स्पष्टचेष्टितः ॥२८॥
तस्मिंस्तूष्णीं स्थिते किं स्यादिति सभ्ये महाजने ।
पतिते संशयाम्भोधौ रामः पुनरुवाच ह ॥२९॥
किमर्थं भगवंस्तूष्णीं भवानहमिव स्थितः ।
न सोऽस्ति जगतां न्यायः सतां यो नोत्तरक्षमः ॥३०॥
श्रीवसिष्ठ उवाच ।
न मे वक्तुमशक्तत्वाद्युक्तिक्षय उपस्थितः ।
किंतु प्रश्नस्य कोट्यास्य तूष्णीमेवानघोत्तरम् ॥३१॥
द्विविधो भवति प्रष्टा तत्त्वज्ञोऽज्ञोऽथवापि च ।
अज्ञस्याज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः ॥३२॥
एतावन्तमभूत्कालं भवानज्ञाततत्पदः ।
भाजनं सविकल्पानामुत्तराणां महामते ॥३३॥
तत्त्वज्ञस्त्वधुना जातो विश्रान्तः परमे पदे ।
योग्यो न सविकल्पानामुत्तराणामसि स्फुटम् ॥३४॥
यावान्कश्चित्किलोल्लेखो वाङ्मयो वदतां वर ।
सूक्ष्मार्थः परमार्थो वा बहुरल्पतरोऽपि वा ॥३५॥
प्रतियोगिव्यवच्छेदसंख्यातीतादिविभ्रमैः ।
स च सर्वोऽन्वितः साधो भा इव त्रसरेणुभिः ॥३६॥
उत्तरं सकलङ्कं च तज्ज्ञो नार्हति सुन्दर ।
नाकलङ्का च वागस्ति त्वं च तज्ज्ञतरः स्थितः ॥३७॥
यथाभूतं च वक्तव्यं ज्ञस्यान्तेवासिनो मया ।
यथाभूतं विदुः काष्ठमौनमन्तविवर्जितम् ॥३८॥
अविचारात्ससंकल्पं मौनमाहुः परं पदम् ।
तदेव तव तज्ज्ञस्य दत्तः सुन्दर उत्तरः ॥३९॥
यन्मयो हि भवत्यङ्ग पुरुषो वक्ति तादृशम् ।
ज्ञेयमात्रमयश्चाहं वागतीते पदे स्थितः ॥४०॥
वागतीतपदस्थो हि कथं गृह्णाति वाङ्मलम् ।
अवाच्यं वच्मि नो तेन वाग्धि संकल्पनाङ्किता ॥४१॥
श्रीराम उवाच ।
वाचि ये ये प्रवर्तन्ते ताननादृत्य दोषकान् ।
प्रतियोगिव्यवच्छेदिपूर्वकान्वद को भवान् ॥४२॥
श्रीवसिष्ठ उवाच ।
एवं स्थिते राघव हे यथाभूतमिदं श्रृणु ।
कस्त्वं कोऽहं जगद्वा किमिति तत्त्वविदां वर ॥४३॥
अहं तावदयं तात चिदाकाशो निरामयः ।
चेत्यसंवेद्यरहितः सर्वसंकल्पनातिगः ॥४४॥
स्वच्छं चिदाकाशमहं भवानाकाशमेव च ।
जगच्चाकाशमखिलं सर्वमाकाशमात्रकम् ॥४५॥
शुद्धज्ञानैकरूपात्मा शुद्धज्ञानमयात्मनि ।
अन्यसंविद्दृशोन्मुक्तः स्वान्यद्वक्तुं न वेद्म्यहम् ॥४६॥
स्वपक्षोद्भावनपरा अहंतात्मैकवर्धनम् ।
मोक्षार्थमप्युद्यमिनो नयन्ति शतशाखताम् ॥४७॥
जीवतोऽप्युपशान्तस्य व्यवहारवतोऽपि च ।
शववद्यदवस्थानं तदाहुः परमं पदम् ॥४८॥
अबहिःसाधनं शान्तमनन्तःसाधनं समम् ।
न सुखं नासुखं नाहं नान्यदित्यादि तं शिवम् ॥४९॥
मुक्तताया अहंतेयमभावो भावनं क्व च ।
तयैवान्विष्यते सेति जात्यन्धश्चित्रमीक्षते ॥५०॥
स्पन्दनेऽस्पन्दने चैव यत्पाषाणवदासितम् ।
अजडस्यैव तद्विद्धि निर्वाणमजरं पदम् ॥५१॥
तच्च नान्यो विजानाति स्वयमेवानुभूयते ।
लोकैषणाविरक्तेन ज्ञेन ज्ञत्वमिवात्मनि ॥५२॥
तत्राहंता न च त्वत्ता नानहंता न चान्यता ।
केवलं केवलीभावो निर्वाणममलं शिवम् ॥५३॥
चेत्योन्मुखत्वमेवाहुश्चेतनस्यास्य चेतनम् ।
एष एव च संसारो बन्धः क्लेशाय भूयसे ॥५४॥
चेतनस्याचेतनत्वमचेत्योन्मुखतात्मकम् ।
मोक्षं विद्धि परं शान्तं पदमव्ययमेव च ॥५५॥
दिक्कालाद्यनवच्छिन्ने शान्ते शान्तात्मनि स्थिते ।
चेत्यं न संभवत्येव कः किं चेतयते कथम् ॥५६॥
संकल्पः स्वप्नदृश्येऽन्तः संविन्मात्रात्मतां विना ।
यथान्यवद्भवेद्भूपास्तथैवास्मिन्बहिर्गते ॥५७॥
मनोबुद्ध्यादयश्चैते संविन्मात्रानुरूपिणः ।
मनोबुद्ध्यादिशब्दार्थभावितास्तु जडात्मकाः ॥५८॥
संविन्मात्रे समे स्वच्छे सबाह्याभ्यन्तरे तते ।
अभिन्ने भेदबुद्धिर्वा किमनर्थाय जृम्भते ॥५९॥
संविन्मात्रस्य शुद्धस्य शून्यस्य च किमन्तरम् ।
यच्चान्तरं तद्विबुधा विदन्त्येति न वाग्गतिम् ॥६०॥
सदसद्रूप आभासो यथा किमपि लक्ष्यते ।
तमसीक्षितयत्नेन ब्रह्मणीदं तथा जगत् ॥६१॥
अयमाकाशमेवाहं यदि शाम्याम्यवासनम् ।
वासनां तु न बध्नासि स्थित एवासि चिन्नभः ॥६२॥
इति निश्चयवानन्तस्तज्ज्ञोऽज्ञ इव संज्ञया ।
चिद्वपुर्विद्यमानोऽपि शाम्यत्यसदिव स्वयम् ॥६३॥
जीवानां ज्ञप्तिगुप्तेन ज्वलन्नज्ञानवायुना ।
अविद्याग्निः प्रबुद्धानां पुनस्तेनैव शाम्यति ॥६४॥
अजडानां यदज्ञानं स्थाणूनामिव शाम्यताम् ।
तमाहुर्मोक्षमक्षुब्धमासितं पदमक्षयम् ॥६५॥
ज्ञत्वेन ज्ञत्वमासाद्य मुनिर्भवति मानवः ।
अज्ञत्वादज्ञतामेत्य प्रयाति पशुवृक्षताम् ॥६६॥
अहं ब्रह्म जगच्चेदमित्यविद्यामयो भ्रमः ।
असत्यः प्रेक्षया ध्वान्तं दीपेनेव न लभ्यते ॥६७॥
समग्रकरणग्रामोऽप्यसंकल्पो विवेदनः ।
न किंचिदप्यनुभवत्यन्तर्बाह्ये च शान्तधीः ॥६८॥
सुषुप्तत्व इव स्वप्नः समाधौ प्रविलीयते॥
दृश्यं सर्वं ज्ञबोधेऽन्तः पुनः स्वात्मैव लक्ष्यते ॥६९॥
नीलत्वं च यथा व्योम्नि तथा पृथ्व्यादिता शिवे ।
भ्रान्तिमात्रादृते नान्यद्यथा व्योम तथा शिवः ॥७०॥
वासनाभिरुपेतोऽपि समस्ताभिरवासनः ।
भवत्यसावसत्सर्वमिदमित्येव यस्य धीः ॥७१॥
संकल्पेष्वद्भुतं भव्य स्वप्नमायेन्द्रजालकम् ।
यद्वत्संसृतयस्तद्बदृष्टेऽप्यास्था किमत्र वै ॥७२॥
न दुःखमस्ति न सुखं न पुण्यं न च पातकम् ।
न किंचित्कस्यचिन्नष्टं कर्तुर्भोक्तुरसंभवात् ॥७३॥
सर्वं शून्यं निरालम्बं ममताप्रत्ययोऽप्ययम् ।
द्विचन्द्रस्वप्नपुरवद्यस्यासौ सोऽपि नास्ति नः ॥७४॥
केवलो व्यवहारस्थः काष्ठमौनगतोऽथ वा ।
काष्ठपाषाणवत्तिष्ठन्ब्रह्मतामधिगच्छति ॥७५॥
शान्तत्वे चित्तत्वे नानानानात्मनीह शिवे ।
अवयविनोऽवयवित्वे त्विह युक्तिर्विद्यते नान्या ॥७६॥
अर्थागतस्वभावस्य च नैव च संभवादमले ।
एतस्मिन्सर्वगते ब्रह्मणि नास्ति स्वभावोक्तिः ॥७७॥
न च नास्तिकोपलम्भात्संवित्तेरस्तिता च नैवाजे ।
ग्राह्यग्राहकदृष्टेरसंभवादस्ति किंचिदपि ॥७८॥
शमममलमहार्यमार्यजुष्टं
शिवमजमक्षयमासितं समं यत् ।
तदवितथपदं तदास्व शान्तं
पिब लल भुङ्क्ष्व भवानयं हि नास्ति ॥७९॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उत्तरार्धे भावनाप्रतिपादनं नामैकोनत्रिंशः सर्गः ॥२९॥

N/A

References : N/A
Last Updated : September 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP