संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य उत्तरार्धम्|
सर्गः १६७

निर्वाणप्रकरणं - सर्गः १६७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
आत्मख्यातिरसत्ख्यातिः ख्यातिरख्यातिरन्यथा ।
शब्दार्थदृष्टयस्तज्ज्ञं प्रत्येताः शशश्रृङ्गवत् ॥१॥
कदाचनापि नामाङ्ग संभवन्ति न काश्चन ।
शान्तमव्यपदेश्यात्मा ज्ञ आस्तेऽस्तङ्गतेङ्गनः ॥२॥
एता उद्यन्ति चिन्मात्रादात्मख्यात्यादिका दृशः ।
तच्च शुद्धतरं व्योम तन्मय्येव च दृश्यते ॥३॥
अयमात्मा त्वियं ख्यातिरित्यन्तःकलनाभ्रमः ।
न संभवत्यतश्चैनं शब्दं त्यक्त्वा भवार्थभाक् ॥४॥
गच्छंस्तिष्ठन्नददपि सर्वे शान्तमतो जगत् ।
आकाशमौनमेवाच्छमच्छिन्नं वाऽप्रवृत्तिमत् ॥५॥
नानामहाशब्दमपि शिलामौनमवस्थितम् ।
अनारतं गच्छदपि व्योमवच्छैलवत्स्थितम् ॥६॥
नानाविधारम्भमपि महाशून्यमनङ्कितम् ।
पञ्चभूतात्मकमपि खमिवालब्धपञ्चकम् ॥७॥
पदार्थसंकुलमपि शून्यं संवित्तिमात्रकम् ।
स्वप्ने महापुरमिव दृष्टमप्यच्छचिन्मयम् ॥८॥
सारम्भमप्यनारम्भं संकल्पनगरं यथा ।
आकाशमात्रं भ्रान्त्यात्म स्वप्नस्त्रीसंगमोपमम् ॥९॥
अनुभूतमपि व्यर्थं प्रतिबिम्बाङ्गनासमम् ।
नानानुभवनिर्माणं वस्तु शून्यं तु वस्तुतः ॥१०॥
श्रीराम उवाच ।
जाग्रत्स्वप्नात्मकमिदं मन्ये स्मृत्यैव दृश्यते ।
सद्रूपबाह्यार्थकृता स्मृतिरेवेह कारणम् ॥११॥
श्रीवसिष्ठ उवाच ।
यत्तच्चित्काचकच्येन काकतालीयवद्वपुः ।
व्योमात्माऽऽभाति भावानां सत्तामात्रमभित्तिमत् ॥१२॥
तदेतदविनाशात्म सर्वत्र परमात्मनि ।
सर्वदा विद्यते शान्ते पयसीव तरङ्गकाः ॥१३॥
निर्निमित्तं स्वरूपात्म तदेतत्परमात्मनि ।
सर्वात्मन्यपि निर्वाणे व्योमात्मनि निरात्मनि ॥१४॥
यदा यदावभात्यन्तर्येन तेन यथा तथा ।
सर्वदा न कदाचिद्वा यत्र तत्र न किंचन ॥१५॥
तस्यैव ब्रह्मभानस्य तेनैवं ब्रह्मणात्मना ।
स्वच्छस्यैव स्वभावस्य स्वस्वभावमनुज्झता ॥१६॥
इदं जाग्रदयं स्वप्नः सुषुप्तं तुर्यमित्यपि ।
कृतं नाम स्वयं चित्वाद्ब्रह्म वात्मेति चात्मनि ॥१७॥
वस्तुतस्त्वस्ति न स्वप्नो न जाग्रन्न सुषुप्तता ।
न तुर्यं न ततोऽतीतं सर्वं शान्तं परं नभः ॥१८॥
अथवा सर्वमेवेदं जाग्रद्रूपं सदैव च ।
सर्वदैव च वा स्वप्नः सुषुप्तं सर्वदैव च ॥१९॥
सर्वदैव च वा तुर्यं तदन्तः सर्वदैव वा ।
तदिदं वा न यद्विद्मो वयमाशान्तरूपिणः ॥२०॥
इदं फेनो न किंचिद्वा बुद्बुदो वा न कश्चन ।
शून्यताम्भसि चिद्व्योम महार्णवमहोदरे ॥२१॥
यथा संवेद्यते यद्यत्तथा तदनुभूयते ।
सद्वासद्वा भवत्स्वप्ने व्योम्नीव सदसच्च तत् ॥२२॥
संवित्कचनमेवेदं यथा भानं विभासते ।
व्योम व्योमनि चिद्रूपं चिद्रूपे विततात्मनि ॥२३॥
संविच्च चिन्नभोमज्जा सैवंरूपैव सर्वदा ।
नास्तमेति न चोदेति तस्याः स्वाङ्गमिदं जगत्॥२४॥
महाप्रलयसर्गाद्या महाप्रलयरात्रयः ।
तस्या एवावयवतां याताः केशनखादिवत् ॥२५॥
तस्या भानमभानं तद्भास्वरं जिह्ममेव वा ।
नान्यत्स्वभाववत्स्पन्द इव वायोर्महाचितेः ॥२६॥
तस्मात्किं नाम जाग्रत्स्यात्कः स्वप्नः का सुषुप्तता ।
किं तुर्यं का स्मृतिः केच्छा तुच्छा एताः कुदृष्टयः ॥२७॥
अन्तःसंवेदनं भाति स्वं बाह्यार्थतया यतः ।
क्व द्वैतं क्व च वार्थश्रीः स्मृतिरेवमतः कुतः ॥२८॥
तदिदं भाति निर्भित्ति तत्स्वभानं यदात्मना ।
भानोर्नभसि भारूपमेव भूतविवर्जितम् ॥२९॥
सद्रूपो यदि बाह्योऽर्थो विद्यते तत्तदुत्थिता ।
स्मृतिः कारणतामेतु नामाद्यजगतः स्थितेः ॥३०॥
किंतु नास्त्येष बाह्योऽर्थो भूतानामत्यसंभवात् ।
पञ्चानामादिसर्गादौ कारणानामभावतः ॥३१॥
शशश्रृङ्गं यथा नास्ति यथा नास्ति खपादपः ।
यथा वन्ध्यासुतो नास्ति यथा नास्त्यसितः शशी॥३२॥
तथाऽज्ञप्रतिभातोऽर्थो जगदाद्यहमादिकः ।
अप्रेक्षितोऽस्ति नास्त्येव प्रेक्षितः सन्न कश्चन ॥३३॥
यथास्तीदं महाकारं न किंचिदूपमेव वा ।
तत्त्वज्ञविषयं राम तथास्तीदमखण्डितम् ॥३४॥
संविद्धननभोमज्जा यथोदेति यदा यदा ।
नित्योदितोपचारेण कल्पितास्तमयोदया ॥३५॥
मुधा व्योम्न्येव पृथ्व्यादितया वेत्ति तदा तदा ।
स्वस्यैव तस्य भानस्य धत्ते पृथ्व्यादिकल्पनाम् ॥३६॥
स्वमेव भानमाकाशमात्रमेव महाचितिः ।
पृथ्व्यादिव्यपदेशेन पश्चाद्व्यपदिशत्यजा ॥३७॥
आकाश एव पृथ्वीयमिति धत्ते स्वसंविदम् ।
मनोराज्यपुरं बाल इव चिन्मात्रमव्ययम् ॥३८॥
किं भानं किमभानं स्यात्तस्येति न विकल्प्यते ।
स्पन्दास्पन्दस्वभावं तद्विद्धि वातमिवाम्बरे ॥३९॥
यथा भाति चिदाकाशं तथेदमवभासते ।
व्योम व्योम्न्येव नीरूपं नेदं पृथ्व्यादि सत्क्वचित् ॥४०॥
यथा भाति चिदाकाशरूपत्वाद्भातमप्यलम् ।
न सन्नासदिति किंचित्तन्न किंचिच्च किंचन ॥४१॥
इदमित्थमनित्थं च सद्वाऽसद्वा यथास्थितम् ।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः ॥४२॥
स एव हृदयाकाशे कचन्त्या दृश्यसंविदा ।
बाह्यं ब्रह्माण्डमित्थं च सद्वाऽसद्वा यथास्थितम् ॥४३॥
किमत्र बाह्यं किं वान्तः किं दृश्यं कास्य दृश्यता ।
शिवं शान्तमशान्तं च सर्वमोमिति शाम्यताम्॥४४॥
नो वाच्यवाचकदृशा रहितो विचारः
संपद्यते स च विकल्पमयेन सिद्ध्यै ।
सिद्धिश्च संभवति तेन विना न काचि
द्दीपं विना निशि यथा नयनोपलम्भः ॥४५॥
तस्मादपास्य परयाऽमलया धियान्तः-
संकल्पकल्पनमनल्पविकल्पजालम् ।
कृत्वा मनः सकलशास्त्रमहार्थनिष्ठ-
मुड्डीय गच्छ पदमुत्तममेकनिष्ठः ॥४६॥

इत्यार्षे श्रीवासिष्ठम० वा० दे० मो० नि० उ० जाग्रत्स्वप्नसुषुप्त्यभावप्रतिपादनं नाम सप्तषष्ट्यधिकशततमः सर्गः ॥१६७॥

N/A

References : N/A
Last Updated : October 08, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP