निर्वाणप्रकरणं - सर्गः ५१
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीराम उवाच ।
कथं केवलजाग्रत्त्वमकारणमनर्थकम् ।
पराद्विकसति ब्रह्मन्गगनादिव पादपः ॥१॥
श्रीवसिष्ठ उवाच ।
अकारणं महाबुद्धे न कार्यमुपलभ्यते ।
तज्जाग्रतः केवलस्य न कश्चिदिह संभवः ॥२॥
तस्यातो संभवादन्ये जीवभेदाः सजीवकाः ।
सर्वे न संभवन्त्येव कारणाभावविक्षताः ॥३॥
नेह प्रजायते किंचिन्नेह किंचन नश्यति ।
उपदेश्योपदेशार्थं शब्दार्थकलनोदयः ॥४॥
श्रीराम उवाच ।
कः करोति शरीराणि मनोबुद्ध्यादिचेतनैः ।
को मोहयति भूतानि स्नेहरागादिबन्धनैः ॥५॥
श्रीवसिष्ठ उवाच ।
न कश्चिदेव कुरुते शरीराणि कदाचन ।
न मोहयति भूतानि कश्चिदेव कदाचन ॥६॥
अनाद्यन्तावभासात्मा बोध आत्मनि संस्थितः ।
नानापदार्थरूपेण कमूर्म्यादितया यथा ॥७॥
बाह्यं न विद्यते किंचिद्बोधः स्फुरति बाह्यवत् ।
उदेति बोधहृदयाद्बीजादिव वरद्रुमः ॥८॥
बोधस्यान्तरिदं विश्वं स्थितमेव रघूद्वह ।
स्तम्भस्यान्तर्यथा शालभञ्जिका प्रकटीकृता ॥९॥
सबाह्याभ्यन्तरात्मैकमनन्तं देशकालतः ।
बोधामोदप्रसरणं जगदेव प्रबुध्यताम् ॥१०॥
अयमेव परो लोको भाव्यतां वासनाक्षयः ।
शाम्यतां परलोकस्थं काः किलायान्ति वासनाः ॥११॥
देशकालक्रियालोकरूपचित्तात्मसत्पदम् ।
देशकालादिशब्दार्थरहितं न च शून्यकम् ॥१२॥
पदे पदविदामेव तस्मिन्बोधगतिर्भवेत् ।
द्रष्ट्रणां शान्तदृश्यानामेवान्येषां न राघव ॥१३॥
ये वै तरलगम्भीरमहंतागर्तमाश्रिताः ।
पश्यन्ति ते तमालोकं न कदाचन केचन ॥१४॥
चतुर्दशविधानन्तभूतजातसुघुंघुमा ।
जगद्दृष्टिरियं ज्ञस्य शरीरावयवोपमा ॥१५॥
कारणाभावतः सृष्टिर्नोदिता न च शाम्यति ।
यादृशं कारणं वा स्यात्तादृग्भवति कार्यकम् ॥१६॥
यदि स्यात्कारणे कार्यं स्थितं कारणतास्य का ।
कार्यमेवोपलम्भात्तदसद्द्वयमवेदनात् ॥१७॥
सौम्यस्यान्तर्यथाम्भोधेरूर्म्यावर्तादयः स्थिताः ।
ब्रह्मण्यसंभवक्षोभे जगच्चित्तादयस्तथा ॥१८॥
सर्वात्मैवामलं ब्रह्म पिण्ड एक इव स्थितम् ।
नानाभाण्डात्म हेमैव यथान्तःस्थितरूपकम् ॥१९॥
स्वप्नकाले स्वप्न एव जाग्रद्व्यग्रापरिग्रहात् ।
जाग्रत्काले जाग्रदेव स्वप्नः सत्यावबोधतः ॥२०॥
चित्तमात्रतया बुद्धं मृगतृष्णाम्बुवत्स्थितम् ।
जाग्रत्स्वप्नत्वमायाति विचारविकलीकृतम् ॥२१॥
सम्यग्ज्ञानेन भूतानि ज्ञस्य देहतया सह ।
पीठबन्धं विमुञ्चन्ति गतकाल इवाम्बुदाः ॥२२॥
यथा गलितुमारब्धो घनो गगनतामियात् ।
तथा सत्यावबोधेन शाम्येत्सात्मग्रहं जगत् ॥२३॥
शरदभ्रवदालूना मृगतृष्णाम्बुव्रत्तथा ।
पुनः संस्पृश्यमानैव बोधाद्गलति दृश्यता ॥२४॥
यथा दीप्तानले लीनं सुवर्णं घृतमिन्धनम् ।
एकतां याति विज्ञाने तथा भुवनचित्तदृक् ॥२५॥
बोधेन तनुतामेति पिण्डबन्धो जगत्त्रये ।
पिशाचबुद्धिः सदने बोधितस्य यथा शिशोः ॥२६॥
बोधस्यानन्तरूपस्य स्वयमेवात्मनात्मनि ।
जगच्चित्तादिता भाता पिण्डबन्धः किलात्र कः ॥२७॥
बोधाबोधनमेवेदं जगच्चित्तमिवोदितम् ।
तदेवास्तं गतं बोधात्पिण्डबन्धस्य कास्तिता ॥२८॥
जहाति पिण्डकाठिन्यं जाग्रत्स्वप्नावबोधतः ।
परां पेलवतामेति हेम द्रुतमिवाग्निना ॥२९॥
यथास्थितं बोध एव घनतामिव गच्छति ।
विनैव देशकालाभ्यां तौ विनिर्माय हेमवत् ॥३०॥
जाग्रत्येवं विचारेण स्वप्नाभे पेलवे स्थिते ।
क्षीयमाणे शरत्काल इवैति तनुतां रसः ॥३१॥
परां पेलवतां याता दृश्यलक्ष्म्यः स्थिता अपि ।
स्वप्ना इव परिज्ञाता न स्वदन्ते विवेकिनः ॥३२॥
क्व किल स्वात्मविश्रान्तिः क्वैतद्विषयवेदनम् ।
सुषुप्तजाग्रतोरैक्यं भ्रान्ताभ्रान्तात्मनोर्भवेत् ॥३३॥
चित्तमात्रे भ्रान्तिमात्रे स्वप्नमात्रात्मनि स्थिते ।
जगतीह पदार्थेभ्यः सत्यबुद्धिर्निवर्तते ॥३४॥
कस्य स्वदन्तेऽसत्यानि कथमेव महामते ।
मृगतृष्णाजलानीव दृश्यान्यपि पुरःस्थितैः ॥३५॥
सत्यबुद्धौ विलीनायां जगत्पश्यति शान्तधीः ।
जालद्वीपांशुजालाभमपिण्डात्माम्बरात्मकम् ॥३६॥
जाग्रतो वस्तुतः शून्यात्परिज्ञातान्निवर्तते ।
चित्तभ्रमात्मनो भ्रान्तिरूपास्वादनभावना ॥३७॥
यदवस्त्विति विज्ञातं तत्रोपादेयता कुतः ।
केन स्वप्नं परिज्ञाय स्वप्नहेमाभिगम्यते ॥३८॥
स्वप्नादिव परिज्ञाताद्रसो दृश्यान्निवर्तते ।
द्रष्ट्रदृश्यदशादोषग्रन्थिच्छेदः प्रवर्तते ॥३९॥
नीरसः शान्तमननो निर्वाणाहंकृतिः कृती ।
वीतरागो निरायासः शान्तस्तिष्ठति बुद्धधीः ॥४०॥
रसे नीरसतां याते वासना प्रविलीयते ।
शिखायां प्रविलीनायां प्रदीपस्यांशवो यथा ॥४१॥
बोधाद्दीपांशुजालाभमघनं व्योम दृश्यते ।
भ्रान्तिरूपं जगत्कृत्स्नं गन्धर्वनगरं यथा ॥४२॥
नैवात्मानं न चाकाशं न शून्यं न च वेदनम् ।
अत्यन्तपरिणामेन पश्यन्पश्यति तत्पदम् ॥४३॥
यत्र नात्मा न शून्यं च न जगत्कलना न च ।
न चित्तदृश्योदयधीः सर्वं चास्ति यथास्थितम् ॥४४॥
भूम्यादिताऽज्ञसंबुद्धा ज्ञानादस्तमुपागता ।
ज्ञस्य शून्यैव संपन्ना संस्थितापि न विद्यते ॥४५॥
भवत्येकसमाधानसौम्यात्मा व्योमनिर्मलः ।
तिष्ठत्यपगतासङ्गः स्थित एवाप्यसत्समः ॥४६॥
अस्तंगतमना मौनी निरोधपदवीं गतः ।
तीर्णः संसारजलधेः कर्मणामन्तमागतः ॥४७॥
तनुभुवनगगनगिरिगण-
करणपरं परममज्ञानम् ।
विगलति गलिते तस्मिन्
सकलमिदं विद्यमानमपि ॥४८॥
संशान्तान्तःकरणो
गलितविकल्पः स्वरूपसारमयः ।
परमशमामृततृप्त-
स्तिष्ठति विद्वान्निरावरणः ॥४९॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०मोक्षोपायेषु निर्वाणप्रकरणे उ० विश्रान्तियोगोपदेशो नामैकपञ्चाशः सर्गः ॥५१॥
N/A
References : N/A
Last Updated : September 28, 2021
TOP