निर्वाणप्रकरणं - सर्गः १४३
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
मुनिरुवाच ।
सर्वेषामेव धर्माणां कर्मणां शर्मणामपि ।
पण्डितः पुण्डरीकाणां मार्तण्ड इव मण्डनम् ॥१॥
आत्मज्ञानविदो यान्ति यां गतिं गतिकोविदाः ।
पण्डितास्तत्र शक्रश्रीर्जरत्तृणलवायते ॥२॥
पाताले भूतले स्वर्गे सुखमैश्वर्यमेव वा ।
न तत्पश्यामि यन्नाम पाण्डित्यादतिरिच्यते ॥३॥
पण्डितस्य यथाभूता वस्तुदृष्टिः प्रसीदति ।
दृगिवेन्दौ निरम्भोदे सकलामलमण्डले ॥४॥
इदं दृश्यमविद्यात्म ब्रह्म संपद्यते क्षणात् ।
बुधस्य बोधात्स्रग्दाम सर्पत्वमिव शाम्यति ॥५॥
यत्स्थितं ब्रह्मणि ब्रह्म कृतास्तेनैव सत्यता ।
स्वभावैकात्मिकाः संज्ञा देहसर्गक्षयादिकाः ॥६॥
सर्गो विद्यत एवायं न यत्र किल किंचन ।
तस्य धर्माणि कर्माणि न चैवाक्षरमालिका ॥७॥
पृथ्व्यादि संभवति चेत्तत्सकारणमस्तु तत् ।
तदेव यत्र नास्त्येव तत्र किं तस्य कारणम् ॥८॥
ब्रह्मणः प्रतिभातं यत्तदिदं जगदुच्यते ।
तेनैव कुत एतानि पृथ्व्यादीनि क्व कारणम् ॥९॥
स्वप्नद्रष्टुर्दृश्यनृणामस्ति काल्पनिकं यथा ।
न वास्तवं पूर्वकामं जाग्रत्स्वप्ने तथा नृणाम् ॥१०॥
यथा प्राक्कर्म पुंस्त्वे च स्वप्ने पुंसां न विद्यते ।
इह जाग्रत्स्वप्ननृणां भातानामपि नो तथा ॥११॥
जीवः सर्वेषु सर्गेषु स्वप्नार्थान्निखिलान्मिथः ।
प्राक्कर्मसत्वं मिथ्यात्म यथावासनमेषु च ॥१२॥
सर्गादावथ देहान्ते भान्ति स्वप्नार्थवन्मिथः ।
यथासंवेदनं जीवाः सन्तोऽसन्तश्च तेन ते ॥१३॥
यथासंवेदनं सर्वे भान्ति भावयतस्ततः ।
ते सन्त्यात्मन्यपि स्वप्ने जाग्रतीवार्थदा मिथः ॥१४॥
संकल्पसंविदग्रस्थवस्तुनिष्ठतयाऽस्फुटम् ।
फलं चाप्नोति ते स्वप्ने लोकनिष्ठतयाऽस्फुटः ॥१५॥
शुद्धा संवित्स्वभावस्था यत्स्वयं भाति भास्वरा ।
तस्या भानस्य तस्यास्य जाग्रत्स्वप्नाभिधाःकृताः ॥१६॥
सर्गादावथ देहान्ते भातं यद्वेदनं यथा ।
तत्तथाऽऽमोक्षमेवास्ते तदिदं सर्ग उच्यते ॥१७॥
जाग्रत्स्वप्नार्थसार्थस्य संविदश्च न भिन्नता ।
अस्त्यप्रतिघरूपायाः प्रकाशालोकयोरिव ॥१८॥
अग्न्यौष्ण्ययोरिव तथा वातस्पन्दनयोरिव ।
द्रवाम्भसोरिवाऽऽवीचि वा शैत्यानिलयोरिव ॥१९॥
सर्वमप्रतिघं शान्तं जगज्जातमसन्मयम् ।
इत्थं सन्मयमेवास्ति नास्त्यर्थेन च संयुतम् ॥२०॥
ब्रह्म प्रोद्भूय मृत्वा च दृश्यानुभवरूपि च ।
चिन्मात्रमजरं शान्तमेकमेवामलं स्थितम् ॥२१॥
कार्यकारणतार्थानां या यथा हृदि कल्पिता ।
ब्रह्मणा पुरुषेणेव नगर्यन्तस्तथैव सा ॥२२॥
ब्रह्मणो हृदि सर्गोऽयं हृदि ते स्वप्नपूर्यथा ।
कार्यकारणता तत्र तथास्तेऽभिहिता यथा ॥२३॥
संविद्धनोदरे सर्गे कार्यकारणता स्थिता ।
तथा यथोहिता तेन त्वया वा कल्पनापुरम् ॥२४॥
चिता संकल्परूपिण्या सर्गे संकल्पपत्तने ।
त्वयैव स्थापिता संस्था कार्यकारणरूपिणी ॥२५॥
आकाश एव कचनं यच्चित्ते स्वात्मरूपिणी ।
नियतं संनिवेशत्वात्तदन्तः सर्ग उच्यते ॥२६॥
या संविद्रव्यवस्थास्ते हृदि संकल्पपत्तने ।
सैषा स्वभावसंसिद्धिः कार्यकारणतार्थजा ॥२७॥
प्रथमं यद्यथा भाति चित्त्वमस्ति तथेह तत् ।
तस्यैव नियतिः कालो देशादीत्यभिधा कृता ॥२८॥
या नामाशु यथा भाति चेतनाकाशशून्यता ।
तया तथा वस्तुतया कार्यकारणताश्रिता ॥२९॥
चिच्चमत्कारमात्रेऽस्मिन्सर्गाभे भावरूपिणि ।
पूर्वं भावाः प्रवर्तन्ते पश्चात्सर्गाभिधा विदः ॥३०॥
शून्यतास्त्रिजगद्रूपास्तथा चिद्व्योमनि स्थिताः ।
अनन्याः पवने सौम्ये स्पन्दसत्ता यथा निजाः ॥३१॥
व्योम्नि सौषिर्यनैबिड्यं यथा नीलमिति स्थितम् ।
चिति चेतननैविड्यं तथा सर्ग उपस्थितम् ॥३२॥
आभात एव भातेऽस्मिन्कृच्छ्रात्सर्गे विसर्गता ।
बुध्यते रज्जुभुजगे रज्जुरूपं यथा पुनः ॥३३॥
मृतः स स्वप्नवत्सर्वः संपश्यति पृथग्जगत् ।
तच्चान्यदिदमन्यच्च नित्याप्रतिघमम्बरम् ॥३४॥
व्याध उवाच ।
परतः सुखदुःखार्थं देहः संपद्यते कथम् ।
किमस्य हेतुः के वास्य हेतवः सहकारिणः ॥३५॥
कुर्वन्ति धर्माधर्माश्चेत्तेन प्रतिघरूपिणा ।
तदस्याप्रतिघं रूपं कुर्वन्तीत्यसमञ्जसम् ॥३६॥
मुनिरुवाच ।
धर्माधर्मौ वासना च कर्मात्मा जीव इत्यपि ।
पर्यायशब्दभारोऽत्र कल्प्यते न तु वास्तवः ॥३७॥
चित्त्वात्कल्पितचित्त्वेन स्वयं चिन्नभसात्मनि ।
कृतानि नामान्येतानि कश्चिदस्तीति चेतसा ॥३८॥
संविदात्मा स्वयं चित्त्वाद्देहं वेत्ति खमेव खे ।
मृत्वा सन्तं सन्तमिव संकल्पस्वप्नयोरिव ॥३९॥
स्वयं स्वप्न इवाभाति मृतस्य परलोकधीः ।
तमेव पश्यति चिरं न तत्राप्यस्ति सत्यता ॥४०॥
मृतं निर्माति चेदन्यः कथं वास्य स्मृतिर्भवेत् ।
कथं वा स्यात्स एवासौ चेतनत्वं तमेव खम् ॥४१॥
मृतौ न जायते तस्माच्चेतसैव स केवलम् ।
इहायमित्थमित्येव वेत्ति खे वासनात्मकम् ॥४२॥
स्वमेव भावमभ्यस्तमास्ते सोऽनुभवंश्चिरम् ।
स्फुटप्रत्ययवांस्त्वत्र सत्यमित्येव वेत्त्यलम् ॥४३॥
खात्मा खमेव तत्रैव स्वप्नाभं दृश्यमाहरन् ।
पुनः स्वमरणं वेत्ति पुनर्जन्म पुनर्जगत् ॥४४॥
अलीकजालमेवं खे पश्यन्प्रत्येकमास्थितः ।
पश्यत्याचारयत्यत्ति किंचित्कश्चिन्न कस्यचित् ॥४५॥
इत्येवं जगतां सन्ति कोटीनां कोटिकोटयः ।
परिज्ञातास्तु ता ब्रह्म केवलं दृश्यमन्यथा ॥४६॥
ताभिर्न कस्यचित्किंचिदावृतं न च सन्ति ताः ।
तासां च वेत्ति प्रत्येकमिदमेव जगत्त्विति ॥४७॥
भूतानि तासां प्रत्येकं तथैवान्योन्यमास्थिते ।
सत्यान्येवासत्यदृष्ट्या सत्यदृष्ट्या त्वजं पदम् ॥४८॥
सद्यद्विदितवेद्यस्य तदज्ञस्यासदक्षयम् ।
असद्यत्संप्रबुद्धस्य तत्सदज्ञस्य सुस्फुटम् ॥४९॥
चितेर्यद्यद्यथा भानं तत्तत्सत्यं यथा यतः ।
सद्रूपाणि समग्राणि भूतानीमान्यतो मिथः ॥५०॥
नित्यमन्योन्यसत्यानि तानि तान्येव वाप्यतः ।
किल संविद्विनिर्णेयं रूपमप्रतिघं यतः॥
संविन्मात्रविनिर्णेयं कान्यता नान्यता कथा ।
यथासंवेदनं भाते वस्त्वौघे क्व द्वितैकते ॥५२॥
तदेवेदमिदं ज्ञप्तेस्तदेवेदं भवत्यलम् ।
तदेवैतत्तदेवेति भवेज्ज्ञप्तेरसत्यतः ॥५३॥
तच्चेदर्थस्ततो ज्ञप्तेर्नायं तस्याः पृथक् स्थितः ।
स्थिते ज्ञप्त्यात्मनि त्वर्थे त्वज्ञप्त्यायं ततो व्रजेत् ॥५४॥
ज्ञानं यदेव तज्ज्ञेयं ज्ञेयस्यासंभवात्पृथक् ।
यथा ज्ञानमतो ज्ञेयं तनोत्यात्मानमात्मना ॥५५॥
पश्यन्तोऽपि मिलन्तोऽपि पृथक्सर्गा न किंचन ।
सत एवासतो ज्ञस्य मूर्खज्ञातांस्तु वेद्मि नो ॥५६॥
एकं प्रबोधतः सर्वे चिन्मात्रं तावदात्मखम् ।
तदेवानेकसंवित्त्या सहस्रं चिज्जडात्मनाम् ॥५७॥
एकं तथा च चिन्मात्रं स्वप्ने लक्षात्म तिष्ठति ।
पुनर्लक्षात्म तत्स्वप्नादेकमास्ते सुषुप्तके ॥५८॥
चिद्व्योम्नि स्वप्नसंवित्तिर्या सैव जगदुच्यते ।
सुषुप्तं प्रलयः प्रोक्तस्तस्मान्न्यायोऽयमेव सन् ॥५१॥
एकैव संविन्नानात्वं नृलक्षत्वं च गच्छति ।
शून्यत्वं च तथार्थत्वं स्वप्नसंकल्पयोरिव ॥६०॥
इदमप्रतिघं सर्वं किल वेदनमात्रकम् ।
शुद्धं तद्वद्यथा यत्र भाति तत्र तथा भवेत् ॥६१॥
एकैव संवित्सर्गादौ भवत्यग्न्यम्बुखादिकम् ।
पृथ्व्यादि तावत्सर्गार्थं स्वप्नसंकल्पयोरिव ॥६२॥
संविदाकाशरूपैव भाति पृथ्व्यादिनामिका ।
यत्तदेव खमेवेदं जगदित्येव भासते ॥६३॥
संवित्सप्रतिघं भाति भाति चाप्रतिघं तथा ।
न वस्तुतस्तु प्रतिघा संवित्सान्ते निवर्तते ॥६४॥
यासि पूर्वां पश्चिमां च दिशं वेत्सि चिरं विदन् ।
प्रतिघं नाम ते नास्ति न च सप्रतिघा क्वचित् ॥६५॥
दृष्टं संकल्पितं चार्थं सहाभ्यस्यति यश्चिरम् ।
सोऽवश्यं तदाप्नोति न चेच्छान्तो निवर्तते ॥६६॥
यासि पूर्वां पश्चिमां च दिशं वेति चिरं विदन् ।
य आस्ते यात्यसौ तत्तामन्यस्त्यक्त्वा तु नेतराम् ॥६७॥
दृष्टः संकल्पितश्चार्थः स्यामित्यचलसंविदः ।
द्वयं भवेद्वयं नश्यत्यन्यस्याचलसंविदः ॥६८॥
दक्षिणादुत्तरां वाशां यामीत्यचलसंविदः ।
द्वयं भवेद्द्वयं नश्यत्यन्यस्याचलसंविदः ॥६९॥
खे पुरं स्यां भुवि मृगः स्यामित्यचलसंविदः ।
द्वयं भवेद्वयं नश्यत्यन्यदन्यत्तु तज्जगत् ॥७०॥
एकं प्रबोधतः सर्वं चिन्मात्रं तावदात्मखम् ।
तदेवानेकसंवित्त्या सहस्रं चिज्जडात्मनाम् ॥७१॥
शरीरमस्त्वप्रतिघमथ सप्रतिघं च वा ।
स्वप्नात्मकोऽयं संसारो जीवस्येह परत्र च ॥७२॥
एतन्म्लेच्छादिदेशेषु मृतानां दर्शनात्पुनः ।
स्मृतिपूर्वं च कथनात्प्रत्यक्षमनुभूयते ॥७३॥
ये मृता भस्मसाज्जाता म्लेच्छदेशेषु ते पुनः ।
आगत्य कथयित्वार्थं गच्छन्त्यप्रतिघात्मकाः ॥७४॥
एष चेज्जीवतो धर्मस्तद्देशान्तरगे जने ।
मृत इत्येव बुद्धेऽर्थे कस्मान्नैव प्रवर्तते ॥७५॥
जीवधर्मः सोऽपि संश्चेन्मृतधर्मोऽपि किं न सन् ।
यादृगनुभवस्त्वस्मिन्समे न्यायद्वये स्थिते ॥७६॥
स्वप्नवज्जगदाभानमित्येवं सत्यखण्डितम् ।
आर्यानुभवशास्त्राणामनेनास्त्येकवाक्यता ॥७७॥
दृष्टिजालं जनौघानां पश्यतामिन्दुमन्दिरे ।
यादृगप्रतिघं तादृग्जगत्सदसदात्मकम् ॥७८॥
सन्मात्रमात्रानुविधमच्छानुभवमात्रकम् ।
चिन्मात्रं भानमात्रात्म सर्वार्थात्मार्थवर्जितम् ॥७९॥
सर्वमप्रतिघं शान्तं जगदेकं चिदम्बरे ।
अनिङ्गनमनाभासमात्मन्येवात्मनास्यताम् ॥८०॥
अचला संविदेवास्ते स्थिरं कृत्वा यथा यथा ।
तथा तथा भवत्याशु किमसत्किं च वापि सत् ॥८१॥
शरीराण्यथ कर्माणि दुःखानि च सुखानि च ।
यथा स्थितान्युपायान्तु यान्तु वा कस्य किं ग्रहः ॥८२॥
इत्थमस्तु सदथान्यथास्तु वा
मैव भूद्भवतु कोऽत्र संभ्रमः ।
मुञ्च फल्गुनि फले फलावहं
बुद्धवानसि कृतं परिभ्रमैः ॥८३॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा०दे०मो०नि०उ०अ०वि० निर्वाणबोधोपदेशो नाम त्रिचत्वारिंशदधिकशततमः सर्गः ॥१४३॥
N/A
References : N/A
Last Updated : October 08, 2021
TOP