कृतयुगसन्तानः - अध्यायः २४
लक्ष्मीनारायणसंहिता
श्रीनारायण उवाच
अथ पूर्वे महासर्गे ब्रह्माण्डे परमेष्ठिनः ।
क्षीरोदधौ शयानस्य तत्र नारायणप्रभोः ॥१॥
एकादशेन्द्रियेभ्यो या कन्या दानवनाशिनी ।
समुद्भूता महासाध्वी सैकादशी महालये ॥२॥
पुनर्नारायणमूर्तौ लयं प्राप्ता च या ततः॥
यावदिन्द्रियसामर्थ्यात्मकतेजांसि तद्विभोः ॥३॥
संस्थितानि सदा मूर्तौ तानि नारायणः स्वयम् ।
महासर्गसमारंभे चेशानां व्रतकाम्यया ॥४॥
ताः कन्याः स्वर्णवर्णाढ्या दिव्या द्वादशहायनाः॥
सर्वांगरूपसंपूर्णास्तपस्तेजःसमन्विताः ॥५॥
प्रकटीकृतवान् , ताश्चेश्वरेभ्यो व्रतकारणात् ।
अर्पिताः श्रीभगवता नारायणपरायणाः ॥६॥
नारायणान्न ता न्यूना मोक्षदाने महाबलाः॥
ब्रह्माऽक्षरे परे धाम्नि वर्तन्ते मुक्तिमण्डिताः ॥७॥
ईश्वरास्तद्व्रतं कृत्वा मुक्तिं यान्त्यक्षरे पदे ।
ब्रह्मदेहा ब्रह्मरूपा ब्रह्मैश्वर्यसमन्विताः ॥८॥
ब्रह्ममुक्तिप्रदाः सर्वा ब्रह्माण्यो ब्रह्मदायिकाः ।
यदा तु वेधसा स्वस्य सृष्टावागमनाय च ॥९॥
प्रार्थिताश्च तदा नारायणोऽहं मिषमात्रतः ।
मुरनाममहाद्वेष्टृनाशाय संयतोऽभवम् ॥१०॥
क्षीरे तु सागरे यावत् तत्र स्वपिमि दानवः ।
मुराख्यस्तु महाघोरो बलिष्ठः समुपागतः ॥११॥
युद्धार्थं तस्य नाशाय मया शक्तिः प्रकाशिता ।
सा चैकादशसंख्याकेन्द्रियसामर्थ्यसंभृता ॥१२॥
कन्या मोहकरी रम्या मया तेजोविवर्धिता ।
दानवस्य विनाशाय प्रेरिता स्वर्णसुन्दरी ॥१३॥
यावद्गच्छति नाशाय दानवस्तावदासुरः ।
दृष्ट्वा तां मोहमापन्नो वव्रे तां चकमे मुहुः ॥१४॥
कन्यया तु तदाऽभ्युक्तो युद्धे नारायणं च माम् ।
जित्वा पत्नीं कुरु दुष्ट ! नान्यथा स्यात् त्वदीप्सितम् ॥१५॥
दानवः स समाकर्ण्य मुग्धो यावत्तु युद्धयति ।
तावत्तु कन्यया पूर्वं खङ्गेनच्छिन्नमस्तकः ॥१६॥
पपात धरणौ तत्र ममार न समुत्थितः ।
तदारभ्य मया लक्ष्मि ! कन्यकायै वरो महान् ॥१७॥
दत्तस्त्वद्व्रतकर्तारो यास्यन्ति परम गतिम्॥
तव पूजाप्रकर्तारः प्राप्स्यन्ति ब्रह्म चाऽक्षरम् ॥१८॥
तवोद्यापनकर्तारो लप्स्यन्ते स्वर्गमिष्टदम् ।
तव दानप्रकर्तारो मुक्तिं यास्यन्ति पापिने ॥१९॥
तव पुण्यप्रदातारोऽवाप्स्यन्ति भोगवैभवम् ।
सकामाः कामशून्या वा शरणं ते गता जनाः ॥२०||
नरा नार्योऽथ वा चान्ये देवा दैत्यादयश्च ये ।
ते स्वेष्टं समवाप्स्यन्ति स्वर्गं मोक्षप्रदं ध्रुवम् ॥२१॥
महापापाऽतिपापानां नाशयित्री सुखावहा॥
पावयित्री जनानां च मोक्षदा भव कन्यके ! ॥२२॥
इति सा वरप्राप्त्या सर्वपापप्रणाशिनी ।
महामोक्षगतेर्दात्री वर्तते सर्वतोऽधिका ॥२३॥
मामथ प्राह सा देवी नाथैकाऽहं त्वया कृता ।
जना लोकाश्च बहवस्तत्र व्याप्तिश्च मे कथम् ॥२४॥
तस्माद्बहुस्वरूपाऽहं भवेयं तत्तथा कुरु॥
ततो मया तु सामर्थ्यं दत्तं तस्यै महत्तरम् ॥२५॥
मुख्याश्चतुर्विंशतिसुस्वरूपा जातास्ततोऽनन्ततनुस्वरूपाः ।
ब्रह्माण्डवैपुल्यगता नु चैकादश्योभवन्त्यप्रमितस्वरूपाः ॥२६॥
ततो मयाऽपि संकल्पाच्चैकादश्यः पुनः पुनः ।
कोटिशश्चाऽप्यनन्ताश्च स्वमूर्तेः प्रकटीकृताः ॥२७॥
मुख्यास्तथा परास्तासां दास्योऽनन्ता मया कृताः ।
ब्रह्माण्डेषु च सर्वत्र सन्ति मोक्षकरा नृणाम् ॥२८॥
अत्र तु वेधसः सत्ये लोके तद्धाम निर्मितम् ।
तपस्विन्यस्तपःकर्त्र्यस्तत्र साध्व्यो वसन्ति हि ॥२९॥
सर्वदाऽक्षतसौभाग्या नारायणपरायणाः ।
कुमार्योऽक्षतसामर्थ्या दिव्या द्वादशहायनाः ॥३०॥
मुक्त्यात्मिकां दशामेकां सुस्मृद्धां प्रापयन्त्यतः।
एकादश्यो मता नाम्ना भवच्छेत्र्योऽघमर्षणाः ॥३१॥
दिव्या मूर्तिस्वरूपास्ताः पूजां गृह्णन्ति नित्यशः॥
मया समं सदा पूज्याः सेव्याः साध्व्योऽन्वहं त्वया ॥३२॥
अथेशानां च देवानामृषीणां पशुपक्षिणाम्॥
मानवानां च दैत्यानां जलस्थलनिवासिनाम् ॥३३॥
समाजेषु यदा मे स्यादाविर्भावस्तदा तदा॥
तेषां जयः सुविजयो भवतीति मया सह ॥३४॥
जयाख्या विजयाऽऽधाना दासी मत्तनुजा शुभा ।
प्राकट्याख्या सुसामर्थ्या मदभिन्ना समागता ॥३५॥
वर्तते सर्वथा दिव्या भक्तानां जयदा शुभा ।
कन्यका सुकुमारी सा भक्तानां मुक्तिदा ध्रुवम् ॥३६॥
नारायणी जयन्तीति समाख्याता मदात्मिका॥
ब्रह्मरूपा मम मूर्तिर्मत्स्वरूपा तु सा सदा ॥३७॥
मद्विना नैव कुत्रापि वसतीति मया सह ।
वर्तमाना मुक्तिदात्री जयन्तीति जयावहा ॥३८॥
तस्यै चापि मया नैकरूपधारणशक्तयः॥
प्रदत्ताश्च ततः सापि नैककोटिस्वरूपताम् ॥३९॥
धृत्वा जायन्त इत्येता जयन्त्योनन्तसंख्यकाः ।
प्राविर्भवामि यत्राऽहं श्रीहरिस्तत्र तत्र वै ॥४०॥
जयन्ती जायते सार्धं साध्वी मोक्षप्रदायिनी॥
गौण्यश्चापि जयन्त्यस्तु मयाऽसंख्या नवीकृताः ॥४१॥
तास्तु दास्यः सदा मुख्यजयन्तीभिश्च संगताः ।
सेवनात्पूजनात्तासां व्रताचरणभावनात् ॥४२॥
मोचयन्ति जनान् सर्वान् जीवेशसृष्टिसुस्थितान् ।
तासां वासो मया सार्धं यत्राऽहं तत्र ताः स्थिताः ॥४३॥
ब्रह्मलोके चेशलोके जीवलोकेऽथ वेधसः ।
सत्यलोके जयन्तीनां दिव्या लोकाः स्थिरीकृताः ॥४४॥
जयन्त्यः कोटिशस्तत्र तत्राऽऽवसन्ति सर्वथा ।
यत्रोत्सवो हरेस्तत्र तत्राऽऽगच्छन्ति रूपतः ॥४५॥
साध्वीरूपाः सुरूपाश्चोत्सवरूपास्तथैव ताः ।
अरूपा व्रतरूपास्ता मोक्षदाः सर्वथा मताः ॥४६॥
तस्माजयन्त्यो मम सर्वदैव संसेवनीया निजमुक्तिकामैः॥
नरैस्तथा स्त्रीभिरदभ्रभावान् मुक्तिः सदा तत्करसंस्थिता स्यात् ॥४७॥
इत्येवं मे जयन्त्यो वै जन्माऽहस्सु समर्चिताः ।
मदर्हणसमा भक्तान् भावयन्ति मदात्मकान् ॥४८॥
शुद्धो वो मलिनो वापि यो भक्तो व्रतमाचरेत् ।
तेन प्रसादयित्वा मां याति मत्पदमव्ययम् ॥४९॥
श्रुत्वा तत्तत्कथां रम्यां दत्वा दानानि भूरिशः॥
कृत्वा तत्तद्व्रतं शुद्धं पूजयित्वा च तास्ततः ॥५०॥
कृपातः श्रीहरेस्ते ते सर्वे यान्ति परां गतिम्॥
विजयन्ते जयन्त्योऽत्र मोक्षदानविधापनात् ॥५१॥
नित्यं गर्जति गायत्री सरस्वती च गर्जति ।
एकादश्यश्च गर्जन्ति गीता गर्जति तावता ॥५२॥
यावन्नैव जयन्त्यो वै गर्जन्ति भुवनत्रये॥
मुक्तिदानां तथाऽन्यासां गर्जनाऽपि न तावती ॥५३॥
यावती गर्जना कृष्णजयन्त्या मस्तकायते॥
तस्माद्धरेर्जयन्ती वै श्रेष्ठा मुक्तिप्रदापने ॥५४॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने एकादशीनां जयन्तीनां च माहात्म्यादिकथननामा चतुर्विंशोऽध्यायः ॥२४॥
N/A
References : N/A
Last Updated : March 26, 2021
TOP