संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४७३

कृतयुगसन्तानः - अध्यायः ४७३

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! धर्मपीठे क्षेत्रे त्वानन्दकानने ।
चमत्कारोऽभवद् धर्मतपस्याया वदामि तम् ॥१॥
धर्मपीठं तदुक्तं वै क्षेत्रे त्वानन्दकानने ।
तत्पीठदर्शनादेव जनः पापैः प्रमुच्यते ॥२॥
पुरा विवस्वतः पुत्रो यमी धर्मभृतां वरः ।
तपस्तताप तत्क्षेत्रे लोकाऽनुग्रहकारणात् ॥३॥
शिशिरे जलमध्यस्थो वर्षास्वभ्रावकाशकः ।
तपतौ पञ्चवह्निस्थः कदाचित्त्वतिवातगः ॥४॥
पादाऽग्राऽङ्गुष्ठभूस्पर्शी बहुकालं स तस्थिवान् ।
एकपादस्थितः सोऽपि बहुकालं ततः पुनः ॥९॥
समीराऽभ्यवहर्ताऽऽसीत् ततः पपौ जलं मनाक् ।
कुशाग्रमात्रेण तद्बिन्दून् ततश्चाहारवर्जितः ॥६॥
दिव्यां चतुर्युगीमित्थं स निनाय तपश्चरन् ।
चतुर्गुणं दिदृक्षुः श्रीशंकरं वै समाधिना ॥७॥
शंकरस्तस्य तपसा सन्तुष्टः स्थिरचेतसः ।
ययौ तस्मै वरान् दातु धर्मरूपाय साक्षिणे ॥८॥
प्रत्यवोचत्तु तं धर्म वरं वृणु यथेप्सितम् ।
दृष्ट्वा स मां प्रणनाम चकार स्तवनं तथा ॥९॥
वव्रे संहारकृद्रूपं मम द्रष्टुं तदाऽनघः ।
मया प्रदर्शितं तस्मै भयानकं ममैव तत् ॥१०॥
महारुद्रस्वरूपं यत् संकर्षणस्वरूपकम् ।
अथ त्वं मत्स्वरूपोऽसि धर्मराजो भवेति वै ॥११।
समस्तदेहिनां धर्माधिकारे शासनं कुरु ।
कर्मसाक्षी च जन्तूनां भव सर्वज्ञ इत्यपि ॥१२॥
धर्मक्षेत्रमिदं सर्ववाञ्छाप्रपूरकं तथा ।
मोक्षदं भवतु प्राणिपापप्रज्वालनक्षमम् ॥१३।
धर्मेश्वरं मम रूपं तव नाम्ना भवत्वपि ।
गृहाण त्वं कृष्णमन्त्रं वैष्णवः परमो भव ॥१४॥
इत्युक्त्वा धर्मराजाय ददौ मन्त्रं महेश्वरः ।
ओं नमः श्रीकृष्णनारायणाय ब्रह्मणे नमः ॥१५।
मालां कण्ठे च वृन्दाया ददौ करे जपार्थिकाम् ।
ललाटे चन्द्रकं चक्रे त्वाशीर्वादान् ददौ बहून् ॥१६।
न्यायोपदेशं बहुधा ददौ श्रीशंकरः स्वयम् ।
सुखं धर्मफलं प्रोक्तं स्वेच्छाविषयमेव तत् ॥१७।
दुःखं त्विच्छाविघातौ वै दुष्कर्मणां तु तत्फलम् ।
स्वर्गं सुखं तु देवानामाराधनेन जायते ॥१८॥
साधनानां सुखं पूर्णं दानेनैव प्रजायते ।
अन्यात्मनां प्रतुष्ट्यैवाऽऽनन्दार्थि जीवनं भवेत् ॥१९॥
परपीडाकरं सर्वं स्वस्यापि दुःखदं भवेत् ।
परोपकारः कर्तव्यः कर्तव्यं त्वात्मदर्शनम् ॥२०॥
कृष्णाराधनभक्त्यादि कर्तव्यं मोक्षणाय च ।
लोके वै सम्पदः पुंसां प्राग्दानेन भवन्ति हि ॥२१॥
यन्न दत्तं तन्न लभ्यं तस्माद् धर्मं समाचरेत् ।
कृतस्य फलदानं वै सर्वत्र नियमः कृतः ॥२२॥
शुभस्य चाऽशुभस्यापि त्वया कार्यो विनिर्णयः ।
तत्र तत्र फलं तेभ्यो दास्यत्येव जनार्दनः ॥२३॥
इन्द्रियाणां स्वभावेन भोगः पापं न तन्मतम् ।
अन्यायेन कृतो भोगः पापं प्रसह्य जायते ॥२४॥
प्रसन्नभावनाजन्यं कर्म सन्तोषकारकम् ।
अद्रोहं नैव पापाय पुण्यं सन्तोषदं तु तत् ॥२५॥
कृष्णे समर्पणं सर्वं निष्कामं मोक्षदं तु तत् ।
तस्माद् धर्मः सदा कार्यः कार्यं मोक्षप्रदं व्रतम् ॥२६॥
परात्महिंसनं त्वन्यद्रोहस्तथाऽन्यनिन्दनम् ।
अन्यापहरणं तद्वदुद्वेजनं परात्मनाम् ॥२७॥
एतत्पापप्रदं प्रोक्तं तदन्यत्पुण्यकृत्परम् ।
तेषां फलं यथायोग्यं देहि धर्मभृतां वर ॥२८॥
याहीत्युक्वा च पाणिभ्यां मृडः पस्पर्श तं वृषम् ।,
सूर्यपुत्रः पुनः प्राह हे नाथ प्रार्थयाम्यहम् ॥२९॥
हे शंभो कीरडिम्भानां मत्पुरःप्राप्तजन्मनाम् ।
अमीषां पितृहीनानां शुकी माता मृतिं गता ॥३०॥
शुकः श्येनेन सहसा भक्षितश्च ततो मया ।
रक्षितानामनाथानामितिहासकथाविदाम् ॥३१॥
वरदो भव देवेशेत्युक्त्वा मौनपरोऽभवत् ।
अथ शंभुः शुकानाह को वरो भवतां कृते ॥३२॥
देयो मयेति संश्रुत्वा शुकशावा जगुस्तु तम् ।
पक्षिणामपि देवेश दर्शनं ते महद्धनम् ॥३३॥
एतत्तपस्वियोगेन जन्मान्तरसहस्रजाम् ।
कथां विद्मो वयं नाथ स्मरामो देवकोटिषु ॥३४॥
दैत्येषु भोगिषु निशाचरेषु किन्नरेषु च ।
विद्याध्रेषु गन्धर्वेषु मनुष्येषु जलेषु च ॥३५॥
स्थलेष्वपि वनेष्वपि विवरेषु भुवोऽन्तरे ।
याचितृषु च दातृषु रक्षकेषु च घातिषु ॥३६॥
सुखितेषु दुःखितेषु मूर्खेषु पण्डितेषु च ।
स्वामिषु सेवकेष्वन्यभूतात्मकेषु शाखिषु ॥३७॥
जन्मानि तत्प्रकार्याणि स्मरामोऽस्य प्रभावतः ।
इतो योनेस्ततो योनौ ततो योनेस्ततोऽन्यतः ॥३८॥
पिनाकिन्! क्वापि न प्रापि सुखलेशो मनागपि ।
इदानीं त्वां समीक्ष्यैव कृतकृत्या बभूविम ॥३९॥
अथापि चेद्भवेद् देयं वरदानं कृपा तव ।
देहि ज्ञानं येन मुक्ता भवामो भवबन्धनात् ॥४०॥
करामलकवत् सर्वं ब्रह्माण्डगोलकादिकम् ।
अस्मद्वाग्गोचरेऽस्त्येव धर्मसान्निध्यसेवनात् ॥४१॥
धर्मराजस्य तपसा जाताः स्मो ज्ञानभाजनम् ।
श्रुत्वेति कीरबालानां तानुवाच शिवापतिः ॥४२॥
काश्यामानन्दवनके धर्मपीठे मम गृहम् ।
मोक्षलक्ष्मीविलासाख्यं मणिरत्नादिनिर्मितम् ॥४३॥
पतत्त्रिणोऽपि मुच्यन्ते यत्कुर्वाणाः प्रदक्षिणम् ।
बिन्दुमाधवरूपेण धर्मनदे वसाम्यहम् ॥४४॥
नये पञ्चनदस्नातान् तद्विष्णोः परमं पदम् ।
धर्मपीठे बालकीरा यूयं वै ज्ञानभाजनम् ॥४५॥
जाताः स्थ तत् प्रगृह्णीध्वं मनुं वै वैष्णवं परम् ।
ओं नमः श्रीकृष्णनारायणाय पतये नमः ॥४६॥
गृह्णीध्वं तुलसीमालां जपताऽन्वहमच्युतम् ।
देहान्ते दिव्ययानेन गन्तास्थोऽच्युतधाम यत् ॥४७॥
इत्युक्त्वा च कीरान् कृत्वा वैष्णवान् भगवान् हरः ।
अन्तर्धानं जगामाऽथ धर्मक्षेत्रे च ते कीराः ॥४८॥
भजन्ते श्रीकृष्णनारायणं राधापतिं प्रभुम् ।
लक्ष्मीनारायणसंहिताकथां वाचयन्ति च ॥४९॥
नित्यं कल्पान्तरकथाः श्रावयन्ति जनान् शुकाः ।
कामरूपधरा विज्ञा विद्वांसो वै द्विजोत्तमाः ॥५०॥
एवं कृष्णपातिव्रत्यपरास्ते ह्यभवन् सदा ।
कृष्णपूजां कृष्णकथां चक्रुर्नित्यं विहंगमाः ॥५१॥
तत्रैकदा समायाता पौलोमी व्रतकामिनी ।
मनोरथव्रतं चक्रे तताप परमं तपः ॥५२॥
नित्यं तां श्रावयन्त्येते कथां पापप्रणाशिनीम् ।
लक्ष्मीनारायणसंहितात्मिकां मोक्षदायिनीम् ॥५३॥
कथां श्रुत्वा शची भक्त्याऽऽर्चयत् कृष्णनरायणम् ।
उपचारैः षोडशभिर्धर्मक्षेत्रे नदीतटे ॥५४॥
पञ्चनदे पूजयित्वा शिवं विश्वेश्वरं विभुम् ।
शची नित्यं पूजयति करोति नर्तनं तथा ॥५५॥
गीतेन सरहस्येन कलकण्ठीकलेन च ।
तद्गानेनातिसन्तुष्टो हरः साक्षाद् बभूव ह ॥५६॥
उवाच त्वं वरं ब्रूहि प्रसन्नोऽस्मि पुलोमजे ।
शची प्राह प्रसन्नश्चेन्मनोरथं प्रपूरय ॥५७॥
सर्वदेवेषु यो मान्यः सर्वदेवेषु सुन्दरः ।
यायजूकेषु सर्वेषु यः श्रेष्ठः सोऽस्तु मे पतिः ॥५८॥
यथाभिलषितं रूपं यथाभिलषितं सुखम् ।
यथाभिलषितं चायुः प्रसन्नो देहि मे भव ॥५९॥
यदा यदा तु पत्या मे सङ्गः स्यात् सुखवाञ्च्छया ।
तदा तदा तु तद्देहं त्यक्त्वाऽन्यदेहमाप्नुयाम् ॥६०॥
भर्तुर्व्ययेऽपि वैधव्यं क्षणमात्रं न मे भवेत् ।
पातिव्रत्यं शाश्वतं मे पतिनाशेऽपि चाऽस्तु वै ॥६१॥
इतिवृणोमि भगवन्नखण्डितसुभाग्यताम् ।
एतच्छ्रुत्वा महादेवो जहास समुवाच ताम् ॥६२॥
कुरु व्रतं मनोरथतृतीयायाः शुभे शुचि ।
तेन व्रतेन चीर्णेन महासौभाग्यदेन तु ॥६३॥
अवश्यं भविता चेष्टस्तव चैवं मनोरथः ।
पूज्या विश्वभुजा गौरी भुजविंशतिशालिनी ॥६४॥
वरदोऽभवहस्तश्च साक्षसूत्रः समोदकः ।
देव्याः पुरस्ताद् व्रतिन्या पूज्य आशाविनायकः ॥६५॥
चैत्रशुक्लद्वितीयायां गृह्णीयान्नियमं शुभम् ।
ब्रह्मचर्यं भूशयनं प्रातरुत्थाय वै शुचि ॥६६॥
अशोकवृक्षस्य शुभं कुर्याद्वै दन्तधावनम् ।
अन्यत् सर्वं नित्यकर्म विधाय स्नानमाचरेत् ॥६७॥
कृष्णनारायणांशं तं गणेशं समपूज्य च ।
घृतपूरान् विनिवेद्य गौरीपूजां समाचरेत् ॥६८॥
अशोककुसुमैः श्रेष्ठैरशोकवर्तिधूपनैः ।
दीपैर्नैवेद्यकैर्नानाविधैः संभोजयेत् सतीम् ॥६९॥
एवं कुंकुमशोभाढ्या ह्येकभुक्तं व्रतं चरेत् ।
एवं चैत्रतृतीयायामारभ्य फाल्गुनावधिम् ॥७०॥
द्वादशतृतीयानां वै व्रतं मनोरथप्रदम् ।
यथालब्धोपचारैर्वै पवित्रैः प्रचरेद् व्रतम् ॥७१॥
व्रतसम्पूर्तये कुर्यात् स्थण्डिलेऽग्निसमर्चनम् ।
शतमष्टाधिकं होमं तिलाऽज्यादिभिराचरेत् ॥७२॥
सदैव नक्ते पूजोक्ता सदा नक्ते तु भोजनम् ।
नक्त एव हि होमोऽयं नक्त एव क्षमापनम् ॥७३॥
नमोऽस्तु ते विश्वभुजे पूरयाऽऽशु मनोरथान् ।
नम आशागणेशाय मम देहि मनोरथम् ॥७४॥
आचार्यं पूजयेद् दानं दद्यात् यथाबलं व्रती ।
दद्यात् पयस्विनीं गां च व्रतस्य परिपूर्तये ॥७५॥
प्रातश्चतुर्थ्यां चतुरो भोजयित्वा कुमारकान् ।
यद्वा द्वादश संपूज्य सतीबुद्ध्या कुमारिकाः ॥७६॥
दद्याद् दानानि विधिना व्रतमेतत् सुनिर्मलम् ।
पत्नीं मनोरमां कुल्यां मनोवृत्त्यनुसारिणीम् ॥७७॥
तारिणीं दुःखसंसारसागरस्य पतिव्रताम् ।
कुर्वन्नेतद्व्रतं वर्षं कुमारं प्राप्नुयात् स्फुटम् ॥७८॥
कुमारी पतिमाप्नोति स्वाढ्यं सर्वगुणाधिकम् ।
सुवासिनी लभेत्पुत्रान् पत्युः सौख्यमखण्डितम् ॥७९॥
दुर्भगा सुभगा स्याच्च दरिद्रा स्याद्धनान्विता ।
विधवापि न वैधव्यं पुनराप्नोति कुत्रचित् ॥८०॥
गुर्विणी तु शुभं पुत्रं लभते सुचिरायुषम् ।
यो यो मनोरथो यस्य तं तं ध्रुवं स विन्दति ॥८१॥
व्रतं कृष्णं विना चैन्द्रि! नैव सिद्ध्यति सर्वथा ।
तस्माद् गृहाण मन्त्रं श्रीकृष्णनारायणस्य वै ॥८२॥
वैष्णवी भव चेन्द्राणि! ततः सिद्धिमवाप्स्यसि ।
अवैष्णवकृतं व्यर्थं व्रतं दानं जपस्तपः ॥८३॥
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
जपं कुरु सदा तन्वि गृहाण तुलसीस्रजम् ॥८४॥
कण्ठे धारय वृन्दाया मालां बिन्दुं ललाटके ।
हृदये श्रीकृष्णनारायणं स्वस्वामिनं पतिम् ॥८५॥
एवं कृत्वा व्रज गेहं कुरु व्रतं फलं भवेत् ।
अरुन्धत्या वसिष्ठोऽपि लब्धोऽत्रिरनसूयया ॥८६॥
सुनीत्योत्तानपादाच्च ध्रुवः प्राप्तोऽङ्गजोत्तमः ।
सुनीतेर्दुर्भगत्वं तु पुनरस्माद् व्रताद् गतम् ॥८७।
चतुर्भुजः पतिः प्राप्तः क्षीराब्धिकन्यया तथा ।
तस्माद् व्रतं प्रकर्तव्यं वैष्णव्या तत्तथा कुरु ॥८८।.
इत्युक्ता सा शची जाता वैष्णवी प्रययौ गृहम् ।
व्रतं कृतवती साध्वी कृष्णपतिव्रतान्विता ॥८९।.
ब्रह्मचर्यपरा त्वेकभुक्तवती हि वत्सरम् ।
भूशयाना सनियमा व्रतान्ते चेन्द्रकाम्यया ॥९०॥
उद्वाहिता सुरेन्द्रेण कृता कल्पायुषी सती ।
यथा यथाऽभिलषितं तथा तस्या ह्यभूत् फलम् ॥९१॥
इति ते कथितं लक्ष्मि! व्रतस्य फलनं शुभम् ।
कीरबालाः शची चेति वैष्णवाः कल्पनाशने ॥९२॥
ययुर्गोलोकधामाभिध्येय कृष्णपदाम्बुजम् ।
पठनाच्छ्रवणाच्चास्य भुक्तिर्मुक्तिः सुभाग्यता ॥९२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सूर्यपुत्रस्य तपसा धर्मराजत्वं, कीरबालानां सार्वज्ञ्यं, पौलोम्या इन्द्रपत्नीत्वं, तेषां वैष्णवत्वं, ततो मुक्तिः, मनोरथव्रतं चेत्यादिनिरूपणनामा त्रिसप्तत्यधिकचतुश्शततमोऽध्यायः ॥४७३॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP