संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४४६

कृतयुगसन्तानः - अध्यायः ४४६

लक्ष्मीनारायणसंहिता


श्रीनारायाग उवाच-
शृणु लक्ष्मि! हरवाक्यं श्रुत्वा बृहस्पतिः स्वयम् ।
महाभागवतो भक्तो वैराग्येण जगाद यत् ॥१॥
ज्ञानं प्राप्य विषण्णः स भवाब्धौ हरमाह वै ।
आज्ञां कुरु कृपासिन्धो यामि तप्तुं हरेस्तपः ॥२॥
तारा तिष्ठतु तत्रैव न तया मे प्रयोजनम् ।
अज्ञानं बाधते मूढं लीनं मे कृपया तव ॥३॥
नरो भूत्वा हरिं प्राप्स्ये नार्या किं मे प्रयोजनम् ।
अमृतं दृश्यते बाह्यं विषं सर्वं विना हरिम् ॥४॥
शरणं श्रीकृष्णनारायणं यामि परात्परम् ।
इत्युक्तवन्तं तं शंभुर्विहस्याऽऽह बृहस्पतिम् ॥५॥
परग्रस्तां स्त्रियं त्यक्त्वा न प्रशस्यं तपो मुने ।
संभावितस्य दुश्चर्या मरणादतिरिच्यते ॥६॥
स्वस्त्रीं शत्रुकरग्रस्तां समासाद्य ततः परम् ।
यत्कर्तव्यं त्वया कार्यं गार्हस्थ्यं वा तपो मुने! ॥७॥
वयं यामो यत्र शुक्रस्तत्र सर्वे धुरन्धराः ।
सूर्यो धर्मोऽनन्तशेषो नरो नारायणो ह्यजः ॥८॥
क्रतुः सनत्कुमारश्च वसिष्ठोऽपि मरीचिकः ।
सनातनः सनन्दश्च वोढा पञ्चशिखस्तथा ॥९॥
पत्नीव्रतश्च कपिलस्तथाऽङ्गिरस इत्यपि ।
इत्युक्त्वा प्रययुः सर्वे शुक्राश्रमं शिवान्विताः ॥१०॥
शुक्रः प्रणम्य तान्सर्वान् पूजयामास सादरम् ।
भीताः प्रणेमुस्तान्देवान् तदानीं दितिनन्दनाः ॥११॥
शुक्रः सपुलकः साश्रुनेत्रः प्रोवाच वै तदा ।
अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥१२॥
स्वयं विधाता भगवान् साक्षाद् दृष्टः स्वमन्दिरे ।
साक्षाद् दृष्टाश्च तत्पुत्रा भगवन्तः सनातनाः ॥१३॥
तुष्टः श्रीमत्कृष्णनारायणोऽद्य मयि सर्वथा ।
स्वयं नारायणो लक्ष्मीपतिर्मद्गृहमागतः ॥१४॥
ब्रह्मरूपः स्वयं शंभुर्मोक्षदाश्च समागताः ।
कृतार्थं कर्तुमीशा मां कृपया न्वागता मयि ॥१५॥
स्वात्मारामेषु कुशलं प्रश्नरूपं विडम्बनम् ।
पुत्रं पवित्रं कर्तुं वै नूनमत्र समागताः ॥१६॥
अपरं ब्रूथ किं वाऽपि शास्त नः करवाणि तत् ।
श्रुत्वैतद् विश्वसृट् प्राह कुशलं ते सदाऽस्तु वै ॥१७॥
उद्विग्नश्चिरविच्छेदात् त्वां पौत्रं द्रष्टुमागतः ।
कुशलं सकुटुम्बस्य तव पौत्र! निरामयम् ॥१८॥
श्रीकृष्णपूजनं नित्यं कुशलं ते तु वर्तते ।
स्वगुरोः सेवनं चापि कुशलं ते नु जायते ॥१९॥
गुरोः कृष्णस्य पित्रोश्च वृद्धानां चापि पूजनम् ।
सर्वदुःखहरं पुण्यं भाविसम्पत्सुरक्षकम् ॥२०॥
अभीष्टदेवः सन्तुष्टो गुरौ तुष्टे भवेदिह ।
इष्टदेवे तु सन्तुष्टे सन्तुष्टाः सर्वदेवताः ॥२१॥
गुरुर्विप्रः सुरो रुष्टो येषां पातकिनामिह ।
तेषां तु कुशलं नास्ति विघ्नस्तस्य क्षणे क्षणे ॥२२॥
तव तुष्टो गुरुश्चाऽहं तदा तुष्टो हरिः स्वयम् ।
हरौ तुष्टे सर्वदेवास्तुष्टाः क्षेमं भवेत्तव ॥२३॥
साम्प्रतं शृणु मे धीमन्नत्राऽऽगमनकारणम् ।
कृष्णवरजपुत्रस्य साध्वीं तारां बृहस्पतेः ॥२४॥
अपहृत्य निशानाथस्तवैव शरणाऽऽगतः ।
देहि तारां न्यायमार्गात् सर्वं ते कुशलं भवेत् ॥२५॥
पूर्वं ज्ञातं त्वया चन्द्रः शुद्धीकृतोऽस्ति धर्मतः ।
तारा शुद्धा सती चास्ति नित्यशुद्धा यतः स्त्रियः ॥२६॥
चन्द्रे दण्डं न योक्ष्यामस्तद्भयं त्यज सर्वथा ।
अदाने यदि युद्धं स्यान्नाशस्तूभयपक्षयोः ॥२७॥
तारां भुंक्ते शशी यद्वा गुरुर्यद्वा विनाशनम् ।
कोटिसंख्यकमूर्धन्यदेवदैत्यादिपक्षयोः ॥२८॥
अन्यायं तु परासूय न्यायः कार्यस्त्वयाऽधुना ।
विनाशकारणं युद्धमुभयोर्देवदैत्ययोः ॥२९॥
सुसाम्नाऽऽचरणं पौत्र! सर्वमंगलकारणम् ।
तारां भिक्षां देहि मह्यं भिक्षुकाय तु वेधसे ॥३०॥
देहि तारां महाभाग! चन्द्रं प्राणाधिकं तथा ।
स्वकीर्तिं रक्ष सुचिरं प्रार्थयामः पुनः पुनः ॥३१॥
शुक्रः संप्राह तच्छ्रुत्वा त्रिदेवान् प्रपितामहान् ।
तारा गर्भवती त्वास्ते चन्द्रयोगेन सा सती ॥३२॥
देया वा नाऽद्य देया वा प्रमाणं प्रपितामहाः ।
ब्रह्मा प्राह प्रदेयैव नाऽत्र कार्या विचारणा ॥३३॥
गर्भप्रसवमैश्वर्यात् कारयिष्याम एव तु ।
आनयाऽत्र निशानाथं तारां च गुर्विणीं सुत ॥३४॥
इत्युक्तः सत्वरं शुक्रस्तारां चन्द्रमसं तदा ।
समाहूय ददौ तेभ्यो महद्भ्यश्चातिलज्जया ॥३५॥
दत्वा तारां विधुं शुक्रः प्रणनाम विधेः पदे ।
ब्रह्मा ददर्श तारां तु प्रणतां स्वपदे सतीम् ॥३६॥
लज्जया नम्रवक्त्रां सुरुदतीं गुर्विणीं शुभाम् ।
चन्द्रं संप्रणतं धाता क्रोडे कृत्वाऽभयं ददौ ॥३७॥
उवाच गुर्विणीं तारां कातरां प्रपितामहः ।
सौभाग्ययुक्ता स्वपतौ भविष्यसि भयं त्यज ॥३८॥
दुर्बला बलिना ग्रस्ता निष्कामा न च्युता भवेत् ।
मनःखेदेन शुद्धा सा राजस्वल्येन वा पुनः ॥३९॥
ततः स्वकान्तयोगेन न स्त्री जारेण दुष्यति ।
सकामा कामतो जारं भजते स्वसुखाय या ॥४०॥
प्रायश्चित्तादपि शुद्धा न सा स्वामिविवर्जिता ।
त्वं तु सती सदा शुद्धा वह्निरिवाऽतिपावनी ॥४१॥
बृहस्पतेः कर्मयोगात् तद्भार्याऽऽहरणं ह्यभूत् ।
तवापि कर्मयोगाच्च तवात्र हरणं ह्यभूत् ॥४२॥
किन्तु तत्त्वं किमत्राऽस्ति जानन्त्येव न देवताः ।
विना त्रिदेवान् गुप्तं तद् रहस्यं पश्य मद्बलात् ॥४३॥
यदा चन्द्रोऽहरत् त्वां वै तदा स्प्रष्टुं शशाक न ।
पतिव्रता सतीं देवीं स्प्रष्टुं शक्नोति कोऽपि न ॥४४॥
किन्तु सूर्यप्रभा मूर्तिमती त्वागत्य तत्र वै ।
द्वितीयां निर्ममे ताराछायां ताराप्रतिकृतिम् ॥४५॥
सत्यां तारां तिरोधाय निन्ये सूर्यस्य मण्डले ।
साऽद्याऽवधि महादिव्या सती शुद्धा विराजते ॥४६॥
सा त्वं पश्य निजां मूलां प्रभाऽऽनीतां यथातथाम् ।
इमां छायां तथा पश्य सगर्भां चन्द्रसेविताम् ॥४७॥
इत्युक्त्वा विश्वसृक् द्वेधा दर्शयामास तारकाम् ।
मूलां तारां ददौ देवगुरवेऽन्यां ततस्तु ते ॥४८॥
प्राहुस्तारे! त्यज गर्भं पक्वं त्वस्मत्प्रभावतः ।
इत्युक्ता सा द्रुतं त्वन्तर्गृहे गत्वा सुषाव तम् ॥४९॥
जातमात्रो युवा स्वर्णवर्णोऽभूत् शशिना समः ।
जातकर्मादिकं तत्र कृतवांश्चन्द्रमाः स्वयम् ॥५०॥
ब्रह्माज्ञया तदा ताराछायाऽदृश्या बभूव ह ।
अदृश्यां तां सूर्यप्रभा जग्राह निजपुत्रिकाम् ॥५१॥
सा तु सूर्ये सदा कृष्णं भजमाना बभूव ह ।
प्रभादासी सदा दास्यं कृष्णस्यैव चकार सा ॥५२॥
पुरुषोत्तममासे तु प्रभया सह सा सती ।
ययौ श्रीमत्कृष्णनारायणस्य धाम चाक्षरम् ॥५३॥
दिव्या नित्यमहामुक्ता जाता कृष्णप्रिया सती ।
मूला तारा पतिं प्राप्य बभूव निर्भया पुनः ॥५४॥
ब्रह्मा तस्यै सतीधर्मानापत्कालकृतान् मुदा ।
पातिव्रत्यपरान् प्राह कृते युगे प्रवर्तितान् ॥५५॥
शृणु लक्ष्मि! प्रवक्ष्यामि यैस्तु नार्योऽप्यदूषिताः ।
स्वामिनस्त्वाज्ञया नारी पातिव्रत्यपरायणा ॥५६॥
अन्यमुक्ता न सा दूष्यत्यतः स्वामिवचो वृषः ।
पतिर्यस्मै क्षणिकं वा शाश्वतं दानमार्पयत् ॥१७॥
तेन भुक्ताऽपि सा नारी नैव दूष्यति वै क्वचित् ।
दाने ग्रहीतुः स्वत्वं यत् ततो नारी न दुष्यति ॥५८॥
निर्जनादावबला या भुक्ता प्रसह्य केनचित्॥
अकामा च पराधीना नैव दुष्यति वै क्वचित्। ॥५९॥
योगादिसिद्धपुरुषैर्भुक्ता प्रविश्य स्वामिनि ।
भुक्ता कृत्रिमरूपेण साऽपि नैव प्रदुष्यति ॥६०॥
निद्रां मूर्छां गता या तु विचित्ता मादकादने ।
अन्यभुक्ताऽपि सा तत्र नैव दुष्यति पद्मजे ॥६१॥
पत्युः पितुः सुतभ्रात्रोरायत्कालेऽतिदारुणे ।
तेषां प्राणाऽवनार्थं चेत् परभुक्ता न दुष्यति ॥६२॥
अपत्यार्थे गवामर्थे कुटुम्बार्थे पराऽऽदृता ।
अक्षतकन्यकार्थे च कुमार्यर्थे न दुष्यति ॥६३॥
आपत्काले प्राणहरे देशग्रामादिविप्लवे ।
अन्यभुक्ता पराधीना तदा नैव प्रदुष्यति ॥६४॥
गान्धर्वविधिना योगे परभुक्ता न दुष्यति ।
राजस्वल्यस्य विगमे पत्ययोगे ऋतोर्वृषे ॥६५॥
अन्ययोगगता नारी दुष्यत्येव न वै क्वचित् ।
स्वामिनः कार्यसिद्ध्यर्थं परभुक्ता न दुष्यति ॥६६॥
तपस्विनस्तपस्याया विघ्नार्थं त्वप्सरोगणः ।
स्वामीन्द्रप्रेषितश्चान्यभुक्ताऽप्सरो न दुष्यति ॥६७॥
दास्यः कृत्वा भूभृतस्तु सेवायां चार्पितास्तु याः ।
परभुक्ताश्च ताः क्वापि नैव दुष्यन्ति सेविकाः ॥६८॥
पण्यस्त्रीत्वं समापन्ना विपन्नाशार्थमेव या ।
परभुक्ता चाऽगतित्वे तावन्मात्रं न दुष्यति ॥६९॥
अपतिका नृत्यगीतिकुशला क्वापि मोहिता ।
गान्धर्वेण परायत्ता परभुक्ता न दुष्यति ॥७०॥
प्राणरक्षणकार्यार्थं परभुक्ता न दुष्यति ।
तेजस्वियोगमासाद्य शापादिभयकातरा ॥७१॥
दुःखस्य परिहारार्थं परभुक्ता न दुष्यति ।
कृष्णनारायणांशाद्यैर्भुक्ता सती न दुष्यति ॥७२॥
तुलस्या तु विष्णुयोगः पतिप्राशस्त्यबोधकः ।
अन्ययोगे तथा नारी पतिहन्त्री भवेच्च वा ॥७३॥
स्ववंशतन्तुसन्धातृपुत्रलाभार्थमेव तु ।
परभुक्ता सती नारी न कदापि प्रदुष्यति ॥७४॥
दिव्यदेवादिभिर्भुक्ता सती नैव प्रदुष्यति ।
अहल्यायास्त्विन्द्रयोगे शिलात्वं स्वामिरुट्फलम् ॥७५॥
स्वप्ने त्वन्येन या भुक्ता सा सती नैव दुष्यति ।
भूतप्रेतादिभिर्भुक्ता वाय्वंशैर्नहि दुष्यति ॥७६॥
पितृभ्यां संप्रदत्ता या यस्मै तेन न दुष्यति ।
अनाथा युवती प्राप्ता पत्नीकृता न दुष्यति ॥७७॥
पातिव्रत्यं परो धर्मो दूषणं स्वेच्छया परे ।
पतीच्छया परार्थत्वं भूषणं पतिधर्मतः ॥७८॥
प्रसह्यत्वे बलिष्ठस्य दूषणं न तु तत् स्त्रियाः ।
नोदनालक्षणो धर्मश्चानर्थो न भवेद् यदि ॥७९॥
अनर्थे तु फलं दुःखं सोढव्यं भवति ध्रुवम् ।
इत्येवं सर्वदाऽस्माभिर्देवैर्धर्मो विनिश्चितः ॥८०॥
तस्मात् तारा सदा शुद्धा पुनर्भूवत् पतिव्रता ।
चन्द्रश्चापि फलं भुंजन् देवता स्थास्यति ध्रुवः ॥८१॥
राजस्वल्ये मासिके वै नार्यशुद्धिर्विनश्यति ।
पवित्रा पावनी स्नात्वा साध्वी पृथ्वीसमा सती ॥८२॥
क्षेत्रं प्रोक्तं बीजकोशो बीजाधानाय निर्मितः ।
पाकं दत्वा शैत्यकाले ग्रीष्मे तापात् प्रताप्यते ॥८३॥
वर्षायां जलदानेन शुद्धः कणान् ददाति सः ।
क्षेत्रं नारी बीजपात्रं बीजाधानाय निर्मितम् ॥८४॥
पाकोत्तरं सदा शीतं राजस्वल्ये प्रतप्यते ।
निषेकवर्षादानेन शुद्धं बालान् ददाति तत् ॥८५॥
तस्मात् क्षेत्रं प्रतिवर्षं शुद्धमेव भवेद्यथा ।
तद्वन्नार्यात्मकं क्षेत्रं प्रतिमासं प्रशुद्ध्यति ॥८६॥
इति तस्यै पातिव्रत्यं दत्वा सर्वे सुरादयः ।
साध्वीं तारां तु गुरवे दत्वाऽभयं च सर्वथा ॥८७॥
देवा ययुः स्वभवनं स्वगृहं च बृहस्पतिः ।
पातिव्रत्यं परं धर्मं पालयामास सा सती ॥८८॥
पत्नीव्रतं वृषं चापि पालयामास गीर्पतिः ।
अथ तारासुतो बुधश्चन्द्रजन्मा ग्रहोऽभवत् ॥८९॥
स एव नन्दनवने चित्रां प्राप्य सतीं प्रियाम् ।
घृताचीगर्भसंभूतां कुबेरस्य तु रेतसा ॥९०॥
तां गान्धर्वविवाहेन जग्राह चन्द्रमस्सुतः ।
तत्पुत्रस्त्वभवच्चैत्रः सप्तद्वीपक्षितीश्वरः ॥९१॥
तस्य पुत्रोऽधिरथाख्यस्तस्य सुरथनामकः ।
पुत्रस्तपस्यया जातो मन्वन्तरः स चाऽष्टमः ॥९२॥
सावर्णिरितिनाम्ना वै वैष्णवः परमो हि सः ।
पठनाच्छ्रवणाच्चास्य पातिव्रत्यफलं भवेत् ॥९३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेताराया बृहस्पतयेऽर्पणं, बुधजन्म, आपत्समाः स्त्रीधर्माःशुद्धिश्च, पातिव्रत्येऽदूषणानि चेत्यादिनिरूपणनामा षट्चत्वारिंशदधिकचतुश्शततमोऽध्यायः ॥४४६॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP