संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४७५

कृतयुगसन्तानः - अध्यायः ४७५

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि दुर्वाससोऽतिकष्टदम् ।
कदल्याश्चरितं पश्चाज्ज्ञानेन मोक्षदं परम् ॥१॥
पत्नीव्रतं तु मुनिना वाग्दानाऽवसरे धृतम् ।
क्षमामयं तथा सम्यग् वैराग्यदं तपःकरम् ॥२॥
बलेः पुत्रः साहसिको वने तिलोत्तमायुतः ।
रतिं चकार विजने दिवा कामेन मोहितः ॥३॥
यत्र दुर्वाससो देहे वल्मीकस्तपतोऽभवत् ।
दुर्वासास्त्वान्तरदृष्ट्या ज्ञातवाँस्तं बलेः सुतम् ॥४॥
अमर्यादं शशापाऽपि धेनुको भव दानवः ।
खरवद् वर्तसे यस्मात् सन्निधौ मम चाश्रमे ॥५॥
खरो भव वने चेयं तिलोत्तमाऽपि बाणजा ।
उषाऽनिरुद्धपत्नी च भवत्विति शशाप वै ॥६॥
उषा शशाप तं दुर्वाससं त्वं पीडितः स्त्रिया ।
भवाऽतिदुःखितः काममोहितश्चेति वै तदा ॥७॥
तेन दोषेण दुर्वासाः कामवानभवत् क्वचित् ।
तदा तत्रागमदौर्वनामर्षिः स्वसुतायुतः ॥८॥
ऊरूद्भवो ब्रह्मणस्तु पुरा कल्पे तपस्यतः ।
ऊर्ध्वरेता हि योगीन्द्र और्वस्तेनेति स स्मृतः ॥९॥
तस्य जानूद्भवा कन्या कदलीनाम विश्रुता ।
दुर्वाससं प्रार्थयन्ती नान्यं मनसि रोचते ॥१०॥
सुतायुक्तो मुनिरौर्वो दुर्वाससं ननाम ह ।
दुर्वासाश्च प्रणनाम समुत्तस्थौ मुदान्वितः ॥११॥
और्वो दुर्वाससं प्रोचे कन्यकाया मनोरथम् ।
कदली मम कन्येयं ध्यायन्ती त्वां स्मरत्यपि ॥१२॥
सर्वरूपगुणाधारा दोषेणैकेन संयुता ।
अतीव कलहाविष्टा कोपेन गालिकाब्रुवा ॥१३॥
नानागुणयुतं वस्तु न त्यजेदेकदोषतः ।
और्वस्य वचनं श्रुत्वा दृष्ट्वा कन्यां सुसुन्दरीम् ॥१४॥
नवयौवनसम्पन्नां मुनिर्मुमोह कामतः ।
उवाचौर्वं सुखयता हृदयेन विदूयता ॥१५॥
नारी नरस्य संसारे मुक्तिमार्गनिरोधिका ।
व्यवधानं तपस्याया मोहपाशनिबन्धिनी ॥१६॥
कारागाराख्यसंसारे दुर्वहं निगडं तु सा ।
अतो मे ध्यायतः कृष्णपादाब्जं विघ्न आगतः ॥१७॥
एनं मोहं फलं तिलोत्तमाशापस्य वेद्म्यहम् ।
और्व मे रोचते नैव संसारो यद्यपि क्षयः ॥१८॥
तवाऽऽज्ञां मस्तके कृत्वा ग्रहीष्यामि सुतां तव ।
उपेतां कामिनीं त्यक्त्वा भयं स्यान्नाशकारकम् ॥१९॥
रहस्युपस्थितां कामाद् गृह्णीयान्नाशसंकरे ।
किन्त्वतिनिन्दितः स स्यात् स्त्रीजितश्चेत् सदा भवेत् ॥२०॥
और्व त्वं तु स्वयं चात्र कन्यया सह चागतः ।
दातुं मह्यं हि ते कन्यां ततोऽस्मि धर्मसंकटे ॥२१॥
विनाशाऽपेक्षया ग्राह्यो धर्म एव सनातनः ।
ग्रहीष्यामि तव कन्यां सहिष्ये शतगालिकाः ॥२२॥
अतिरेके कटुवाक्ये दास्यामि तत्क्षणे फलम् ।
शतगालीसहिष्णुत्वं पत्नीव्रतं मम ध्रुवम् ॥२३॥
अस्याः पतिव्रतं नित्यं शतगालीप्रदानकम् ।
यादृशो वरराजोऽस्ति तादृशी च वधूः कृता ॥२४॥
अहो भाग्यस्य वैचित्र्यं भोगिने सर्पिणी धृता ।
यद्यहं शतपूर्वं स्यामधैर्यः सा प्रदण्डयेत् ॥२५॥
भाषाबन्धं प्रकृत्वैवमौर्वो ददौ सुतां निजाम् ।
स्वस्तीत्युवाच दुर्वासा विवाहं विधिनाऽकरोत् ॥२६॥
और्वस्तां सुखकृद्वाक्यैर्बोधयामास कन्यकाम् ।
शृणु पुत्रि प्रवक्ष्यामि नीतिसारं सुखावहम् ॥२७॥
हितं सत्यं च गार्हस्थ्यपारकृद्वचनं मम ।
स्वकान्तस्तु परो बन्धुरिह लोके परत्र च ॥२८॥
नहि कान्तात् परः प्रेयान् कुलस्त्रीणां परो गुरुः ।
देवपूजा व्रतं दानं तपश्चानशनं जपः ॥२९॥
तीर्थस्नानं यज्ञदीक्षा पृथ्वीप्रदक्षिणादयः ।
त एते पतिसेवायाः कलां नार्हन्ति षोडशीम् ॥३०॥
किमेतैः पतिभक्तायाः सर्वपुण्यप्रशेवधेः ।
दुःखी जनः सुखार्थं वै साकांक्षः प्रथमो भवेत् ॥३१॥
पतिसेवा सुखार्थेति तत्र दत्तमतिर्भव ।
पतिसेवा परो धर्मः स्वर्गमोक्षप्रदोऽस्ति ते ॥३२॥
स्वप्रज्ञानेन सततं कान्तं नारायणाऽधिकम् ।
दृष्ट्वा तश्चरणाम्भोजसेवां नित्यं करिष्यसि ॥३३॥
परिहासेन कोपेन भ्रमेणाऽवज्ञया मुनेः ।
कटूक्तिं स्वामिनः साक्षात्परोक्षान्न करिष्यसि ॥३४॥
स्त्रिया वाग्योनिदुष्टाया यमदण्डो भवेद् ध्रुवम् ।
सर्वधर्मपरीतां या कटूक्तिं कुरुते पतिम् ॥३५॥
नैकजन्मकृतं पुण्यं तस्या नश्यति निश्चितम् ।
गाली दानं न कर्तव्यं क्वापि कुत्रापि केनचित् ॥३६॥
त्वया पुत्रि वधूर्भूत्वा मुनेर्नैव विशेषतः ।
गालीदानं मनसाऽपि स्मर्तव्यं न पतिव्रते ॥३७॥
तदा सौख्यं च ते नित्यं सौभाग्यं संभविष्यति ।
अन्यथा तत्र विघ्नोऽस्ति वत्से निबोध मद्वचः ॥३८॥
प्राप्तो मणिर्न हातव्यो निर्मूल्यः कंकरो यथा ।
लब्धः पतिर्न धिक्कार्यो यथा चौरः शठोऽहितः ॥३९॥
स्वामी नैवाऽवमन्तव्यो यथा श्वा मर्कटो यथा ।
त्वङ्कार्यो न त्वया कान्तः किंकरोऽनिष्टकृद् यथा ॥४०॥
भर्ता नाऽवगणनीयो यथा कृत्तिमयो मृगः ।
त्राता वशे न कर्तव्यो यथा डित्थमयः करी ॥४१॥
वंशदाता न वंशेन ताडनीयः कदाचन ।
भोजनस्याऽर्पके पत्यौ नभोजनवदाचरेत् ॥४२॥
निन्दायितं नाचरेद्वै प्रिये त्वानन्ददायिनि ।
सेवनीये गुरौ नैव वनीयतां समाचरेत् ॥४३॥
सदाऽपारप्रदे पत्यौ पारदत्वं न वै चरेत् ।
पुरुषार्थप्रतिमायां रुषार्थं न चरेत् सती ॥४४॥
कामनायां प्रवृत्तायां न किंमनायते प्रिया ।
पत्युः शेषतया शिष्टा वर्तेत न शिरस्तथा ॥४५॥
पत्यौ प्राणाँश्चार्पयित्वा तिष्ठेत प्राणहा न तु ।
रतिं दद्याद् यथातृप्तिं कष्टदां विरतिं न वै ॥४६॥
सर्वं दद्यात् स्वामिने वै गालीदानं न वै क्वचित् ।
आत्मार्पणं प्रकुर्याद्वै कष्टार्पणं विना सती ॥४७॥
इति कन्यां बोधयित्वा जगामौर्वः स्वकाश्रमम् ।
दुर्वासाश्चेतनारामः त्वाश्रमं स्त्रीयुतो ययौ ॥४८॥
अहो सुकृतिनां कामो वाञ्च्छामात्रेण सिद्ध्यति ।
कदली तं नवं कान्तं सिषेवे स च तां सतीम् ॥४९॥
तपो ध्यानं परित्यज्य गृहाऽऽसक्तोऽभवन्मुनिः ।
करोति कलहं नित्यं प्रातरुत्थाय कन्दली ॥५०॥
गालीवाक्यं विना नैव प्रबोधयति तं पतिम् ।
तस्यां पितुः कृता शिक्षा ऊषरे बीजवद् वृथा ॥५१॥
खाने पाने भोजनेऽर्थे विहारे संगमेऽर्चने ।
कटूक्तिं प्रायशो ब्रूते सेहे तां क्रोधनो मुनिः ॥५२॥
पत्नीव्रतं प्रतिज्ञातं शतगालीसहिष्णुता ।
दुर्वासा बोधयामास नीतिवाक्यैस्तु कामिनीम् ॥५३॥
सा तन्न बुबुधे किञ्चित् करोति कलहे स्पृहाम् ।
तातप्रदत्तज्ञानं तु नान्तःस्थानं चकार वै ॥५४॥
उग्रा पूर्वाद् विशेषा सा पतिपुत्रवती यतः ।
न हीयते प्रबोधेन स्वभावो दुरतिक्रमः ॥५५॥
नित्यं कटूक्तिं कान्तं सा करोति हेतुना विना ।
तत्रापि भोजने देवपूजने तु विशेषतः ॥५६॥
जगत् प्रकम्पितं येन स कम्पितस्तया रुषा ।
पुत्राः पुत्र्योऽभवँस्तस्यां विंशतिर्विंशतिस्ततः ॥५७॥
कटूक्तिर्वर्धिता नार्या शताधिकगुणा सदा ।
अथ स्थानं परित्यज्य लोकलज्जाविगर्हितः ॥५८॥
ययौ स्थानान्तरं नीत्वा बालाँस्त्यक्त्वा तु तां प्रियाम् ।
एको बालो धृतो मूर्ध्नि द्वौ धृतौ स्कन्धयोः पुनः ॥५९॥
कट्यां धृतौ द्वावृषिणा पार्श्वयोर्यान्ति चापरे ।
अन्ये त्वग्रे पृष्ठतश्च प्रयान्ति वानरा यथा ॥६०॥
सर्वे मातृस्वभावास्ते पित्रंशास्तामसास्तथा ।
मार्गे कीशकुलायन्ते नाटयन्ति नटा यथा ॥६१॥
विगृह्णन्ति विना तत्त्वं क्रोशन्ति च मृषा मुधा ।
दुर्वाससः शिरोदेशेऽपत्यं मूत्रं चकार वै ॥६२॥
स्कन्धयोश्च मलं चक्रे कट्यां ष्ठीवनमाचरत् ।
विना जलं न वै शुद्धिस्तत एवं ययौ पुरः ॥६३॥
तत्राऽऽययौ च देवर्षिर्नारदः शंकरस्तथा ।
ब्रह्मा विष्णुः सनकाद्याः सप्तर्षयः कुतूहलात् ॥६४॥
रूपान्तरैश्च ते प्राहुः किमेवं वहसे मलम् ।
दुर्वासाः प्राह गार्हस्थ्यसुखमत्राऽनुभूयते ॥६१॥
जीवन्वै नरके मग्नो यमकुण्डो गृहाश्रमः ।
अहो कष्टं मलिनत्वं नरक चन्दनायते ॥६६॥
मूत्रं जयति तैलस्य स्थाने जटासु मेऽद्य वै ।
अहो मोहस्य केदारो विषं यत्राऽमृतायते ॥६७॥
दुखं सुखायतेऽज्ञानादज्ञानं कन्दलीकृतम् ।
कं सुखं दलितं यस्मान्मम सा कन्दली प्रिया ॥६८॥
त्यजामि वा रक्षयामि किं करोमि तया विना ।
एवं निःश्वस्य दुर्वासाः सार्थमध्ये स्थितः क्षणम् ॥६९॥
हसितो बोधितश्चापि नारदाद्यैर्महर्षिभिः ।
गृहस्थानां भवेत् क्लेशः संसारः क्लेशसंभृतः ॥७०॥
गच्छ गृहं पुनर्विप्र मैवं त्यज गृहं स्वकम् ।
इति सम्बोधितो यावत् तावत् सा कन्दली सती ॥७१॥
रुदती पृष्ठतः समाजगामाऽऽनयनाय तम् ।
पादयोः पतिता प्राह गालीं दास्येन न वै क्वचित् ॥७२॥
करोत्वनुग्रहं क्रोधिन्! शठापते स्थवीरक! ।
इतिवाक्यानि मिष्टानि कन्दल्याः सम्मतानि वै ॥७३॥
जगाद कन्दली नम्रा दीना च कातरा मुहुः ।
दयां कृत्वा च दुर्वासा धृतो वस्त्रे च योषिता ॥७४॥
ययौ गृहं शरीरेणाऽपत्यकर्दमलेपिना ।
सस्नौ शुद्धिं चकारापि जजाप ब्रह्म चान्तरे ॥७५॥
एवं रोषो लयं यातः कर्मवश्यस्य रोषिणः ।
पुत्रवती कटूक्तिं सा शतोत्तरां जगाद ह ॥७६॥
ज्ञानिनां प्रवरो विप्रः क्षमासंस्थां चकार ह ।
नित्यं शतोत्तरां वक्ति .बोधं चक्रे दयानिधिः ॥७७॥
मौनं तथापि सा धत्ते नैव वेगाद् दिने दिने ।
एवं गालीप्रदानैश्च प्रदग्धं मानसं मुनेः ॥७८॥
तस्याः कटूक्तिवाचिन्या आयुः पूर्णं बभूव ह ।
स्वात्मारामोऽपि मुनिराट् कोपावेशातिवेगितः ॥७९॥
शशाप कामिनीं रोषाद् भस्मराशिर्भवेति वै ।
मुनेरिङ्गितमात्रेण भस्मसात् सा बभूव ह ॥८०॥
एवमत्युच्छ्रितानां वै मत्तानां श्रेय एव न ।
अपत्यानि मुनेस्तस्य चक्रुशुर्मातृनाशनात् ॥८१॥
अथ तस्या आत्मतत्त्वं जीवोऽन्तरीक्षगोऽवदत् ।
हे नाथ सर्वदर्शी त्वं ज्ञानवान् योगिनां वरः ॥८२॥
सर्वं जानासि सर्वज्ञ किमहं बोधयामि ते ।
सदुक्तिर्वा कटूक्तिर्वा कोपः सन्ताप एव वा ॥८३॥
लोभो मोहश्च कामश्च क्षुत्पिपासादिकं च यत्॥
स्थौल्यं कार्श्यं विनाशश्च शान्तघोरसुमूढताः ॥८४॥
सर्वे शरीरधर्मास्ते शब्दो गाली च भौतिकाः ।
सत्त्वं रजस्तमश्चैव शरीरं त्रिगुणात्मकम् ॥८५॥
न्यूनाधिकं भवेत् तच्च संसारस्तेन जायते ।
रोदनं हसनं क्लेशश्चोद्वेगो भयमित्यपि ॥८६॥
क्रोधः शान्तिश्च शापश्च शारीरा नात्मनः प्रिय ।
सत्त्वोदयात्तु मोक्षेच्छा कर्मेच्छा तु रजोगुणात् ॥८७॥
तमोगुणात् कलहेच्छा द्वयोर्नौ सदृशं तमः ।
तमः कोपस्य जनको यथा त्वयि तथा मयि ॥८८॥
कोपात् कटूक्तिर्गाली च कटूक्त्या शत्रुता भवेत् ।
तया त्वप्रियता सद्यः शत्रुः कः कस्य कः सखा ॥८९॥
को वा प्रियोऽप्रियः कः किं किं मित्रं को रिपुर्भवेत् ।
रागद्वेषौ प्रधानौ वै सर्वत्र शत्रुमित्रयोः ॥९०॥
प्राणाऽधिकः प्रियः स्त्रीणां भर्तुः प्राणाधिका प्रिया ।
बभूव शत्रुता सद्यो दुरुक्त्या च क्षणाद् रुषा ॥९१॥
यद्गतं तद्गतं सर्वं भौतिकं भूतदोषतः ।
शोचनीयं गतं नैव जातं यत्तच्च नान्यथा ॥९२॥
अहं दग्धा तव पत्नी तेऽपि दग्धं तपोधनम् ।
दग्धयोर्देहयोश्चाथ गुणयोर्नागमः पुनः ॥९३॥
गते तद्वै गतं सर्वं नष्टं तन्नष्टमेव हि ।
अथाऽधुना प्रकर्तव्यं यथा श्रेयो भवेत्तु नौ ॥९४॥
क्षमापराधं निखिलं किं कर्तव्यं वदाऽधुना ।
किं करोमि क्व यामीति भविता कुत्र जन्म मे ॥९५॥
तव जाया सदा चास्मि नान्यस्य कुत्रचित् क्वचित्॥
न भूता न भविष्यामि प्राप्स्यामि त्वां पुनः पुनः ॥९६॥
इति श्रुत्वा वचस्तस्याः शोकेन हृतचेतनः ।
क्षणोत्तरं च स्वस्थः स प्राणाँस्त्यक्तुं समुद्यतः ॥९७॥
स्त्रीविच्छेदो विदग्धानां यतः शोकं करोति हि ।
ततो योगासनं कृत्वा मुमुर्षुर्न ह्युवाच ताम् ॥९८॥
सा त्वम्बरे मुनिं दृष्ट्वा मुमुर्षुं शोकविह्वला ।
सस्मार श्रीकृष्णनारायणं दुर्गमरक्षकम् ॥९९॥
तावत् तत्राऽऽययौ बालो विप्रो भूत्वा जनार्दनः ।
सस्मितः श्यामवर्णश्च दुर्वाससं जगाद च ॥१००॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दुर्वाससः और्वकन्यया कदल्या सह शतगालीसहनपूर्वकप्रतिज्ञया विवाहस्ततः पातिव्रत्यात्मकतद्धर्मनिरूपणं, विंशतिपुत्रपुत्रीमत्वं, क्रोधेनातिक्रामन्त्याः कदल्याः ऋषिशापेन भस्मता, कदल्याः स्तुतिः, जनार्दनागमश्चेत्यादिनिरूपणनामा पञ्चसप्तत्यधिकचतुश्शततमोऽध्यायः ॥४७५॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP