संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३३९

कृतयुगसन्तानः - अध्यायः ३३९

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
तुलसीविवाहं पूर्णं श्रोतुमिच्छामि केशव! ।
कन्यापक्षं वरपक्षं विवाहोत्सवमित्यपि ॥१॥
कन्यायाः पितरौ चापि वरस्य पितरौ तथा ।
क्व कथं सोद्वाहिता च कोऽभवत् तत्पुरोहितः ॥२॥
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि स्मरणाच्छ्रवणात्तथा ।
पापनाशकरं मोक्षकरं वृत्तं वदामि ते ॥३॥
वृन्दावनं चातिरम्यं यमुनातटशोभितम् ।
तुलसीविष्णुवैवाह्यविधिस्थानं सुशोभनम् ॥४॥
गोवर्धनात्समारभ्य पश्चिमकोसलावधिम् ।
कुरुक्षेत्रात्तथाऽऽरभ्य खाण्डकारण्यकावधिम् ॥५॥
महाक्षेत्रं विवाहस्य स्थलं चाभूत् तदा कृतम् ।
विष्णुः सस्मार भूस्थल्याः शुद्ध्यर्थं देवकर्षुकान् ॥६॥
द्रागेव ते समायाताः संस्कृता भूस्थली तु तैः ।
विष्णुः सस्मार च विश्वकर्माणं स समाययौ ॥७॥
चकार मण्डपं मुख्यं वृन्दावनेऽष्टयोजनम् ।
चकार मण्डपाँश्चान्यान् शतयोजनविस्तरान् ॥ ८॥
अथ वृषध्वजो राजा शिवभक्तोऽभवद् यतः ।
तद्वंशजो धर्मध्वजस्तुलसी तस्य कन्यका ॥९॥
तस्मात् तुलस्याः पितरौ भवतं पार्वतीहरौ ।
इत्याज्ञप्तौ विष्णुना तौ तद्वैवाहिककर्मणि ॥१०॥
कन्यादानविधानार्थं पितरौ तु सतीहरौ ।
सर्वमान्यावभवतां तुलसी हर्षिताऽभवत् ॥११॥
अथ विष्णोर्वरस्यात्र जिज्ञासितौ तु पितृकौ ।
राधाकृष्णौ तु पितरौ गोलोकस्थौ सुसम्मतौ ॥१२॥
विष्णुना स्मारितौ तत्राऽऽययतुः सहमण्डलौ ।
वैकुण्ठाधिपतिर्नारायणो विष्णुर्वरोऽत्र वै ॥१२॥
विष्णुना संस्मृतः कन्याकुटुम्बस्य पुरोहितः ।
देवपुरोहितो वृहस्पतिर्गुरुरुपस्थितः ॥१४॥
विष्णुना च स्मृतः पुरोहितो वरकुटुम्बगः ।
धौम्यः कृष्णपुरोहितो गर्गेण सह चाययौ ॥१५॥
मंगलान्यभवन् लोकाचारश्चापि बभूव ह ।
लग्नपत्री कुंकुमाप्ता लिखिता प्रेषिताऽपि च ॥१६॥
विवाहमण्डपस्तत्र चतुर्योजनविस्तृतः ।
तुलसीनां वने यमीतीरे त्वष्ट्रा कृतो नवः ॥१७॥
यज्ञकुण्डस्तथा वेदी कलशस्थापनादिकम् ।
गणेशपूजनं मातृकादिस्थापनपूजनम् ॥१८॥
ग्रहाणां पूजनं माणिकाख्यस्तंभप्ररोपणम् ।
लोकाचारश्च कन्याया हरिद्राद्रवलेपनम् ॥१९॥
सदाशिवेन विधिवत् कारितं सर्वमेव तत् ।
स्वस्वसम्बन्धिपक्षाँश्चाऽऽजुहुवुश्च समन्ततः ॥२०॥
वरपक्षशिबीरं तु खाण्डवस्य वने कृतम्।
कन्यापक्षशिबीरं तु तुलसीवनके कृतम् ॥२१॥
वृन्दावने महामुख्ये मण्डपे महीमानकाः ।
न्युषुश्च कन्यकापक्षा वरपक्षास्तु खाण्डवे ॥२२॥
राधाकृष्णेन च तत्र स्मृतः पत्नीव्रतः सुरः ।
समायातः स विप्रोऽत्र वेदविद्यादिपारगः ॥२३॥
कुंकुमपत्रिकास्तेन लिखिताः प्रेषितास्तथा ।
जीवसृष्टावीशसृष्टौ ब्रह्मसृष्टावथापि च ॥२४॥
प्रेषितास्तत्तत्प्रविज्ञैर्लग्नसमयसूचिकाः ।
द्वादश्यां मण्डपस्त्रयोदश्यां लोकाऽनुमंगलम् ॥२५॥
चतुर्दश्यां महीमानाः पूर्णिमायां विवाहनम् ।
कार्तिकशुक्लद्वादश्यां मण्डपारोपणादिकम् ॥२६॥
कृतस्तथा लोकाचारस्त्रयोदश्यां सुमंगलम् ।
चतुर्दश्यां महीमानाः सर्वशस्तु समाययुः ॥२७॥
कृष्णगृहेऽक्षरधाम्नो मुक्तानीमुक्तसेवितः ।
कृष्णनारायणोऽगच्छद् भगवान्पुरुषोत्तमः ॥२८॥
गोलोकाद् गोपगोपीनां गणाश्च कृष्णयोषिताम् ।
कृष्णस्य पाषर्दाश्चाप्याययुस्ते कृष्णखाण्डवम् ॥२९॥
वैकुण्ठाच्च सपत्नीको नारायणः समाययौ ।
पार्षदाः पार्षदान्यश्च समाययुः समन्ततः ॥३०॥
वासुदेवादयो व्यूहाः सपत्नीकाः सपार्षदाः ।
समाययुस्तदा सर्वे तुलसीविष्णुलग्नके ॥३१॥
अव्याकृतात्तथाधाम्नो भूमपूरुषमण्डलम् ।
समाययौ च वैराजो महाविष्णुः समण्डलः ॥३२॥
संकर्षणास्तथा सर्वे तत्त्वानि प्रकृतिस्तथा ।
प्रधानानि प्राययुश्च तुलसीविष्णुलग्नके ॥३३॥
अवताराश्च तत्पत्न्यो माणिकीपार्वतीप्रभाः ।
जयारमाललिताद्या ईश्वराण्यः समाययुः ॥३४॥
श्रीरामश्चापि सीताद्याः सर्वे तत्र समाययुः ।
मुनयः ऋषयो देवाः पितरश्च समाययुः ॥३५॥
ब्रह्मपत्न्यश्च सावित्रीगायत्र्याद्याश्च विश्वसृट् ।
ब्रह्मणो मानसाः पुत्राः सप्तर्षयः समाययुः ॥३६॥
दिक्पाला मनवो धर्मवंशोऽर्थमादयो गणाः ।
श्रावणा वत्सरा याम्याः प्रेता वह्नय आययुः ॥३७॥
इन्द्रश्चन्द्रस्तथा सूर्यो मंगलो बुध इत्यपि ।
ग्रहास्तारा नक्षत्राणि चाययुस्तुलसीमहे ॥३८॥
सिद्धयो वसवो रुद्रा मरुतो निधयस्तथा ।
कृत्तिका मातरश्चान्या सुराः काष्ठाः कलाश्च वै ॥३९॥
तिथयश्च त्रयस्त्रिंशद्विधा देवाः समाययुः ।
यक्षाश्च भूतवर्गाश्च शांकराश्च गणास्तथा ॥४०॥
योगिनीमण्डलान्यत्र चण्डीप्रभृतिदेविकाः ।
भैरवाश्च पिशाचाश्च वीराभद्रा ज्वरादयः ॥४१॥
तामसी सृष्टिरितरा शिवपक्षाः समाययुः ।
पत्नीव्रतादिविप्राद्याः पतिव्रतादियोषितः ॥४२॥
वर्णाश्रमास्तथाऽऽययुर्जलस्था व्योमगास्तथा ।
गृहादिदेवता नद्यः पर्वताश्च वनानि च ॥४३॥
खाताः समुद्रा ग्रामाश्च द्वीपा द्रुमाः समाययुः ।
वल्ल्यः स्तम्बास्तृणान्यत्र पशवः पक्षिणस्तथा ४४॥
जन्तवश्चापि सस्यानि नागाः सर्पाः समाययुः ।
बदरीस्थाः श्वेतसंस्थाः क्षीरस्थाश्च समाययुः ॥४५॥
सृष्टेः सर्वा योषितश्च तत्र नराश्च भावुकाः ।
शिवविष्णुसमाहूता आययुस्तुलसीमहे ॥४६॥
छत्रचामरसंयुक्ता राजाधिराजकीर्तयः ।
विमानावरमारूढा हंसगरुडहस्तिगाः ॥ ४७॥
चम्पकाभा निर्निमेषाः स्वर्णमुकुटकुण्डकुण्डलाः ।
दासदासीसमायुक्ता आययुस्तुलसीमहे ॥ ४८॥
खाद्यानां च प्रभोज्यानां लेह्यानां चोष्यवस्तुनः!
पेयानां दुग्धसाराणाममृतानां च वार्धयः ॥ ४९॥
मिष्टान्नानां व्यंजनानां शाकानां सूपवस्तुनः ।
तण्डुलानां शर्कराणां कन्दानां फलवस्तुनः ॥ ।५०॥
पर्वतास्तु कृता यत्र नवनीतघृतस्य च ।
सरांसि संभृतान्येव शीतपेयसरिद्वराः ॥५१॥
घृतकुल्या दधिकुल्या रसकुल्या मधोर्नदाः ।
माधव्याश्चापि नद्यश्च वारुण्याश्च सरांसि च ॥५२॥
लवणं तिक्तमामिष्टं मधुरं चाम्ब्लमित्यपि ।
यथा यादृग् यथेष्टं च समुद्र इव चार्जितम् ॥५३॥
पर्यंकशय्याः पुष्पाणां दासा दास्यश्च कोटयः ।
नृत्यं च .नर्तकाश्चापि सूतमागधबन्दिनः ॥५४॥
भाटचारणपण्डितगणकाऽसंख्यभिक्षुकाः ।
साध्व्यः सत्यः सांख्ययोगित्यागिसन्यासियोषितः ॥५५॥
अप्सरसो गणिकाश्च पर्यश्च तुलसीमहे ।
तीर्थानि देवगन्धर्वा नटाश्च गीतिकास्वराः ॥५६॥
वेदाश्च सर्वविद्याश्च प्राययुस्तुलसीमहे ।
शीतोष्णजलपानानि शीतोष्णभोजनानि च ॥५७॥
शीतोष्णेन्द्रियभोग्यानि सन्त्यनन्तानि तन्महे ।
समिधः सर्वजातीयास्तिलाद्याश्च कणास्तथा ॥५८॥
होमोपकरणार्थाश्च यात्राऽसंख्या भवन्ति च ।
चातुर्होत्रा द्विजास्तत्र कोटिशश्च समाययुः ॥५९॥
स्वस्वपक्षे कृतावासा महीमानाः समन्ततः ।
कृतस्वागतभोज्याद्यास्तुतुषुश्च विरेजिरे ॥६०॥
पूर्णिमायां कृतस्नानपूजनाद्याः सुरादयः ।
शिवाज्ञया हवनानि यज्ञकार्याणि चक्रिरे ॥६१॥
अग्निमुखाश्च ये ते वै तृप्यन्त्यतितरां तदा ।
वाद्यानां तुमुला नादा भवन्त्यतितरां तदा ॥६२॥
नारीणां गीतिका रागा भवन्त्यतितरां तदा ।
नाटकानां रंजनानां भवन्त्यतितरां क्रियाः ॥६३॥
ब्राह्मणानां वेदघोषा भवन्त्यतितरां तदा ।
अप्सरसां नर्तनानि भवन्त्यतितरां तदा ॥६४॥
गणिकानां गायनानि भवन्त्यतितरां तदा ।
ऐन्द्रजालिदर्शनानि भवन्त्यतितरां तदा ॥६५॥
मायारचितदृश्यानि दृश्यन्तेऽतितरां तदा ।
संगीतवरकाव्यानि भवन्त्यतितरां तदा ॥६६॥
प्रेमोद्वाहप्रवाहाश्च जायन्तेऽतितरां तदा ।
आचार्याणां तत्त्ववादा वर्तन्तेऽतितरां तदा ॥६७॥
कलाकारकलायत्ना लोक्यन्तेऽतितरां तदा ।
सर्वरसाः सर्वगन्धाः सर्वरूपाणि वै तदा ॥६८॥
सर्वशब्दाः सर्वस्पर्शाः प्राप्यन्तेऽतितरां तदा ।
किं न्यूनं भगवान् यत्र विवाहयति तूलसीम् ॥६९॥
प्रातस्तत्र समायाता खाण्डवाद् वरवाहिनी ।
वरौ विष्णुश्चतुर्हस्त ऊनषोडशहायनः ॥७०॥
शंखचक्रगदापद्मवनमालाविराजितः ।
कौस्तुभकुण्डलापीडमुकुटकटकान्वितः ॥७१॥
नवीनपद्महारालिसमावृताननस्तदा ।
दिव्यश्वेताश्वमारुढः खड्गहस्तः समुज्ज्वलः ॥७२॥
सुवर्णतारचंचत्सद्वस्त्रविभूतिशोभितः ।
रत्नहीरकमौक्तिकमणिस्वर्णादिभूषणः ॥७३॥
पीताम्बरधरो नाथः सोपानत्पत्कजान्वितः ।
पिशंगपिष्टपिशंगः केसरवर्णराजितः ॥७४॥
केयूरमालिकाऽऽपीडहारशेखरशोभितः ।
कुंकुमाऽक्षतचन्द्रकभालतिलकराजितः ॥७५॥
श्रीभूतिह्रीप्रभाकान्तिसिद्धिलक्ष्मीविराजितः ॥
समयायौ स वाहिन्या दशयोजनदीर्घया ॥७६॥
छत्रचामरयष्टिधृक्दासदासीप्रसेवितैः ।
राजाधिराजराजेशैः परमेशैः प्रयुक्तया ॥७७॥
लोकाचारविधानार्थं सदाशिवोऽभिस्थितः ।
सकोटीश्वरसम्राड्भिर्भोज्यपानेऽभिगृह्य च ॥७८॥
सजलश्रीफलपत्रयुक्तकलशमस्तकाः ।
सौभाग्यवत्यो दैव्यश्च कन्याश्चाभिययुर्वरम् ॥७९॥
स्वर्णस्थाल्यां धृताः पुष्पकुंकुमश्रीफलाऽक्षताः ।
माला लाजाः स्वस्तिकाश्चार्पिताः सत्या वराय वै ॥ ८०॥
वर्धितश्चन्दनैः पुष्पैर्लाजाऽक्षतैस्तदाऽऽलिभिः ।
नमस्कृतः शिवपक्षैराशीर्दत्तश्च भूसुरैः ॥८१॥
वर्धितः सर्वथा स्त्रीभिरीक्षितो महीमानकैः ।
रञ्जितो वाद्यघोषैश्च नीतो विश्राममण्डपम् ॥ ८२ ॥
भोजिताः पूजिता विश्रामिताश्च सत्कृताश्च ते ।
महीमाना उभपक्षाः सुखं प्रापुः प्रशाश्वतम् ॥ ८३॥
वरेण प्रेषितं वस्त्राभूषणादि तु सर्वथा ।
श्रांगारिकं च रत्नादि धारयामास तूलसी ॥ ८४॥
चन्द्रोदये कोटिचन्द्रसूर्यविद्युत्प्रकाशितम् ।
गृहमानीय सत्कारं वरस्य विदधे हरः ॥८५॥
लोकाचारं तदा कृत्वा जलपानं समर्प्य च ।
वर्धयित्वा वस्तुभिश्च विवाहमण्डपं हरः ॥८६॥
निनाय वरराजं तं वाद्यान्यवादयंस्तदा ।
वेदघोषा गीतिघोषास्तूर्यघोषास्तदाऽभवन् ॥८७॥
पुष्पवृष्टिं तदा चक्रुर्देव्योऽक्षतादिमिश्रिताम् ।
पदा कपालं भंक्त्वा श्रीविष्णुर्वेदीमुपाययौ ॥८८॥
वरसिंहासने तत्र निषादितो वरस्तदा ।
यज्ञकुण्डसमीपे च पट्टिकायां निषादितः ॥८९॥
प्रकोष्ठतन्तुना साकं कामफलेन योजितः ।
स्वस्त्यर्थं वाचितस्तत्र गुरुभिर्वेदपारगैः ॥ ९०॥
वर्धितस्तिलकेनाथ शंकरेण सभाजितः ।
पार्वत्या तिलकं कृत्वा कराभ्यां मंगलायितः ॥ ९१॥
वामे ततस्तूलसीं तामानीय सवधूकृतः ।
पुरोहिताभ्यां वर्धितौ तौ तिलकेन बिन्दुना ॥९२॥
पुष्पाक्षतैर्जलैर्द्रव्यैः प्रोक्षितौ संस्कृतौ तदा ।
आचामितौ हवनाय प्रेरितौ जुहुतः स्म तौ ॥९३॥
कन्यया वरमाला च विष्णुकण्ठे समर्पिता ।
पुरोहितेन योजितौ दम्पती वरमालया ॥ ९४ ॥
अंगदेवादिपूजां च कारयित्वा तदुत्तरम् ।
द्वयोर्मुखे कवले च दापयित्वा परस्परम् ॥ ९५॥
जलं संपाययित्वा च मन्त्रानुच्चार्य वैदिकान् ।
विष्णोर्दक्षकरे वामकरं वध्वा निधाय च ॥९६॥
सहधर्मं चरेतामित्यादिमन्त्रानश्रावयन् ।
द्वयोः स्वेदलवो रोमपुलकश्चाऽभवत्तदा ॥९७॥
तदा वाद्यान्यवाद्यन्त बभूवुर्वेदघोषणाः ।
जयशब्दा बभूवुश्च विष्णुना तुलसीग्रहे ॥९८॥
वह्निं प्रदक्षिणं कृत्वा निषीदतुश्च तौ पुनः ।
शेषहोमं विधायैवोर्मिकाक्रीडां प्रचक्रतुः ॥९९॥
गोभूहिरण्यमाणिक्यवस्त्रान्तरत्नभूमिकाः ।
कोटिकोट्यर्बुदसंख्या ब्राह्मणेभ्यो ददौ हरः ॥१००॥
रत्नहीरकमहिषी यानवाहनसद्गजान् ।
कृष्णो ददौ ब्राह्मणेभ्यो गृहक्षेत्रर्धिसम्पदः ॥१०१॥
तदा वराय वध्वै च ददुर्द्रव्यं प्रतौषिकम् ।
अथ मूशलशूर्पादि वरमूर्ध्नोऽवतारितम् ॥१०२॥
वधूवरौ गृहं नीत्वा ह्युभौ भोज्यं प्रकारितौ ।
एकान्तशयनं दत्वा प्रातः स्नानादिकोत्तरम् ॥१०३॥
कारयित्वा भोजनादि यौतं दत्वा विधानतः ।
रत्नहीरकस्वर्णादिनिधीनसंख्यकाँस्तथा ॥१०४॥
कोट्यश्वहस्तिगोप्राणियानवाहनभूतयः ।
दासदासीपरार्धाद्या गृहोपकरणादयः ॥१०५॥
प्रदत्ताः पितृभिश्चान्यैर्यथायोग्यं यथाधनम् ।
तत्सर्वं वरसात्कृत्वा लोकाचारं ताम्बूलकम् ॥१०६॥
जलपानं प्रदत्वा च क्षमायाचनमित्यथ ।
कृत्वा वरेण युक्तां स्वकन्यां निषाद्य वाहने ॥१०७॥
मंगलाशीर्वचो दत्वा प्राप्य कन्यानमःक्रियाम् ।
शंभुः प्रस्थापयामास विश्रान्तिमण्डपं तु तौ ॥१०८॥
वरपक्षा जनवाहा विश्रान्तिभवनं ययुः ।
शिवपक्षा विनिवृत्ताः शिवाश्रमं प्रतस्थिरे ॥१०९॥
प्रतिपद्दिवसे सर्वान् भोजयित्वातिभावतः ।
सत्कृत्य जनवाहाँश्चाऽप्रस्थापयद्धरो वरम् ॥११०॥
स्वगृहमहीमानाँश्चाऽप्रस्थापयत्ततो हरः ।
मण्डपादिसंहृतिं च कारयित्वा गणादिभिः ॥१११॥
विमानेन ययौ तस्मात्स्थानात् कैलासमीश्वरः ।
तुलसी वृक्षरूपा च वर्तते लग्नभूस्थले ॥११२॥
वधूरूपेण याता सा खाण्डवं वनमालयम् ।
तत्रापि मण्डपसंहारादिकं संविधाय च ॥११३॥
विष्णुः कृष्णादिकं नत्वा नीत्वा नववधूं सह ।
गरुडेन ययौ स्वीयं वैकुण्ठं पार्षदैः सह ॥११४॥
नवोढया सह रेमे विष्णुर्विविधकामनाम् ।
एवं तेन स्वकीया सा पत्नी शापाद् विमोचिता ॥११५॥
प्रापिता च स्वकं धाम परमानन्दसंभृतम् ।
तुलस्यपि पतिं कृष्णनारायणमवाप्य च ॥११६॥
पूर्णकामाऽभवल्लोके तुलसीति स्थिताऽभवत् ।
शृणु लक्ष्मि! पूजयिष्यत्यनिशं मां तु ये जनाः ॥११७॥
तुलसीमञ्जरीपत्रैर्मद्भक्ता मत्समाश्रिताः ।
नरान् नारीस्तुलसीवन्नयिष्ये चरणे मम ॥११८॥
भुवि वृक्षस्तुलस्याश्च शालग्रामशिला तथा ।
अहमेव भवाम्यत्र रूपद्वयमुपागतः ॥११९॥
जलयोगेन पाषाणैः पत्रैः पुष्पैः कणैर्मृदा ।
यथाकथञ्चित्प्राणिभ्यो मुक्तिं ददामि तन्मिषाम् ॥१२०॥
इमां श्रुत्वा तुलस्यास्तु विवाहस्य कथां ततः ।
पूजयेद् विधिनाऽऽचार्यं वाचकं सर्वपूजितम् ॥१२१॥
धनेनाऽम्बरभूषाभिर्यानवाहनवस्तुभिः ।
अन्नरजतमण्याद्यैः स्वर्णहीरकव्यञ्जनैः ॥१२२।
पत्रैः पुष्पैः फलैस्तोयैर्दुग्धदधिघृतादिभिः ।
शर्कराधान्यगोधूमैः खारीकखर्जुरादिभिः ॥१२३॥
श्रीफलचन्दनतैलच्छत्रचामरमञ्चकैः ।
गोभूगृहभवनाद्यैर्वाटिकावाहघोटकैः ॥१२४॥
मञ्चखट्वागेन्दुकैश्च शय्यादर्पणपात्रकैः ।
तिलशालिसुमुन्यन्नैर्नवनीतसुपिंण्डकैः ॥१२५॥
श्रांगारिकैश्च बहुभिर्वस्तुभिः पूजयेद्गुरुम् ।
दद्याच्च बहुदानानि यथाशक्ति यथाधनम् ॥१२६॥
भोजयेद् बहुविप्राँश्च साधून् साध्वीः प्रभोजयेत् ।
बालाँश्च बालिकाश्चैव दीनान्धकृपणाँस्तथा ॥१२७॥
तर्पयेज्जलदानेन पितॄन् श्राद्धं च कारयेत्॥
देवपूजां कारयेच्च महापूजां प्रकारयेत् ॥१२८॥
शिवशिवार्चनं कुर्यात्तुलसीविष्णुपूजनम् ।
राधाकृष्णं पूजयेच्चार्पयेत् कृष्णनरायणम् ॥१२९॥
प्रसादं सम्प्रदायैव सर्वश्रोतृभ्य इत्यथ ।
ततो नीराजनं कारयित्वा स्तुत्वा तु दम्पतीम् ॥१३०॥
क्षमापराधं याचित्वा दत्वा तु दक्षिणां शुभाम् ।
विसर्जयेन्नमस्कृत्य स्मरेत् तुलसीमाधवम् ॥१३१॥
एवं षोडशवस्तूत्तमोत्तमैः पूजयेत्तु तौ ।
तुलसीमाधवौ भुक्तिं मुक्तिं लभेत पूजकः१३२॥
धनदाराऽपत्यपुत्रक्षेत्रराज्यगृहादिकम् ।
लभते तुलसीकृष्णपूजनेनाऽस्य कर्णनात् ॥१३३॥
वन्ध्या वै लभते पुत्रं निर्धनो धनवान् भवेत् ।
रोगी रोगाद् विमुच्येत ऋणी निर्ऋणतां व्रजेत् ॥१३४॥
निगडस्थः प्रमुक्तः स्यात् पापो निष्पापतां व्रजेत् ।
कन्या पतिं लभेत् कृष्णसमं सौभाग्यदं सदा ॥१३५॥
यथेष्टं संलभेत् सर्वं सम्पदां पात्रतां लभेत् ।
दुःखिनां दुःखनाशः स्यात् श्रावयेत् शृणुयादिदम् ॥१३६॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने वृन्दावने यमुनातटे द्वादश्यां विश्राममण्डपादिकरणं, खाण्डववने विष्णुपितृशिबिरं, तुलसीवने तुलसीपितृशिबिरं, कुण्डमण्डपादिविधानं, जामिमहीमानाद्यागमः, वरवाहपक्षानां जनवाहवाहिन्यागमः,कार्तिकपूर्णिमायां तुलस्या विवाहविधयः, हस्तमेलापः, विदायादिः, तुलसीविवाहकरणश्रवणादिफलं चेत्यादिनिरूपणनामैकोनचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३३९॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP