संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३५५

कृतयुगसन्तानः - अध्यायः ३५५

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
श्रुतमेतन्मया कृष्णनारायण! जगत्प्रभो! ।
माथुरक्षेत्रमाहात्म्यं सफलं स्वर्गमोक्षदम् ॥१॥
श्राद्धं श्राद्धफलं चापि श्रुतं ते कृपया हरे! ।
केन तूत्पादितं श्राद्धं विस्तरेण वदस्व मे ॥२॥
श्रीनारायण उवाच-
शृणु प्रिये! कथयामि श्राद्धोत्पत्तिविनिश्चयम् ।
सृष्ट्यारंभे मम नाभिपद्माद् ब्रह्मा व्यजायत ॥३॥
स च पुत्रात्मकानुत्पादयामास सुरादिकान् ।
आदित्याँश्च वसून् रुद्रानश्विनौ च मरुद्गणान् ॥४॥
तारणार्थं तु सर्वेषां ब्राह्मणान् भुवि सर्वशः ।
क्षत्रियान् वैश्यवर्णांश्च शूद्रवर्णांस्तथा पशून् ॥५॥
पक्षिणः स्थावरांस्तिर्यक्कीटाद्यान् समपेक्षितान् ।
दितिद्वारा तथा दैत्यान्दनूद्वारा तु दानवान् ॥६॥
एवं वैदिकविज्ञानानृषींश्चापि तपोधनान् ।
तेषां पुत्रास्तथा पौत्रा जाता यैः पूरितं जगत् ॥७॥
वेधसो नेत्रतो जातो निमिम्तु मानसो नृपः ।
तस्यापि मानसः पुत्रः श्रीमान्नामा ह्यजायत ॥८॥
जातिमात्रो युवा जातिस्मरो वेदस्मरस्तथा ।
तपश्चचार परमं समाधाय मनो हरौ ॥९॥
पंचाग्निर्वायुभक्षश्च ह्येकपादोर्ध्वबाहुकः ।
शीर्णपर्णाम्बुभक्षश्च शिशिरे तु जलेशयः ॥१०॥
कृच्छ्रं चान्द्रायणं कुर्वन् वर्षाणामयुतोत्तरम् ।
मृत्युकालमनुप्राप्तः पञ्चत्वं समुपागमत् ॥११॥
निमिः शोकं परं प्राप्तश्चिन्तयामास तत्कृते ।
माघशुक्लद्वादश्यां स सृष्ट्वा विषयं मानसम् ॥१२॥
श्रद्धया कल्पयामास पुत्रार्थे किं करोमि वै ।
तावत्पुत्रो दिव्यदेहो दिवो विमानमार्गतः ॥१३॥
निमिमागत्य स प्राह देहि दानानि मत्कृते ।
जलं देहि फलं देहि मिष्टान्नं चाम्बराणि च ॥१४॥
भूषा यानानि पात्राणि पायसान्नानि देहि मे ।
यानि मे स्यात्प्रभोज्यानि मूलानि च रसास्तथा ॥१५॥
यानि मेऽतीव प्रेष्ठानि देहि मे शाकभाजिकाः ।
इति कृत्वोषितस्तत्र देवधूनीतटे हिमे ॥१६॥
निमिरामन्त्र्य सप्तर्षीन् शुचिर्भूत्वा समाहितः ।
दक्षिणावर्ततः सर्वमकुर्वन् ऋषिसत्तमाः ॥१७॥
सप्तकृत्वस्तत्र तत्र युगपत् समुपाविशन् ।
ददुस्त्वन्नानि शाकानि मूलानि च फलानि च ॥१८॥
निमिर्विप्रान् प्रसंपूज्य सप्तकृत्वश्च सुन्दरि! ।
कृत्वा तु दक्षिणाग्रांश्च कुशांश्च प्रयतस्तदा ॥१९॥
प्रददौ श्रीमते पिण्डान्नामगोत्रमुदाहरन् ।
जलं फलं दलं चान्नं पायसं चाम्बरादिकम् ॥२०॥
ददौ पुत्राय दिव्याय जग्राह स च सर्वथा ।
प्रत्यक्षं नीतवान्सर्वं प्रत्यक्षं बुभुजे पपौ ॥२१॥
तथा सप्तर्षिषु पुनः प्रविश्य बुभुजे मुहुः ।
तृप्तोऽस्मि चातितृप्तोऽस्मीत्युच्चार्याऽऽसाद्य वस्तुकम् ॥२२॥
दिवं विमानमारुह्य जगाम श्राद्धतोषितः ।
अर्के त्वस्तं गते राजा भावसन्ध्यामसेवत ॥२३॥
रात्रौ चिन्तयितुं रब्धः पुत्रार्थं यत्समाचरत् ।
कृत्वा स पिण्डदानादि पश्चात्तापं चकार सः ॥२४॥
अकृतं मुनिभिः पूर्वं किं मया तदनुष्ठितम् ।
निवापकर्म त्वशुचि पुत्रार्थे विनियोजितम् ॥२५॥
अहो स्नेहप्रभावेण मया मृत्युत्तरं कृतम् ।
नैतत्कर्म शवकर्म गर्ह्यं कर्म कृतं मया ॥२६॥
किं वक्ष्यन्ति च मां सर्वे ये वै पितृपदे स्थिताः ।
सदेवासुरगन्धर्वपिशाचोरगराक्षसाः ॥२७॥
इत्येवं चिन्तयानस्य ब्राह्म प्रातरभूत्ततः ।
सन्ध्या चकार हुत्वाऽग्नीन् पुनश्चिन्तां समाचरत् ॥२८॥
अहो मे जीवितं व्यर्थं पुत्रो यत्र न दृश्यते ।
नरकं पूतिकाख्यं वै हृदि दुःखं समुच्यते ॥२९॥
पुत्रे सति न वै दुःखं स्वर्गं भवति सर्वथा ।
पुत्रेण लभते स्वर्गं पौत्रेण तु पितामहाः ॥३०॥
अथ पुत्रस्य पौत्रेण मोदन्ते प्रपितामहाः ।
पुत्रेण श्रीमता हीनं नाऽहं जीवितुमुत्सहे ॥३१॥
एतस्मिन्नन्तरे लक्ष्मि! नारदस्त्वाजगाम ह ।
तेजसा -भ्राजमानं तं दृष्ट्वा पुपूज वै नृपः ॥३२॥
सत्कृतश्चासने तूपविष्टो नारद आह तम् ।
निमे! शृणु महाप्राज्ञ! शोकं मा कुरु शोकहन्! ॥३३॥
अनित्यं गत्वरं देहं कथं प्राज्ञ! विशोचसि ।
मृतं नष्टं गतं यान्तं नानुशोचन्ति सद्धियः ॥३४॥
गतो निवर्तते नैव हसन्ति शोकिनं जनाः ।
अमरत्वं मर्त्यलोके पश्यामि न चराचरे ॥३५॥
सत्यात्पातालपर्यन्ताः सर्वे कालवशा जनाः ।
जातस्य सर्वभूतस्य मृत्युर्निर्णीत एव ह ॥३६॥
अवश्यमेव गन्तव्यं त्वया मया च वेधसा ।
तव पुत्रो महात्माऽभूच्छ्रीमान्नाम श्रियो निधिः ॥३७॥
पूर्णं तपो महत् कृत्वा ययौ स परमां गतिम् ।
एवं मुक्तस्य तु कृते नैव शोचितुमर्हसि ॥३८॥
इत्युक्तः स निमिः पादौ प्रणम्य शिरसा मुनेः ।
सव्रीडो निःश्वसन् भीतो दीनवत्प्राह नारदम् ॥३९॥
सान्वितोऽस्मि त्वया विप्र! किन्तु वक्ष्यामि तच्छृणु ।
गतः स तु गत एव न चाऽऽयाति गतः पुनः ॥४०॥
परं मया शवपश्चात् कल्पयित्वा च यत् कृतम् ।
न तु श्रुतं मया पूर्वं न देवैः पूर्वजैः कृतम् ॥४१॥
शोकस्यैव प्रभावेण शवमुद्दिश्य यत्कृतम् ।
तर्पयित्वा द्विजान् सप्त त्वन्नाद्यैश्च फलैरपि ॥४२॥
पश्चाद् विसर्जितं पिण्डं दर्भानास्तीर्य भूतले ।
उदकानयनं चैव ह्यपसव्येन वासितम् ॥४३॥
एतद्वै नूतनं सर्वं कृतं बिभेमि तेन वै ।
श्रुत्वा तन्नारदः प्राह न भेतव्यं त्वया नृप! ॥४४॥
अधर्मं नात्र पश्यामि पितरं शरणं व्रज ।
इत्युक्तः स निमिर्ध्यात्वा पितरं शरणं गतः ॥४५॥
तावत्पुत्रस्तपोधनः श्रीमान्नामा समागतः ।
उवाच निमे! त्वत्कृतं कल्पितं पितृयज्ञकम् ॥४६॥
पितृयज्ञात्मको धर्मो ब्रह्मणा कल्पितोऽस्ति वै ।
स च कर्मात्मकस्त्वया मन्मिषेण प्रकाशितः ॥४७॥
श्राद्धधर्मः पितृयज्ञः क्रतुस्त्वया प्रतिष्ठितः ।
पूर्वपूर्वसृष्टिधर्मः श्राद्धधर्मश्चिरन्तनः ॥४८॥
कृतः स्वयंभुवा पूर्वं श्राद्धात्मा विधिरेव सः ।
प्रेतकर्म श्राद्धधर्मः कर्तव्यः सर्वथा जनैः ॥४९॥
जातस्य वै मृतेः पश्चादवश्यं क्वापि संस्थितिः ।
तत्र प्राप्त्यर्थमैवात्र कर्तव्यं श्रद्धयाऽर्पणम् ॥५०॥
अमोक्षस्य भवेत् तृप्तिर्मुक्तौ तृप्तिस्तु शाश्वती ।
मोक्षः कर्मविशेषेण प्रायश्चित्तेन च ध्रुवम् ॥५१॥
दीर्घायुषो ह्यपि यान्ति किं पुनः स्वल्पकाऽऽयुषः ।
अल्पायुषो जनाः पश्चाद् भविष्यन्ति युगान्तरे ॥५२॥
तामसा राजसाश्चापि भविष्यन्ति विशेषतः ।
तेषां तु कुगतौ श्राद्धं गतिदं संभविष्यति ॥५३॥
तामसं नरकं विद्यात् तिर्यग्योनिं च राक्षसीम् ।
क्रौर्यं भयं विषादश्च हिंसा निर्लज्जता तमः ॥५४॥
अज्ञानित्वं च पैशाचं तामसानां स्वभावजाः ।
तामसं तं विजानीयादुच्यमानो न बुद्ध्यति ॥५५॥
दुर्मदाऽश्रद्धधानं च पराऽपकरणोद्यतम् ।
राजसः प्रबलो वाण्यां स्वधृताऽत्मजनः सदा ॥५६॥
शूरः सर्वत्र व्यक्तश्च विषयेहाप्रपूरितः ।
एतेषां परलोके वै तृप्त्यर्थं श्राद्धमर्थितम् ॥५७॥
सात्त्विको मोक्षभागी स्यात् क्षान्तो दान्तो विशुद्धहृत् ।
श्रद्धालुस्तपसा युक्तो स्वाध्यायादिसमन्वितः ॥५८॥
एतेष्वपि यदि पुत्रेषणा लोकेषणा तथा ।
धनेषणा तथा दारेषणा कामेषणा च वा ॥५९॥
भवेत्तेन प्रवाहेण परत्र प्रेततां व्रजेत् ।
तस्य तृप्तिकृतेश्राद्धदानहवनकर्मणाम् ॥६०॥
कल्पना वेधसा पूर्वं कृता त्वया प्रसारिता ।
एवं संचिन्तयानस्तु न शोकं कर्तुमर्हसि ॥६१॥
त्यज शोकं महाप्राज्ञ! शोकः सर्वविनाशनः ।
शोको दहति गात्राणि बुद्धिः शोकेन नश्यति ॥६२॥
लज्जा धृतिश्च धर्मश्च श्रीः कीर्तिश्च स्मृतिर्नयः ।
त्यजन्ति सर्वधर्माश्च शोकेनोपहतं नरम् ॥६३॥
एवं शोकं परित्यज्य विशोको भव भूपते! ।
मूढः स्नेहप्रभावेण याति संसारबन्धनम् ॥६४॥
तस्मात् स्नेहं प्रसंयम्य बुद्धिं धर्मे नियोजयेत् ।
धर्मो लोकहितार्थाय स श्राद्धं दानमर्चनम् ॥६५॥
सत्कारो हवनं चेति पञ्चधा प्रायशो मतः ।
मृतानां तृप्तिदं श्राद्धं दानं तु जीवतां सुखम् ॥६६॥
प्रतिमाया अर्चनं शं सत्कारः प्राणिनां सुखम् ।
हवनं द्युगताना शं दाताऽपि फलभाग् भवेत् ॥६७॥
मृत्युकाले यदिच्छा स्यात् पूरणीया विशेषतः ।
म्रियमाणस्य सन्तोषः परलोकगतिप्रदः ॥६८॥
कण्ठस्थानं गते जीवे शीघ्रं निःसारयेद् गृहात् ।
कुशास्तरणशय्यास्थं स्नेहभावेन वाचयेत् ॥६९॥
सुवर्णं तन्मुखे दद्याज्जलं दद्याद् व्रतादिकम् ।
पुण्यं दद्याच्च गां दद्यात्परलोकहितावहाम् ॥७०॥
दोग्ध्रीणां तु गवां दानाच्छीघ्रं मुच्येत किल्बिषात् ।
तस्य कर्णे हरेर्नाम श्रावयेन्मुक्तिसाधनम् ॥७१॥
मधुपर्कं मधु सर्पिर्दधि दद्यात्तदोष्ठयोः ।
एवं विनिःसृते प्राणे संसारं नाधिगच्छति ॥७२॥
ततोऽस्थ घृतगन्धाद्यैः कृत्वा वै देहशोधनम् ।
दक्षिणायां शिरः कृत्वा तीर्थस्नानं प्रकारयेत् ॥७३॥
श्रेष्ठवनस्पतिकाष्ठैश्चितां कृत्वा विधानतः ।
दक्षिणशिरसा स्थाप्य कृत्वा हस्ते हुताशनम् ॥७४॥
दह त्वेतस्य गात्राणीत्युक्त्वा कृत्वा प्रदक्षिणम् ।
प्रदापयेच्छिरःस्थाने भस्मीभावोत्तरं ततः ॥७५॥
गात्राणि वाससी चैव प्रक्षाल्य विनिवर्तयेत् ।
मृतं नाम तदोद्दिश्य दद्यात् पिण्डं महीतले ॥७६॥
गतायुषस्तृतीयेऽह्नि स्नानं कुर्यान्नदीजले ।
पिण्डं सचूरणं दद्यात् त्रींश्च दद्याज्जलांजलीन् ॥७७॥
चतुर्थे पञ्चमे षष्ठे पिण्डमेकं जलांजलिम् ।
सप्तमेऽष्टमनवमदशमेषु तथैव ह ॥७८॥
दशमे वस्त्रसंशुद्धिर्गात्रशुद्धिश्च सर्वथा ।
कर्तव्या गोत्रजैस्तिलाऽऽमलकस्नेहतस्ततः ॥७९॥
पिण्डदानं विनिर्वर्त्य क्षौरकर्म तु कारयेत् ।
स्नानं कृत्वा ज्ञातिभिश्च तत एकादशे दिने ॥८०॥
स्नात्वा प्रेतं ब्राह्मणेषु योजयेत्कारयेत्तथा ।
एकोद्दिष्टं विप्रमेकं सुद्रव्येण हि भोजयेत् ॥८१॥
पुनः स्नात्वा च तं प्रेतं प्रेतेषु संनियोजयेत् ।
एकोद्दिष्टं त्रिवर्णेषु कर्तव्यं पाकभोजनम् ॥८२॥
अपाकद्रव्यं संग्राह्यं चतुर्थवर्णकस्य तु ।
त्रयोदशे दिने पक्वैर्भोजयेद् ब्राह्मणान् सतः ॥८३॥
मनसा वायुभूतस्त्वं विप्रान् साधून् समाश्रय ।
विप्रसतां कृता सेवा प्रेताय सुखदा भवेत् ॥८४॥
प्रेतभोगशरीरं वै विप्रसतोः प्रकल्पितम् ।
प्रभातायां तु शर्वर्यामुदिते तु दिवाकरे ॥८५॥
श्मश्रुकर्म प्रकर्तव्यं विप्रस्य तु यथाविधि ।
स्नापनाऽभ्यंजने कार्ये प्रेतसन्तोषदायके ॥८६॥
स्थण्डिलं कारयेद् भूमौ प्रेतकार्यं समाचरेत् ।
यं देशं तु न पश्यन्ति कुक्कुटश्वानसूकराः ॥८७॥
श्वा चापोहति रावेण गर्जितेन तु सूकरः ।
कुक्कुटः पक्षवातेन चाण्डालो दर्शनेन च ॥८८॥
तत्र कुर्वन्ति यच्छ्राद्धं पितॄणां बन्धनप्रदम् ।
स्थण्डिले प्रेतभागं तु दद्यात् पूर्वाह्णिकं तु तत् ॥८९॥
कुर्याच्च पिण्डसंकल्पं नामगोत्रमुदाहरन् ।
ततश्चाश्नन्ति गोत्राणि कुलजाश्चैकभोजनाः ॥९०॥
एवं दत्तेन प्रीयन्ते प्रेतलोकगता जनाः ।
छत्रं दद्यादग्निभस्मशिलावृष्ट्यादिवारणम् ॥९१॥
दद्याच्चोपानहौ मार्गकण्टकादिनिवारकौ ।
धूपं दद्यात् प्रदीपं च वस्त्राण्याभरणानि च ॥९२॥
फलान्यपि सुपक्वानि प्रेतभोग्यानि वै ददेत्॥
एवं सर्वं विनिर्वर्त्य पक्वान्नं भोजयेद् द्विजम् ॥९३॥
प्रथमं ब्राह्मणस्तत्र प्रेतभागं प्रकल्पयेत् ।
हस्तशौचं ततः कृत्वा विप्रो मिष्टं हि भक्षयेत् ॥९४॥
ज्ञातिबान्धवमित्रैश्च ब्राह्मणाय पुनः पुनः ।
प्रेतभागः प्रदातव्यो वारणीयो न केनचित् ॥९५॥
निवारणे कृते तत्र गृह्णन्ति पितरो न वै ।
एवं विलुप्यते धर्मः प्रेतस्तत्र न तुष्यति ॥९६॥
तृप्ते विप्रे सलिलं च दातव्यं शीतलं शुभम् ।
उच्छिष्टं तु सरिदादौ मत्स्येभ्यो देयमेव हि ॥९७॥
दद्याच्छय्यासनं चापि तथैवाऽञ्जनकंकणम् ।
निवापस्थानमागत्य दद्यात्तिलोदकं ततः ॥९८॥
गवां लांगूलमुद्धृत्य दद्याद् ब्राह्मणहस्तके ।
पात्रेणोदुम्बरस्थेन कृत्वा कृष्णतिलोदकम् ॥९९॥
मन्त्रपूतं जलं दद्यात् तोयेनाऽभ्युक्ष्य वै ततः ।
प्रेतं विसर्जयेद् विप्राद् दद्याद् दानं द्विजातये ॥१००॥
पिपीलिकादिभूतेभ्यः प्रेतभागं प्रकल्पयेत् ।
दीनानाथेषु भक्तेषु प्रेतो भवति तृप्तिमान् ॥१०१॥
एवं श्राद्धात्मकः सर्वैः प्रेतभावविशोधनः ।
कर्त्तव्य एव संस्कारो निमे! त्वया तु स कृतः ॥१०२॥
अयं श्राद्धक्रियाकल्पः क्रतुरेकः प्रकीर्तितः ।
इत आरम्य लोकेषु पितृयज्ञो भविष्यति ॥१०३॥
यज्ञकर्ता भवान् निमे! ब्रह्मलोकं गमिष्यति ।
एवं सर्वैः प्रदातव्यः प्रेतभागस्तृतीयके ॥१०४॥
मासे तु सप्तमे नवमे चाप्येकादशे तथा ।
ततः सांवत्सरीं कुर्यात् क्रियां प्रेतस्य मुक्तये ॥१०५॥
पूर्णे सम्वत्सरे याते प्रेतकार्यं कृते ततः ।
प्रयान्ति जन्तवो मुक्तिं केचिद् भ्रमन्ति चाऽम्बरे ॥१०६॥
पितामहः स्नुषा भार्या ज्ञातिसम्बन्धिबान्धवाः ।
एवमेते बहवोऽत्र सन्ति स्वप्नोपमास्तु ते ॥१०७॥
रुदित्वा तु क्षणं सर्वे यान्ति पराङ्मुखा हि ते ।
स्नेहपाशेन बद्धास्ते मुच्यन्ते च क्षणान्तरे ॥१०८॥
कस्य माता पिता कस्य कस्य भार्या सुतास्तथा ।
दिने दिने विवर्तन्ते मोहपाशप्रबन्धनाः ॥१०९॥
मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूयन्ते कस्य ते कस्य वा वयम् ॥११०॥
स्वयं भुवा विधिः प्रोक्तः प्रेतसंस्कारलक्षणः ।
स्नेहभावेन कर्त्तव्यः संस्कारोऽयं मृतस्य वै ॥१११॥
प्रेतकार्ये निवृत्ते तु पितृत्वमुपजायते ।
मासि मासि ह्यमायां वै कर्त्तव्यं पितृतर्पणम् ॥११२॥
पिता पितामहश्चैव तथैव प्रपितामहः ।
ब्राह्मणस्य मुखे होमात् तृप्यन्ति साधुभोजनात् ॥११३॥
एवमुक्त्वा मुनिश्रेष्ठो नारदस्तु दिवं ययौ ।
इत्येवं निमिना राज्ञा कृतं श्राद्धं पुरा युगे ॥११४॥
ततः प्रभृति श्राद्धं च पिण्डं कुर्वन्ति भूसुराः ।
इति ते कथितं लक्ष्मि! श्राद्धपिण्डोद्भवादिकम् ॥११५॥

इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने माथुरक्षेत्रमाहात्म्ये निमिनृपतिना श्रीमान्नाम्नो मृतपुत्रस्यार्थे श्राद्धं कृतम्, पश्चात् कल्पितकर्माऽप्रतिष्ठितमिति ज्ञात्वा शोकं कुर्वते निमये नारदेन श्राद्धं पुरातनो धर्म इत्युपदिष्टम्, श्राद्धक्रियाक्रमश्चोक्त इत्यादि निरूपणनामा पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः ॥३५५॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP