कृतयुगसन्तानः - अध्यायः ४३०
लक्ष्मीनारायणसंहिता
श्रीनारायण उवाच-
यदा विष्णुरहं वक्ता लक्ष्मीस्त्वं श्रवणे रता ।
संहितायास्तदा श्रावो द्विमासाभ्यां प्रमोक्षदः ॥१॥
यदा लक्ष्मीर्हि संवक्त्री विष्णुः श्रोता भवामि च ।
संहितायास्तदा श्रावो वेदमासैः प्रमोक्षदः ॥२॥
प्राप्यते श्रीलक्ष्मीनारायणसंहितया ध्रुवः ।
आत्मपातिव्रत्यधर्मः प्राप्तस्त्वया मुखान्मम ॥३॥
राधया श्रीकृष्णमुखात् संहिताश्रवणेन वै ।
तथाऽन्याभिर्गोपिकाभिः कृष्णनारायणाननात् ॥४॥
काश्यां कुंकुमवाप्यां च बदर्यां दिव्यधामसु ।
सर्वसृष्टौ यथायोग्यमस्या भागेन वै ध्रुवम् ॥५॥
पातिव्रत्यं परं प्राप्ता नरा नार्यो नरायणे ।
मुक्तिं च शाश्वतीं जग्मुर्मम धाम्नि च शाश्वतीम् ॥६॥
शृणु लक्ष्मि! कथां रम्यां भवबन्धननाशिनीम् ।
पाञ्चालदेशे राजाऽभूद् वैष्णवो धार्मिकः शुचिः ॥७॥
निर्भयवर्मा नृपतिर्नारायणपरायणः ।
तुलसीमालया नित्यं भजते श्रीनरायणम् ॥८॥
ध्यानं पूजां क्रियाकाण्डं मुदा नारायणार्पणम् ।
चक्रे सर्वं हरौ नित्यं सर्वस्वार्पणपूर्वकम् ॥९॥
एको दानकसंज्ञश्च कुमारस्तस्य धार्मिकः ।
नवधा भक्तिमान् कृष्णे गोपीनाथपरायणः ॥१०॥
निर्भयस्तु तपस्तेपे भक्तियुक्तं सुदारुणम् ।
तद्गृहे तु सुते जाते राधालक्ष्मीकलान्विते ॥११॥
जीवन्ती लावण्यवती ब्रह्मचर्यपरायणे ।
नारायणं स्वामिनं ते सेवाते पातिव्रत्यतः ॥१२॥
साक्षाद्भक्त्या हरिः कृष्णः सेवां गृह्णाति तत्कृताम् ।
ते ह्युभे श्रीकृष्णनारायणस्वामिपरायणे ॥१३॥
व्रतस्थे तपसा युक्ते देवकार्यपरायणे ।
यद्गृहे भगवान् कृष्णो विराजते निरन्तरम् ॥१४॥
उन्मत्ता च सविद् यत्र कृष्णदासी विराजते ।
कुमारः पश्चिमे व्याघ्रारण्ये तलस्य रक्षसः ॥१५॥
वनं संप्राविशत् तीर्थं कर्तुं श्यामस्य दर्शनम् ।
तत्रारण्यं योगिनश्च रैवताचलवासिनः ॥१६॥
व्याघ्रसिंहादिरूपैः संविचरन्ति स्म च क्वचित् ।
कुमारेण पथि दृष्टाः सिंहा व्याघ्राः शतं परम् ॥१७॥
भयेन त्रस्तो वृक्षं स समारुरोह सत्वरम् ।
सिंहास्तु द्रुमसान्निध्ये निषेदुर्निर्भया यथा ॥१८॥
तान् दृष्ट्वा निश्चलान् सिंहान् क्रुद्धो हन्तुं मनो दधे ।
क्रोधेन तेजसा दानी व्यमुञ्चद् दारुणान् शरान् ॥१९॥
एको बाणेन विद्धश्च प्राप मृत्युं तदाऽपरे ।
ऋषिरूपास्तापसास्ते बभूवुर्मानवा द्रुतम् ॥२०॥
राजानमाहुः ऋषयो वयं रैवतवासिनः ।
योगिनः स्म समायाता यात्रार्थं श्यामशार्ङ्गिणः ॥२१॥
मा हिन्धि क्रूररूपांश्च पशून् ज्ञात्वा नृपोत्तम ।
इति श्रुत्वा मुनीन् दृष्ट्वा कुमारः शोकमाप्तवान् ॥२२॥
अहो मया हतो योगी विप्रो ह्यजानता वने ।
तीर्थपुण्यस्थले पापं कृतं हत्यात्मकं मया ॥२३॥
कथं वै निष्कृतिस्त्वस्य भवेन्मे हननस्य वै ।
विचार्यावततार द्रोः पपात चरणे तदा ॥२४॥
प्राहर्षीन् पापनाशार्थं विध्यन्तु मां शरैर्मुहुः ।
हत्यात्मकं पापं मम नश्येन्महर्षयः! ॥२५॥
दयालवस्तु ऋषयः शरणागतमेव तम् ।
वैष्णवं छत्रधर्माणं प्रोचुः कृपापरं वचः ॥२६॥
वयं तु साधवो द्वन्द्वसहा रैवतयोगिनः ।
सिद्धा दिव्या दिव्यदेहाः संकल्पाधीनचारिणः ॥२७॥
जीवयितुं मृतं सर्वं समर्थाः स्म च मा शुचः ।
इत्युक्त्वा तलश्यामस्य तीर्थस्योष्णोदकं शवे ॥२८॥
धारया संददुः सर्वे सजीवो भव चोचिरे ।
तावदृषिः समुत्थाय ननाम तान् गुरून्मुहु_ ॥२९॥
दानी चातिप्रसन्नोऽभूत् पुपूज तान् हृदा मुहुः ।
ऋषयस्तु तदाऽदृश्यभावं प्राप्तो वनान्तरे ॥३०॥
किन्तु हत्योद्भवं पापं ववल्गे दानिनं तु यत् ।
तेनातिविह्वलस्तत्र हत्यया पीडितो वने ॥३१॥
बभ्राम हत्यया लग्नो व्याधधर्ममुपाश्रितः ।
न क्वापि स्थितिमापेदे हत्ययाऽभिद्रुतो भृशम् ॥३२॥
स वै भ्रमन् ययौ सिंहारण्यं यत्र सरस्वती ।
वडवाग्निं समुद्रे सा प्रचिक्षेप पुरा कृते ॥३३॥
ततः सः सोमनाथं सत्क्षेत्रं प्राप कुमारकः ।
प्राचीं सरस्वतीं चापि ययौ यत्र महामुनिः ॥३४॥
त्रितोनामा दिव्यदेहः पर्णकुट्यां विराजते ।
तेनाऽयं सत्कृतस्तस्य पादयोः पतितो भुवि ॥३५॥
पादावनेजनं चक्रे पादसंवाहनादिकम् ।
जलाहरणं दास्यं च फलाहारादिकं तथा ॥३६॥
कुट्याश्रमस्य मार्जन्या मार्जनं निर्विकच्चरम् ।
पत्रावलीकरणं च ब्रह्मवृक्षदलादिभिः ॥३७॥
चकार सेवनं तस्य त्रितस्य योगिनः स वै ।
योग्यं लक्ष्मि! साधुसेवा पापं दहति जन्मनः ॥३८॥
साधूनां दर्शनं पुण्यं वन्दनं पापनाशनम् ।
प्रसन्नता भाग्यदा च तृप्तिः पुत्रादिवंशदा ॥३९॥
पादसेवा श्रीप्रदा च मोक्षदा तु प्रपन्नता ।
सन्तोषणं सर्वदं हि सन्तोषणीयाः साधवः ॥४०॥
येषां चरणवार्यत्र ब्रह्महत्यादिनाशकम् ।
योषां पादरजः पापिपापप्रध्वंसनं शुभम् ॥४१॥
येषां पूजा भोजनादि सर्वं रक्षति सर्वदा ।
यदाशिषः सुमूर्ताश्च रक्षन्ति देशकालयोः ॥४२॥
यथाशक्ति यथाद्रव्यं यथाभावस्तथा तथा ।
सेवनीयाः सदा सन्तो दिव्यास्ते हरिमूर्तयः ॥४३॥
निर्गुणा बन्धनैर्हीनाः सेवकाँस्तारयन्ति वै ।
त्रितस्य सेवया लक्ष्मि! ब्रह्महत्या लयं गता ॥४४॥
ततो विस्मयमापन्नः कुमारो दानको मुहुः ।
साधुसमागमस्तस्या विनाशे वेद कारणम् ॥४५॥
तावत्तत्र समायाता नेतुमेनं यमानुगाः ।
यमदूतान्महाघोरान् ददर्श दानकस्तदा ॥४६॥
सेवापुण्येन सस्मार कृष्णनारायणं प्रभुम् ।
गोपीनाथं हरिं कृष्णं स्वामिनं जगतां पतिम् ॥४७॥
नारायणः स्वयं स्वस्य पार्षदानाह सत्वरम् ।
गच्छन्तु दानिरक्षार्थं वारयन्तु यमानुगान् ॥४८॥
इत्यादिष्टाः पार्षदास्ते समाययुस्त्रिताश्रमम् ।
दूरं वै वृक्षमध्ये तान् दृष्ट्वा दूतान् हि दारुणान् ॥४९॥
आक्रोशेन पराभाव्य विद्राव्य भक्तसेवकम् ।
दानिनं निन्युरेते वैमानिकेन पथा हरिम् ॥५०॥
हरिः प्राह मुनेः सेवा कृताऽनेन सुपुण्यदा ।
भक्तोऽस्ति मे महाशान्तो दान्तश्चापि चिरायुषः ॥५१॥
तस्मादेनं राज्यभारे स्थापयन्तु महाबलम् ।
साधूनां सेवको भावी वर्तते वैष्णवो महान् ॥५२॥
महाभागवतो भावी मदर्थाऽर्पितनैजकः ।
इत्युक्तश्च तदा दानी प्राह तं परमेश्वरम् ॥५३॥
न कांक्ष्यते भुवो राज्यं न जन्म न च वै दिवम् ।
कांक्ष्यते ते सदा सेवा राधालक्ष्म्यन्वितस्य वै ॥५४॥
हरिः प्राह तथाऽस्त्वेतद् गच्छ वत्स यथासुखम् ।
तव स्वस्रोर्मम राधालक्ष्म्यौ निवत्स्यतः शुभे ॥५५॥
अहं नारायणः स्वामी निवत्स्यामि तव गृहे ।
सुखयिष्ये मोक्षयिष्ये गच्छ त्वं पार्षदैः सह ॥५६॥
तव दूर्गे निवत्स्यामि स्वस्त्यस्तु तेऽनु सेवक! ।
इत्यादिष्टो भगवता ययौ स्वनगरं प्रति ॥५७॥
कृष्णपातिव्रत्यपरान् धर्मांश्चकार दादकः ।
साधुसेवापरः कृष्णनारायणप्रसेवकः ॥५८॥
सर्वोत्सवकरः कृष्णार्पितसर्वस्वदक्षिणः ।
प्रवृद्धः सर्वसम्पद्भिर्गोलोकसदृशं गृहम् ॥५९॥
कारयित्वा गोपिकायुक्कृष्णं संस्थाप्य तत्र च ।
भुक्त्वा भोगान् समस्तांश्च जीवन्मुक्तोऽभवत्सदा ॥६०॥
सतां पतिः प्रभुर्नारायणः स्वामी जनार्दनः ।
तस्य गृहे यथोक्तं च निवासं प्रचकार ह ॥६१॥
तदुत्तरं हरेः पातिव्रत्ययुक्ते सती ह्युभे ।
जीवन्ती लावण्यवती दिव्यैश्वर्ये बभूवतुः ॥६२॥
जीवन्त्यां श्रीराधिकायाः कलाऽऽवेशो बभूव ह ।
लावण्यवत्यां लक्ष्म्याश्च कलाऽऽवेशो बभूव ह ॥६३॥
जीवन्त्या लावण्यवत्या दादकेन निरन्तरम् ।
पातिव्रत्यं कृष्णनारायणे गोपीश्वरे कृतम् ॥६४॥
त्रयस्य भगवान् धार्मिः प्रत्यक्षो वर्ततेऽन्वहम् ।
भोजने शयने वाट्यां विहारे च समुत्सवे ॥६५॥
विमानेन सदा याति लोकान्तरेषु तैः सह ।
मुक्तैर्देवैः पूजितश्च समायात्यनु तद्गृहम् ॥६६॥
जीवन्त्या लावण्यवत्यार्पितं भुंक्ते हरिः स्वयम् ।
श्रीहरिणा तु जीवन्त्यै लावण्यायै च दानिने ॥६७॥
स्वस्य मन्त्रः प्रदत्तश्च संसारभवनाशकः ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ॥६८॥
इति मन्त्रं समासाद्य चक्रुस्तत्कीर्तनं मुहुः ।
तच्छ्रुत्वा प्राणिनः सर्वे वैकुण्ठं परमं ययुः ॥६९॥
एकदा दादको गत्वा यममार्गेऽतिदारुणे ।
मन्त्रं जपन् स्थितो द्वारि श्रावयामास नारकान् ॥७०॥
सर्वेऽपि नारकाः पूता ययुर्धामाऽक्षरं हरेः ।
यमक्षेत्रमभूद् रिक्तं कृष्णकीर्तनसंश्रवात् ॥७१॥
गच्छद्भिर्वैष्णवं धाम स्वकर्मस्थैर्जनैः क्षणात् ।
शून्यास्तु नरकाः सर्वे पापिप्राणिविवर्जिताः ॥७२॥
वैकुण्ठे नारदो दृष्ट्वा ह्यकस्माद्वैष्णवाऽऽगमम् ।
पप्रच्छ तान् कुतः सर्वे समायान्ति हि वैष्णवाः ॥७३॥
ते प्राहुर्यमलोकाद्वै तत्र दादकनामकः ।
श्रावयित्वा हरेर्मन्त्रं पाययामास नारकान् ॥७४॥
आययुस्ते नारका ये वयं स्म एव ते मुने! ।
श्रुत्वैतन्नारदस्तूर्णं यमक्षेत्रं तु वीक्षितुम् ॥७५॥
समाययौ धर्मलोकं यमेन पूजितो मुनिः ।
पप्रच्छ धर्मराजं स रिक्तं क्षेत्रं हि ते कथम् ॥७६॥
धर्मराजस्तदा प्राह दादको भक्तराडयम् ।
अतिभक्तो हृषीकेशे पुराणपुरुषोत्तमे ॥७७॥
प्रबोधयति कृष्णस्य नाममन्त्रं हि नारकान् ।
ते सर्वे तु गता विष्णोर्लोकं ब्रह्म तु शाश्वतम् ॥७८॥
अयं भक्तो मया यद्वा त्वया यमस्य मण्डलात् ।
विनयेन च सत्कृत्या दूरयितव्य एव यत् ॥७९॥
इति विचार्य देवर्षियमर्षी प्रोचतुस्तु तम् ।
भो भक्तराट् पापिनो वै तव कीर्तनसंश्रवात् ॥८०॥
दण्ड्यां स्थलीं विहायैव गच्छन्ति विष्णुधाम ते ।
अन्यायो भवते त्वत्र मा कर्तव्यं तथाऽनघ! ॥८१॥
धर्मलोपो भवेन्नैव कर्मलोपो भवेन्न च ।
तथा कार्यं त्वया भक्त! याहि स्वनगरं प्रति ॥८२॥
दानकः सः तदा प्राह मुक्तिर्देया व्रतं मम ।
पातिव्रत्यं परो धर्मः कृष्णसर्वस्वमेव यत् ॥८३॥
तत्प्राप्त्यर्थं हि जीवानां पापिनां पापनाशनम् ।
तन्नामस्मरणं चात्र करोमि धर्ममेव मे ॥८४॥
न गमिष्ये मम स्थानं वासोऽत्र रोचते मम ।
नारकाणां प्रदुःखानां दुःखमोचनहेतवे ॥८५॥
इत्युक्तौ निश्चयं नायं गमिष्यति गृहे स्वकम् ।
विचार्य तौ विमानेन ययतुर्यमनारदौ ॥८६॥
ब्रह्माख्यं श्रीहरेर्धाम लेभाते स्वागतं हरेः ।
पुपूजतुर्नेमतुश्च निषेदतुर्हरेः पुरः ॥८७॥
तदा यमो जगादैनं नारायणं जगत्पतिम् ।
नाथ! पापमये क्षेत्रे तव भक्तो हि दानकः ॥८८॥
समागत्य तव नाम्नां करोति कीर्तनं मुहुः ।
यमक्षेत्रं तेन जातं रिक्तं सर्वं हि निर्जनम् ॥८९॥
अधिकारो निरर्थो मे कृतस्तेनाऽतिकीर्तनात् ।
कर्मदण्डस्य पट्टस्ते जायते स्म निरर्थकः ॥९०॥
नियोगि न नियोगं हि करोति कार्ययोजितः ।
प्रभोर्वित्तं समश्नाति स भवेत् काष्ठकीटकः ॥९१॥
लोभाद् वित्तस्य हर्ता च कार्यस्याऽविनिवर्तकः ।
तिर्यग्योनिमवाप्नोति कल्पपर्यन्तमेव सः ॥९२॥
वेतनं त्वर्जयन् कार्यमालस्येन करोति न ।
स जायते वनमध्ये वायसः शतवत्सरान् ॥९३॥
स्वार्थी स्वामिकार्यलोप्ता मूषको जायते वने ।
सोऽहं निरर्थकश्चाऽस्मि दानी यावन्मम स्थले ॥९४॥
तं त्व तस्मान्मम क्षेत्राद् दूरीकुरु जनार्दन ।
निग्राह्यो जगतां नाथ! भवता दानकः शुचिः ॥९५॥
अन्यथा ते दण्डपटस्तव पद्भ्यां निवेद्यते ।
किं वृथा धारणेनाऽस्य वृथा वै वेतनेन च ॥९६॥
इत्युक्त्वा विररामाऽसौ हरिः प्राह यमं तदा ।
किमाश्चर्यं भवेदत्र मन्नाम्नामनुकीर्तनम् ॥९७॥
पापिनां सर्वपापघ्नं स्वर्गदं मोक्षदं तथा ।
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ॥९८॥
कर्णयो पतितं यस्य कृष्णनारायणेति च ।
प्रयाति कृष्णसायुज्यं पाप्युद्धारकरो हरिः ॥९९॥
भक्ता मे पापिजीवानामुद्धारार्थं स्थले स्थले ।
विचरन्ति यथेष्टं ते तारयन्ति प्रपत्तितः ॥१००॥
तेषामहं सदा तुष्टो ये गृणन्ति ममाऽभिधाम् ।
तारयन्ति पापिनश्च कीर्तयन्ति कथां मम ॥१०१॥
पातिव्रत्यं पालयन्ति धारयन्ति च मां हृदि ।
वर्तयन्ति मदर्थे च नरा नार्यश्च मे मताः ॥१०२॥
मत्कार्यं ते हि कुर्वन्ति मदर्थे त्यक्तजीवनाः ।
तेषां चाहं प्रसन्नात्मा सहाये सर्वदा स्थितः ॥१०३॥
यत्करोति करोत्येव श्रेष्ठं तन्मुक्तिकृद् यम! ।
नियोगी स्वामिकार्येषु यावच्छक्ति समीहते ॥१०४॥
तावता स कृतार्थः स्यान्नरकान्नैव गच्छति ।
कार्ये शक्तिविनिष्कान्ते स्वामिने वै निवेदयेत् ॥१०५॥
अनृणस्तावता भृत्यो नियोगी सुखमश्नुते ।
स्मान्निवेदितार्थस्य न ऋणं न च पातकम् ॥१०६॥
यत्ने कृते स्वकर्तव्ये नाऽपराधोऽस्ति देहिनः ।
तस्मादशक्यकार्येस्मिन्न विशोचितुमर्हसि ॥१०७॥
लक्ष्मीं वापि परित्यक्ष्ये प्राणान् देहमथापि वां ।
श्रीवत्सं कौस्तुभं मालां वैजयन्तीमथापि वा ॥१०८॥
.श्वेतद्वीपं च वैकुण्ठं क्षीरसागरमेव च ।
शोषं च गरुडं चैव न भक्त त्यक्तुमुत्सहे ॥१०९॥
विसृज्य सकलान् भोगान् मदर्थे त्यक्तजीवितान् ।
मदात्मकान् महाभागान् कथं तोस्त्यक्तुमुत्सहे ॥११०॥
तस्माद् राजन् दानकं ते भक्तवर्ये स्वयं हरिः ।
दातुं वै दर्शनं यामि नेतुं यानेन वै पुनः ॥१११॥
गच्छ त्वं यमलोकं च पश्चादायाम्यहं यम! ।
वद तस्मै ममाऽऽयं त्वं स मत्प्रेष्णाऽऽप्लुतस्तदा ॥११२॥
कीर्तनं मे विहायैव हास्यनृत्ये करिष्यति ।
तावत्तस्मै दर्शनं मे दत्वा धृत्वा विमानके ॥११३॥
गमिष्यामि तव कार्य कृत्वा याम्यस्य मण्डलात् ।
इत्युक्तश्च यमस्तत्र प्रजगामाऽतिहर्षितः ॥११४॥
श्रावयामास कृष्णस्याऽऽगमं तस्मै हिं दानिने ।
सोऽपि चकार नृत्यादि भगवत्प्रेमपूरितः ॥११५॥
तावद् दिव्यं विमानं वै नारायणहरेरियात् ।
चतुर्भुजं कृष्णनारायणं दृष्ट्वा तु दानकः ॥११६॥
कृष्णाज्ञया विमानं तु समारुह्य रटन् मुहुः ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ॥११७॥
नृत्यन् ध्यायन्नमन कृष्णं प्रेममग्नोऽभवत्तदा ।
धर्मराजकृतां पूजां संगृह्य भगवान् हरिः ॥११८॥
राधारमासमायुक्तो दुर्गे दानिगृहं ययौ ।
अवतार्य परं भक्तं स्वयं स्थित्वा निशां प्रभुः ॥११९॥
जीवन्त्या लावण्यवत्याः सेवां पतिव्रतामयीम् ।
स्वीकृत्य भोजनं लब्ध्वा दत्वा दिव्यं स्वदर्शनम् ॥१२०॥
अभयस्य कुटुम्बाय पातिव्रत्याऽयनाय च ।
जीवन्त्यां कलया राधां लावण्यायां श्रियं तथा ॥१२१॥
कलया वसितुं त्वाज्ञां दत्वा छायात्मके यथा ।
तथा ते कन्यके कृत्वा पावयित्वा गृहाणि च ॥१२२॥
उन्मत्ताया जले स्नात्वा पीत्वाऽम्भस्तत्र पावनम् ।
वैहायसेन दिव्येन यानेन स्वपदं ययौ ॥१२३॥
गोप्यो ज्ञात्वा तु तद्व्रत्तं मथुरामण्डलात्तथा ।
द्वारिकातः कृष्णपलयो जग्मुश्च दिव्यविग्रहाः ॥१२४॥
राधालक्ष्मीनिवासेन गोपीनां कृष्णयोषिताम् ।
वासरूपं बभूवैतत् क्षेत्रं दुर्गात्मकं पुरम् ॥१२५॥
श्रीहरेस्तत्र वासेन गोलोकसदृशं हि तत् ।
ब्रह्मधामसमं दिव्यं मोक्षदं जातमुत्तमम् ॥१२६॥
दर्शनात्स्पर्शनान्नद्या जलपानाऽवगाहनात् ।
धूल्यास्तु धारणाद् देहे पापक्षयश्च मोक्षणम् ॥१२७॥
राधालक्ष्मीप्रतापेन प्रातिव्रत्यवृषेण च ।
असंख्यानां तु दासीनां सांख्ययोगव्रतेन च ॥१२८॥
कोटियज्ञफलदातृ कृष्णनारायणाश्रितम् ।
श्रोतुर्वक्तुस्तीर्थयातुः पराऽक्षरपदप्रदम् ॥१२९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पातिव्रत्ये सौराष्ट्रपञ्चालदेशीयदादक ( दानक) नृपतेस्तलश्यामयात्रायां सिंहरूपर्षिघाते जातब्रह्महत्यायास्त्रितमुनिसेवया नाशोत्तरमागतयमदूतानां भगवत्पार्षदैर्निवारणं, हरिभजनेन यमनारकाणां मोक्षणं, दान ( द) कस्य राधालक्ष्मीनारायणाऽऽशीर्वादो दुर्गे जीवन्तीलावण्यवत्योरंशतया राधालक्ष्म्योर्निवासो हरेरपि दुर्गक्षेत्रे निवासश्चेत्यादिनिरूपणनामा त्रिंशत्यधिकचतुश्शततमोऽध्यायः ॥४३०॥
N/A
References : N/A
Last Updated : April 01, 2021
TOP