संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः २५९

कृतयुगसन्तानः - अध्यायः २५९

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
सर्वपुण्यमयो देवस्त्वमेव भगवान् स्वयम् ।
ददासि करुणासिन्धुः फलानि कर्मणां यथा ॥१॥
त्वां विस्मृत्याऽनुतिष्ठन्ति कुर्वन्ति मानवास्तु यत् ।
तत्फलं लभ्यते चात्र परत्र भययुक् तु तैः ॥२॥
त्वां स्मृत्वा येऽनुतिष्ठन्ति कुर्वन्ति यानि यानि वै ।
तत्फलं निर्गुणं नित्यानन्दमोक्षात्मकं त्वया ॥३॥
दयिते भगवँस्तस्मै शरणागतिशालिने ।
एवं फलप्रदाताऽसि सर्वकर्ममयोऽसि यत् ॥४॥
सर्वज्ञोऽसि कृपां कृत्वा वद मे परमेश्वर ।
आश्विनशुक्लपक्षे तु किंनाम्न्येकादशी भवेत् ॥५॥
को देवस्तत्र संपूज्यः को विधिः किंफलं तथा ।
किं दानं तत्र दातव्यं वद सर्वं हरेऽत्र मे ॥६॥
श्रीनारायण उवाच -
इषशुक्लैकादशी तु नाम्ना पाशांकुशा मता ।
सर्वपापहरा पुण्यप्रदा मोक्षप्रदा तथा ॥७॥
पद्मनाभः पद्मवत्या सह पूज्योऽत्र भक्तितः ।
शमीपत्राणि पूजायामर्घ्ये कामफलं मतम् ॥८॥
शालिपाकस्तु नैवेद्ये दाने तण्डुलमोदकाः ।
सर्वाभीष्टफलप्राप्त्यै सर्वं देयं जनार्दने ॥९॥
तपस्तप्त्वा चातितीव्रं चिरं मुनिर्यतेन्द्रियः ।
यत्फलं समवाप्नोति तन्नत्वा पद्मनाभकम् ॥१०॥
बहुपापानि कृत्वापि मोहितो मानवो व्रते ।
पद्मनाभं हरिं नत्वा न याति नरकं हि सः ॥११॥
पृथिव्यां तीर्थमात्राणि पुण्यान्यायतनानि च ।
कृतानि तेन सर्वाणि पद्मनाभप्रपूजनात् ॥१२॥
देवदेवं पद्मनाभं ये प्रपन्ना जनार्दनम् ।
न तेषां यमलोकस्य यातनाऽस्ति कदाचन ॥१३॥
एकामेकादशीं कृत्वा प्रसंगेनापि मानवः ।
यद्यपि घोरपापस्थो न याति यमयातनाम् ॥१४॥
नेदृशं पावनं किञ्चित् त्रिषु लोकेषु विद्यते ।
यादृशी पद्मनाभस्यैकादशी पापनाशिनी ॥१५॥
तावत्पापानि वै व्यक्तौ निर्भयानि वसन्ति हि ।
यावन्नोपावसेत्प्राणी पद्मनाभदिनव्रते ॥१६॥
अश्वमेधसहस्राणि राजसूयशतानि च ।
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥१७॥
नैकादशीसमं लोके पापक्षालनकारकम् ।
स्वर्गमोक्षप्रदं त्वत्र धनमित्रादिदायकम् ॥१८॥
शरीरारोग्यदं दारासुतपुत्रीकुलप्रदम् ।
व्याजेनापि कृतं येन न स याति यमालयम् ॥१९॥
न गंगा न गया लक्ष्मि! न काशी न च पुष्करम् ।
न चापि कौरवं क्षेत्रं श्रेष्ठं पुण्यं हरेर्दिनात् ॥२०॥
रात्रौ जागरणं कार्यं हरेः कार्यं महार्चनम् ।
निर्जलं चापि कर्तव्यं हरेर्दिने ह्युपोषणम् ॥२१॥
तेन वै लभ्यते लक्ष्मि! शाश्वतं धाम वै मम ।
दशैव मातृपक्षीयाः पितृपक्षस्थिता दश ॥२२॥
दश पत्नीपक्षगता उद्धरन्ति व्रताद् ध्रुवम् ।
चतुर्भुजा दिव्यरूपा गरुडांऽसकृताऽऽसनाः ॥२३॥
स्रग्विणः पीतवस्त्रास्ते विष्णुतुल्यपराक्रमाः ।
नार्यो लक्ष्मीसमा भूत्वा प्रयान्ति हरिमन्दिरम् ॥२४॥
बालत्वे यौवने वापि वार्धक्ये पारवश्यके ।
उपोष्यैकादशीं देही नैति पापोऽपि दुर्गतिम् ॥२५॥
पाशांकुशामुपोष्यैव हरेर्लोकं प्रयाति वै ।
दत्वा हेमतिलान् गाश्च जलमन्नं तथाऽम्बरम् ॥२६॥
उपानच्छत्रमन्यद्वा यमलोकं न पश्यति ।
पुण्यव्रतविहीनस्य जीवनं निष्फलं मतम् ॥२७॥
यस्य पुण्यविहीनानि दिनान्यायान्ति यान्ति च ।
स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥२८॥
स्नानं दानं जपं होमं ध्यानं सत्रादिकं तथा ।
समाचरन् यथाशक्ति ह्यवन्ध्यं दिवसं नयेत् ॥२९॥
दीर्घायुषो धनाढ्याश्च कुलीना रोगवर्जिताः ।
दृश्यन्ते मानवा लोके पुण्यकर्तार ईदृशाः ॥३०॥
तस्माद् व्रतं प्रकर्तव्यं पाशांकुशादिनात्मकम् ।
दशम्यामेकभुक्तः स्याद् ब्रह्मचारी भवेत्तथा ॥३१॥
भूशायी स्यान्निशि प्रातः स्नात्वा स्वनैत्यकार्चनम् ।
कुर्यात् षोडशसंचारैरर्थयेद् व्रतपूर्णताम् ॥३२॥
मण्डलं सर्वतोभद्रं कारयेत्सप्तधान्यकैः ।
मध्ये घटं वारिपूर्णं पंचरत्नसमन्वितम् ॥३३॥
धनपूर्णं च वा कृत्वा सवस्त्रं सफलं न्यसेत् ।
घटोपरि तिलस्थालीं स्थापयेत्कानकीं शुभाम् ॥३४॥
मूर्तिं श्रीपद्मनाभस्य पद्मावत्यन्वितां शुभाम् ।
पाशांकुशासहितां च स्थापयेदर्चयेत्तथा ॥३५॥
आवाहनादिकं कृत्वा पंचामृतादिभिस्ततः ।
तीर्थजलैर्हरिं संस्थापयेद् वस्त्राणि धारयेत् ॥३६॥
चन्दनाऽत्तरसौगन्ध्यं त्वर्पयेत्कज्जलादिकम् ।
पुष्परत्नसुवर्णादिहाराभूषाः समर्पयेत् ॥३७॥
भोजनं विविधं दद्याज्जलं मिष्टं समर्पयेत् ।
मुखवासं फलं दत्वा नीराजयेन्नमेन्मुहुः ॥३८॥
स्तुत्वा प्रदक्षिणादण्डवतः कृत्वाऽर्थयेत्क्षमाम् ।
धूपदीपादिसंजुष्टे दोलां व्योम्नि प्रबन्धयेत् ॥३९॥
हरिं संस्थापयेत्तत्र मध्याह्नेऽपि सुभोजयेत् ।
ताम्बूलजलपानादि दत्वा सायं तथाऽऽचरेत् ॥४०॥
षोडशोपस्करैः कृष्णं समर्च्यारार्त्रिकादिकम् ।
कुर्यात्सर्वं सुविधिना भोज्यं पेयं समर्पयेत् ॥४१॥
रात्रौ जागरणं कुर्याद् भागवतेषु संस्थितः ।
नर्तनं गायनं गीतं कीर्तनं स्मरणं तथा ॥२॥
वन्दनं चरणांगानां मर्दनं सेवनादिकम् ।
कुर्यात्प्रातर्हरिं ध्यात्वा स्नात्वा संपूज्य केशवम् ॥४३॥
भोजयेद्भगवन्तं च ताम्बूलं जलमर्पयेत् ।
साधून् साध्वीः स्वाश्रिताँश्च भोजयेन्मानयेत्ततः ॥४४॥
वृद्धान्नत्वा हरिं स्मृत्वा कृत्वा पंचमखान् पृथक् ।
ततो वै पारणां कुर्याद् दद्याद् दानानि भावतः ॥४५॥
एवं व्रतं समाप्यैव द्वादश्यां वै हरिं भजेत् ।
भवपाशविनाशोऽस्य व्रतिनो भवति ध्रुवम् ॥४६॥
शृणु लक्ष्मि! कथां दिव्यां यमपाशविमोचनीम् ।
आसीत्पूर्वे कृतयुगे वामदेवाभिधः ऋषिः ॥४७॥
आसन् शिष्या अनेकेऽस्य ब्रह्मवेत्तृसमग्रगाः ।
मुनयस्त्यागिनश्चान्ये गृहस्था ब्रह्मवित्तमाः ॥४८॥
स्नानं सन्ध्यां जपं होमं स्वाध्यायं पितृतर्पणम् ।
कुर्वन्ति स्म रवौ प्राप्ते रताः प्राप्तः स्वकर्मसु ॥४९॥
एकस्तेषु कर्मकाण्डी ऋषिर्वेदशिरा इति ।
नाम्नाऽभवत्सुवैदिकक्रियानिष्णात एव च ॥५०॥
चातुर्मास्यं व्रती कन्दाहारं कुर्वन्निनाय सः ।
कन्दविकृतिजन्यो वै रोगस्तस्योदरेऽभवत् ॥५१॥
जाठरस्यातिमन्दत्वमान्त्राणामुष्णफुल्लता ।
अपाचनं भवत्यस्य यत्किंचिद्भक्षितं भवेत् ॥५२॥
एवं शरीरक्षीणत्वेऽशक्तिः सम्यग् व्यवर्धत ।
आलस्यं स्नानगायत्रीजपपूजादिकेऽभवत् ॥५३॥
एवं नित्यं क्षीणभावात् त्यक्त्वा स्नानं च पूजनम् ।
शूद्रवद् वर्तयन्देहयात्रां करोति वै मुनिः ॥५४॥
कर्मत्यागेन च वेदशिरसः प्रत्यवायकम् ।
जातं तत्प्रत्यवायेन पुण्यं वै क्षीणतां गतम् ॥५५॥
आयुष्यान्तः समायातो याम्या नेतुः समागताः ।
वेदशिरास्तदा सम्यगाकुलो ह्यवदत्तु तान् ॥५६॥
कथं मे यमदूतानां दर्शनं केन कर्मणा ।
प्रत्यूचुर्यमदूतास्तं वेदकर्म विहाय वै ॥५७॥
यथेष्टं वर्तसे त्वं यत्फलं तद् याम्यवासदम् ।
उत्पथप्रतिपन्नस्य ब्राह्मणस्य यमालयः ॥५८॥
प्रायश्चित्तार्थमेवास्ति भुंक्ष्व तत्प्रत्यवायकम् ।
उक्त्वैवं बेदशिरसं ययुर्नीत्वा यमगृहम् ॥५९॥
यमराजस्तदीयं वै दृष्ट्वा कर्म यथार्थतः ।
चित्रगुप्तं तदा प्राह प्रत्यवायोऽस्य वै महान् ॥६०॥
अधीतवेदविस्मारात्मकं यत्पातकं महत्॥
ब्रह्महत्यासमं प्रोक्तं पाशैर्बध्वा हि नीयताम् ॥६१॥
पात्यतां नरके ब्रह्मघातिनां कालसूत्रके ।
असिपत्रवने त्वेनं नीत्वा संप्रहरन्त्वपि ॥६२॥
इत्युक्त्वा विररामाऽसौ यमराजस्तु नीतिकृत् ।
वेदशिरास्तदा प्राह यमराजं सुबुद्धिमान् ॥६३॥
आपत्काले शरीरस्य मया वेदस्तु विस्मृतः ।
त्यक्तं कर्माऽप्यशक्त्या वै कथं मे नरकं भवेत् ॥६४॥
आपत्कालस्य धर्मा वै नाऽधर्मगणनां गता ।
तस्मात्पापं न मे त्वस्ति नास्ति मे यमपूरकम् ॥६५॥
धर्मराजस्ततः प्राह यावद्रागोऽपि विद्यते ।
तावदापत्कृतो धर्मो रुग्णाऽभावे स नो मतः ॥६६॥
स्वल्पापदि बहुत्यागः स त्वधर्मो महान्मतः ।
न तेऽस्ति तादृशो रोगो येन नोच्चारिता श्रुतिः ॥६७॥
विस्मृता च त्वया त्वालस्येन वै सकला श्रुतिः ।
प्रत्यवायस्ततो जातस्त्यक्तं कर्मापि सर्वथा ॥६८॥
यथाशक्तिप्रकर्तव्यं ब्राह्मणेन विजानता ।
सुजानता तदा सर्वं त्यक्तव्यं संभवेत् कथम् ॥६९॥
तस्मादालस्यदोषेण कर्मधर्मातिवर्जितः ।
च्युतो ब्रह्मक्रियामार्गाद् दण्डमर्हति सर्वथा ॥७०॥
तदा वेदशिरास्तत्र मानसेऽचिन्तयद्गुरुम् ।
वामदेवं महाब्रह्मावतारं सोऽपि चाययौ ॥७१॥
धर्मराजेन तु तदा सत्कृतो वामदेवकः ।
निषसादाऽऽसने दत्ते शिष्येणापि नमस्कृतः ॥७२॥
वामदेवेन सर्वं तत्कर्म यममुखाच्छ्रुतम् ।
प्रत्यवायात्मकं तथ्यं विना दण्डं न नश्यति ॥७३॥
वामदेवः कृपालुर्वै चिन्तयामास तत्कृते ।
यथा दण्डो न भोक्तव्यः कर्मापि निष्फलं भवेत् ॥७४॥
तादृशं चिन्तयित्वैव कथयामि तरेदयम् ।
विलोक्य सर्वतस्तत्र प्राह शिष्यं यमं तथा ॥७५॥
शृणुतं द्वावपि शिष्यौ यम! वेदशिरस्तथा ।
व्रतं चास्ति महत्कालसूत्रासिपत्रनाशकम् ॥७६॥
आश्विनशुक्लैकादशिकाव्रतं बलवन्मत्तम् ।
ब्रह्महत्यादिपापानां तत्समानां च नाशकम् ॥७७॥
कर्तव्यं श्रद्धयाऽनेन प्रायश्चित्तं कृतं भवेत् ।
एवमेकादशीनाममात्रश्रवणतस्तदा ॥७८॥
ब्रतसंकल्पतश्चाप्यायुष्यं सुसन्धितं पुनः ।
गुरोश्चापि प्रतापेन पुनरायुष्यमाप्तवान् ॥७९॥
गृहीत्वाऽऽतीथ्यसत्कारं ययतुर्यत्र वै शवम् ।
शिष्यं प्रवेशयामास गुरुः प्राह ततो व्रतम् ॥८०॥
स्नात्वा गुरोः पूजनं च कृत्वा स्वास्थ्येन संस्थितः ।
आगतं चेषशुक्लैकादशीव्रतं कृतं ततः ॥८१॥
वेदविस्मरणोत्पन्नपापध्वंसोऽप्यभूत् क्षणात् ।
कर्मत्यागादिपापानां भस्मभावोऽभवत्तदा ॥८२॥
ततो वेदशिरा दीर्घमायुष्यं चाप्तवान् शुभम् ।
गुरोर्बलात्तु करणादेकादशीव्रतस्य वै ॥८३॥
यमपाशविनाशोऽस्याऽभवत्सेवाव्रतेन च ।
इयमेकादशी तस्मात्पाशानामंकुशं मतम् ॥८४॥
करिणामंकुशं यद्वत् तथा पाशांकुशाव्रतम् ।
कर्तव्यं यमपाशानां नाशनाय जनैः शुभम् ॥८५॥
स्वर्गमोक्षप्रदं सर्वसम्पत्करं सुखप्रदम् ।
आरोग्यदं त्रिविधानां तापानां शमनं परम् ॥८६॥
वासनापाशबन्धानां नाशकं पापनाशकम् ।
देहदैहिकपाशानां नाशकं विपदां तथा ॥८७॥
अहंममत्वपाशानां ध्वंसकं द्वेषरागयोः ।
शमनं सुभगदातृ दारापतित्वदायकम् ॥८८॥
क्लेशदावानलशान्तिकरं शाश्वतधामदम् ।
हरेर्योगप्रदं वैकुण्ठदं गोलोकदं तथा ॥८९॥
पाशांकुशाव्रतं लक्ष्मि! प्रकर्तव्यं प्रयत्नतः ।
पठनाच्छ्रवणाच्चापि व्रतपुण्यप्रदं हि तत् ॥९०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आश्विनशुक्लपाशांकुशैकादशीव्रतमाहात्म्यं वामदेवर्षि-शिष्यवेदशिरसोऽजीर्णरोगादालस्येन धर्मकर्मादिवर्जनात्पातकबलेन यमलोकप्राप्तौ स्मृतगुरुवामदेवोपस्थित्या व्रतेन च यमपाशविमोक्षणमित्यादि निरूपणनामा एकोनषष्ट्यधिकद्विपञ्चाशत्तमोऽध्यायः ॥२५९॥

N/A

References : N/A
Last Updated : March 29, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP