संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४०३

कृतयुगसन्तानः - अध्यायः ४०३

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
श्रीर्यत्रांशस्वरूपेण सीताछायास्वरूपिणी ।
वेदवती स्वयं लक्ष्मीस्वरूपाऽऽविर्बभूव या ॥१॥
तत्क्षेत्रस्य सुमाहात्म्यं केन वक्तुं हि शक्यते ।
वेंकटाद्रिर्ब्रह्मधामस्वरूपोऽस्ति यदाश्रयात् ॥२॥
यत्र नारायणः कृष्णो राजते वै स्वयंप्रभुः ।
यत्र वराहभगवान् साक्षाद् भवति वै मुहुः ॥३॥
यत्र भक्ताश्च जायन्ते वैष्णवा लोकतारकाः ।
यद्भूमेः कंकरकणोऽप्यस्य लोकस्य तारकः ॥४॥
यद्भूमिस्थलवार्याद्य महापातकनाशकम् ।
ब्रह्मधामप्रदं साक्षात् कृष्णस्वामिप्रदं शुभम् ॥५॥
यत्र पतिव्रता नार्यो वर्तन्ते मुक्ततां गताः ।
वैष्णव्यश्च महासाध्व्यः स्वामिसेवापरायणाः ॥६॥
पत्युर्भक्ताः कृष्णनारायणपत्न्यो हि ता मताः ।
राधालक्ष्मीसमाः सर्वाः पार्वतीमाणिकीसमाः ॥७॥
प्रभारमासमा जयाविजयादिसमा हि ताः ।
यैः पूजितो रमाद्याभिर्युतः कृष्णनारायणः ॥८॥
तैः स्वर्गं शाश्वतं मोक्षस्थानमावृत्तिवर्जितम् ।
प्राप्तमेव न सन्देहो ममानुग्रहणात् प्रिये! ॥९॥
पृथिव्यां यानि तीर्थानि ब्रह्माण्डान्तर्गतानि च ।
वेंकटाद्रौ वसन्त्येव तानि कृष्णपदाम्बुजे ॥१०॥
तस्य देवस्य सेवार्थं मुनयश्चेश्वरास्तथा ।
देवाश्च ऋषयः सिद्धा योगिनो यतयस्तथा ॥११॥
साध्व्यश्च साधवो धीरा विज्ञा देवेश्वरादयः ।
सकुटुम्बा हि सेवार्थमायान्ति प्रतिवासरम् ॥१२॥
ब्रह्मणा कार्तिके वेंकटेशध्वजमहोत्सवः ।
कृतस्तदा सत्यलोकेश्वराश्चायान्ति वत्सरे ॥१३॥
स्वामिसरोवरे तस्य दक्षिणे वैकटेश्वरे ।
तदा पुण्यं तीर्थकृतश्चासंख्यं जायते प्रिये! ॥१४॥
दशवर्षैस्तु यत्पुण्यं क्रियते तु कृते युगे ।
त्रेतायामेकवर्षेण तत्पुण्यं साध्यते जनैः ॥१५॥
द्वापरे पञ्चमासेन कलौ तु दिनमात्रतः ।
तत्फलं कोटिगुणकं श्रीनिवासस्य दर्शने ॥१६॥
निमिषे निमिषे लक्ष्मि! जायते नात्र संशयः ।
रजःकणेन च मुक्तिर्जायते कृष्णसन्निधौ ॥१७॥
श्रीनिवासं महादेवं वेंकटेशं नरायणम् ।
कीर्तयन्ति हृदा ये ते मुच्यन्ते भवपंजरात् ॥१८॥
किं दानैः किं व्रतैरन्यतीर्थैस्तपसा चाऽध्वरैः ।
किं काश्या किं च गयया प्रयागेनापि किं फलम् ॥१९॥
किं शंभुना विश्वसृजा किं शक्रेणाऽमरादिभिः ।
येन नारायणो वेंकटेशो दृष्टोऽतिभक्तितः ॥२०॥
वेंकटेश्वरदेवस्य भक्तिमष्टविधां चरेत् ।
तद्भक्तजनसत्कारपूजादिपरितोषणम् ॥२१॥
देवपूजनसन्तोषस्तदर्थं देहचेष्टितम् ।
तन्माहात्म्यकथाश्रुतिश्चरित्रश्रवणं तथा ॥२२॥
नृत्यप्रेमाञ्चितभावो वेंकटध्यानमित्यपि ।
वेंकटाद्रिनिवासोपजीवनं चेति मुक्तिदाः ॥२३॥
भक्तिरेवंविधा बोध्या वेदान्तश्रवणं विना ।
वेंकटो वेंकटेशश्च नारायणस्वरूपिणौ ॥२४॥
वेंकटं प्रार्थयेत्पुण्यनारायणपदप्रदम् ।
त्वां भवन्तमहं पद्भ्यामाक्रमेयं नगोत्तम! ॥२५॥
त्वन्मूर्धनि कृतावासं श्रीकृष्णं दर्शयस्व मे ।
स्वामिपुष्करिणीतीर्थे स्नात्वाऽग्रे पापनाशने ॥२६॥
तीर्थे त्वाचमनं कृत्वा स्नायात् पापविनाशने ।
आसीच्छूद्रसमाचारो ब्राह्मणः सुमतिः पुरा ॥२७॥
मालिन्यदोषभावेन गृहीतो ब्रह्मरक्षसा ।
रुदन् भ्रमन् स्खलन्मूढः प्रलपन्प्रहसन्नसौ ॥२८॥
शश्वद्धाहेति च वदन् मेधां पुण्यां समत्यजत् ।
तत्पिता तं वेंकटाद्रौ नीत्वा स्नानमकारयत् ॥२९॥
दिनत्रयं जलपानं तीर्थे पापविनाशने ।
तेन तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा ॥३०॥
बहुकालं सुखी भूत्वा देहान्ते मुक्तिमाप्तवान् ।
जलपानप्रसंगेन तीर्थेन ब्रह्मराक्षसः ॥३१॥
अपि मुक्तिं ययौ लक्ष्मि! मम योगेन तत्स्थले ।
एवं चान्योऽपि दारिद्र्ययुक्तो भद्रमतिर्द्विजः ॥३२॥
शास्त्रज्ञो धार्मिकश्चासीत् षट्पत्नीसेवितः खलु ।
तत्पुत्रवंशीयाश्चाभवन् क्षुधयाऽर्दिताः ॥३३॥
तान्पश्यन् स भद्रमतिर्विललापाऽऽकुलेन्द्रियः ।
धिग्जन्म भाग्यरहितं धनकीर्तिविवर्जितम् ॥३४॥
आतिथ्यवर्जितं जन्म धिग् ज्ञानाचारवर्जितम् ।
यत्नसौख्ययशोबन्धुख्यात्यादिरहितं च धिक् ॥३५॥
ऐश्वर्यवर्जितं बह्वपत्यवज्जन्म धिक् तथा ।
अहो गुणाः सौम्यता च विद्वत्ता सत्कुलादिकम् ॥३६॥
धनहीनस्य सर्वैतच्छ्रेष्ठमपि न शोभते ।
सुता दाराः पुत्रपुत्रा बान्धवा भ्रातरस्तथा ॥३७॥
शिष्या भृत्या मातरश्च त्यजन्ति धनवर्जितम् ।
चाण्डालो वा यतिर्वापि सधनः पूज्यते भुवि ॥३८॥
कुणपो गण्यते रिक्तः संभृतो गण्यते धनी ।
अगुणो गुणवान् मूर्खो पण्डितत्वेन गण्यते ॥३९॥
धर्मशून्यः सधर्मश्च गण्यते धनवान् जनैः ।
तस्माद् दरिद्रता चाशा दुःखा दुःखतरा मताः ॥४०॥
आशादासाः सदा क्लिष्टा दास्याशः सुखमेधते ।
आकिंचन्यमहाग्राहग्रस्तो मृत्युमुखान्तिकः ॥४१॥
अहो दुःखं कथं चेद्ं तर्त्तव्यं मादृशेन वै ।
इति चिन्तयतस्तस्य भार्या कञ्चनसंज्ञिका ॥४२॥
पतिव्रता महाभाग्या सर्वदा पतिदेवता ।
सर्वसाधुगुणैर्युक्ता पतिं तं प्रत्यभाषत ॥४३॥
भगवन् सर्वधर्मज्ञ सर्वार्थ ज्ञानशेवधे! ।
मम कान्त सदा पूज्य शृणु वदामि तत्कुरु ॥४४॥
सुवर्णमुखरीतीरे पावनो वेंकटाचलः ।
तत्र च परमं तीर्थं नाम्ना पापविनाशनम् ॥४५॥
स्नानमात्रेण पापानां दाहकं धनपुण्यदम् ।
सर्वदुःखप्रशमनं सर्वसम्पत्प्रदायकम् ॥४६॥
धर्मैश्वर्यप्रदं चैतन्नारदश्चाऽब्रवीत्पुरा ।
भूमिदानं चरेत् तत्र सर्वकामफलप्रदम् ॥४७॥
भूमिदानात्परं दानं न भूतं न भविष्यति ।
परं निर्वाणमाप्नोति भूमिदो नात्र संशयः ॥४८॥
स्वल्पामपि महीं दत्वा श्रीकृष्णाय द्विजाय च ।
साधवे चाग्निहोत्रार्थं ब्रह्मलोके महीयते ॥४९॥
भूमिदः सर्वदः प्रोक्तो मोक्षणं तेन वै भवेत् ।
दशहस्तां महीं दत्वा सर्वपापैः प्रमुच्यते ॥५०॥
सत्पात्रे भूप्रदाता वै सर्वदानफलं लभेत् ।
इक्षुगोधूमकेदारपूगखर्जूरशोभिता ॥९१॥
मही प्रदीयते येन स भवेद् वैष्णवोऽक्षरे ।
देवार्थं भूप्रदाता तु मुक्तो भवति शाश्वतः ॥५२॥
गंगातीरेऽश्वमेधानां फलभाग् द्रोणभूप्रदः ।
अश्वमेधसहस्राणां वाजपेयशतात्मनाम् ॥५३॥
गंगातीरकृतानां वै फलभाग् भारभूप्रदः ।
इति भार्यावचः श्रुत्वा तदा भद्रमतिर्ययौ ॥५४॥
सुशालीनगरीं यत्र सुघोषं ब्राह्मणोत्तमम् ।
ययाचे पृथिवीं पञ्चहस्तां सोऽपि ददौ मुदा ॥५५॥
उवाचाऽपि कृतार्थोऽहं सफलं मम जन्म च ।
मत्कुलं पुण्यवज्जातं विप्रोऽसि यस्य याचकः ॥५६॥
पृथिवी वैष्णवी पुण्या पृथिवी विष्णुपालिता ।
दीयते शुभपात्राय प्रीयतां मे जनार्दनः ॥५७॥
सोऽपि भक्तो हरेस्तां च गृहीत्वा हि वसुन्धराम् ।
ततो ययौ वेंकटाद्रौ यत्र स्वामिसरोवरम् ॥५८॥
तत्र स्नात्वा ततः श्वेतवाराहं वसुधाधरम् ।
नत्वा ययौ वेंकटेशं श्रीनिवासं परेश्वरम् ॥५९॥
ततो ययौ परं तीर्थं पापनाशननामकम् ।
स्नात्वा ददौ श्रोत्रियाय भूदानं वैष्णवाय सः ॥६०॥
तत्कालं भगवाँस्तत्र साक्षादाविर्बभूव ह ।
भद्रमतिःस्तवं चक्रे नमो नारायणाय ते ॥६१॥
कारणाय प्रपालायाऽन्तकाय नायकाय च ।
पावकाय प्रसन्नाय स्मृद्धिदाय च ते नमः ॥६२॥
श्रीशाय श्रीकृष्णनारायणाय भूधराय च ।
लक्ष्मीशाय प्रभेशाय माणिकीशाय ते नमः ॥६३॥
पार्वतीशाय गोपालबालकाय च ते नमः ।
कंभरांकप्रजाताय सर्वज्ञाय च ते नमः ॥६४॥
चक्रपद्मादिचिह्नाय पुमुत्तमाय ते नमः ।
क्षीरसागरवासाय श्रीलक्ष्मीसेविताय च ॥६५॥
अभीष्टसुखदात्रे ते यज्ञवाराहरूपिणे ।
नमस्ते कमलाकान्तपद्माकान्ताय ते नमः ॥६६॥
पद्मिनीपतये भक्तदारिद्र्यनाशकाय ते ।
साधुरूपाय ते कृष्ण! भूयो भूयो नमो नमः ॥६७॥
इति श्रुत्वा हरिः प्राह तुष्टोऽस्मि ब्राह्मणोत्तम! ।
सर्वभोगसमायुक्तो देहान्ते मुक्तिमाप्नुहि ॥६८॥
एवं वरं प्रदायैव तत्रैवान्तरधीयत ।
पापनाशनतीर्थे स द्विजः स्नात्वा गृहं ययौ ॥६९॥
श्रेष्ठी स्वर्णधनधान्यस्मृद्धिमानभवत् ततः ।
पृथ्वीदानप्रतापेन महेन्द्र इव चापरः ॥७०॥
अथाऽपरं महत्तीर्थं वर्तते मोक्षदं नृणाम् ।
आकाशगंगाविख्यातं तन्माहात्म्यं वदामि ते ॥७१॥
रामानुजो द्विजः कश्चिद् विष्णुध्यानपरायणः ।
तपस्तेपे स पंचाग्निमध्यस्थोऽष्टाक्षरं जपन् ॥७२॥
वृष्टौ जले स्थितश्चापि द्वन्द्वस्पर्शविवर्जितः ।
जीर्णपर्णाशनो जलाहारो वाय्वदनश्चिरम् ॥७३॥
तस्थौ तपसि श्रद्धालुस्तुष्टोऽस्य भक्तवत्सलः ।
प्रक्ष्यतामगात्तत्र कृष्णनारायणः स्वयम् ॥७४॥
स्वर्णभूषाञ्चितदेहो रमाराधादिसेवितः ।
विश्वक्सेनसुनन्दाद्यैः सहितः श्रीरमेश्वरः ॥७५॥
नारदादियुतश्चापि पीताम्बरधरः प्रभुः ।
सनकादिमहायोगिसेवितद्वयपार्श्वकः ॥७६॥
वेंकटेशं दयालुं तं तुष्टाव तापसो द्विजः ।
नमो रामाय चक्रादिधारिणे महते नमः ॥७७॥
नित्यशुद्धस्वरूपाय नमो भक्तार्तिहारिणे ।
परव्यूहविभवायाऽर्चादिरूपाय ते नमः ॥७८॥
अन्तर्यामिस्वरूपात्मव्यापिने ते नमो नमः ।
श्रीकृष्णाय महाभूम्ने नारायणाय ते नमः ॥७९॥
नमो हिरण्यगर्भाय वैराजाय च वेधसे ।
सदाशिवाय कान्ताय विष्णवे ब्रह्मणे नमः ॥८०॥
ईश्वरेशायेश्वराय पुष्पवन्नेत्रिणे नमः ।
नामजात्यादिपाराय नामजात्यादिरूपिणे ॥८१॥
कांभरेयाय कृष्णाय गोपीमण्डलरासिने ।
गोपालजाय गोसेवास्निग्धाय ते नमो नमः ॥८२॥
वेदान्तन्यायवेद्याय भाष्याय भाष्यकारिणे ।
आगमान्तःसुगतये लोकरक्षाय ते नमः ॥८३॥
सौराष्ट्राऽऽविःस्वरूपाय रैवताचलवासिने ।
अश्वपट्टक्षितीशाय पुष्करारण्यशालिने ॥८४॥
काशेश्वराय रंगादिपूजिताय च ते नमः ।
इति स्तुत्वा श्रीनिवासं रामानुज इयाय शम् ॥८५॥
वेंकटेशः समालिंग्य रामानुजमुवाच ह ।
स्तोत्रेण तपसा तुष्टो वरं वृणोतु सत्वरम् ॥८६॥
रामानुजस्तदा प्राह श्रीनिवास हरे प्रभो ।
त्वद्दर्शनात् कृतार्थोऽस्मि किं मेऽद्य दर्शनात् परम् ॥८७॥
देवाः पितरो मुनयो नैष्ठिकाः कर्मठाश्च यम् ।
योगिनो ज्ञानकुशलाः न पश्यन्ति विदन्ति न ॥८८॥
वेद्मि पश्यामि तं चाद्य किमस्मादधिकं नु मे ।
एतेन तु कृतार्थोऽस्मि मुक्तिबीजेन सर्वथा ॥८९॥
त्वत्पादपद्मयुगले निश्चला भक्तिरस्तु मे ।
इत्याश्रुत्य हरिः प्राह मयि भक्तिर्दृढाऽस्तु ते ॥९०॥
अत्र ते तपसः स्थाने समागत्य तु ये जनाः ।
स्नास्यन्त्याकाशगंगायां यास्यन्ति धाम मे परम् ॥९१॥
त्वं च प्रारब्धदेहान्ते मत्स्वरूपमवाप्स्यसि ।
वियद्गंगास्नातकास्तु सर्वे भागवतोत्तमाः ॥९२॥
लक्ष्म भागवतानां त्वं शृणु भागवतोत्तम! ।
भगवन्मयचर्या ये कर्मणा मनसा गिरा ॥९३॥
सर्वकार्याणि कृष्णार्थे कुर्वन्तः कृष्णचिन्तकाः ।
ज्ञानिनो निःस्पृहाः शान्तास्ते वै भागवतोत्तमाः ॥९४॥
सर्वेषु कृष्णद्रष्टारः कृष्णस्य सत्कथादराः ।
कृष्णपादाम्बुजभक्ता ये ते भागवतोत्तमाः ॥९५॥
मातापित्रोः कृष्णतन्वोः शुश्रूषादिपरायणाः ।
देवार्चनप्रपूजादिपरामोदभराश्च ये ॥९६॥
साधुसेवापराश्चापि साध्वीमानप्रदाश्च ये ।
परेशवृत्तयो ये ते महाभागवतोत्तमाः ॥९७॥
आत्मवत्सर्वभूतानां दृग्वद्भागवतोत्तमाः ।
शास्त्रज्ञा धर्मधर्तारः सत्यवाचः सदुत्तमाः ॥९८॥
कृष्णकथारताः कथावक्तरि स्नेहभावनाः ।
तीर्थप्रियाः कामधेनुसेवका वै सदुत्तमाः ॥९९॥
अन्योदये प्रसन्नाश्च कृष्णनामपरायणाः ।
कृष्णार्थं जलखातारो ये ते भागवतोत्तमाः ॥१००॥
देवालयप्रकर्तारो देवगायत्रिकाजपाः ।
भक्तिहर्षा हरौ मग्ना ये ते भागवतोत्तमाः ॥१०१॥
तुलसीपूजका वृन्दां नमन्ति तुलसीकराः ।
तुलसीमालिकाध्राश्च तुलसीचन्दनाञ्चिताः ॥१०२॥
तुलसीमृत्तिकादेहास्ते वै भागवतोत्तमाः ।
वेदादिषु हरेः कृष्णनारायणस्य दर्शकाः ॥१०३॥
आतिथ्यादौ कृष्णनारायणस्यैव सुचिन्तकाः ।
ज्ञाततत्त्वेषु वै ब्रह्मबोधकाः साधुवृत्तयः ॥१०४॥
सर्वगुणादिसद्ग्राहास्ते वै भागवतोत्तमाः ।
एकादश्यादिव्रतिनः कृष्णार्थकर्मकारिणः ॥१०५॥
राधां लक्ष्मीं रमां श्रीं पार्वतीं प्रभां च माणिकीम् ।
ममांशां योषितं दृष्ट्वा नमन्ति वैष्णवीं तु ये ॥१०६॥
मत्स्वरूपां मयाऽधिष्ठितां पश्यन्ति हृदा सदा ।
बाले च बालिकायां च ते वै भागवतोत्तमाः ॥१०७॥
तथा नृषु प्रपश्यन्ति याः कृष्णं मां नरायणम् ।
ता वै सत्यो महाभागवत्यः प्रोक्ता मयाऽनघ ॥१०८॥
नराः सर्वे कृष्णरूपा नार्यो राधारमात्मिकाः ।
इति भागवतज्ञाना ये ते भागवतोत्तमाः ॥१०९॥
संक्षेपात्तु कथयामि मदर्थं सर्वथा स्थिताः ।
नरा नार्यः पशवोऽपि सर्वे भागवतोत्तमाः ॥११०॥
रामानुज! त्वमेवासि तथा भागवतोत्तमः ।
प्रसन्नोऽस्मि त्वयि ध्रौव्यभक्तिस्थितेः सदा प्रिय! ॥१११॥
तीर्थमाकाशगंगाख्यं तारकं भवपारकृत् ।
स्नातॄणां मोक्षदं चास्ति भुक्तिमुक्तिफलप्रदम् ॥११२॥
इत्युक्त्वाऽन्तर्दधे कृष्णनारायणः प्रभुस्तदा ।
पठनाच्छ्रवणाच्चास्य भक्तिमोक्षश्च हस्तगः ॥११३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये भगवत्पातिव्रत्यपालकानां सुमतिभद्रमतिरामानुजानां तीर्थोत्तमे मोक्षणमित्यादिनिरूपणनामा
त्र्यधिकचतुःशततमोऽध्यायः ॥४०३॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP