संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३६३

कृतयुगसन्तानः - अध्यायः ३६३

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
नाचिकेता पातिव्रत्यधर्मं श्रुत्वा यमाननात् ।
यमं पप्रच्छ कुशलं सर्वलोकहितावहम् ॥१॥
शृणु वच्मि यथा पृष्टं लक्ष्मि! वै नाचिकेतसा ।
धर्मराज! महाबाहो! कथयस्व महातपाः ॥२॥
कांक्षन्ते सर्वजनता सुखं तपोव्रतादिभिः ।
एवं कृच्छ्राश्रितानां धीः कथं पापे प्रजायते? ॥३॥
नानाव्रतशतोपायाः श्रेयोधर्मा हि मानवाः ।
कस्यैतच्चेष्टितं पापं कर्ता कारयिता तु कः ॥४॥
कथं द्वेषे मतिर्यद्वा कथं रागे प्रजायते ।
कः कर्षति जगत्त्वेको भूतग्रामं चतुर्विधम् ॥५॥
श्रुत्वा प्राह यमो देवो ब्रह्मर्षे! श्रूयतां तु तत् ।
मानवा ब्रह्मणा सृष्टाः श्रेयोर्थं त्वेव केवलम् ॥६॥
अन्ययोनिगता दुःखाः सुखिनः खलु मानवे ।
धर्मज्ञानपरा भूत्वा भक्त्या श्रेयःपरायणाः ॥७॥
तपसा व्रतदानैश्च स्वर्गं मोक्षं प्रयान्त्विति ।
ऐन्द्रियिकं सुखं तत्र रागिणां सुखलब्धये ॥८॥
प्रदत्तं धनदारादि स्पर्शादि सार्वकालिकम् ।
सन्तुष्टाश्च सदा तृप्ता आत्मस्मरणकारकाः ॥९॥
नाकृष्यन्तेऽति तद्वेगे निर्वर्तन्ते यतः सुखाः ।
उपभोगेन तृष्णा स्याद् बलं तस्याः प्रजायते ॥१०॥
न्यायमार्गं परित्यज्य तया पापे प्रवर्तते ।
तृष्णया स्वार्थबुद्ध्या च कामक्रोधादिमिश्रया ॥११॥
मृगतृष्णारूपया च स्वाप्नार्थहादितुल्यया ।
प्रायो निष्फलया बन्धफलयाऽऽव्रियतेऽवशः ॥१२॥
नान्यस्य चेष्टितं पापं सतृष्णस्यैव चेष्टितम् ।
कर्ता कारयिता नान्यः स्वतृष्णामन्तरा भवेत् ॥१३॥
इष्टाऽलाभे भवेद् द्वेष्टा लाभे रागी प्रजायते ।
तृष्णया तत्र संकृष्टोऽविवेक्यग्रे प्रवर्तते ॥१४॥
करोति कार्यं चाकार्यं तत् सञ्चितं प्रजायते ।
आत्मानं पातयत्यात्मा भुंक्ते कर्म कृतं स्वयम् ॥१५॥
आगतं भजते पूर्वं सुकृतं वाऽथ दुष्कृतम् ।
आत्मा शत्रुश्च बन्धुश्च स्वस्य भवति भूसुर! ॥१६॥
स्वस्य भोग्यं परिक्लेशं निर्मितं पूर्वकर्मभिः ।
जगत्यामुपभुंक्ते वै जीवो योनिशतं गतः ॥१७॥
अन्तरात्मा हृदयस्थो जगत्सर्वं प्रपश्यति ।
संकल्पेन तथा शक्त्या जीवकर्मानुसारतः ॥१८॥
प्रकाशते यथाकालं शुभं वाऽप्यथवाऽशुभम् ।
ज्ञानं क्रियां हि जीवानां ताभ्यां कुर्वन्ति कर्म च ॥१९॥
ज्ञानक्रिये तु जीवस्थे जीवायत्ते हि पक्षिणी ।
पक्षाभ्यां विषये देशे धावत्यग्रे हि तृष्णया ॥२ ०॥
साधुकारी भवत्येव साधुः स्वर्गादिपुण्यभाक् ।
असाधुकारी भवत्यसाधुर्निरयपापभाक् ॥२१॥
मायया वर्ष्मणोपादानत्वं तु ब्रह्मणो भवेत् ।
कालेन तु महाशक्त्या सहकारित्वमुच्यते ॥ २२॥
संकल्पेन हरेस्तत्र निमित्तमात्रताऽस्ति वै ।
यथा सृष्टौ भगवतस्तथा जीवस्य कर्मणि ॥२३॥
पुत्रोत्पादे ह्युपादानत्वं जीवस्य शरीरिणः ।
ऋतुकाले समागृह्य सहकारित्वमित्यपि ॥२४॥
कामनायुक्तजीवस्य निमित्तमात्रतापि च ।
एवं सर्वत्र जीवानां हेतुता फलभागिता ॥२५॥
तस्माच्छास्त्रादिभिर्ज्ञात्वा श्रेयः कर्म समाचरेत् ।
अश्रेयः सर्वथा ज्ञानयत्नाभ्यां वै परित्यजेत् ॥२६॥
यथा यथा क्षयं याति ह्यशुभं तु जनस्य वै ।
तथा तथा शुभा बुद्धिर्वर्धते च प्रवर्तते ॥२७॥
क्लेशक्षयं पापहरं शुभं कर्म करोति च ।
अर्जिते विमले पुण्ये ह्यमरेषु महीयते ॥२८॥
फलप्रकाशनप्राप्तिश्चान्तर्यामिकृताऽस्ति वै ।
स्वर्गः शुभफलप्राप्तिर्निरयः पापसंभवः २९॥
नाचिकेतः शृणु तत्र स्वकृते शुभवर्त्मनि ।
मनसा कर्मणा वाचा तपसा चरितेन वा ॥३०॥
शुभमेवाऽवलम्बेन पापेभ्यः स प्रमुच्यते ।
यः समः सर्वभूतेषु जितात्मा शान्तमानसः ॥३१॥
परोपकारकर्ता च परदुःखान्निवर्तते ।
परेषां सुखदो नित्यं स पापेभ्यो विमुच्यते ॥३२॥
तत्त्वार्थं वेत्ति यः सम्यग् जड चेतनं तद्गुणान् ।
मोहशून्योऽनपेक्षश्च पदं प्राप्नोति शाश्वतम् ॥३३॥
गुणाऽगुणपरिज्ञाता क्षयाऽक्षयविवेकवान् ।
आत्मध्यानपरो ज्ञाता स पापेभ्यः प्रमुच्यते ॥३४॥
स्वदेहे परदेहे च स्वार्थपरार्थसदृशः ।
अहिंसाव्रतवान् विज्ञः स मुच्येतैनसा ध्रुवम् ॥३५॥
अनुद्वेगकरो यस्तु तृष्णाक्रोधादिवर्जितः ।
न्यायमार्गानुसारी यः स पापेभ्यः प्रमुच्यते ॥३६॥
प्राणायामपरो नित्यं धारणाध्यानवाँश्च यः ।
विनिर्वृत्तमना यश्च स पापेभ्यः प्रमुच्यते ॥३७॥
यस्य कुत्रापि नाऽऽशाऽस्ति लोलुपो नेष्टवस्तुषु ।
नित्यतृप्तस्त्यजेद् देहं स याति परमं पदम् ॥३८॥
श्रद्धावान् सुरपूजादौ पितृसेवापरायणः ।
परद्रव्याऽनभिलाषी स पापेभ्यः प्रमुच्यते ॥३९॥
गुरुशुश्रूषणपरोऽनसूयोऽमत्सरोऽघृणी ।
उदारचरितोऽक्षुद्रशीलो मुच्येत बन्धनात् ॥४०॥
प्रशस्तानां तु यः कर्ताऽनृशंसपरिहारवान् ।
मंगलोत्सवकर्ता यः स पापेभ्यः प्रमुच्यते ॥४१॥
तीर्थं गच्छति यो नित्यं शुद्धं ब्रह्म स्मरन् सदा ।
अपापां वर्तयन् वृत्तिं स पापेभ्यः प्रमुच्यते ॥४२॥
उत्थाय पितरं देवं मातरं च गुरुं द्विजम् ।
सन्तं साध्वीं नमस्कुर्यात् स पापेभ्यः प्रमुच्यते ॥४३॥
दाता नाऽऽप्नोति दुःखं वै प्रहर्ता सुखवान्न वै ।
भक्तो नाप्नोति संसारं विषयी मोक्षवान्न वै ॥४४॥
एतच्छ्रेयो हितं चैव सर्वेषां समुदाहृतम् ।
अथापि वक्ष्ये पापानां नाशाय साधनं द्रुतम् ॥४५॥
सरलं क्षणसाध्यं च नाऽऽयासो यत्र विद्यते ।
संसारतारका ये च गुरवः साधवो जनाः ॥४६॥
हरेर्भक्ताश्च देवाश्च मुनयश्च महर्षयः ।
सत्य_ साध्व्यो ब्रह्मचर्यशीला भागवताश्च ये ॥४७॥
तेषां तु पादयोर्धार्यं शिरोऽर्प्यं हृदये मनः ।
तदाज्ञायां वर्तनीयं भाव्यं सेवापरेण च ॥४८॥
सन्तो यथा यथा येन केनापि कर्मणा मुहुः ।
प्रसन्नाः स्युस्तथा वृत्यं स पापेभ्यः प्रमुच्यते ॥४९॥
सोमं सूर्यं च गायत्रीजपेन स्मर्तुरेव च ।
दर्शनं ब्रह्मभावेन कर्तुः पापं प्रणश्यति ॥५०॥
गुरु प्रदक्षिणं कुर्याद् ध्यायेत् तं सम्प्रपूजयेत् ।
गुरुं हरिं प्रसेवेत स पापेभ्यः प्रमुच्यते ॥५१॥
प्राणायामशतं कृत्वा सर्वपापैः प्रमुच्यते ।
सूर्यं चन्द्रं चक्षुषोर्वै ध्यायेदथ हृदि स्थितम् ॥ ५२॥
सम्पूर्णौ विमलौ सम्यग् भ्राजमानौ प्रपश्यति ।
तस्य स्वल्पं च वा वार्धिसमं पापं प्रणश्यति ॥५३॥
वामनं ब्राह्मणं दृष्ट्वा वाराहं च जलोत्थितम् ।
सिंहं च सिंहिकारूढं नमस्यतोऽघनाशनम् ॥॥५४॥
गावः पवित्रा मांगल्या देवानामपि देवताः ।
यस्ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते ॥॥५५॥
सौम्ये मुहूर्ते संयुक्ते पञ्चगव्यं तु यः पिबेत् ।
यावज्जीवकृतात्पापात् तत्क्षणादेव मुच्यते ॥५६॥
लाङ्गूलेनोद्धृतं तोयं मूर्ध्ना गृह्णाति यो जनः ।
सर्वतीर्थफलं प्राप्य स पापेभ्यः प्रमुच्यते ॥५७॥
गोमूत्रेण तु यः स्नायाद् रोहिण्या मूत्रधारया ।
सर्वपापकृता दोषा दह्यन्ते द्राङ् न संशयः ॥५८॥
धेनुस्तनाद् विनिष्कान्तां धारां दुग्धस्य मस्तके ।
धारयेद् यः पिबेच्चापि स पापेभ्यः प्रमुच्यते ॥५९॥
गां सूर्यं ब्राह्मणं सन्तं सतीं प्रातर्नमश्चरेत् ।
ददेद् दध्यक्षतवारि स पापेभ्यः प्रमुच्यते ॥६०॥
ददेद् दध्यक्षतवारि सोमाय पूर्णिमातिथौ ।
अरुन्धतीं ग्रहान्नत्वा सर्वपापैः प्रमुच्यते ॥६१॥
द्विजं शुश्रूषते शूद्रस्तस्य पापं प्रणश्यति ।
विषुवेषु च योगेषु संक्रान्त्यादिषु सर्वदा ॥ ६२ ॥
व्रताहेषु च सर्वेषु समुत्सवगृहेषु च ।
शूद्रः पयो दधिं दत्वा सर्वपापैः प्रमुच्यते ॥६३॥
प्राचीनाग्रान् कुशान् कृत्वा स्थापयित्वा वृषं तथा ।
द्विजैः सह नमस्कृत्य सर्वपापैः प्रमुच्यते ॥६४॥
दक्षिणे तु तटे नद्यां स्नात्वा प्रागभिवाहिनीम् ।
आचामेत् संनमस्येत् स मुच्यते सर्वपातकैः ॥६५॥
दक्षिणावर्तशंखेन गृहीत्वा वारि मस्तके ।
जन्मकृतानि पापानि शमयत्येव मानवः ॥६६॥
प्राक्स्रोतसं जलं गत्वा नाभिमात्रजलेः स्थितः ।
स्नात्वा कृष्णतिलैर्मिश्रा दद्यात् सप्ताञ्जलीन्नरः ॥६७॥
प्राणायामत्रयं कृत्वा कृष्णनारायणं स्मरेत् ।
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥६८॥
अच्छिद्रपद्मपत्रेण सर्वरत्नोदकेन च ।
त्रिवारं यो नरः स्नायात् सर्वपापैः प्रमुच्यते ॥६९॥
एकादशीनां व्रतकृद् द्वादशीनां प्रपालकः ।
नारायणप्रभक्तो यस्तस्याऽघं स्पृशते नहि ॥७०॥
ब्रह्मस्वहरणे रक्तास्तथा ब्राह्मणघातकाः ।
गुरुद्रोहरता देवमित्रद्रोहरतास्तथा ॥७१॥
स्वामिद्रोहरता ये च परदाराभिमर्षकाः ।
परद्रव्यहरा ये चाऽभक्ष्यभक्षणकारिणः ॥७२॥
दांभिका भिन्नमर्यादा वेदब्राह्मणनिन्दकाः ।
असत्प्रतिग्रहे सक्ता ह्यगम्यागमने रताः ॥७३॥
हिंसकाः पाशकाश्चापि मारका हारकाश्च ये ।
धूर्ताः शठाः कापटाश्च तथा सुकृतवर्जिताः ॥७४॥
एकादशीं द्वादशीं च श्रद्धया पालयन्ति चेत् ।
तामुपोष्याऽद्यशून्याश्च भूत्वा यान्ति परं पदम् ॥७५॥
उपायोऽतः परो नान्यो विद्यते पापनाशकः ।
शुक्ला भक्तिप्रदा बोध्या कृष्णा मुक्तिं प्रयच्छति ॥७६॥
मनसा वचसा चैव कर्मणा समुपार्जितम् ।
पापं मासकृतं पुंसां दहत्येकादशी कृता ॥७७॥
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ।
एकादशीं तु यः पूर्णामसमर्थ उपोषितुम् ॥७८॥
तेन नक्तं प्रकर्तव्यं तथाऽयाचितमित्यथ ।
एकभक्तेन दानेन कर्तव्यं द्वादशीव्रतम् ॥७९॥
उपवासासमर्थैस्तु द्वादशी च प्रबोधिनी ।
एकोपोष्या तु सा सर्वं पापं दहति जन्मकृत् ॥८०॥
तस्यामाराध्य श्रीकृष्णनारायणं परमेश्वरम् ।
प्राप्नोति सकलं चैतद् द्वादशद्वादशीफलम् ॥८१॥
पूर्वाभाद्रपदायुक्तद्वादश्यां कृतमक्षयम् ।
उत्तराभाद्रयुक्तायां ततः कोटिगुणं फलम् ॥८२॥
प्रबोधन्यां कृतं सर्वमनन्तफलदं भवेत् ।
शयने बोधने चैव हरेस्तु परिवर्तने ॥८३॥
उपोष्यैव विधानेन व्रती निर्मलतां व्रजेत् ।
एकादशी सोमयुता कार्तिके धवले दले ॥८४॥
उत्तराभाद्रसंयुक्ता त्वनन्तफलदा मता ।
एकादशी भौमयुक्ता द्वादशद्वादशीफला ॥८५॥
तस्मात् सर्वप्रयत्नेन द्वादशीं समुपोषयेत् ।
ते धन्यास्ते कृतार्थाश्च तैरेव सुकृतं कृतम् ॥८६॥
जन्मान्तरसहस्रेषु समाराध्य परेश्वरम् ।
वैष्णवत्वं लभेद्विप्र! सर्वपापक्षये सति ॥८७॥
वैष्णवा हि महाभागाः पुनन्ति सकलं जगत् ।
मामाराध्य तथा याति तद्विष्णोः परमं पदम् ॥८८॥
संस्मृतः कीर्तितो वापि दृष्टः स्पृष्टोऽपि वा द्विज! ।
पुनाति भगवद्भक्तश्चाण्डालोऽपि हरीच्छया ॥८९॥
ये वैष्णवा महात्मानो विष्णुपूजनतत्पराः ।
तरन्ति तारयन्त्यन्यान् स्त्रीशूद्रान् पापिनो जनान् ॥९०॥
नाचिकेतः! शृणु गोप्यं रहस्यं पावनं परम् ।
महापापातिपापानां द्रागेव नाशकं महत् ॥९१॥
अत्यशुद्धजनानां च भ्रष्टानां कर्मिणां तथा ।
चाण्डालानां हिंसकानां मद्यचौर्यकृतां तथा ॥९२॥
व्यवायिनां वर्णप्रसांकर्यकृतां विशोधनम् ।
पापानां वज्रलेपानां क्षालनं प्रवदामि ते ॥९३॥
वैष्णवानां हि साधूनां पादप्रक्षालितं जलम् ।
स्नातं चापि जलं तैस्तु पीतं चापि जलं तु यत्। ॥९४॥
स्पृष्टं चापि जलं यद्वै तत्पातव्यं हि पापिना ।
पीते तद् बिन्दुमात्रे वै पापानि प्रज्वलन्ति हि ॥९५॥
पाने स्नाने प्रोक्षणे च शिरःक्षेपेऽङ्गलेपने ।
नेत्रस्पर्शे च तद्वारि निघ्नन्त्यघानि जन्मनाम् ॥९६॥
यानि कानि च पापानि पापजातीयकान्यपि ।
दह्यन्ति जलपानेन सतां प्रासादिकेन वै ॥९७॥
सतां दृष्ट्या स्त्रियः शूद्राः शुद्ध्यन्ति श्वपचा अपि ।
सतां स्पर्शेन पापाश्च भवन्ति पावनाः क्षयात् ॥१८॥
सतां सेवापरो देहो दिव्यो भवत्यभौतिकः ।
सतां सेवापरो लक्ष्मीर्दिव्या भवति मोक्षदा ॥९९॥
सतां चरणरजसा स्नातास्ते मुक्तिभागिनः ।
सतां स्नेहस्य पात्रं यत् तत्पात्रं श्रीहरेः स्मृतम् ॥१००॥
नाचिकेतः! सतां योगो हरेर्योगो न संशयः ।
मे दूतास्तत्र न यत्र विष्णोर्दूता हि साधवः ॥१०१॥
यमदूतैर्धर्षिता ये नार्यो नरा नपुंसकाः ।
आश्लिष्यन्ति तदा साधून् मुच्यन्ते ते द्रुतं यमात्। ॥१०२॥
सर्वैन्द्रियैः सतां योगो मुक्तिदो ब्रह्मभावदः ।
साधुसंयोजनं दिव्यं नाऽस्माच्छ्रेष्ठं तथेतरत् ॥१०३॥
हरेर्योगात्साधवो वै निर्गुणा ब्रह्ममूर्तयः ।
साधुयोगात्पापिजीवा भवन्ति ब्रह्ममूर्तयः ॥१०४॥
सद्भिर्मुक्तं वस्तुमात्रं दिव्यं भवति निर्गुणम् ।
गुप्तं प्रकाशं तत्सर्वं ब्रह्मभूयाय कल्पते ॥१०५॥
इति ते कथितं विप्र! समुद्धारस्य साधनम् ।
गच्छात्मज्ञानसहितश्चान्यद् दत्तमवाप्य च ॥१०६॥
इत्युक्त्वा यमराजः स समुत्थायाऽऽसनात् स्वकात् ।
कृत्वा पूजां च मे युक्तां प्रियमुक्त्वा च भूसुरः! ॥१०७॥
विसर्जयामास विभुः सुप्रीतेनाऽऽन्तरात्मना ।
एतद्वः कथितं विप्रास्तस्य राज्ञः पुरोत्तमे ॥१०८॥
यथादृष्टं श्रुतं चापि यथा चेहाऽऽमतोऽस्म्यहम् ।
हति लक्ष्मि! नाचिकेतोवचः श्रुत्वा तु भूसुराः ॥१०९॥
सर्वमूर्धन्यमूर्धन्यं सतां प्रासादिकं जलम् ।
ज्ञात्वा हर्ष समापन्नाः साधवो दीनवत्सलाः ॥११०॥
केचिद् वैखानसास्तत्र केचिदासन्निरासनाः ।
यायावरास्तथा चान्ये वानप्रस्थास्तथाऽपरे ॥१११॥
शालीनाश्च तथा केचित् कापोतीं वृत्तिमास्थिताः ।
शिलोञ्छाश्चाभवन्नन्ये पाकिनोऽपाकपाचिनः ॥११२॥
नानायज्ञकराः केचिज्जितात्मानस्तु केचन ।
स्थानमौनधरास्त्वन्ये जलवासास्तथाऽपरे ॥११३॥
तथोर्ध्वशायिकावृक्षे तथान्ये मृगचारिणः ।
पंचाग्नयस्तथा चान्ये केचित् पर्णफलाशिनः ॥११४॥
अब्भक्षा वायुभक्षाश्च तथाऽन्ये शाकभक्षिणः ।
तापसा विविधास्त्वेते शाश्वतीं धियमाश्रिताः ॥११५॥
श्रुत्वा चैवं कथामेतामृषयो दिव्यवर्चसः ।
विस्मिता जलमाहात्म्यं श्रुत्वा साधुसमाश्रयम् ॥११६॥
ययुर्बद्र्याश्रमं साधोर्नरनारायागस्य वै ।
चरणयोर्जलं पातुमिच्छवो भक्तितत्पराः ॥११७॥
नचिकेतोऽपि धर्मात्मा पुत्रं दृष्ट्वा यमाऽर्चितम् ।
तपोधनं पुनःप्राप्तं धर्ममेवाऽन्वचिन्तयत् ॥११८॥
नाचिकेता अपि शिष्यान् आत्मज्ञानमशिक्षयत् ।
साधुधर्मं पावनं च पालयामास निर्भरम् ॥११९॥
इति ते कथितं लक्ष्मि! याम्यचक्रे महाबलम् ।
तदुद्धारकरं वारि सतां प्रासादिकं महत् ॥१२०॥
यमुनायाश्च गंगाया गोमत्याश्चापि सर्वथा ।
गोदावर्याः सरय्वाश्च रेवायाश्चापि सर्वथा ॥१२१॥
गण्डक्याः स्वर्णरेखायास्तपत्याश्चापि सर्वथा ।
कावेर्यास्ताम्रपर्णायाः समुद्राणां च सर्वथा ॥१२२॥
तीर्थानां यानि वारीणि तेभ्यः सर्वेभ्य एव यत् ।
दिव्यं श्रेष्ठं पावनं च साधुपादजलं सदा ॥१२३॥
सर्वकामप्रदं मोक्षप्रदं लक्ष्मीप्रदं महत् ।
श्रवणात्पठनादस्य फलं सर्वप्रदं भवेत् ॥१२४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने यमराजोक्तं शुभाशुभप्रवृत्तिकारणं, पापमोचनोपायः, धेनुसेवैकादशीप्रभतिव्रतसाधुचरणामृतपानसेवनादिभिः परमश्रेयइत्यादिश्रुतमुक्त्वा नाचिकेता विरराम, ऋषयो बद्रीनारायणं जग्मुरित्यादिनिरूपणनामा त्रिषष्ट्यधिकत्रिशततमोऽध्यायः ॥३६३॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP