संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १३१

कृतयुगसन्तानः - अध्यायः १३१

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
श्रीहरेरवताराणां वैभवानां च सर्वथा ।
याथातथ्यं न वै वेत्तुं शक्नोतीह तु कश्चन ॥१॥
श्रीलक्ष्मीरुवाच-
ननु दैत्याश्च के ह्यासन् कस्य बलेन वर्धिताः ।
किं निमित्तं समुत्पाद्य विष्णुना मारिताश्च ते ॥२॥
विष्णोः सम्बन्धतः पूतां कथां पापप्रणाशिनीम् ।
श्रोतुमिच्छाम्यवतारान् श्रीविष्णोः परमात्मनः ॥३॥
श्रीनारायण उवाच-
शृणु देवि! प्रवक्ष्यामि मत्स्यरूपं सनातनम् ।
ब्रह्माऽसृजत्प्रजाधीशान् प्रथमे सृष्टिसर्जने ॥४॥
भृगुं मरीचिमत्रिं च दक्षं कर्दममित्यपि ।
पुलस्त्यं पुलहं चैवाऽङ्गिरसं च तथा क्रतुम् ॥५॥
मरिचिर्भगवाँस्तत्र जनयामास कश्यपम् ।
कश्यपस्य चनस्तो वै पत्न्यो जाता विजातिकाः ॥६॥
अदितिश्च दितिश्चापि कद्रूश्च विनता तथा ।
अदितेस्तु सुताः सर्वे देवा वै शुभदर्शनाः ॥७॥
दितेः पुत्रास्तु दैत्या वै तामसाऽसुरराक्षसाः ।
दितिस्तु चैकदाऽऽसीना ग्रीष्मे स्वपतिना सह ॥८॥
विमानवरमारुह्य समुद्रतीरमागता ।
कश्यपेन सह तत्र निषसाद महीतले ॥९॥
समुदजलसम्मिश्रशीतलानिलयोगतः ।
चकमे स्वपतिं देवी कामवेगेन पीडिता ॥१०॥
पतिं सा सेवयामास पादसंवाहनादिभिः ।
सुमृदुवालुकायुक्ते वृक्षवल्ल्यादिदर्शने ॥११॥
शीतसलिलबिन्द्वाक्तपवनैः शोतलीकृते ।
सुखदे तत्तटे सेवां करोति रतिविह्वला ॥१२॥
विविधन्तु रतेः सौख्यं ददाति पतये यदा ।
सूर्यस्थाऽस्तमनपूर्वं तदैव जलजन्तवः ॥१२॥
मकराश्च जलघोटाः कच्छपा जलमानवाः ।
पवनार्थं च तापार्थं निषीदन्ति तटं गताः ॥१४॥
सायंतनरवेर्योगात्प्रकाशन्ते सुवर्णवत् ।
वालुकायां तटे तत्र नक्रैश्च जलघोटयोः ॥१५॥
कश्यपस्रावकाले तु कलहोऽभूत्सविग्रहः ।
दितिकश्यपयोर्दृष्टिर्गता मकरघोटयोः ॥१६॥
तदैव च निषेकोऽपि समभूत् सफलः स्थले ।
निषेके यादृशी दृष्टिर्बुद्धिश्च यादृशी भवेत्॥ १७॥
तादृशो जायते गर्भो रूपसंस्कारतादृशः ।
तेन देहो मकरवत् मस्तकं घोटवत्तथा ॥१८॥
गर्भे संस्कारतां प्राप्य स्थितोऽभूद्बालकः स हि ।
दम्पती स्वविमानं तु समारुह्य गृहं प्रति ॥१९॥
समागतौ स्मरन्तौ तं मकरं जलघोटकम् ।
विमानदर्शनाद्वारिप्राणिनो विविशुर्जलम् ॥२०॥
तद्भावभावितं गर्भं सुषुवे समये दितिः ।
देहे तु मकराकारं मस्तके हयसदृशम् ॥११॥
हयग्रीवो मकरोऽयं कश्यपेन सुसंस्कृतः ।
भूवासोऽपि विशेषेण जलावासोऽभवद्धि सः ॥२२॥
उपनीतः कश्यपेन मात्रा भीक्षाप्रदापितः ।
कामरूपधरो बालो वेदाध्ययनवांछया ॥२३॥
ब्राह्मणं रूपमास्थाय जगाम च पितामहम् ।
प्रणिपत्य च सामुद्ररत्नोपहां निधाय च ॥२४॥
ययाचे वेदविद्यां सकपटो विप्ररूपधृक् ।
ब्रह्मा पप्रच्छ पितरौ नामसंस्कारप्रभृति ॥२५॥
अहं कश्यपदायाद इत्याह प्रपितामहम् ।
ब्रह्मापि स्वीयपुत्रस्य मरीचेश्च सुतस्य वै ॥२६॥
कश्यपस्य सुतं वेदान् प्रपौत्राय ददौ तदा ।
वेदान्नीत्वा हयग्रीवो जगाम काश्यपं गृहम् ॥२७॥
पिताऽभूत्सुप्रसन्नो वै कश्यपः पण्डितं सुतम् ।
विलोक्य प्राह पुत्र त्वं चान्यानध्यापयेति हि ॥२८॥
हयग्रीवस्तदा प्राह नाऽहमध्यापये पितः ।
वेदविद्या न दातव्या कस्मैचिदपि सर्वथा ॥२९॥
वेदैः समेधिता देवा विरुध्यन्त्यसुरान्मुहुः ।
वेदास्तु सर्वथा नाश्या न पोष्या वै कदाचन ॥३०॥
वेदैर्यज्ञाः प्रवर्तन्ते धर्मकर्मापि चापि वै ।
यज्ञाश्च धर्मकर्माणि मृषा सन्ति यतः पितः ॥३१॥
मया विधिनिषेधौ तु वेदे दृष्टौ पुनः पुनः ।
तौ सदा निग्रहकरौ निग्रहो मे न रोचते ॥३२॥
भक्ष्यं सर्वं तथा पेयं माद्यं भोग्यं यथेष्टकम् ।
न विधिर्न निषेधो वै चास्माकं बलिनां भवेत् ॥३३॥
तस्मान्न पाठयिष्येऽन्यान्न वर्तिष्ये विधानवत् ।
नाशयिष्ये वेदविद्या ध्वंसयिष्ये नु पाठकान् ॥३४॥
अर्दयिष्ये वैधजनान् मारयिष्ये क्रतुस्थितान् ।
कर्मकाण्डान् करिष्ये न वर्तयिष्ये ततोऽन्यथा ॥३५॥
इतिवदन्तं पुत्रं तं समाकर्ण्य च कश्यपः ।
शुशोचाऽसुरभावं तं स्वालयाऽमधिकारिणम् ॥३६॥
नास्तिकं ज्ञानहर्तारं वेदविद्याविनाशकम् ।
वेदस्तेनं पशुप्रायं देवपुष्टिविरोधिनम् ॥३७॥
ईर्ष्याज्वरं भाविसौख्याऽप्रदं सर्वस्वहानिदम् ।
कश्यपस्तं तपोविद्याकुपात्रं परिचिन्त्य च ॥३८॥
गृहान्निष्कासयामास दितिमापृच्छथ सर्वथा ।
दैत्यो हयशिराः सोऽपि माकरं रूपमास्थितः ॥३९॥
उवास च महाब्धौ वै भक्षयन् जलवासिनः ।
पर्वतेषु प्रदेशेषु गत्वा गत्वा क्रतुस्थलम् ॥४०॥
नाशयामास यज्ञान्वै विप्रान्धर्मान्मुहुर्मुहुः ।
ब्राह्मणानां समाजे वै भक्षयामास भूसुरान् ॥४१॥
देवरूपं सुरूपं च धृत्वा स्वर्गं जगाम सः ।
दारापत्यगृहाण्याशु - देवानां स जहार च ॥४२॥
ऋषीणामपि संवासान् विनाश्याऽर्दनमाचरत् ।
ततो देवर्षिभिर्गत्वा ब्रह्मा तन्नाशनेऽर्थितः ॥४३॥
ब्रह्मा सस्मार देवेशं दैत्यनाशकरं हरिम् ।
क्षीरसागरसद्रत्नमण्डपे शेषशायिनम् ॥४४॥
तदा नारायणो लक्ष्मीं हित्वा चक्रं प्रगृह्य च ।
गदां खड्गं तथा शक्तिं नीत्वा युद्धाय चागमत् ॥४५॥
यत्र ब्रह्मा स्थितो दुग्धसागरस्य तटेऽभवत् ।
तत्र विष्णुः स्वयं चाजं ददर्श युद्धरूपधृक् ॥४६॥
गरुडे सुस्थितो देवः प्राह शीघ्रं प्रजापतिम् ।
कथं वै स्मारितो ब्रह्मन् वद शीघ्रं करोमि तत् ॥४७॥
ब्रह्मोवाच नमस्तुभ्यं देववेदमयाऽच्युत! ।
गरुडवाहनोद्धर्तः सृष्टिपुष्टिविनष्टिकृत् ॥४८॥
त्वमेव दधसे रूपं जगद्रक्षणहेतवे ।
विप्रवेदक्रतुगोभूधर्मत्राता त्वमेव हि ॥४९॥
त्वमेव सर्वधर्माणामाश्रयः पुरुषोत्तम! ।
त्वमेव यज्ञो विद्या च वेदाश्चासि त्वदुद्गमाः ॥५०॥
त्वदाधार जगत्सर्वं त्वदायत्ता महर्षयः ।
त्वदायत्ता वयं सर्वे निषेधविधिवर्तनाः ॥५१॥
त्वदाज्ञयैव सर्वत्र वर्तयिष्यामहे जनान् ।
तमिमं मार्गमालम्ब्य वर्तसे पुरुषोत्तमः ॥५२॥
त्वयैव प्रेरिता लोका वर्तन्ते साध्वसाधुषु ।
मर्यादा त्वत्कृता रक्ष्या धर्मोऽस्माकमिति ध्रुवम् ॥५३॥
अधीत्य वेदान् गुरुतः ततश्चाध्यापयेत् शिशून् ।
धर्मान्प्रवर्तयेत्तत्स्थानित्याज्ञा पारमेश्वरी ॥५४॥
तां मर्यादां समुल्लंघ्य काश्यपो माकरोऽसुरः ।
हयास्यः स्वेच्छया वै संवर्तते देवदुःखदः ॥५५॥
वेदानाहृत्य दैत्य सः प्रविष्टोऽस्ति महार्णवम् ।
वेदाधारमिदं सर्वं वेदैर्धर्मपरिष्कृतिः ॥५६॥
वेददर्शितकरणात्सर्वा तृप्तिः प्रजायते ।
तस्मादसुरमाहत्य नास्तिकं विधिनाशकम् ॥५७॥
ततो वेदान्समानेतुं त्वमेवार्हसि केशव! ।
एवमुक्तो हृषीकेशो ब्रह्मणा परमेश्वरः ॥५८॥
प्राह शान्तिं कुरु ब्रह्मन् गरुडश्चात्र तिष्ठतु ।
गच्छामि जलयोग्यं वै रूपमास्थाय वारिधिम् ॥५९॥
ऋषीन् नत्वा स्वयं नारायणो मत्स्यो बभूव ह ।
महातिमिंगिलगिलो तीक्ष्णतुण्डो ह्यपूर्वकः ॥६०॥
हिमाद्रिसदृशदेहो बभूव स क्षणान्तरे ।
मकरान् शिखरप्रायान भक्षयन् जलमाविशत् ॥६१॥
समुद्रः क्षोभितस्तेन चकम्पे पृथिवी मुहुः ।
मेघाश्चैवाऽपतन्व्योम्नो ग्रहाश्चक्षुभिरे तदा ॥६२॥
देवा महर्षयस्तत्रागत्य तुष्टुविरे हरिम् ।
नारायणः समुद्रान्तस्तलमाविश्य सर्वतः ॥६३॥
मार्गयित्वा महादैत्यं जग्राहाऽऽरुह्य तं गले ।
तदाऽसुरो महामायो भूत्वा त्वदृश्य एव हि ॥६४॥
धीवरं रूपमास्थाय गदाजालकरान्वितः ।
हिमालयसमो भूत्वा मत्स्यं यावज्जिघृक्षति ॥६५॥
नारायणोऽपि रौद्रं वै महाकालाऽनलोपमम् ।
रूपमासाद्य गदया ताडयामास धीवरम् ॥६६॥
तावत्स धीवरं रूपं त्यक्त्वाऽभूत्पर्वतो महान् ।
यस्य मस्तकपादादि कुत्रापि नैव लभ्यते ॥६७॥
तलमाश्रित्य सुप्तोऽभूत् पृष्ठ कृत्वा तु वज्रवत्॥
नारायणेन शक्तिर्वै क्षिप्ता यावत्प्रवेगतः ॥६८॥
आरपारं गता विध्वा पृष्ठं वज्रसमं तदा ।
दैत्यो रूपान्तरं मात्स्यं कृत्वा स्थानान्तरं स्थितः ॥६९॥
मत्वा स्वां जातिजां सृष्टिं मारयेन्नैव मामिति ।
अथवा वञ्चयित्वैव मारयामि च तं पुनः ॥७०॥
वञ्चयित्वा हरिं तत्र पुच्छेन ताडितः पुनः ।
दुद्राव जलमध्ये सः प्रवेशाय तु कर्दमे ॥७१॥
तावदारुह्य पीठे तं गले जग्राह वै पुनः ।
तुण्डाग्रेण विदार्यैनं जघान हरिरीश्वरः ॥७२॥
तद्धृदिस्थान् सर्ववेदान् सांगोपांगाँस्तदात्मनः ।
ज्ञानरूपान्समाकृष्य तिरोभावय्य सर्वथा ॥७३॥
शक्त्या समाधिना नीत्वाऽब्धेरुपर्याजगाम ह ।
आसुरात्मानमज्ञाने विनिःक्षिप्य तु तामसे ॥७४॥
याम्ये लोके विनिपात्याऽऽजगामाऽब्धितटं हरिः ।
मात्स्यं रूपं तदा हिमशैलतुल्यं विलोक्य च ॥७५॥
देवर्षिमुनयस्तत्राश्चर्यस्तब्धा बभूविरे ।
क्षणं प्रदर्श्य तद्रूपं स्वल्पमत्स्यो बभूव सः ॥७६॥
ततो नराकृतिदेवो नारायणः सुदर्शनः ।
समभूत्संस्तुतः सर्वैः सौम्यमूर्तिर्जलार्दनः ॥७७॥
वेदान्सर्वान्ददौ तस्मै ब्रह्मणे परमेष्ठिने ।
ज्ञानं वेदमयं सर्वं ब्रह्मणे ह्यर्पयद्विभुः ॥७८॥
सर्वानाशीः प्रयुज्यैव पूजामादाय तत्कृताम् ।
गारुडं यानमारुह्याऽन्तर्दधे दुग्धवारिधौ ॥७९॥
इति मत्स्यावतारस्य प्रथमद्वापरस्य वै ।
चरितं कथितं लक्ष्मि! शृणु मात्स्यं द्वितीयकम् ॥८०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कश्यपपुत्रहयग्रीवदैत्योत्पत्तितत्कृतवेदज्ञानापहरणतन्नाशकृन्नारायणमत्स्यावतारद्वारकदैत्य-
नाशादिकथननामा एकत्रिंशदधिकशततमोध्यायः ॥१३१॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP