संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १२३

कृतयुगसन्तानः - अध्यायः १२३

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
श्रुत्वा गोलोकसंस्थानं पार्वती बहुहर्षिता ।
श्रोतुं दिव्यां कथामुक्त्वा प्राह वै शंकरं वरम् ॥१॥
वैकुण्ठं श्रोतुमिच्छामि दिव्यं धाम रमाकृते ।
नारायणेन दिव्यं यन्निर्मितं श्रीधरेण वै ॥२॥
श्रुत्वेदं युक्तयोगीन्द्रो महादेवोऽस्मरद्धरिम् ।
नारायणं क्षणं ध्यात्वा दृष्ट्वा वैकुण्ठमुत्तमम् ॥३॥
वर्णयामास तत्सर्वं क्रमशो भक्तिभावतः ।
शृणु मे वैष्णवि पत्नि वर्णने स्वाद्यते रसः ॥४॥
रसं विना हरेर्भक्तेः रसाश्चान्ये मृषा मताः ।
त्रिपाद्विभूतेर्लोका वै ह्यसंख्याता भवन्ति हि ॥५॥
ब्रह्मधाममयाः सर्वे ब्रह्मानन्दसुखाश्रयाः ।
शाश्वता निर्विकाराश्च हेयदोषविवर्जिताः ॥६॥
सर्वे दिव्यसुवर्णाभाः कोटिसूर्यसमप्रभाः ।
नारायणपदांभोजभक्तिसद्रससेविताः ॥७॥
भगवत्सामगानादिपूर्णसुखप्रदा मताः ।
सुमूर्तपार्षदमुक्तवेदशास्त्रादिवर्णिताः ॥८॥
दिव्यविद्यात्मनारीभिर्ब्रह्मपुंभिरधिष्ठिताः ।
प्रेमज्ञानसुचिद्रससरोभिरुपशोभिताः ॥९॥
श्रुत्याख्यप्रमदाभिश्च स्मृत्याख्यस्त्रीजनैस्तथा ।
शास्त्राख्यदिव्यपुरुषैः सर्वदावासवर्धिताः ॥१०॥
सर्वं वै ब्रह्मलोकेषु भोग्यं भोज्यं तथा परम् ।
चेतनं ब्रह्मतत्त्वोत्थं चैतन्यं त्वेव विद्यते ॥११॥
न माया न जडं किंचिन्न दुःखं नैव नाशवत् ।
न तमो न समुत्पन्नं न नाशि किन्तु शाश्वतम् ॥१२॥
अक्षरब्रह्मणः सीम्नि यथा गोलोकसंस्थितिः ।
तथाऽक्षरधामसीम्नि वैकुंठस्यापि संस्थितिः ॥१३॥
मायापारे महादिव्या पत्नी वैकुण्ठवासिनी ।
नारायणस्य प्रेम्णो वै सम्यक्पात्रं हि या मता ॥१४॥
नारायण रतेर्भक्त्या ह्यत्यानन्दे कृताऽऽप्लवा ।
स्वभानं विस्मृतवती द्रवरूपा ह्यजायत ॥१५॥
नारायणस्य संयोगात् कामरसे विलीननात् ।
नारायणस्य मूर्तौ सा कोट्यानन्दप्रवाहकैः ॥१६॥
सरैः स्वस्याः स्वरूपैर्वा युनक्ति हरिमीश्वरम् ।
विलीना भवते नित्यमानन्दपरिकाष्ठिता ॥१७॥
हरिस्तामानन्दसरैर्युनक्त्यपि निजात्मनि ।
ततः सा सरयूरूपा सरिज्जाता विकुण्ठके ॥१८॥
मायापारे च सा दिव्या वर्तुला सुमहानदी ।
ब्रह्मरसप्रपूर्णा सा नित्यानन्दप्रवाहिणी ॥१९॥
वर्तते स्वर्णमत्स्या सा श्रेष्ठरजतवालुका ।
दिव्यकाशकुशव्याप्ता सूर्यतेजःसमोज्ज्वला ॥२०॥
मणिहीरकशुक्त्यादिचाकचक्यमनोहरा ।
दिव्यकिरणसंयोगात्कोटिसूर्यसमप्रभा ॥२१॥
सद्रत्नहीरकाद्यैश्च कृतसोपानघट्टना ।
विशालस्नानकायार्हाऽवताराऽसंख्यभूषिता ॥२२॥
वैकुण्ठवसतिस्नानविहारादिसुखप्रदा ।
शुद्धस्फटिकसंकाशतीरद्वयसुशोभिता ॥२३॥
कृष्णशुभ्रहरिद्रक्तविचित्रमणिभासुरा ।
कुत्रचिदुज्ज्वलसौम्यप्रवालसपटान्विता ॥२४॥
कुत्रचिद्रजतस्वर्णप्रभृतिधातुसंधरा ।
क्वचिदिन्द्रनीलपद्मरागाकरसुशोभिता ॥२५॥
कुत्रचिद्वै मारकतमीणेश्रेष्ठकृतस्तरा ।
क्वचिद्विहारस्नानादिस्थलीभिरुपशोभिता ॥२६॥
कुत्रचिच्छाद्वला रम्या वनराजिविराजिता ।
क्वचिद्वै कामधेनूनां मण्डलैः कृतविश्रमा ॥२७॥
विविधाभिस्तु नौकाभिर्दिव्याभिर्बहुदर्शना ।
दिव्यगरुडहंसादिदेवपक्षिसमाश्रिता ॥२८॥
यज्जलेनाऽभिषिक्ता वै प्राणिनो नित्यरक्षणाः ।
मुक्ता वैकुण्ठलोकस्था शाश्वताऽऽवासकारिणः ॥२९॥
भवन्ति तत्तटे रम्ये वनं कौसलमस्ति वै ।
सरयूमनु तच्चापि वर्तुलाकारमेव ह ॥३०॥
दिव्यवृक्षमयं पारिजातादिबहुसद्द्रुमम् ।
कल्पवृक्षकल्पवलीदीर्घवनविराजितम् ॥३१॥
दैर्घ्यं परिमितं तस्य त्वर्बुदाऽर्बुदयोजनम् ।
क्वचित्कल्पद्रुमाः सन्ति क्वचिद्वै पारिजातकाः ॥३२॥
क्वचित् सौमरसा वल्लयः क्वचित्त्वाम्रा रसालकाः ।
क्वचिद्वै मधुकाः सन्ति जम्बुवृक्षास्त्वसंख्यकाः ॥३३॥
क्वचित्तु कर्मदाः सन्ति क्वचित् टिम्बुरुपादपाः ।
श्रीवृक्षाणां समूहाश्च तिलका गगनस्पृशः ॥३४॥
क्वचित्तु नवरंगाणां जम्बीराणां च जातयः ।
सन्ति क्वचित्कदल्यो वै क्वचिद्दाडिमपादपाः ॥३५॥
क्वचिद् द्राक्षालता नागवल्ल्यस्तिक्तसुवल्लिकाः ।
क्वचित् त्वग्वृक्षका नारीकेलखर्जूरखारिकाः ॥३६॥
क्वचित् सेतुरपुष्पीयाः क्वचिद् रामफलादयः ।
बदामबदरीसर्जपिप्पलीबकुलादयः ॥३७॥
क्वचित्केसरवृक्षाश्च कदम्बनीपनिम्बकाः ।
पनसाश्चम्पकाशोकवृक्षाश्चन्दनपादपाः ॥३८॥
श्रीफलशाल्मलीतालतिन्तिडीमाधवीद्रुमाः ।
मल्लिकामालतीस्वर्णायूथिकाऽश्वत्थकुन्दकाः ॥३९॥
सन्ति वृक्षा विविधा वै सर्वे वैकुण्ठयोगिनः ।
क्वचित्सरांसि सत्कूपाः पल्लवानि च दीर्घिकाः ॥४०॥
क्वचित् विविधाः सरितो दुग्धमिष्टजलावहाः ।
क्वचिच्छृङ्गाणि चाद्रीणां क्वचित्स्थल्यो वनौकसाम् ॥४१॥
क्वचिद्देवांगनारम्यविहारार्थकृतगृहाः ।
अनन्ताः सृष्टयस्तत्र वने सन्ति वनौकसाम् ॥४२॥
नारायणप्रसंगेन कल्पे कल्पान्तरे च ये।
प्राणिनो मुक्तिमापन्नाः पशुपक्षिसरीसृपाः ॥४३॥
मुक्तास्ते कोसले तत्र वने वसन्ति शाश्वताः ।
नारायाणेच्छया तेषां कामरूपत्वमस्ति वै ॥४४॥
क्वचिद् याने विमाने वा चान्तरीक्षे प्रयान्ति हि॥
क्वचिद् देवाः क्वचिन्मुक्ताः क्वचित् तत्तत्सुजातयः ॥४५॥
भवन्त्येव वसन्त्येव फलपानादितृप्तिकाः ।
दिव्या भोगपानरसाः फलानि विविधानि च ॥४६॥
कौसल्याख्यवनस्थानां कृते विष्णुविनिर्मिताः ।
वने तत्र सुकुंजास्तु वृक्षाणां सन्ति भूरिशः ॥४७॥
वटानां गुन्द्रकाणां चामलकीनां तथा शुभाः ।
किंशुकोदुम्बराणां च पिप्पलानां घटासु च ॥४८॥
शोभनाः स्वर्णसंकाशाः पिशंगाः वल्लयस्तथा ।
वृक्षेषु लग्नाः शोभन्ते कुंजार्थं कृद्वितानकाः ॥४९॥
मण्डपाः सन्ति सद्रत्नमणिहीरकभूमयः ।
दिव्यसोपानसन्मार्गारोहणार्थविमानिकाः ॥५०॥
सहस्रभूमयस्ते वै गगने गतसुध्वजाः ।
सूर्यकलशसम्पन्ना विविधोद्यानसंवृताः ॥५१॥
शीतोष्णजलकुण्डाढ्या वह्निमण्डलमण्डिताः ।
नैसर्गिकवस्तुरम्या भवन्ति काचदीपकाः ॥५२॥
गावस्तत्र कामदुघा विहरन्ति चरन्ति च ।
तथा वसतयो दिव्या वैकुण्ठवनवासिनाम् ॥५३॥
लक्ष्म्यो रमासमा रामाः षोडशाब्दसुयौवनाः ।
सुरूपाः सस्वामिकाश्च स्वकुटुम्बसमन्विताः ॥५४॥
अच्युतगोत्रकाः सर्वा वसन्ति भक्तिमानसाः ।
क्रीडाविहाररम्याऽऽस्यवुसीबंकटमंचिकाः ॥५५॥
शयनार्हविहारार्हरमणार्हा भवन्ति वै ।
सप्राकाराश्च सोधानाः सवारिवह्निसाधनाः ॥५६॥
व्यजनैश्चामरैर्युक्ता नैकदर्पणभूषिताः ।
भोजनाच्छादनालापनृत्यवादनमण्डिताः ॥५७॥
सौधाश्च मण्डपाः सन्ति रत्नप्रदीपसुप्रभाः ।
धूपाः सुगन्धिनस्तत्र कुटीरेषु भवन्ति वै ॥५८॥
शृगारद्रवपवनाः शीतला वान्ति सौख्यदाः ।
रमणार्थं रमणीनां चेतनं कौसलं वनम् ॥५९॥
पञ्चाशत्कोटयस्तत्र कुंजकुटीरमण्डपाः ।
स्नात्वा सरय्वां भूत्वा च मुक्तदेहो व्रजेत्ततः ॥६०॥
कौसलं तद्वनं रम्यं यदि स्थातुं समीहते ।
तत्रैव वासमादाय रमते मुक्तवद्धि सः ॥६१॥
इतोऽप्यग्रे महारक्षास्थानप्राकार ऐश्वरः ।
महाप्राकारवर्यः स भवत्यर्बुदयोजनः ॥६२॥
वर्तुलाकार एवैषो लक्षयोजनमूर्ध्वगः ।
तदुच्छ्रये महादिव्याः सन्ति प्रासादकोटयः ॥६३॥
सर्वे विहायसा यान्ति विमानैरेव पौरटैः ।
शतैकयोजनोच्छ्राया व्यासे साहस्रयोजनाः ॥६४॥
सन्ति विमानतुल्यास्ते प्रासादा व्योमगामिनः ।
सर्वे वैकुण्ठसदृशा नरा नार्यश्च कामगाः ॥६५॥
युवत्यश्च युवानश्च द्वादशषोडशाब्दजाः ।
कबरीकेशशोभाढ्याः पुष्पमालाधरास्तथा ॥६६॥
कटकांगदकेयूरशृंखलामुकुटान्विताः ।
ऊर्मिकाकौस्तुभमणिस्वर्णभूषाविभूषिताः ॥६७॥
कामनोत्कटभ्रूभागाः प्रेमप्रवाहसंवहाः ।
पुष्टाः श्वेतारुणरूपाः स्वर्णवस्त्रान्तगात्रकाः ॥६८॥
स्वर्णरूपाः सदा रम्याः सूर्यकोटिसमप्रभाः ।
शरच्चन्द्रसमशैत्याः सुखानामाकरा इव ॥६९॥
भवन्त्येव तु पंचाशत्कोटिभक्ताण्य एव ताः ।
भक्ताश्च शाश्वतास्तेऽपि पंचाशत्कोटयस्तथा ॥७०॥
निवसन्ति तथाऽन्येऽपि प्राकारे तत्र वर्तुले ।
तस्य द्वाराणि चत्वारि चतुर्दिक्षु भवन्ति वै ॥७१॥
भगवत्पार्षदैस्तत्र कृता वै द्वारपालता ।
रलभूषाभूषितैश्च सद्रत्नमुकुटोज्ज्वलैः ॥७२॥
दिव्यहेतिधरैः सर्वैः किरीटकटकान्वितैः ।
दिव्यैः षोडशवर्षैश्चाऽवितं द्वारचतुष्टयम् ॥७३॥
एवं दुर्गोत्तमव्याप्ता वर्तुलाकृतिकैव च ।
तदन्ते वर्तते दिव्या साकेताख्या सुभूमिका ॥७४॥
नित्या साकेतधामाख्या नैकवसतिसंश्रिता ।
उद्याना बहवस्तत्र वाटिकाश्चाप्यनन्तकाः ॥७५॥
ब्रह्मरसमहानद्यः शैलश्रृंगाणि भूरिशः ।
सुक्षेत्राण्यप्यसंख्यानि वनान्युपवनानि च ॥७६॥
वैष्णवानां विहारार्थं विनोदार्थं वधूमताम् ।
दाराणां च निवासार्थं तत्र वसतयः कृताः ॥७७॥
ग्रामास्तत्र सदुर्गाश्च प्राऽर्बुदाऽर्बुदकोटयः ।
नगराणि विचित्राणि कोटिलक्षाणि सन्ति वै ॥७८॥
साकेतनगरग्रामाः सद्रत्नमणिभूमयः ।
मणीनां मण्डपास्तत्र रत्नहीरकसद्गृहाः ॥७९॥
मुक्तामाणिक्यसौधाश्च स्फाटिकसृतिभित्तयः ।
दिव्या गावश्च वत्साश्च वत्सतर्यः शुभाः शुभाः ॥८०॥
सौधाश्च घुम्मटाश्चैव भूरीणि शिखराणि च ।
चन्द्रशाला ह्यसंख्यातास्तथा विश्रान्तिभूमिकाः ॥८१॥
देशमार्गा राजमार्गा विमानरथवाहनाः ।
गरुडा यानहंसाश्च वृषहस्तिप्रघोटकाः ॥८२॥
स्मृद्धयो विविधाः सर्वाः प्रमदाः प्रमदोत्तमाः ।
द्वादशहायनाः सर्वाः किंचिदुद्भिन्नयौवनाः ॥८३॥
अर्बुदार्बुदभक्तान्यो वैष्णव्यश्च वसन्ति ताः ।
कामोत्तेजकसद्द्रव्यैः राजिता रतिशारदाः ॥८४॥
रत्नालंकारभूषाढ्या रत्नमालाविराजिताः ।
रन्नकंकणकेयूररत्नभूषणभूषिताः ॥८५॥
रत्नसत्कुण्डलाद्यैश्च गण्डस्थलसमुज्ज्वलाः ।
रत्नखचितस्वर्णाङ्गुलीयधृताङ्गुलिप्रभाः ॥८६॥
मुक्तामौक्तिकसद्राजत्पौरटाभूषणान्विताः ।
रक्तचचत्कुंकुमादिकृतभालसुचन्द्रकाः ॥८७॥
ललन्तिकावालिकातन्तिकात्रोटिविराजिताः ।
प्रकोष्ठकाटकीशोभा बंगिडीश्रृंखलान्विताः ॥८८॥
रशनाराजत्कटयः सकिंकिणीनुपूरकाः ।
श्रत्पार्वणचन्द्रास्याः पद्मपत्रसुलोचनाः ॥८९॥
कबरीकेशवेशाक्तसुगन्धिपुष्पमालिकाः ।
मनोजमन्थरगतिवक्रभ्रूलतिकान्विताः ॥९०॥
कठिनस्वल्पसुस्तन्यो नारायणसमर्पिताः ।
पीतचन्दनस्वर्णाभाः पीताम्बरप्रवारणाः ॥९१॥
सुदत्यः सुस्वरा सौम्याः प्रेमपात्राणि वै हरेः ।
नार्यो रमासजातीयाः रमातुल्यसुमस्तकाः ॥९२॥
सर्वाऽऽलिकाः सतिलकाः सतप्तमुद्रचिह्निताः ।
नराश्चतुर्भुजाः सर्वे शंखचक्रगदाब्जकाः ॥९३॥
कौस्तुभमालभूषादिशोभिताः श्वेतपाण्डुराः ।
शाश्वताः षोडशवर्षवयस्काः पूरयौवनाः ॥९४॥
सिद्धयो यत्र तिष्ठन्ति कल्पवृक्षा गृहे गृहे ।
संकल्पमणयस्तत्र साकेते प्रतिमुक्तकम् ॥९५॥
दिव्याश्च स्मृद्धयः सर्वा भोज्यपानविलेपनाः ।
स्नानदानविहारादिनृत्यरमणवादनाः ॥९६॥
समाजोत्सवपरिषत्पूजासत्कारसत्क्रियाः ।
सर्वा भवन्ति दिव्याश्चाऽमृतकुण्डप्रवाहणाः ॥९७॥
फलपुष्पोत्तमरससुगन्धिद्रवपर्वताः ।
न न्यूनं विद्यते किंचित्साकेते धाम्नि वासिनाम् ॥९८॥
महालक्ष्म्याज्ञया सर्वं साकेतं भक्तवासितम् ।
दिव्यदृष्ट्या दर्शनार्हं मायानेत्रेण नेक्ष्यते ॥९९॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महावैकुण्ठे दिव्यसरयूकौसलवनतत्रत्यवसतितदन्तर्दुर्गवर्तुलवसतितत्साकेतभूमिकारमारामा-
वैष्णवादिनिवासप्रभृतिवर्णननामा त्रयोविंशत्यधिकशततमोऽध्याय ॥१२३॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP