संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १६०

कृतयुगसन्तानः - अध्यायः १६०

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो नारायणो द्वावपि भूसुरौ ।
तुलसीकानने नारायणघट्टे निषेदतुः ॥१॥
श्राद्धार्थं कृतसंकल्पौ सर्वोपस्करसंयुतौ ।
दर्भपिण्डफलपुष्पपायसान्नादिसंयुतौ ॥२॥
नारायणद्वयहस्ताच्छ्राद्धं यत्र वितीर्यते ।
उद्धरेत् सप्तगोत्राणां कुलान्येकोत्तरं शतम् ॥३॥
पिता माता च भार्या च भगिनी दुहिता तथा ।
पितृमातृस्वसा चैव सप्त गोत्राणि तानि वै ॥४॥
चतुर्विंशतिर्वै पितुः विंशतिर्मातुरित्यपि ।
भार्यायाः षोडश बोध्या भगिन्या द्वादश स्मृताः ॥५॥
एकादश दुहितृश्च दश पितृस्वसुस्तथा ।
अष्टौ मातृस्वसुर्बोध्या कुलान्येकोत्तरं शतम् ॥६॥
नारायणे ह्रदे स्नात्वा तावुभौ द्विजसत्तमौ ।
तर्पणं चक्रतुस्तत्र सृष्टित्रयसुखाप्तये॥ ७॥
ब्रह्मसृष्टावीशसृष्टौ जीवसृष्टौ च चेतनाः ।
तृप्यन्तां भगवद्ब्रह्मेश्वरजीवादिजातयः ॥८॥
परब्रह्माऽक्षरधामस्थितं सर्वेश्वरं हरिम् ।
प्रीणयामि जलेनैषस्तृप्यतां शाश्वती समाः ॥९॥
परमात्माऽक्षरातीतः पुरुषोत्तम आत्मगः ।
येन सर्वमिदं व्याप्तं तस्मै पिण्डं ददाम्यहम् ॥१०॥
भक्ष्यं भोज्यं लेह्यचोष्ये ह्यन्नं चतुर्विधं तु यत् ।
तस्मै श्रीहरये दत्तं तृप्तिमायातु वै हरिः ॥११॥
अक्षरं यद्धाम चोक्तं व्यापकं सेवकं च यत् ।
तस्मै धाम्ने जलं दत्तं तृप्तिमायातु शाश्वतीम् ॥१२॥
दत्तं चतुर्विधं चान्नं पायसं कदलादिकम् ।
एतत्पिण्डात्मकं दत्तं ब्रह्मणे ह्युपतिष्ठतात् ॥१रे॥
मुक्ता ह्यनादिनो ये स्युश्चादिनो ये च तद्गताः ।
भाविनो ये च यास्यन्ति मूर्तौ बाह्ये च ये स्थिताः ॥१४॥
मुक्ता यथा तथा देव्यो मुक्तान्यो याश्च तत्स्थिताः ।
ते च तास्तृप्तिमायान्तु जलेनानेन शाश्वतीम् ॥१५॥
तेषां पायसमुख्यान्नैः कदल्यादिफलै सह ।
भक्ष्यं भोज्यं लेह्यचोष्ये ह्यन्नं चतुर्विधं तु यत् ॥१६॥
एषः पिण्डो मया दत्तस्तव हस्तेऽक्षरोत्तम! ।
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥१७॥
ऐश्वर्याणि समग्राणि गुणाश्चैव विभूतयः ।
दिव्यचिह्नानि मूर्तेश्च भूषणानि तु यानि च ॥१८॥
हेतयश्च समग्रा वै तेजांसि विविधानि च ।
शक्त्योऽनेकरूपाश्च मूर्तौ हरेस्तु याः स्थिताः ॥१९॥
मूर्ताऽमूर्तस्वरूपाभ्यो जलं यच्छामि श्रद्धया ।
प्रीणयामि जलेनैतास्तृप्यन्तां शाश्वतीसमाः ॥२०॥
तासां पायसमुख्यान्नैः कदल्यादिफलैः सह ।
भक्ष्यं भोज्यं लेह्यचोष्ये ह्यन्नं चतुर्विधं तु यत् ॥२१॥
ह्येष पिण्डो मया दत्तस्तव हस्ते जनार्दन! ।
देहि ताभ्यश्च सर्वाभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥२२॥
ताश्च ते तृप्तिमायान्तु श्राद्धेनाऽनेन शाश्वतीम् ।
हरेस्तृप्त्या हरिस्थानां तृप्तिर्भवतु शाश्वती ॥२३॥
धाम्न्यक्षरेच च मुक्तेषु याश्चैश्वर्यविभूतयः ।
सामर्थ्यशक्तयश्चान्ये गुणाश्च स्मृद्धयश्च याः ॥२४॥
भोग्यं भोगोपकरणं भोगसाधनमेव च ।
सौधप्राकारगोप्राण्युद्यानक्षेत्रसुखस्थलम् ॥२५॥
यद्यत् सर्वं ब्रह्मधामात्मकं मुक्तात्मकं च यत्॥
भक्ष्यं भोज्यं लेह्यचोश्ये ह्यन्नं चतुर्विधं तु यत् ॥२६॥
दिव्यं च चेतनं यद्यत् तत्रत्यं वर्तते सदा ।
तत्सर्वं तृप्तिमायातु जलेनानेन शाश्वतीम् ॥२७॥
तस्मै पायसमुख्यान्नैः कदल्यादिफलैः सह ।
भक्ष्यं भोज्यं लेह्यचोश्यं ह्यन्नं चतुर्विधं शुभम् ॥२८॥
ह्येष पिण्डो मया दत्तस्तव हस्ते जनार्दन ।
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥२९॥
नारायणोऽक्षरं धाम तन्मुक्तास्तद्विभूतयः ।
ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥३०॥
तत्र याः सांख्ययोगिन्यो भक्तिश्चोपास्तिरित्यपि ।
मुक्तिराज्ञा मुमुक्षा च कथा वार्ता च दीक्षणा ॥३१॥
परा विद्या रमा सेवा जयाद्या याश्च सेविकाः ।
तत्रारण्यानि नद्यश्च पर्वता मुक्तकोटयः ॥३२॥
उद्यानानि विहाराश्च भूमयोऽक्षरसंज्ञिकाः ।
धातवः खनयः खाता उच्छ्रयाः शिखराणि च ॥३३॥
विमानान्यपि सर्वाणि तत्तत्सेवकजातयः ।
गान्धर्वा नर्तकास्तत्राऽऽख्यानका वंशबोधकाः ॥३४॥
सेवका याज्ञिकाः साम्नां स्तावका व्यवसायकाः ।
श्रांगारिकाः कलाकारा मुक्तानीमुक्तमण्डलाः ॥३५॥
एवं दिव्येऽक्षरे धाम्नि यानि ये याश्च सन्ति तान् ।
प्रीणयामि जलेनैते तृप्यन्तां शाश्वतीसमाः ॥३६॥
तेषां पायसमुख्यान्नैः कदल्यादिफलैः सह ।
भक्ष्यं भोज्यं लेह्यचोश्यं ह्यन्नं चतुर्विधं च यत् ॥२७॥
ह्येष पिण्डो मया दत्तस्तव हस्ते जनार्दन ।
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥२८॥
अथ श्रीकृष्णदेवाय राधया विरजादिभिः ।
रुक्मिण्या चाभियुक्ताय गोलोकाऽऽवासकारिणे ॥३९॥
इदं जलं मया दत्तं तृप्त्यर्थमुपतिष्ठताम् ।
अन्नं चतुर्विधं पायसान्नं चापि फलादिकम् ॥४०॥
ह्येष पिण्डो मया दत्तस्तव हस्ते जनार्दन ।
ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥४१॥
वसुदेवो देवकी च नन्दो यशोवती तथा ।
उद्धवः सात्यकिर्गर्गोऽक्रूरश्चान्ये च सात्त्वताः ॥४२॥
रुक्मिणी सत्यभामा च तथा जाम्बवती प्रिया ।
कालिन्दी मित्रविन्दा च सत्यभामा तथाऽपरा ॥४३॥
भद्रा च लक्ष्मणा चेति महिष्यस्तत्र सन्ति याः ।
शतं षोडशसाहस्रं पत्नीनां मण्डलं च यत् ॥४४॥
सरस्वती द्रवा दिव्याः पार्षदा गोपगोपिकाः ।
गावः सुरभयः कामधेनवो नीलगोवृषाः ॥४५॥
चतुर्दन्ता हस्तिनश्च तुरगा गरुडास्तथा ।
वृक्षा वल्ल्यश्च हंसाश्च शुकसारसमेनकाः ॥४६॥
वादका नर्तकाश्चैव गायकाः सेवकास्तु ये ।
राधासख्यो महिषीणां सख्यश्चापि च या मताः ॥४७॥
षोडशे गोपुरे याश्च त्रयस्त्रिंशत्तु गोपिकाः ।
तदन्यगोपुरेष्वेताः शतशो या हरिप्रियाः ॥४८॥
द्वारपो यः श्रीदामा च सुदामा सुबलस्तथा ।
सुपार्श्वो रत्नभानुश्च शक्रभानुस्तथैव च ॥४९॥
देवभानुर्वसुभानुः सूर्यभानुश्च चन्द्रभः ।
वीरभानुस्तथा चान्या गोप्यः सख्यश्च गोपकाः ॥५०॥
सुशीला च चन्द्रकला यमुना माधवी रतिः ।
कदम्बमाला सुकुन्ती जाह्नवी च स्वयंप्रभा ॥५१॥
पद्ममुखी च सावित्री गायत्री सुमुखी सुधा ।
पद्मालया पारिजाता सुगौरी सर्वमंगला ॥५२॥
कालिका कमला दुर्गा भारती च सरस्वती ।
गंगाऽम्बिका मधुमती चंपाऽपर्णा च सुन्दरी ॥५३॥
कृष्णप्रिया ब्रह्मसती नन्दिनी नन्दना तथा ।
पार्षदाश्च कुमाराश्च किंकर्यश्चापि या मताः ॥५४॥
पारिजाताश्च वृन्दाश्चाऽक्षयो भाण्डीरको वटः ।
कल्पवृक्षा वनान्यन्यचेतनानि च यान्यपि ॥५५॥
शतशृंगादयो ये च गोलोकस्थास्तु चेतनाः ।
ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥५६॥
प्रीणयामि जलेनैते तृप्यन्तां शाश्वतीसमाः ।
भक्ष्यं भोज्यं लेह्यचोष्यं चान्नं चतुर्विधं च यत् ॥५७॥
ह्येते पिण्डा मया दत्तास्तव हस्ते जनार्दन ।
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥५८॥
महावैकुण्ठधामस्थं त्वथ नारायणं प्रभुम् ।
लक्ष्म्या च रमया युक्तं तर्पयामि जलेन च ॥५९॥
मया दत्तं जलमेतच्छ्रीहरिं सूपतिष्ठताम् ।
अन्नं चतुर्विधं पायसान्नं चापि फलादिकम् ॥६०॥
ह्येष पिण्डो मया दत्तस्तव हस्ते जगद्भर ।
गृहाण तृप्तिमायातु श्राद्धेनानेन शाश्वतीम् ॥६१॥
महालक्ष्मीर्महामाया रमा याश्च हरिप्रियाः ।
तत्र या धरणिर्लीला विमलोत्कर्षिणी तथा ॥६२॥
ज्ञाना क्रिया च योगा च प्रह्वी सत्येशनी तथा ।
पद्मा जया च पांचाली भार्गवी ललिता रमा ॥६३॥
पार्वती च प्रभा माणिक्या लक्ष्मीरीश्वरी तथा ।
अमृता च प्रदीपा च कृष्णा कुंभस्तनी तथा ॥६४॥
अमूल्या तक्षिणी प्रेमा चतुरा मणिधन्यके ।
ऊज्जयिनी नन्दना चोजस्वती कुरुजामिनी ॥६५॥
नवव्रता मनोवारा रत्ना जाह्नविका तथा ।
लड्डुमाना च मुक्ता चामृता मौक्तिकमानदा ॥६६॥
कस्तूरी शान्तिदा हंसा कान्ता रेवा सवितृजा ।
मूलजा रूटिका मंजुलिका देवी च निर्मला ॥६७॥
गोदावरी रल्लयाता जटिला च दया रमा ।
पानपात्री प्रचम्पा मत्प्रेमजा मिष्टगोपिका ॥६८॥
मनुजा वंजुली पुष्पा महिष्यः परमात्मनः ।
हेमजा राजती पद्मा नलिनी माधवी प्रियाः ॥६९॥
तथा भक्ता धर्मदेवो नन्दः सुनन्द इत्यपि ।
श्रुतदेवो जयन्तश्च विजयश्च जयस्तथा ॥७०॥
चण्डश्चैव प्रचण्डश्च पुष्पदन्तश्च सात्वतः ।
विश्वक्सेनो गरुडश्च प्रबलो बल इत्यपि ॥७१॥
कुमुदः कुमुदाक्षश्च पार्षदाः सन्ति तत्र ये ।
कूर्मः शेषश्च गरुडो हंसश्छंदांसि मन्त्रकाः ॥७२॥
ते सर्वे तृप्तिमायान्तु तीर्थेनानेन वारिणा ।
भक्ष्यं भोज्यं लेह्यचोष्यं पायसान्नं फलादिकम् ॥७३॥
अर्पयामि हरेर्हस्ते पिण्डाँस्तृप्ता भवन्तु ते ।
वादका गायका भक्ताः सूतमागधबन्दिनः ॥७४॥
नर्तक्यो नर्तका द्वारपालका ये च पार्षदाः ।
नारायण्यस्तथा चान्या नारायणाश्च तत्समाः ॥७५॥
रमा च रुक्मिणी सीता पद्मा पद्मालया शिवा ।
सुदक्षिणा सुशीला या भगवत्परिचारिकाः ॥७६॥
भद्रः सुभद्रश्च धाता विधाता च तथा शुभाः ।
पुण्डरीको वामनश्च शंकुकर्णादयस्तथा ॥७७॥
महात्मानो महाभागा वैष्णवाः सात्वताश्च ये ।
सिद्धयः कल्पवृक्षाश्च वनान्युद्यानचेतनाः ॥७८॥
साकेतं पनसौ वृक्षौ वैष्णव्यः कन्यकाश्च याः ।
द्वारपालाश्चायुधानि वेदाः पार्षदरूपिणः ॥७९॥
प्रह्लादो नारदश्चैव पुण्डरीकः पराशरः ।
अम्बरीषो ध्रुवश्चैव ये वै वैकुण्ठवासिनः ॥८०॥
किंकर्यश्च हरेर्दास्यो दासदास्यश्च यास्तथा ।
ते सर्वे तृप्तिमायान्तु जलेनानेन शाश्वतीम् ॥८१॥
अन्नं चतुर्विधं भोज्यं पायसान्नं फलादिकम् ।
एते पिण्डा मया दत्तास्तव हस्ते जगद्भर ॥८२॥
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।
अथ द्वितीयवैकुण्ठे जलावरणपारगे ॥८३॥
दिव्यो नारायणस्तस्य कान्ताः कमललोचनाः ।
विमला सुमती श्यामा सुशीला कुशला तथा ॥८४॥
दीपावली जयन्ती च रमा भागीरथी तथा ।
सुखा च कनका विद्युल्लता चन्द्रकला तथा ॥८५॥
लक्षशः प्रमदा याश्च पार्षदा दिव्यविग्रहाः ।
ये च भरतशत्रुध्नलक्ष्मणाः शेषशारदाः ॥८६॥
पुरी देववती तत्स्था दिव्या ईश्वरकोटयः ।
दैवाः पतत्रिणो दिव्याः शाखिनो हेतयस्तथा ॥८७॥
सर्वे ते तृप्तिमायान्तु तैर्थेनाऽन्नेन वारिणा ।
अन्नं चतुर्विधं दुग्धपाकपक्वफलादिकम् ॥८८॥
एते पिण्डा मया दत्तास्तव हस्ते जगद्भर ।
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥८९॥
अथ तृतीयवैकुण्ठं श्वेतद्वीपाख्यधाम यत् ।
तत्रस्थं श्रीहरिं नारायणं लक्ष्म्या समन्वितम् ॥९०॥
तैर्थैरेतैः सुसद्वार्भिस्तर्पयामि स तृप्यताम् ।
मिष्टं चतुर्विधं चान्नं पायसं च फलादिकम् ॥९१॥
अर्पयामि मया दत्तः पिण्डः संप्रतिगृह्यताम् ।
तत्रस्थाः सनकाद्याश्च योगिनः परमर्षयः ॥९२॥
वोढुः पचशिखश्चैव सनत्सुजातसंज्ञकः ।
अन्येऽपि ऋषयस्तत्र तन्वाद्याश्च वसन्ति ये ॥९३॥
साध्व्यश्च साधवश्चान्ये तापसा ये वसन्ति च ।
अनन्तो वैनतेयश्च हंसः करी सुवैष्णवाः ॥९४॥
ईशावास्या महादेवी जाह्नवी कमला रमा ।
सावित्री च तथा शान्ता कान्ता ब्राह्मी सरोजनी ॥९५॥
दास्यश्चापि तथा तत्र प्रज्ञा मेधा धृतिः क्षमा ।
श्रद्धा च धारणा शान्तिः श्रुतिर्मनीषिणी स्मृतिः ॥९६॥
वृष्टिर्बुद्धिर्मतिर्वन्याः श्रियः किंकर्य एव याः ।
दासा दास्यश्च ये तत्र चेतना मुक्ततापसाः ॥९७॥
ते सर्वे तृप्तिमायान्तु जलेनानेन शाश्वतीम् ।
अन्नं चतुर्विधं स्वादु पायसं च फलादिकम् ॥९८॥
एतै पिण्डा मया दत्तास्तव हस्ते जनार्दन ।
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥९९॥
अथ नारायणं दुग्धाब्धिवासं वै जगद्गुरुम् ।
लक्ष्म्या शेषेण सहितं गरुडादिसमन्वितम् ॥१००॥
तर्पयामि जलेनैषस्तृप्यतां मे जनार्दनः ।
दौग्धं च सफलं पिण्डं ते ददामि करे विभो ॥१०१॥
प्रीणयामि सभक्तं त्वां तृप्यतां शाश्वतीसमाः ।
मार्कण्डेयो बलिर्बाणोऽश्वत्थामहनुमद्वराः ॥१०२॥
निमिर्बिभीषणः पर्शुरामो व्यासो मनुस्तथा ।
सत्यव्रतश्च नन्दश्च गयश्चान्ये च पार्षदाः ॥१०३॥
अन्याश्च सेविकास्तत्र नर्मदा तपती तथा ।
तुंगभद्रा च कावेरी गंगा गोदावरी तथा ॥१०४॥
सिन्धुः फल्गुर्गण्डकी च ताम्रपर्णी सरस्वती ।
करतोया कर्मनाशा साभ्रमती च गोमती ॥१०५॥
ओजस्वती भद्रावती सरयूः स्वर्णरक्षिका ।
इन्द्रद्युम्नं पुष्करं च नारायणसरस्तथा ॥१०६॥
अश्वपट्टसरश्चैव मानसं च सरोवरम् ।
एवं नदाश्च नद्यश्च सरांसि सागरास्तथा ॥१०७॥
चिरायुषो मूर्तिमन्तो भक्तास्तत्र वसन्ति ये ।
तेभ्यो नारायणं तोयं श्राद्धं सफलपायसम् ॥१०८॥
अर्पयामि तथा पिण्डान् तव हस्ते जगद्भर ।
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥१०९॥
अथाऽव्याकृतधामस्थं भूमानं रमयाऽर्चितम् ।
तद्भक्तैः सेवितं वासुदेवं संकर्षणं तथा ॥११०॥
प्रद्युम्नं चानिरुद्धं च महाकालं च पूरुषम् ।
महापुरुषमेवाऽत्र तथा प्रकृतिपूरुषम् ॥१११॥
प्रधानपुरुषं चैव महाविष्णुं महारमाम् ।
दासदासीसमेताँस्तान्प्रीणयामि जलेन वै ॥११२॥
चतुर्विधेन भोज्येन पायसान्नफलादिभिः ।
सर्वे ते तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥११३॥
अमृतधामसंस्थं वै रमानारायणं प्रभुम् ।
नरनारायणौ बद्रिकाश्रमस्थौ तपस्विनौ ॥११४॥
मत्स्यं कूर्मं वराहं च तत्तद्धामनिवासिनम् ।
दत्तात्रेयं च कपिलं पृथुं हंसं च वामनम् ॥११५॥
ऋषभं नृहरिं पर्शुरामं यज्ञं कुमारकान् ।
हयग्रीवं नारदं च हरिं बुद्धं मनुं तथा ॥११६॥
व्यासं तत्तद्धामसंस्थान् मुक्ताँश्च पार्षदाँस्तथा ।
दासदासीश्च भक्ताँश्च तर्पयामि जलेन च ॥११७॥
चतुर्विधेन भोज्येन पायसान्नफलादिभिः ।
ते सर्वे तृप्तिमायान्तु श्राद्धेनाऽनेन शाश्वतीम् ॥११८॥
एते पिण्डा मया दत्तास्तव हस्तेऽवतारिणः ।
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥११९॥
हिरण्यगर्भं वैराजं चाऽष्टाऽवरणकेश्वरान् ।
विष्णुं सदाशिवं मूलां मायां तत्त्वानि यानि च ॥१२०॥
तत्तद्देवाश्च तेषां च गुणा ये चेतनास्तथा ।
तत्र तत्र गताँश्चान्यानैश्वरान् चेतनाँस्तथा ॥१२१॥
वैराजाँश्चेतनान्सौरान्वाह्नेयाँश्चेतनाँस्तथा ।
ऐशलोकान्समस्ताँश्च तर्पयामि जलेन वै ॥१२२॥
चतुर्धा भोज्यसंभारैः पायसान्नफलादिभिः ।
ते सर्वे तृप्तिमायान्तु नारायणकरार्पणात् ॥१२३॥
एते पिण्डा मया दत्तास्तृप्यन्तां शाश्वतीसमाः ।
ये सहस्रमुखाश्चान्ये शताद्याननविष्णवः ॥१२४॥
ब्रह्माणश्च तथाऽऽस्याश्च शंभवश्च तथाऽऽननाः ।
कोटिशः शक्तिसहितास्तृप्यन्तां तीर्थवारिभिः ॥१२५॥
पायसान्नचतुरन्नैस्तथाऽर्पितफलादिभिः ।
एते पिण्डा मया दत्तास्तव हस्ते जनार्दन ॥१२६॥
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।
गुणत्रयं चतुरन्तःकरणं दशबाह्यकम् ॥१२७॥
करणं दशभूतानि दश प्राणांश्च चेतनाः ।
धातवस्तृप्तिमायान्तु दत्तान्नफलवारिभिः ॥१२८॥
लिंगं बाणस्तथा स्थाला शंभुः सती च कार्तिकः ।
गणेशः क्षेमलाभौ चर्द्धिः सिद्धिः शिवयोगिनः ॥१२९॥
योगिन्यो हनुमान् दुर्गा देव्यश्चापि कुमारिकाः ।
रुद्राश्चैकादश कोटिः शतं ज्योतींषि द्वादश ॥१३०॥
गंगा च वीरभद्रश्च जलंधरश्च तारकः ।
तारकाक्षो गजश्चापि महिषश्चण्ड इत्यपि ॥१३१॥
प्रचण्डो नन्द उपनन्दः शृंगी भृंगिरीटिकौ ।
किरीटी चन्द्रमाश्चापि वह्निर्मंगल इत्यपि ॥१३२॥
दुर्वासाः कालभीरुश्च विष मुण्डादिसद्गणाः ।
त्रिशूलं वासुाकिश्चापि रुद्राक्षो वृषभस्तथा ॥१३३॥
मयूरो मूषकः सिंहः कैलासस्तद्विभूतयः ।
कर्णघंटा मेघनादश्चान्ये ये कोटिशो गणाः ॥१३४॥
महाकाल्यादयो याश्च पार्वत्याः शक्तयस्तथा ।
कैलासस्तद्गताः सर्वे शैवा ये चेतनागणाः ॥१३५॥
दासा दास्यश्च ते सर्वे तृप्यन्तां तीर्थवारिभिः ।
चतुरन्नं फलं पेयं पायसं योग्यमेव यत् ॥१३६॥
ह्येते पिण्डा मया दत्तास्तव हस्ते जनार्दन ।
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥१३७॥
ये ये शैवाश्च ते सर्वे तृप्यन्तां शाश्वतीसमाः ।
ब्रह्मा च ब्रह्मपुत्राश्च ब्रह्मपत्न्यस्तथा च याः ॥१३८॥
सरस्वती च गायत्री सावित्री विरिणी तथा ।
असिक्नी च पलिक्नी च शतरूपा च कद्रुकी ॥१३९॥
रतिः सन्ध्या तथा सृष्टिर्विद्याऽविद्या च मोहिनी ।
अष्टाशीतिसहस्राणि बालखिल्यास्तथा च ये ॥१४०॥
तथा षष्टिसहस्राणि बालखिल्याश्च येऽपरे ।
हर्यश्वाः शबलाश्वाश्च दशपंचसहस्रकाः ॥१४१॥
अर्धं चैकं सहस्रं च पुत्रा ये ब्रह्मवंशजाः ।
देवर्षिनारदाद्याश्च सनकाद्या महर्षयः ॥१४२॥
सप्तर्षयश्च दक्षाद्या धर्माऽधर्मौ सवंशकौ ।
अग्निष्वात्ता बर्हिषदाः आज्यपाः सोमपास्तथा ॥१४३॥
पितरश्च तथा मेघाश्चत्वारो मदनो रतिः ।
पञ्चबाणाश्च पुष्पाणि ब्रह्मचारिण इत्यपि ॥१४४॥
ऊर्ध्वस्रोतस एवैवं सत्यलोकगताश्च ये ।
विद्यावन्तस्तापसाश्च त्यागिनो न्यासिनस्तथा ॥१४५॥
ब्रह्मलोककृताऽऽवासाः साध्यश्च साधवस्तथा ।
ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥१४६॥
प्रीणयामि स्वर्णरेखाजलैः सत्पायसादिभिः ।
चतुरन्नैः फलैः पेयैस्तृप्यन्तां शाश्वतीसमाः ॥१४७॥
एते पिण्डा हरेर्हस्ते दत्तास्तृप्ता भवन्तु ते ।
अथ ये ऋषयश्चान्ये यानि मन्वन्तराणि च ॥१४८॥
व्यासाश्च व्यासशिष्याश्च मुनयो ब्रह्मवर्चसः ।
पत्नीव्रतादयो विप्रा वर्णाश्चैवाऽऽश्रमास्तथा ॥१४९॥
वेदाः शास्त्राणि चाख्यानान्युपव्याख्यानकान्यपि ।
प्राच्याऽऽवाच्येतिहासाश्च चरित्राणि कथास्तथा ॥१५०॥
छन्दाः स्वरास्तथा रागा रागिण्यश्च प्रबन्धकाः ।
व्यापारा वृत्तयश्चैव क्षुत्तृषानलधातवः ॥१५९१॥
समूर्ताश्चेतना ये स्युस्तृप्तिमायान्तु वारिभिः ।
पायसान्नैश्चतुरन्नैस्तृप्यन्तां शाश्वतीसमाः ॥१५२॥
महर्जनतपोवासा ऋषयः पितरश्च ये ।
संवत्सरश्च मासाश्च पक्षाश्च दिवसा निशाः ॥१५३॥
पावकः पवमानश्च पांक्तेयः पक्तिपावनः ।
गार्हपत्यो दाक्षिणात्य आवसथ्योऽग्निहोत्रजः ॥१५४॥
आरार्त्रिको नाचिकेता बार्हस्पत्यश्च चूल्लिजः ।
वानप्रास्थ्यश्च सान्यस्यो भौम उदर्य इत्यपि ॥१५५॥
दिव्य आकरजश्चैव शावः श्माशानिकस्तथा ।
दावो दवश्च मखजो ज्वालास्यो वाडवस्तथा ॥१५६॥
ह्येते ये पितरः प्रोक्तास्तथा वैश्रवणादयः ।
प्रेताश्च पितरो याम्या नारकाः श्रावणास्तथा ॥१५७॥
दूताश्च पितरस्त्वन्ये यातनाः पितरस्तथा ।
वंशजाश्चाऽन्यवंशादिजन्मानः स्थावरेषु ये ॥१५८॥
जंगमेषु तथोद्भूता वायुजाः पितरश्च ये ।
प्रभिन्नाः प्रतिकल्पं मुन्यृष्यर्यमादिकाश्च ये ॥१५९॥
पितरस्ते जलैरेतैस्तृप्यन्तां शाश्वतीसमाः ।
अन्नं चतुर्विधं पायसान्नं फलादिकं तथा ॥१६०॥
मुन्यन्नं चैव योग्यान्नं चार्पयामि करे हरेः ।
एते पिण्डा मया दत्तास्तव हस्ते जनार्दन ॥१६१॥
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।
दिशांपाला लोकपालाः स्वर्गपालास्तथा च ये ॥१६२॥
इन्द्राद्यष्टावणिमाद्याश्चाष्टौ वै सिद्धयस्तथा ।
आयाद्या वसवश्चाष्टौ दिशश्चाष्टौ नवग्रहाः ॥१६३॥
निधयश्च नव ये विद्याध्राः षण्मातरः खलु ।
ताराश्च केतवः क्षुद्रतारका धूम्रकेतवः ॥१६४॥
सूर्याश्च द्वादशादित्याश्चन्द्रत्रयं च तत्कलाः ।
सप्तविंशतिभान्येव त्रयस्त्रिंशच्च देवताः ॥१६५॥
मरुतो विद्युतश्चैव साध्ये विश्वे च देवताः ।
सिद्धचारणगन्धर्वाः सूतमागधबन्दिनः ॥१६६॥
किंपुंसः किन्नरास्तृप्तिं यान्तु प्रदत्तवारिभिः ।
अन्नं चामृतदुग्धान्नं पक्वं पक्वफलादिकम् ॥१६७॥
सर्वं चतुर्विधं भोज्यं पेयं बहुविधं तथा ।
एते पिण्डा मया दत्तास्तव हस्ते जनार्दन ॥१६८॥
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।
ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ॥१६९॥
भुवर्लोकगता ये च येऽन्तरीक्षगतास्तथा ।
वाय्वाधारा वायुदेहा यक्षास्तथा च राक्षसाः ॥१७०॥
भूताः प्रेताः पिशाचाश्च कूष्माण्डाश्च विनायकाः ।
वेताला भैरवाश्चान्ये मारका जनकास्तथा ॥१७१॥
मातुला राहवश्चान्ये कालवर्णाश्च कालिकाः ।
डाकिनी शाकिनी चैव योगिनी भक्षिणी तथा ॥१७२॥
वेतालिनी खञ्जिनी च शीतला मातृका तथा ।
मारिका बालिकी कृत्या हिक्का तथा च तानिका ॥१७३॥
आकर्षिणी महामारी ज्वराः शीतास्तथोष्णकाः ।
रोगाश्च राजरोगाश्च प्रोत्तापाश्च जरादयः ॥१७४॥
अवस्थाः शक्तयोऽशक्तिविशेषा रोगिणी तथा ।
मन्त्रास्तन्त्राश्च यन्त्राश्च शपथा बन्धनानि च ॥१७५॥
पाशा अस्त्राणि शस्त्राणि विद्युतो दुर्दिनं तथा ।
दिङ्भ्रमोऽलातचक्राणि मेघाश्चाभ्राणि चान्धयः ॥१७६॥
तृणावर्तास्तथोत्पाता भूकम्पा वातवृष्टयः ।
ईतयश्चाततायिन्यो रजोवर्षादयश्च ये ॥१७७॥
ते सर्वे तृप्तिमायान्तु तैर्थिकैर्वारिभिः सदा ।
प्रीणयामि जलैरर्थैस्तृप्यन्ता शाश्वतीसमाः ॥१७८॥
माषान्नं कृशरान्नं च खेचरान्नं च तामसम् ।
विविधान्नं राजसं च पायसान्नं चतुर्विधम् ॥१७९॥
अन्नं तथा फलं पेयं योग्यं योग्यं ददाम्यहम् ।
तत्तदन्नैर्मया दत्ताः पिण्डाश्च करयोर्हरेः ॥१८०॥
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।
सर्वे भवन्तु तृप्तास्ते श्राद्धेनानेन सर्वदा ॥१८१॥
भूलोकस्था जरायूजा अण्डजाः स्वेदजास्तथा ।
उद्भिजाश्चेतनाः सर्वे ब्राह्मणाः क्षत्रियास्तथा ॥१८२॥
वैश्याः शूद्राः संकराश्च चाण्डालाः पतितास्तथा ।
अनुलोमा प्रतिलोमा अलोमा अर्धमानवाः ॥१८३॥
नैष्ठिकाः सगृहा वानप्रस्थाः सन्न्यासिनस्तथा ।
शैवाश्च वैष्णवाः शाक्ता वैदिकाश्च तदन्यकाः ॥१८४॥
गोरोमजाश्च जलजाः स्थलजा व्योमजास्तथा ।
क्षुद्रा जीवा महान्तश्च कीटाः पतंगपक्षिणः ॥१८५॥
आतृणस्तम्बपर्यन्तास्तथा गृहप्रदेवताः ।
ग्रामदेवा वनदेवाः क्षेत्रपालास्तथैव च ॥१८६॥
देहे षट्चक्रदेवाश्च कपाले गुरुदेवताः ।
वनानि पर्वताश्चैवाऽरण्यानि सरितस्तथा ॥१८७॥
नद्यश्चापि तडागाश्चाऽऽरामाश्चैव सरांसि च ।
खाताश्चैव तथाऽखातान्यब्धयो ह्युच्छ्रयास्तथा ॥१८८॥
रणाश्च मरुदेशाश्च देवस्थानानि सर्वशः ।
चैत्यवृक्षाश्चैत्यकोष्ठाश्चैत्यानि पुलिनानि च ॥१८९॥
देव्यालयाश्च जीर्णा भूर्ग्रामाः खेटाश्च खर्वटाः ।
नगराणि राजधानी पुराणि च पुरी तथा ॥१९०॥
ये तत्र चेतनाः सन्ति तदधिष्ठातृचेतनाः ।
ते सर्वे तृप्तिमायान्तु दत्तैरेभिर्जलैः सदा ॥१९१॥
तेषां च विविधैरन्नैराग्नेयैर्वायवीयकैः ।
जलीयैः पार्थिवैश्चैव वृष्टिजैर्विकृतैस्तथा ॥१९२॥
चतुरन्नैर्भक्ष्ययोग्यैः पायसादिभिरित्यपि ।
बाष्पैश्च मेघकणकैर्वार्क्षरसैश्च कर्दमैः ॥१९३॥
शैत्यैश्चन्द्रकरैः सौर्यैर्विषैरन्यैः फलादिभिः ।
फेनैश्चापि करोम्यत्र श्राद्धं तृप्ता भवन्तु ते ॥१९४॥
प्रीयणामि जलैरेते तृप्यन्तां शाश्वतीसमाः ।
तेषां तृप्तिप्रदाः पिण्डा दत्ता हरिकरे मया ॥१९५॥
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।
मातॄर्मातामहीश्चैव तथैव प्रपितामहीः ॥१९६॥
पितॄन् पितामहाँश्चैव तथैव प्रपितामहान् ।
भ्रातॄन् स्वसॄर्भ्रातृजायार्जामातॄन् मातुलादिकान् ॥१९७॥
भातृपुत्रादिकान् पत्नीः श्वशुरस्य कुटुम्बिनः ।
पितृस्वसॄर्मातृस्वसॄर्दुहितृश्च सुयोगिनीः ॥१९८॥
तत्पुत्रपुत्रीपौत्र्यादीः प्रीणयामि जलादिभिः ।
तथा पायसमुख्यान्नैश्चतुरन्नैस्तथा फलैः ॥१९९॥
तेषां श्राद्धं करोम्येते तृप्तिमायान्तु शाश्वतीम् ।
एते पिण्डा मया दत्तास्तव हस्ते जनार्दन ॥२००॥
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ।
प्रीणयामि जलान्नैस्ते तृप्यन्तां शाश्वतीसमाः ॥२०१॥
प्राचेतसान्नाचिकेतान्मारुतान्कालकेयकान् ।
याम्यान् संशप्तकान्वार्क्षान् भूजातान् शलभादिकान् ॥२०२॥
तथाऽतलादिलोकस्थान् दैत्यदानवराक्षसान् ।
सर्पान्सरीसृपान्नागान् येऽन्ये वसन्ति तानपि ॥२०३॥
प्रीणयामि शीतमिष्टजलान्नफलपायसैः ।
पिण्डाँस्तेभ्यश्चार्पयामि तृप्यन्तां शाश्वतीसमाः ॥२०४॥
इष्टदेवं तथाब्रह्म प्रगुरुं च गुरुं तथा ।
प्रीणयामि तीर्थजलैः पायसान्नैः फलैस्तथा ॥२०५॥
ते सर्वे तृप्तिमायान्तु श्राद्धेनानेन शाश्वतीम् ।
एष पिण्डो मया दत्तस्तव हस्ते जनार्दन ॥२०६॥
देहि तेभ्यश्च सर्वेभ्यस्तप्तिमायान्तु शाश्वतीम् ।
ईशावास्यमिदं सर्वं तृप्यतां परमेश्वर! ॥२०७॥
भूतभाविवर्तमाना गत्यगतिगताश्च ये ।
प्रीणयाम्यन्नसलिलैस्तृप्यन्तां शाश्वतीसमाः ॥२०८॥
मेरुगतास्तथा लोकालोकाचलसमाश्रिताः ।
तृप्तिमायान्तु ते दुग्धपाकैः फलजलादिभिः ॥२०९॥
अस्मृताश्चाऽनवधाना अनागताश्च येऽसवः ।
प्रीणयामि च तान्सर्वान् फलान्नसलिलैस्तथा ॥२१०॥
एते पिण्डा मया दत्तास्तव हस्ते जनार्दन ।
देहि तेभ्यश्च सर्वेभ्यस्तृप्तिमायान्तु शाश्वतीम् ॥२११॥
नारायणकृतं श्राद्धं नारायणेन कारितम् ।
सृष्टित्रयं सुतृप्तं वै शाश्वतं सुखमाप तत् ॥२१२॥
ये च तत्राऽऽगताः सर्वे तृप्तिमादाय शाश्वतीम् ।
लोकं स्वं स्वं गताः सर्वे श्राद्धं पूर्णं कृतं च तत् ॥२१२॥
तर्पणात् सततं तेषां तृप्तिर्भवति शाश्वती ।
पुष्ट्यैश्वर्यं श्राद्धकर्तुरायुः सन्ततिरित्यपि ॥२१४॥
विचित्रा भजते लक्ष्मीर्मोक्षस्तं भजते क्रमात् ।
देवताभ्यश्च पितृभ्यो महायोगिभ्य इत्यपि ॥२१५॥
स्वाहायै च स्वधायै च नमो नित्यं भवत्युत ।
श्राद्धे जाप्यो भवेन्मन्त्रः श्रीरायुर्बलवर्धनः ॥२१६॥
प्रीयन्ते पितरो येन जप्येन नियमेन च ।
सप्तार्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥२१७॥
अमूर्तानां समूर्तानां पितृणां दीप्ततेजसाम् ।
नमस्यामि सदा तेभ्यो ध्यानिभ्यो योगिचक्षुषाम् ॥२१८॥
इन्द्रादीनां जनेतारो भगुमारीचयोस्तथा ।
सप्तर्षीणां च पितॄणां तान्नमस्यामि कामदान् ॥२१९॥
मन्वादीनां सुरेशानां सूर्याचन्द्रमसोस्तथा!
तान्नमस्कृत्य सर्वान् वै पितॄन् कुशलदायकान् ॥२२०॥
नक्षत्राणां चरादीनां पितॄनथ पितामहान् ।
द्यावापृथिव्योश्च तथा नमस्यामि कृतांजलिः ॥२२१॥
देवर्षीणां जनयितृन्सर्वलोकनमस्कृतान् ।
अभयस्य सदा दातॄन्नमस्येऽहं कृताञ्जलिः ॥२२२॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।
योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥२२३॥
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ।
स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे' ॥२२४॥
अनेन विधिना युक्तस्त्रीन्वराँल्लभते जनः ।
अन्नमायुः सुताँश्चैव ददते पितरो भुवि ॥२२५॥
भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः ।
सप्तार्षिचं जपेद् यः स पृथिव्यामेकराड् भवेत् ॥२२६॥
किन्न्वधिकं प्रवक्तव्यं सर्वेषां मुक्तिदं स्थलम् ।
शृंगिभिर्दंष्टिभिर्व्यालैर्विषवह्निस्त्रिया जलैः ॥२२७॥
क्रीडां कुर्वन्मृतो यश्चाऽगतिकः प्रेतयोनिजः ।
नागानां विप्रियं कुर्वन् हतश्चाप्यथ विद्युता ॥२२८॥
निगृहीतः स्वयंराज्ञा चौर्यदोषेण वै मृतः ।
परदारान् रमन्तश्च द्वेषात् तत्पतिभिर्हताः ॥२२९॥
असमानैश्च संकीर्णैश्चाण्डालाद्यैश्च विग्रहम् ।
कृत्वा तैर्निहतास्ताँश्च चाण्डालादीन् समाश्रिताः ॥२३०॥
गवाऽग्निविषदाश्चैव पाषंडाः क्रूरबुद्धयः ।
क्रोधात्प्रायो विषं वह्निं शस्त्रमुद्बन्धनं जलम् ॥२३१॥
गिरेर्वृक्षात्पपातं च य कुर्वन्ति सुदुःखिताः ।
कुशिल्पजीविनो ये च पञ्चसूनाधिकारिणः ॥२३२॥
मखे सर्पासु ये केचिद् दीनप्राया नपुंसकाः ।
साधुदण्डहता ये च ये चापि ब्राह्मणैर्हताः ॥२३३॥
महापातकिनो ये च पतिता ये च संकराः ।
मृता वा जीविनो वापि स्वयं वाऽन्यकृतेन च ॥२३४॥
स्नानेन शुद्धिमायान्ति नारायणह्रदाऽप्सु वै ।
इति ते कथितं लक्ष्मि ह्रदमाहात्म्यमुत्तमम् ॥२३५॥
सर्वपापप्रशमनं पितॄणां भुक्तिमुक्तिदम् ।
यः शृणोति नरो भक्त्या श्राद्धे पर्वणि वाऽन्वहम् ॥२३६॥
श्रावयेद्वा वरारोहे ॥सोऽपि स्याद् ब्रह्मलोकभाग् ।
इदं स्वस्त्ययनं पुण्यं धन्यं स्वर्गतिदं नृणाम् ॥२३७॥
यशस्यमपि चाऽऽयुष्यं पुत्रपौत्रविवर्धनम् ।
पूजाश्राद्धात्मकं दिव्य कर्म हरिद्वयाऽर्पितम् ॥२३८॥
स्नात्वा दामोदरे कुण्डे मृगीकुण्डे तथा पुनः ।
नारायणहृदे स्नात्वा श्राद्धं कुर्यादितिस्थितिः ॥२३९॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वयोर्नारायणयोर्नारायणह्रदजले ब्रह्मधामगोलोकवैकुण्ठश्वेतबद्रिकाश्रमाऽमृताऽव्याकृतक्षीरसागरादिगोलखगोलभूगोलस्थानां सार्वभौमश्राद्धतर्पणकरणम् सप्तार्चिस्तवनं फलं चेत्यादिनिरूपणनामा षष्ठ्यधिकशततमोऽध्यायः ॥१६०॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP