संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १९८

कृतयुगसन्तानः - अध्यायः १९८

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
समुद्रमन्थने दैत्यमोहार्थं त्वमभूः प्रभो ।
मोहिनीरूपमापन्नस्त्वां दृष्ट्वा शंकरस्तदा ॥१॥
मायेशोपि कथं मायामोहमवाप निर्गुणः ।
इति मे संशयं छिन्धि तां कथां कथय प्रभो ॥२॥
श्रीनारायण उवाच-
श्रूयतां तन्महालक्ष्मि! सर्वं निःसंशयं यथा ।
अहं नारायणः साक्षात्परंब्रह्म परात्परः ॥३॥
निर्गुणोऽपि सदा दिव्यगुणाकरो भवाम्यपि ।
मदिच्छाया जगत्सर्वं निर्गुणान्मम वर्ष्मणः ॥४॥
समुत्पन्नं सगुणं तत् सत्त्वादिगुणमिश्रितम् ।
प्रकृतेश्च गुणानां च प्रेरकोऽहं प्रयोजकः ॥५॥
यथा यत्र यादृशं च कार्ये भवति तादृशम् ।
रूपमास्थाय तत्सर्वं साधयामि स्वयं यथा ॥६॥
अन्यप्रवेशमास्थाय साधयामि गुणार्थिवत् ।
शंकरो मम भक्तोऽस्ति निर्लेपो मायया सदा ॥७॥
मायागुणैरनुद्वेज्यो मायया स न लिप्यते ।
तथाप्यन्यप्रशिक्षार्थं मोहनं दर्शितं मया ॥८॥
साध्व्यश्च साधवश्चापि त्यागव्रतं समाश्रिताः ।
ते तु मोहं प्रजित्वैव दिव्यभावा भवन्ति हि ॥९॥
तथापीन्द्रियवेगेन कदाचिद्योगसंभवे ।
ग्राम्यक्रियाप्रकर्तारो भवेयुर्मोहसंभवे ॥१०॥
शंकरो योगिराट् भक्तो मायामोहमवाप्तवान् ।
तस्मान्मुक्तिं समिच्छद्भिर्भेत्तव्यमिन्द्रियादितः ॥११॥
अप्रमादः सदा रक्ष्यः प्रमादो मृत्युरुच्यते ।
मोह एव प्रमादोऽस्ति नरनारीप्रयोगजः ॥१२॥
तद्भक्तैर्नैव योक्तव्यं मोहनं देहजं क्वचित् ।
इति प्रत्युपदेशार्थं दर्शितं शंकरे मया ॥१३॥
अन्यच्चाऽस्या वसुमत्या गर्भे स्वर्णप्रपत्तये ।
शिवधातुप्रदानार्थं कृतं मया सहेतुकम् ॥१४॥
शृणु तच्च यथाजातं ममैव तत्कथानकम् ।
द्वयोरैक्यान्मोक्षकरी कथैषा श्रवणान्मता ॥१५॥
योषिद्रूपधरो विष्णुर्मोहयित्वा तु दानवान् ।
सोममपाययद्देवान् श्रुत्वेति शंकरः स्वयम् ॥१६॥
द्रष्टुमैच्छच्च तद्रूपं समायाच्च त्वरान्वितः ।
शंकरस्य च संकल्पं ज्ञात्वाऽथ मोहिनीहरिः ॥१७॥
पाययित्वाऽमृतं देवानपासरत् यतो हरः ।
षोडशहायना नारी कामपूरभरान्विता ॥१८॥
कबरीकेशवेषाढ्या चंचत्पत्रलतान्विता ।
शरत्पूर्णनिशानाथनिभाननमनोहरा ॥१९॥
कामबाणाश्रितभालभ्रृकुटिद्वयहृद्गमा ।
रक्तपीतसुधवलपुष्पावतंसशोभिता ॥२०॥
स्थलपद्मकृतगुच्छग्रथितधम्मिलोत्तमा ।
सुगन्धचन्दनमिश्रकुंकुमपत्रिकान्विता ॥२१॥
मध्यसूक्ष्मप्रभाबिन्द्वीस्मारितानंगसद्गुहा ।
नीलचंचत्कज्जलार्द्रकोणाऽपांगसुनेत्रका ॥२२॥
सूक्ष्मरत्नमणिस्वर्णहीरकाञ्चितकुण्डला ।
चंचन्मौक्तिकसूक्ष्माग्र्यालम्बमानैरिकान्विता ॥२३॥
सुप्रभहीरकाञ्चितस्वर्णचन्द्रकपोलिका ।
तनुतारात्मसौवर्णवालीमणिभनासिका ॥२४॥
पक्वबिम्बौष्ठयुगलस्मारिताऽचुम्बनक्रिया ।
रत्नमध्यकृतिचंचत्स्वर्णचिबुकबिन्द्विका ॥२५॥
प्रोद्यतद्सूर्यसमकान्तिकौस्तुभवरमण्डना ।
स्वर्णहारावलीशोभद्वक्षःस्थलस्तनद्वया ॥२६॥
कम्बुकण्ठी निष्ककण्ठी कदलीगर्भसद्भुजा ।
रक्तपल्लवसत्कान्तिचन्द्रनखाङ्गुलिप्रभा ॥२७॥
स्वर्णोर्मिकांऽगदरम्यकटकवंगिडीयुता ।
शंखलारशनानूपुरराजिचरणद्वया ॥२८॥
क्वणत्किंकिणिकायुक्तस्वर्णमंजीरशोभिता ।
स्वर्णरक्तरंगचित्रविचित्रघर्घरीयुता ॥२९॥
स्वर्णताराऽञ्चितप्रान्तशोभच्छाटीसमम्बरा ।
नव रंगफलकल्पस्तनाऽऽप्तकंचुकीयुता ॥३०॥
चन्द्रविद्युद्विलासाभं नक्तकं बिभ्रती करे ।
कूर्दत्कन्दुकवर्येण सक्रीडा च मुहुर्मुहुः ॥३१॥
पुष्पपल्लवशोभाढ्ये वृक्षकुंजे गतीमती ।
ईषत्कम्पाञ्चितस्तननितम्बचापलान्विता ॥३२॥
विगुण्ठद्वस्त्रवैवर्तगोचरीभवदंकना ।
हावभावविलासादिचंचलायतलोचना ॥३३॥
कंचुकीं स्तनयोर्हस्तं दत्वाऽपीडयदत्यति ।
क्वचिच्च कबरीं धृत्वा सन्नह्यती च शाटिकाम् ॥३४॥
रममाणा कन्दुकेन मनोमोहातिकारिणी ।
मुहुर्हास्यानना शाटीमुद्धृत्योद्धृत्य गच्छति ॥३५॥
घर्घरीं मुकुलीकृत्याऽनावृतसक्थिदर्शना ।
यत्रास्ति शंकरस्तत्र मिषेणाऽऽसृत्य सर्पति ॥३६॥
एवंविधामेकतानामेकतानेन लोकयन् ।
जडीभूतोऽभवच्छंभुर्विह्वलात्मा हतान्तरः ॥३७॥
ज्ञप्तिस्मृतिविलोपेनाऽभवद्भानविवर्जितः ।
कामभावप्रभामात्रारूढसंकल्पतन्मयः ॥३८॥
वाततरंगप्रोत्कृष्टशाटीहीना तदाऽभवत् ।
श्लथन्नीव्यपतद्भूमौ घर्घर्यपि तदन्तरे ॥३९॥
चिदाकाशगतं विद्युद्बिन्दुं साभ्रमिवान्तरम् ।
महाप्रकाशतेजस्वि स्वर्णचम्पकभान्वितम् ॥४०॥
विलोक्य शंकरस्तस्यां मनश्चक्रेऽतिषञ्जितुम् ।
वायुर्हरति वस्त्राणि सा च हरति शंकरम् ॥४१॥
अपसर्पति व्रीडाढ्या वृक्षाद्वृक्षान्तरं तदा ।
कामवेगाप्तकार्कश्येन्द्रियो वीर्यप्रपूरितः ॥४२॥
सोऽनुगत्वाऽतिदार्ढ्येन केशान्धृत्वा च तद्वपुः ।
समाकृष्य समुन्नीय बाहुभ्यां परिषस्वजे॥ ॥४३॥
प्रसह्योपालिंगिता सा चूम्बिता च मुहुर्मुहुः ।
अनिच्छुकी च साऽऽत्मानं मोचयित्वा भुजान्तरात् ॥४४॥
प्राद्रवत्सा वृक्षसंघेऽनुजगाम हरश्च ताम् ।
रेतसो वेगप्राबल्यात्स्रावऽभवत्प्रधावतः ॥४५॥
यत्र यत्राऽप्रधावत्सा तत्र तामनुधावतः ।
रेतो मह्यां चापतद् यत् ता हेम्नः खनयोऽभवन् ॥४६॥
मोहिनी व्योममार्गेण पुरोगा याति वेगतः ।
मुग्धो महेश्वरः कामवेगस्तामनुधावति ॥४७॥
भूमावरण्यशैलादौ चापगासु वनेषु च ।
यत्राऽधावन्महादेवो धातुस्तस्याऽपतत्तथा ॥४८॥
तत्र तत्र च तद्योगात् पृथ्वी रौप्यमयी ह्यभूत् ।
शंकरस्य समग्रस्य धातोर्वै क्षरणादनु ॥४९॥
समजायत शैथिल्यं प्रबोधोऽभूत्ततः पुनः ।
केयं वै मोहिनीरूपा कोऽहं गच्छामि कुत्र च ॥५०॥
कथं मे कल्मषं प्राप्तमविकृतस्य विकृतिः ।
नैतादृशं भवेद्रूपं जगद्धातारमन्तरा ॥५१॥
अमायिकस्य का माया येन माया वशीकृता ।
मां याहीति कृतयत्ना मायेयं वैष्णवी ननु ॥५२॥
तस्यैव मायया व्याप्तं जगदेतच्चराचरम्
यद्यहं तेन चाकृष्टस्तदा नास्त्यद्भुतं हि मे ॥५३॥
तेनैव संयोजितोऽहं रमामि शिवया सदा ।
तेनैव प्रेरितश्चाहं विहरामि तदिच्छया ॥५४॥
इति विचार्य मुमुदे न म्लानिमगमद्धरः ।
भगवानपि तं भक्तं प्रमातारं विचिन्त्य च ॥५५॥
मोहिनीरूपधृक् प्राह कस्त्वं कस्माज्जडीकृतः ।
क्व गतं तव सत्सत्त्वं विना योगमसत्ववत् ॥५६॥
समर्थस्यापि ते केन गमितैतादृशी दशा ।
एह्यागच्छ निकुंजेषु रमावो निर्जने वने ॥५७॥
नैतादृशी पुनर्नारीं प्राप्स्यसेऽक्षतमध्यमाम् ।
इति कृत्वा स्वयं कृष्णो नारायणश्चुचुम्ब तम् ॥५८॥
हरस्तु धातुनिर्भिन्नः शैथिल्याक्रान्तमेढ्रकः ।
नोत्साहवानभूत्तत्र तया साकं रिरंसितुम् ॥५९॥
स प्राह मोहिनीं तत्र नारायणमृते क्वचित्॥
योगिनां मनसो धैर्यं हर्तुं शक्तो न वै परः ॥६०॥
तस्मै नमो भगवते मायारूपधाराय च ।
नमः कृष्णाय देवाय नारायणाय विष्णवे ॥६१॥
मोहिन्यात्मस्वरूपाय मोहरूपाय ते नमः ।
त्वयि नात्र मम शोको नारायणे परात्परे ॥६२॥
तथापि देवदेवेश रक्ष मायाविमोहनात् ।
मोहोऽयं जगतां बन्धकरोऽस्ति वासनोदयः ॥६३॥
तव योगोऽपि मोहात्मा मुक्त्यात्मा निर्गुणो मतः ।
तवेदं रूपमत्यर्हसौन्दर्यभाजनं परम् ॥६४॥
न मे चान्यस्य बन्धाय मोक्षमात्रप्रदं हि तत् ।
तस्मात् त्वया कृतं यद्वै तद्वै मे लाभदं परम् ॥६५॥
पार्वत्याः सहवासेऽपि स्मृत्वा त्वां मोहिनीं सदा ।
विनिर्बन्धो भविष्यामि लप्स्ये नैर्गुण्यमेव च ॥६६॥
श्रुत्वैतच्छंभुहार्दज्ञो भगवान् कमलापतिः ।
योषिद्रूपं च संहृत्य चतुर्बाहुः क्षणेऽभवत् ॥६७॥
प्रहसन्प्राह सर्वात्मा समाश्लिष्य हरं हृदा ।
मद्भक्तो मत्कृतां मायां जीतवानसि शंकर ॥६८॥
ज्ञानेन चापि धैर्येण भक्त्या च परया तथा ।
नान्यश्चातितरेन्मायां योषिद्रूपां हि त्वदृते ॥६९॥
सेयं भावान्सृजमाना मोहिनीवद्विडम्बना ।
रज्जूरूपा बन्धनाख्या स्पृशत्येव न मच्छ्रितान् ॥७०॥
अभक्तानां मोहिका सा भक्तानां भुक्तिमुक्तिदा ।
सैव मद्योगमापन्ना भक्तानां निर्गुणा सदा ॥७१॥
महामाया महालक्ष्मीः कमला राधिका रमा ।
सरस्वती च सावित्री पार्वती नैव बन्धदा ॥७२॥
रुक्मिणी कम्भरा ब्राह्मी पतिव्रता च जानकी ।
मोहिनी तुलसी चैता मोक्षदा न तु बन्धदाः ॥७३॥
प्रभा च माणिकी जया ललिता नैव बन्धदाः ।
कृष्णरूपास्तु ताः सर्वा मुक्तिदा योगतः स्मृताः ॥७४॥
हंसा च मंजुला चम्पा हैमी दया रमा तथा ।
पुष्पा मुक्ता तथा देवी शान्ता गोदावरी मनुः ॥७५॥
ओजस्वती च जीवा च मंगला ताः सखीवराः ।
दिव्यास्तासां मूर्तयो याः साध्व्यो योगिन्य एव च ॥७६॥
साक्षात्कृष्णांकवासास्ताः पावना मोक्षदास्ततः ।
सांख्ययोगिन्य एवात्र सन्यासिन्यश्च यास्तथा ॥७७॥
विरागिण्यश्च मद्रूपा यतिन्यश्चापि मोक्षदाः ।
मच्छक्तयस्तु ताः सर्वा मद्रूपा एव निर्गुणाः ॥७८॥
तासां योगं गता ये ये ते जीवा निर्गुणाः सदा ।
पवित्राश्चात्र जीवन्तो मुक्ता एव न संशयः ॥७९॥
यथा तासां योगवन्तो ब्रह्मविष्णुमहेश्वराः ।
कृष्णरामादयो नित्यमुक्ता नित्यपरेश्वराः ॥८०॥
अथ तासां कृपापात्रजीवा मुक्तेश्वराः सदा ।
इति ते कथितं शंभो! मन्माहात्म्यमनुत्तमम् ॥८१॥
नेदृक्सम्यग्विजानन्ति ये दोषाऽऽदृतदृष्टयः ।
मत्स्वरूपप्रसक्ता ये मत्तो बोधग्रहाश्च ये ॥८२॥
मदात्मकमिदं सर्वं जानन्तोऽनिदमेव यत् ।
त एवेदृक्सुमतयो निर्बन्धाः सन्ति सर्वथा ॥८३॥
इत्युक्त्वा शंकरं विष्णुरन्तर्धानं गतः क्षणात् ।
महादेवोऽपि गंगायां स्नानार्थमगमत्तदा ॥८४॥
इति ते लक्ष्मि! सामर्थ्यं मोहिन्या शंकराय यत् ।
दर्शितं कथितं सर्व किं पुनः श्रोतुमिच्छसि ॥८५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शंकरस्य मोहिनीदर्शनेन धातुपातात् स्वर्णखन्युत्पत्तिः, तत्सखीनां दिव्यता चेत्यादि-
निरूपणनामा नवनवत्यधिकशततमोऽध्यायः ॥१९९॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP