संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १०१

कृतयुगसन्तानः - अध्यायः १०१

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच---
ततो वसन्तसमये शंकरो लोकशंकरः॥
कोकिलाकूजितं श्रुत्वा घ्रात्वा सौगन्धिकं द्रवम् ॥१॥
दृष्ट्वा श्रांगारिकैः पुष्टं यौवनं रतिसंभृतम् ।
पत्नीं स्वांके निधायेशो रमते स्म चिरं चिरम् ॥२॥
शतवर्षसमः कालो ययौ रतिक्रियापरः॥
विष्णुर्वरं प्रदत्तं प्राक् स्मृत्वा तत्रागमत्स्वयम् ॥३॥
पार्वत्या चाग्रपूज्यो वै वृतः पुत्रो मदात्मकः॥
अयोनिजः स एवाहं भवेयं मिषतः स्वयम् ॥४॥
इति विचिन्त्य कृष्णः स विप्रो बभूव तत्क्षणम्॥
रेतःपातनकाले च स विष्णुर्निजमायया ॥५॥
विधाय विप्ररूपं तदाजगाम रतिगृहम्॥
जटावन्तं विना तैलं कुचैलं भिक्षुकं तथा ॥६॥
अतीव शुक्लदशनं तृष्णाव्याप्तहृदन्तरम् ।
अतीव कृशगात्रं च बिभ्रत्तिलकमुज्ज्वलम् ॥७॥
बहुघर्घस्वरं दीनं दैन्यात् कुत्सितमूर्तिकम् ।
करदण्डावलम्बं च वार्धक्यादतिदुर्बलम् ॥८॥
एतादृशेन रूपेण रतिकालेऽन्नयाचकः॥
भूत्वा स्थितो वदन् स्वस्ति यजमानस्य चास्त्विति ॥९॥
पुनराह महादेव किं करोषि शरण्यद !॥
पश्य वृद्धं जराग्रस्तं क्षुत्तषाद्यतिपीडितम् ॥१०॥
सप्तरात्रिव्रतेऽतीते पारणाऽऽकांक्षितं च माम् ।
वित्रं संभोजयित्वाऽत्र रक्ष मां शरणागतम् ॥११॥
मांतरुत्तिष्ठ मेऽन्नं त्वं प्रयच्छाऽद्य शिवं जलम् ।
अनन्तरत्नयुक्पुत्रि ! रक्ष मां शरणागतम् ॥१२॥
मातर्मातर्जगन्मातरेहि देहि सुभोजनम्॥
सीदामि क्षुत्तृड्भ्यां कस्मात् स्थितायामात्ममातरि ॥१३॥
इति दीनं स्वरं श्रुत्वा शिवस्योत्तिष्ठतो द्रुतम्॥
पपात वीर्यं शय्यायां योनिमुखाद् बहिर्गतम् ॥१४॥
पार्वती तत्र शय्यायां नाऽवैत् पतितवीर्यकम्॥
स्वपित्येव मुहुः पार्श्वे परावर्तयति स्म सा ॥१५॥
धातुः सर्वोपि पार्वत्याः पृष्ठे पार्श्वे तनौ तदा॥
लग्नः शुष्कोऽभवद्दिव्यो राजतो वर्णतः खलु ॥१६॥
न जानति शरीरे मे किं लग्नं वै परिश्रमात्॥
स्वाप्ननिद्राभिभूता सा स्वपित्येव परिश्रमात् ॥१७॥
शंकरस्तु बहिद्वारमाजगाम ददर्श तम्॥
याचन्तं ब्राह्मणं दीनं जरया परिपीडितम् ॥१८॥
वृद्धं जर्जरमात्रं च बिभ्रतं दण्डमानतम् ।
तपस्विनमशान्तं च कुर्वन्तं नमनं मुहुः ॥१९॥
शंकरः प्राह विप्रर्षे किमिच्छसि कुतो भवान्॥
आगतोऽस्ति स्वागतं ते मम भाग्यादुपस्थितः ॥२०॥
अद्य मे सफलं जन्म ब्राह्मणो मद्गृहेऽतिथिः ।
अतिथिः श्रीहरेः रूपं पूजितः पूजितं जगत् ॥२१॥
देवास्तिष्ठन्त्यतिथिषु ब्राह्मणाः पुण्यदाः सदा ।
अतिथेः पादपात्रेषु वसन्ति तीर्थजातयः ॥२२॥
अतिथेः पादसलिलात् पुरुषार्थचतुष्टयम् ।
प्राप्यते गृहसंस्थानैर्लभ्यन्ते स्मृद्धयोऽक्षयाः ॥२३॥
स्नातानि सर्वतीर्थानि यज्ञा निर्वर्तितास्तथा ।
महादानानि दत्तानि येनाऽतिथिः सुसत्कृतः ॥२४॥
वेदशास्त्रादिवर्ण्यानि सत्कर्माणि च यानि वै॥
तानि चातिथिसेवायाः कलां नार्हन्ति षोडशीम् ॥२५॥
असत्कृतोऽतिथिर्यस्य गृहाद्वै विनिवर्तते॥
पापानि गृहिणे दत्वा पुण्यमादाय गच्छति ॥२६॥
अतिथेरसमर्हायां वियन्ति पितृदेवताः॥
साधोः साध्व्या असत्कारे गृही देवैरसत्कृतः ॥२७॥
सर्वसम्पद्विहीनः स्यात्पापं भुंक्ते दरीभरम्॥
विप्रः प्राह शुभं भूयाद् ब्रह्मँस्तेऽतिथिभावतः ॥२८॥
जानासि चेदतिथिर्मे वेदोक्तं कुरु पूजनम्॥
मनोगतं च दातव्यं निराहाराय चार्तिणे ॥२९॥
नानाविधं तु मिष्टान्नं दीयतां मे सुतृप्तिकृत् ।
तृप्तश्चाऽहं भवत्पुत्रो भविष्यामि न संशयः ॥३०॥
सर्वाग्र्याऽर्च्यो भविष्यामि भविष्यति भवान् पिता ।
ताताः पञ्चविधाः प्रोक्ता मातरस्त्वष्टधा मताः ॥३१॥
पुत्राः पञ्चविधाः साधो तन्मध्येऽहं भवामि वै ।
विद्यादाताऽन्नदाता च भयत्राता च जन्मदः ॥३२॥
कन्यादाता ब्रह्मणोक्ता नराणां पितरः स्मृताः॥
गुरोः पत्नी गर्भधात्री स्तन्यदात्री पितुः स्वसा ॥३३॥
स्वसा मातुः सपत्नी च पुत्रभार्याऽन्नदायिका ।
एता अष्टविधा माता पूजनीया सुपुत्रकैः ॥३४॥
भृत्यः शिष्यश्च पोष्यश्च वीर्यजः शरणागतः॥
पञ्च पुत्राः सदा बोध्या वीर्यजोऽत्र विशेषकः ॥३५॥
क्षुत्तृड्भ्यां सुपरीतांगं पुत्रं मां शरणागतम् ।
पिष्टकं परमान्नं च सुपक्वानि फलानि च ॥३६॥
इक्षुरसं शर्करां च क्षीरं शाल्यन्नमित्यपि ।
लड्डूकाँश्चूर्णगोधूमान् व्यञ्जनानि तिलानि च ॥३७॥
प्रेयांसि पेयखाद्यानि पिच्छलं मधुरं दधि ।
मम प्रियाणि वस्तूनि सुधया तुल्यकानि च ॥३८॥
ताम्बूलं च वरमेलापूगीकर्पूरमिश्रितम् ।
रसमिष्टसुगन्धाढ्यं द्रव्याण्येतानि दापय ॥३९॥
स्वामी त्वं त्रिजगत्कर्ता प्रदाता सर्वसम्पदाम्॥
महालक्ष्मीस्वरूपा ते पत्नी चैश्वर्यदायिनी ॥४०॥
रत्नसिंहासनं रम्यममूल्यं रत्नभूषणम् ।
वह्रिशुद्धांशुकं चारु प्रदास्यसि सुदुर्लभम् ॥४१॥
सुदुर्लभं हरेर्मन्त्रं हरौ भक्तिं सुदुर्लभाम्॥
सर्वसिद्धिप्रदं नाम किमदेयं सुताय ते ॥४२॥
इच्छया कुरुते कर्म ततो भोगो भवत्यपि ।
सुखदुःखे सदा लग्ने देहिनां विरमेदतः ॥४३॥
कर्म निर्मूलयन्त्येव सन्तो हि सततं मुदा ।
हरिस्मरणशीलानां नाऽयुर्याति सतां वृथा ॥४४॥
न तेषामीश्वरः कालो नान्ये वा तन्नियामकाः॥
चिरं जीवन्ति ते भक्ताः स्वच्छन्दं सर्वगामिनः ॥४५॥
जातिस्मरा हरेर्भक्ता जानन्ति जन्मनां शतम् ।
कथयन्ति कथां जन्म लभन्ते स्वेच्छया च ते ॥४६॥
परं पुनन्ति ते पूतास्तीर्थानि स्वीयलीलया॥
पुण्यक्षेत्रेऽत्र सेवार्थं परार्थं च भ्रमन्ति ते ॥४७॥
वैष्णवानां पदस्पर्शात् सद्यः पूता वसुन्धरा॥
गुरोरास्याद् विष्णुमन्त्रो यस्य कर्णे विशत्यपि ॥४८॥
तं वैष्णवं तीर्थपूतं कथयत्येव माधवः ।
पुरुषाणां शतं पूर्वमुद्धरन्ति शतं परम् ॥४९॥
लीलया परया भक्त्या सोदरान् पितरं तथा ।
मातामहानां पुरुषान्दश पूर्वान्दशाऽपरान् ॥५०॥
मातुः प्रसूमुद्धरन्ति दारुणात् यमताडनात्॥
भक्तदर्शनमाश्लेषं मानवाः प्राप्नुवन्ति ये ॥५१॥
ते याताः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षिताः॥
न लिप्ताः पातकैर्भक्ताः सन्ततं हरिमानसाः ॥५२॥
त्रिकोटिजन्मनामन्ते प्राप्नोति जन्म मानवम्॥
प्राप्नोति भक्तसंगं स मानुषे कोटिजन्मतः ॥५३॥
भक्तसंगाद् भवेद् भक्तेरंकुरो जीवितो हर !॥
अंकुरश्चाविनाशी च वर्धते प्रतिजन्मनि ॥५४॥
तत्तरोर्वर्धमानस्य हरेर्दास्यं भवेत् फलम्॥
परिणामे भक्तिपाके पार्षदश्च भवेद्धरेः ॥५५॥
तस्माद्भक्तिं हरौ देहि यथा ते श्रीहरौ सदा॥
गणेशरूपः श्रीकृष्णः कल्पे कल्पे तवाऽऽत्मजः ॥५६॥
भविष्यति शुभं तेऽस्तु देहि भिक्षां मम प्रियाम्॥
आगतोस्मि निवासाय यदि तेऽपि मतं भवेत् ॥५७॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पार्वत्याः सहवासे शंकरमाह्वयन् श्रीकृष्णो ब्राह्मणरूपेण भिक्षार्थमागतस्तयोः सद्भक्तमाहात्म्यसंवादश्चेति निरूपणनामा एकाधिकशततमोऽध्यायः ॥१०१॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP