संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ३५२

कृतयुगसन्तानः - अध्यायः ३५२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! कृष्णगंगातीर्थं यामुनवारिगम् ।
यत्र व्यासः स्वयं कृष्णो भगवान् सृष्टिबोधवान् ॥१॥
आद्ये कृते युगे स्नात्वा वेदानध्यापयत् सदा ।
यावत्तु यमुनाभूमौ स्थास्यति तावदेव सः ॥२॥
स्नास्यति तत्स्थले नित्यं कृष्णगंगाजले हरिः ।
सोमवैकुण्ठयोर्मध्ये कृष्णगंगा तु सा मता ॥३॥
तत्राश्रमपदे दिव्ये मुनयो दिव्यविग्रहाः ।
अदृश्यास्तु समायान्ति चातुर्मास्यव्रतार्थिनः ॥४॥
येषामुपरि तेषां वै दयालूनां कृपा भवेत् ।
तेषां ते ऋषयो दृष्टिपथमायान्ति नान्यथा ॥५॥
चातुर्मास्ये कृष्णगंगातीर्थे विप्रेण वीक्षितम् ।
दयापात्रेण वसुना पाञ्चाल्यकुलतन्तुना ॥६॥
शृणु लक्ष्मि! कथयामि पाप्युद्धारकरीं कथाम् ।
पाञ्चाल्योऽथ द्विजः कश्चिन्नाम्ना वसुरितिश्रुतः ॥७॥
दुर्भिक्षपीडितोऽत्यन्तं सभार्यो वरपत्तनम् ।
ययौ भद्रातटे भिक्षावृत्त्या वासं समाचरत् ॥८॥
तत्रस्थस्य तदा पुत्रः कन्या चेत्यभवद् द्वयम् ।
कन्या विप्राय संदत्ता धनधान्यसमृद्धये ॥९॥
कन्यापतिस्ततो विप्रो यौवने रोगपीडितः ।
ममार बन्धुविधुरः कुटुम्बरहितस्तथा ॥१०॥
कन्याऽस्थीनि तु संगृह्य मथुरामाजगाम ह ।
लक्ष्मीनारायणसंहितोक्तं त्वस्थिप्रपातनम् ॥११॥
अर्धचन्द्रस्थले तत्र माथुरे मण्डले .कृतम् ।
यस्य भवेत् स वै देही मुक्तिं यातीति वात्र्च्छया ॥१२॥
कन्ययाऽस्थीनि यमुनास्रोतसि विधिना तदा ।
क्षिप्तानि विप्रहस्तेन पत्युर्मुक्तिस्तदाऽभवत् ॥१३॥
बालरण्डा तु सा रम्या नीलकुञ्चितमूर्धजा ।
सुरूपा सुकुमारांगी निराधाराऽतिदुःखिता ॥१४॥
कदलीकाण्डसंकाशे तस्या ऊरू सुमांसले ।
सुश्लिष्टाॆगुलिकापादौ नखास्ताम्रोज्ज्वलाः शुभाः ॥१५॥
गंभीरा दक्षिणावर्त्ता नाभिस्त्रिवलिमण्डिता ।
आमोदरी समकुक्षिः पीनोन्नतपयोधरा ॥१६॥
कम्बुग्रीवा संवृतास्या सुदती स्वधराहनुः ।
सुनखी स्वक्षिणी सुभ्रूः सुप्रमाणा सुभाषिणी ॥१७॥
सुकटिः स्वल्पमध्या च चन्द्राननाऽब्जलोचना ।
तेन तेनैव सम्पूर्णरूपेण च तिलोत्तमा ॥१८॥
नामा तिलोत्तमा स्वर्णवर्णा युवती सुन्दरी ।
एवंविधा तत्र तत्र तीर्थस्नानपरायणा ॥१९॥
यं यं पश्यति चार्वंगी यस्तां चापि प्रपश्यति ।
स स चित्र इव न्यस्तो विचेता जायते क्षणम् ॥२०॥
तथाविधा मथुरायां स्वकं वासमरोचयत् ।
तदैवाऽवसरे कान्यकुब्जदेशाधिपो नृपः ॥२१॥
मथुरायां देवमर्तेश्वरेऽन्नसत्रमाकरोत् ।
तत्र वै ब्राह्मणाः सत्यः साध्व्यो ब्राह्मण्य इत्यपि ॥२१॥
साधवो भिक्षुका दीना अनाथा भुंजते शतम् ।
तत्रेयं सुसदा भुंक्ते सुशीला तु तिलोत्तमा ॥२३॥
भोजनस्य समये तु संगीतं सुप्रवर्तते ।
वादित्राणि च गीतानि शक्रस्य भवने यथा ॥२४॥
राज्ञस्तस्य तु या नृत्यकारिण्यो गायिकास्तथा ।
दूत्यश्च गणिकाश्चापि ताभिः सा प्रतिलोभिता ॥२५॥
गीतनृत्यादिषु स्निग्धा तासां धर्ममुपागता ।
अल्पैस्तु दिवसैः साध्वी ह्यसाध्वीभिः परिवृता ॥२६॥
राज्ञः समागमं प्राप्ता भोगभोग्यभृताऽभवत् ।
युवती कामदाहेन नवं नवं समिच्छति ॥२७॥
एवं सा कामधर्मेषु व्यवायपथगाऽभवत् ।
अथतस्यास्तु यो भ्राता पाञ्चालो ब्राह्मणात्मजः ॥२८॥
गृहे स निर्धनो भूत्वा व्यवसायं विचार्य च ।
मथुरायां गते काले समायातो निराश्रयः ॥२९॥
कस्यचिच्छ्रेष्ठिवर्यस्य कर्मचारी तदाऽभवत् ।
व्यापारबुद्ध्या वर्षान्ते सोऽपि व्यापारलाभवान् ॥३०॥
धनवान् वै भाग्ययोगात् संजातो विधुरोऽपि च ।
यमुनायां सदा याति स्नानार्थं स्नाति यत्र सा ॥३१॥
नित्यं पश्यति चार्वंगीं दृष्ट्वा मोहवशं गतः ।
तत्र तीर्थवरे स्नात्वा वस्त्रालंकारभूषितः ॥३२॥
देवादिदर्शनं कृत्वा गर्तेश्वरं समर्च्य च ।
तिलोत्तमाया मार्गं वै धृत्वा पश्चाद् ययौ शनैः ॥३३॥
यत्र तद्भवनं तत्र धात्रेयिकां व्यलोकयत् ।
तया चापि युवा मुग्ध इति त्वाकारितो गृहे ॥३४॥
धात्रेयिकायास्तस्याश्च बहुमानपुरःसरम् ।
ययौ प्रसन्नमनसा युवत्या भवनान्तरम् ॥३५॥
वस्त्राणि बद्धरूपाणि सौवर्णकटकानि च ।
हारान् रत्नमयान् द्रव्यं ददौ तस्यै विमोहितः ॥३६॥
ददावगुरुसारं च सकर्पूरं सचन्दनम् ।
तस्या गृहवरे तत्र वसति स्म दिने दिने ॥३७॥
प्रहरार्धे दिने जाते याति स्वशिबिरं ततः ।
स्नात्वा तीर्थे समीपे च कृष्णगंगोद्भवे सदा ॥३८॥
एवं नित्यं तदासक्तः करोति वर्तनं स्वकम् ।
सुमन्तुमुनिनां नित्यं गच्छन् स चाऽवलोक्यते ॥३९॥
अथैकदा प्रगच्छन् वै स्नातुं विप्रः सुमन्तुना ।
स्वाश्रमस्थेन दिव्येन दृष्टः स कृमिकीटवान् ॥४०॥
कृमयो रोमकूपेभ्यः पतमाना अनेकशः ।
दृश्यन्ते कुरुते यावत्स्नानं तावत्पतन्ति वै ॥४१॥
स्नाने कृते न दृश्यन्ते सुरूपश्चाभिजायते ।
एवं सुमन्तुना दृष्टमाश्चर्यं बहुवासरम् ॥४२॥
सुमन्तुस्त्वाह्वयामास पप्रच्छ नाम कर्म च ।
पाञ्चालस्तं तदा प्राह त्वहं पंचालदेशजः ॥४३॥
विप्रो वाणिज्यमाश्रित्य वसाम्यत्र नु चैकलः ।
निशामुषित्वा शिबिरे तिलोत्तमासुरक्षिते ॥४४॥
प्रातः स्नात्वा त्रिगर्तेशं पूजयित्वा तमन्वहम् ।
दिवा करोमि व्यापारं वसामि शिबिरे निशि ॥४५॥
सुमन्तुश्च तदा प्राह शृणु विप्र! यथातथम् ।
आश्चर्यं तव देहेऽस्मिन् नित्यं पश्यामि निःसृतम् ॥४६॥
अस्नाते कृमिसंपूर्णं स्नाते निर्मलवर्चसम् ।
अस्ति किञ्चिन्महत्पापं तव प्रच्छन्नसंभवम् ॥४७॥
अस्यां तीर्थप्रभावेण स्नानाद् गच्छति दूरतः ।
त्रिगर्तेश्वरसंस्पर्शात् शुद्धं देहं तु दृश्यते ॥४८॥
निरूप्य कथयाऽस्मान् वै यत्ते प्रच्छन्नकिल्बिषम् ।
इति मुनेः सुमन्तोः स श्रुत्वा त्रिकालवेदिनः ॥४९॥
स्वशिबिरेऽङ्गनासंगं करोमीति न्यवेदयत् ।
गत्वा तथा तदैकान्ते तां तु पप्रच्छ मूलतः ॥५०॥
का त्वं कस्य सुता कश्च देशस्त्वत्रागमः कुतः ।
त्याक्ष्यामि हि प्रियान्प्राणान् यदि सत्यं न वक्ष्यति ॥५१॥
निर्बन्धं तस्य तं ज्ञात्वा दुःखेनोवाच सा स्वकम् ।
पञ्चालो ब्राह्मणो देशे पञ्चाले वरपत्तने ॥५२॥
वर्तते वसुनामाऽख्यस्तत्सुताऽहं तिलोत्तमा ।
विवाहिता पतिर्नष्टोऽस्थीनि त्वादाय माथुरम् ॥५३॥
आगता रागयोगेन कान्यकुब्जनृपाऽर्थिता ।
व्यवायधर्ममापन्ना वर्तानि कामधर्मिणी ॥५४॥
मम भ्राता तु पाञ्चालो वर्तते पितृमन्दिरे ।
भद्रानदीतटे तत्र गृहं मे ह्यभवत्पुरा ॥५५॥
अत्र वसाम्यनाथाऽहं कुलटाधर्ममाश्रिता ।
वद त्वं स्वीयवृत्तान्तं यदि मां वेत्सि पात्रकम् ॥५६॥
एतच्छ्रुत्वा स पांचाल्यः साश्रुनेत्रोऽभवत्तदा ।
लब्धसंज्ञं कुलं तस्य पप्रच्छ तं तिलोत्तमा ॥५७॥
ततस्तेन स्ववृत्तान्तं कथितं कुलनामकम् ।
अत्यतिविमना जातो ह्यगम्यागमनेन वै ॥५८॥
प्रायश्चित्ते मतिरभून्निर्विण्णस्य द्विजन्मनः ।
मातरं गुरुपत्नीं च स्वसारं पुत्रिकां वधूम् ॥५९॥
गत्वा तु प्रविशेदग्निं नान्या शुद्धिर्विधीयते ।
पत्यात्मकं तु पाञ्चाली ज्ञात्वा स्वभ्रातरं तु तम् ॥६०॥
द्विजेभ्यः प्रददौ सर्वं रत्नवस्त्रधनादिकम् ।
कालिंजरत्रिगर्तेशं दत्वा भूषाधनादिकम् ॥६१॥
कृष्णगंगोद्भवे तीर्थे चितां कृत्वा विधानतः ।
आत्मनः सा विशुद्ध्यर्थं प्रजज्वाल हुताशनम् ॥६२॥
पाञ्चालोऽपि स्वकं द्रव्यं दत्वा दानेऽवशेषितम् ।
और्ध्वदैहिकभागार्थं कल्पयित्वा यथाविधि ॥६३॥
स्नात्वा देवाँस्तथा नत्वा ब्राह्मणाँश्च सुमन्तुकम् ।
ऋषिं गत्वा समुवाचाऽगम्यागमनपातकम् ॥६४॥
तत्पापस्य विशुद्ध्यर्थं देहत्यागं करोमि वै ।
इत्युक्त्वा च चितां कृत्वा समुद्दीप्य घृतोक्षिताम् ॥६५॥
यावत्प्रवेष्टुं यात्येनं वागुवाचाऽशरीरिणी ।
भगिनीं च प्रवेष्टुं वै तत्परां तावदेव ह ॥६६॥
मैवं कार्षीः साहसं च विपाप्मानौ यतो हि वाम् ।
यत्र कृष्णस्य सञ्चारः क्रीडा जाता यथासुखम् ॥६७॥
चक्रांकितपदन्यासास्तत्थलं दिव्यमेव यत् ।
ब्रह्मरूपं धामरूपं यत्र पापक्षयो भवेत् ॥६८॥
अन्यत्र हि कृतं पापं तीर्थमासाद्य नश्यति ।
तीर्थस्थाने कृतं पापं वज्रलेपं भवेदपि ॥६९॥
तदुभयविनाशस्तु गंगासागरसंगमे ।
गोमतीसागरयोगे यमुनापंचतीर्थके ॥७०॥
पृथिव्यां सर्वतीर्थेषु स्नानजं यत्फलं मतम् ।
यमुनायाः पञ्चतीर्थस्नानेन तुल्यमेव न ॥७१॥
एकादश्यां हि विश्रान्तौ द्वादश्यां सौकरे तथा ।
त्रयोदश्यां नैमिषे च चतुर्दश्यां प्रयागके ॥७२॥
पूर्णायां पुष्करे स्नानात् कार्तिक्यां च व्रते व्रते ।
तीर्थे तीर्थे जनः स्नात्वा सर्वपापात् प्रमुच्यते ॥७३॥
मथुरायां सर्वतीर्थे विश्रान्तौ पञ्चतीर्थके ।
असिकुण्डे सरस्वतीयोगे गर्तेश्वरे तथा ॥७४॥
स्नानजात्तु फलाद् दशगुणं पुण्यं सकृदपि ।
कृष्णगंगास्नानतो वै जायते नाऽत्र संशयः ॥७५॥
ज्ञानतोऽज्ञानतो वापि दुष्कृतं समुपार्जितम् ।
कृष्णगंगाजलस्पर्शे वज्राख्यमपि नश्यति ॥७६॥
मथुरा हि कृष्णरूपा नदी कृष्णमयी तथा ।
नरा नार्यः कृष्णरूपास्तत्र पापं न विद्यते ॥७७॥
यस्य श्रोत्रैकदेशे तु ह्याकाशो लेशमात्रकः ।
यस्य नयनयोः प्रान्ते तेजो लीनं -भवत्यपि ॥७८॥
यस्य श्वासेऽनिलो लीनो जलं स्वेदे विलीयते ।
पृथ्वी यस्योदरे त्वण्वी भूत्वा तिष्ठति सर्वदा ॥७९॥
यत्कुक्षौ वार्धयः सर्वे लीना भवन्ति सर्वदा ।
यस्माद् भवन्ति सततं ब्रह्माण्डानि स्वरोमतः ॥८०॥
अवतारा वराहाद्या भवन्ति यस्य वाञ्च्छया ।
तस्मिन् कृष्णे स्थिते चात्र पापलेशो न विद्यते ॥८१॥
पृथ्वीरक्षाकरो देवो वराहो यत्र विद्यते ।
तस्य सन्दर्शनात्त्वत्र महापातकनाशनम् ॥८२॥
तत्क्षणादेव विप्रेन्द्र! नात्र कार्या विचारणा ।
नवम्यां ज्येष्ठशुक्लस्य कृष्णगंगोदकाऽऽप्लवात् ॥८३॥
सूकरे तु त्रिरात्रं वै मानवो दीपदानतः ।
तिलोत्तमे! महावज्राप्यतिपापैः प्रमुच्यते ॥८४॥
कालिंजरे तु द्वादश्यां स्नात्वा सम्पूज्य देवताम् ।
दिव्यचतुर्भुजो भूत्वा विष्णुलोके महीयते ॥८५॥
एवं लक्ष्मि! देववाण्या पाञ्चालश्च तिलोत्तमा ।
बोधितौ तौ गतौ दिव्यसुमन्तोराश्रमे तदा ॥८६॥
पादयोः पतितौ तस्योचतुश्च त्वं पिता गुरुः ।
ब्रूहि दिव्यदृशा ब्रह्मन्नत्र किं करवावहै ॥८७॥
मुनिः प्राह व्योमवाणीं यथार्था नाऽनृता क्वचित् ।
मया प्रत्यक्षतो दृष्टं भवद्गात्रेषु पातकम् ॥८८॥
स्नानात्प्रागेव नो पश्चात्ततो नास्त्येव पातकम् ।
पञ्चतीर्थे त्रिगर्तेशे स्नानं संकुरुत सदा ॥८९॥
आश्रमे मम नित्यं च तिष्ठतं कुरुतं जपम् ।
पापादुपरमितौ च यावत्कालं प्रजीवथः ॥९०॥
ममाऽऽशीर्वादतश्चापि भ्राता च भगिनी ह्युभौ ।
विपाप्मानौ तु संभूतौ ब्रह्मलोकं गमिष्यथः ॥९१॥
एवं तत्राश्रमे लक्ष्मि! सुयन्त्वाद्या महर्षयः ।
दिव्यदेहाः प्रवसन्ति ततस्तीर्थोत्तमं स्मृतम् ॥९२॥
संप्राप्तौ दिव्यदेहौ तौ भ्राता च भगिनी ह्युभौ ।
आर्षौ तत्राश्रमे जातौ दर्शनादपि मुक्तिदौ ॥९३॥
ततो विमानमारुह्य कृष्णनारायणस्य तौ ।
श्रीकृष्णेन समं यातौ गोलोकं धाम शाश्वतम् ॥९४॥
एवं प्रभावस्तीर्थस्य मथुरायां यमीजले ।
कृष्णगंगास्थलस्यापि तथा कालिञ्जरस्य च ॥९५॥
सूकरस्यापि तीर्थस्य महालक्ष्मि! वदामि किम् ।
पापं न पापरूपं तद् यदि कृष्णाय चार्पितम् ॥९६॥
अपापं पापरूपं स्याद् यदि कृष्णाय नाऽर्पितम् ।
तस्मात् पुण्यं महादानं कार्यं यत्किञ्चिदेव तत् ॥९७॥
मह्यं कृष्णाय दातव्यं निर्दोषं दोषवत्तु यत् ।
कामः क्रोधो महान् लोभो मानः स्वादश्च मोहिता ॥९८॥
सर्वे कृष्णार्पिता दिव्या निर्बन्धाय भवन्ति वै ।
यः शृणोति महालक्ष्मि! श्रद्धया पठति ध्रुवम् ॥९९॥
सप्तजन्मकृतं पापं तस्य सर्वं व्यपोहति ।
प्रातरस्यैकवारं वै चातुर्मास्ये तु वाचनम् ॥१००॥
करिष्यति जनस्तस्य फलं गोशतदानजम् ।
पापलेशो न वै तस्याऽमृतत्वं जायते दृढम् ॥१०१॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुरातीर्थमाहात्म्यं सौराष्ट्रीयस्य वरपत्तनवासिनः पांचालविप्रस्य तिलोत्तमाख्यभगिन्या सह मथुरायामजानतोर्जातस्यव्यवायभावस्य व्योमवाण्या सुमन्तुना ऋषिणा च निष्पापता पञ्चतीर्थकृष्णगंगातीर्थप्रभावेण दर्शितेति निरूणनामा
द्विपञ्चाशदधिकत्रिशततमोऽध्यायः ॥३५२॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP