संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४०२

कृतयुगसन्तानः - अध्यायः ४०२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
अथ लक्ष्मि! शृणु राजा तोण्डी सुताय राज्यकम् ।
दत्वा तपोऽर्थमगमत् ततापाऽऽराधनं तपः ॥१॥
तप्यमाने हरिः कृष्णः प्रत्यक्षोऽभवदच्युतः ।
गरुडं स्वं समारुह्य श्रीभूमिपद्मिनीयुतः ॥२॥
तोण्डं नृपं समागम्य प्राहाऽऽराधनया तव ।
तुष्टोऽस्मि वद मे भक्त! किं करोमि त्वदर्थकम् ॥३॥
श्रुत्वा तोण्डनृपस्तं वै कृत्वा प्राञ्जलिमाह यत् ।
जन्ममृत्युजराव्याधिवर्जिते त्वक्षरे तव ॥४॥
लोके वस्तुं समिच्छामि वरमेनं प्रदेहि मे ।
तावत्कलेवरं त्यक्त्वा कृष्णनारायणेक्षणः ॥५॥
कृष्णनारायणसाम्यदेहो भूत्वा स भक्तराट् ।
दिव्यं धामप्रदं शुभ्रं विमानं त्वारुरोह वै ॥६॥
मुक्तैः संस्तूयमानोऽसौ सारूप्यं प्राप्य शार्ङ्गिणः ।
पुनरावृत्तिरहितं ममाऽक्षरपदं ययौ ॥७॥
स्वामिपुष्करिणीतीर्थे नित्यं वसामि पद्मजे ।
पुष्करिण्यां कृतस्नानादश्वमेधफलं लभेत् ॥८॥
आत्मविद्या भवेत् साक्षान्मुक्तिश्चापि चतुर्विधा ।
तुलापुरुषदानस्य फलं स्वामिनिषेवणात् ॥९॥
गोसहस्रदानपुण्यं स्वामितीर्थनिमज्जनात् ।
धर्मार्थकाममोक्षाप्तिः स्वामितीर्थे प्रदानकात् ॥१०॥
प्रज्ञा लक्ष्मीर्यशः सम्पद्धर्मो ज्ञानं विरक्तता ।
मनःशुद्धिर्भवेयुश्च स्वामितीर्थाऽधिवासतः ॥११॥
ब्रह्महत्यासुरापानगुरुदारगमादिकम् ।
सुवर्णस्तेयमांसादि हिंसादोषादिकं तथा ॥१२॥
नश्यत्येव न सन्देहः स्वामितीर्थे व्रतादितः ।
अहो मौर्ख्यमहो मौर्ख्यं जनानां तद्भवः खलु ॥१३॥
स्वामितीर्थे स्थितेऽन्यत्र रमते यन्मनः खलम् ।
अहो मोहस्य माहात्म्यं गृहतीर्थविनाशकृत् ॥१४॥
स्नातस्य स्वामितीर्थे तु नान्तकाद्भयमस्ति हि ।
स्तुवन्ति च प्रशंसन्ति स्पृशन्ति च नमन्ति च ॥१५॥
पिबन्ति स्नान्ति पश्यन्ति ये तेषां नान्तकाद् भयम् ।
भुक्तिमुक्तिप्रदं चैतच्छ्रीनिवासकृतालयम् ॥१६॥
श्रीभूसेवितकृष्णाधिवासितं धामसदृशम् ।
तत्सर्वं वेंकटशैलदृष्टिपातभुवस्तलम् ॥१७॥
पुण्यं पवित्रं निर्वाणपदद्ं सर्वतोऽधिकम् ।
शृणु लक्ष्मि! कथां चान्यां धर्मगुप्तस्य भूभृतः ॥१८॥
सोमवंशे नन्दराज्ञः पुत्रो धर्मपरायणः ।
धर्मगुप्त इति ख्यातोऽभवन्नीतिपरायणः ॥१९॥
ईजे बहुविधैर्यज्ञैर्ददौ दानान्यनेकशः ।
प्रजा धर्मपराश्चासन् पातिव्रत्यपराः स्त्रियः ॥२०॥
अथैकदाऽश्वमारुह्य धर्मगुप्तो वनं ययौ ।
मृगयामनुचरतो निशाऽभूत् स ततो द्रुमम् ॥२१॥
अधिरुह्य विशश्राम ऋक्षस्तत्र समागतः ।
अनुद्रुतः स सिंहेन ऋक्षोऽरोहत्तु पादपम् ॥२२॥
उवाच भूपतिं दृष्ट्वा मरणत्रासकम्पितः ।
मा भीतिं याहि जनराड्! वत्स्यावो रजनीमिह ॥२३॥
सिंहो भयंकरश्चात्र वृक्षमूलमुपागतः ।
रात्र्यर्धं भज निद्रां त्वं रक्ष्यमाणो मया सुखी ॥२४॥
ततः प्रसुप्तं मां रक्ष शर्वर्यर्धं सुरक्षक! ।
इत्याकर्ण्य धर्मगुप्ते सुप्ते ऋक्षं हरिर्जगौ ॥२५॥
वयं वनेचराः सर्वे चतुष्पादा न मानवाः ।
किमस्माभिर्मानवेन नृपो मे त्यज्यतामयम् ॥२६॥
ते मे खाद्यं प्रपूर्णं संभविष्यत्यपवर्ज्यताम् ।
ऋक्षः प्राह तदा सिंहं धर्मयुक्तं सुनीतिमत् ॥२७॥
विश्वासघातिनां लोके महत्यधोगतिर्मता ।
मानवाः पशवः कीटाः पक्षिणो बालकाः स्त्रियः ॥२८॥
वन्या ग्राम्यास्तथाऽऽरण्या विश्वस्ता निवसन्ति वै ।
जीवन्त्याश्रयविश्वस्ताश्चतुष्पात्त्वं न कारणम् ॥२९॥
द्विपात्त्वं वा सपक्षत्वं यावद्विश्वासजीवनम् ।
विश्वासो हि परो धर्मस्तं कथं नु त्यजाम्यहम् ॥३०॥
स्वार्थी विश्वासधर्मं तु सन्त्यज्य घातकी भवेत् ।
न मया तत्प्रकर्तव्यं गच्छ त्यज प्रतीक्षणम् ॥३१॥
नहि मित्रद्रुहां पापं नश्येद् यज्ञायुतैरपि ।
ब्रह्महत्यादिपापानां कदाचिन्निष्कृतिर्भवेत् ॥३२॥
विश्वासघातिनां पापं विनश्येन्न कदाचन ।
न मेरुर्भारवाँस्तावद् यावद् भारोऽस्ति घातिनि ॥३३॥
हिंसा परतराऽधर्मस्वरूपा नाशदायिनी ।
विश्वासहिंसनं तत्र पापाऽतिपापतोऽधिकम् ॥३४॥
तस्माद् गच्छ वनादन्यद्वनं ते भोजनं मिलेत् ।
इत्युक्तः स वनराजो मौनं कृत्वा व्यवस्थितः ॥३५॥
अर्धरात्रिगते काले प्रबुद्धो नृपनन्दनः ।
सुष्वाप सुखतः ऋक्षः शाखायां प्रत्ययान्वितः ॥३६॥
सिंहः प्राह नृपं राजन्! किं तवाऽनेन शाखिना ।
मम भक्ष्यं रक्षसि त्वं नूनं पापी भवस्यपि ॥३७॥
यथा राजा प्रजानां त्वं तथा वन्यनृपोऽस्म्यहम् ।
प्रजास्तु सर्वथा नीत्या भक्ष्या राज्ञां विनिर्मिताः ॥३८॥
अयं वन्यमृगस्त्वद्य मम भक्ष्य उपस्थितः ।
तवाऽऽश्रयं समासाद्याऽरोहद्वृक्षं हि ऋक्षकः ॥३९॥
भोजने मे भवान् राजा रोधकृद् वर्ततेऽद्य वै ।
किं तवाऽनेन ऋक्षेण त्यजस्व मम भोजनम् ॥४०॥
अन्यथा प्रातरेवापि दिवा वा भक्षयामि तम् ।
त्वां तथा वै भक्षयिष्ये समाहूयाऽन्यमद्विधान् ॥४१॥
एवमुक्तोऽथ सिंहेन राजा सुप्तमशंकितम् ।
स्वांकन्यस्तशिरस्कं तमृक्षं तत्याज वृक्षतः ॥४२॥
तावत् स भ्रामणीं कृत्वा शाखायामेव पादपे ।
पुण्यवशादूर्ध्वभागे समारुह्य रुरोद ह ।
राजा सिंहश्च तं पप्रच्छतुः कस्माद्धि रोदिषि ॥४३॥
भयं दूरं गतं तेऽद्य वद् वानर! हृद्गतम् ।
ऋक्षः प्राहोभयं नाऽहं मदर्थं रोदिमि प्रभो ॥४४॥
वने वन्या हि विश्वस्ता वसन्ति बहुवानराः ।
एतादृशं नृपं प्राप्य विश्वासघातिनं शठम् ॥४५॥
भविष्यन्ति हताश्चेति कृत्वा रोदिमि केसरिन् ।
सन्मुखं मरणं भूयान् माऽकस्मान् मृत्युरस्तु नः ॥४६॥
अहं न वानरो राजन् किन्त्वस्मि भृगुवंशजः ।
ध्यानकाष्ठाऽभिधषिर्वै कामरूपधरो वने ॥४७॥
कस्मादनागसं सुप्तमत्याक्षीन्मां भवान्नृप ।
मच्छापादति चोन्मत्तो भव त्वं चर भूतले ॥४८॥
इति शप्त्वा ततः सिंहं प्राहार्षिस्त्वं पुराऽनघ ।
कुबेरसचिवो ह्यासीः सखीजनपुरःसरः ॥४९॥
हिमाद्रौ विहरद् दैवाद् गतवान् गौतमाश्रमम् ।
विवस्त्रं त्वां विलोक्यैव गौतमः शापमासृजत् ॥५०॥
विवस्त्रः पशुचर्यस्त्वं ममाश्रमस्य सन्निधौ ।
कथं वै दुष्ट चरसि भव दुष्टोऽतिहिंस्रकः ॥५१॥
नग्नसिंहो भव चात्र रोमादिवर्जितः खलु ।
इतिशापेन सिंहस्त्वं तुष्टावर्षिं पुनः पुनः ॥५२ ।
स चाह ते यदा राज्ञो धर्मगुप्तस्य वृक्षके ।
ध्यानकाष्ठस्य सद्भाग्याद् दर्शनं वै भविष्यति ॥५३॥
तदा शापात्तव मोक्षो भविष्यत्येव मा शुचः ।
भद्रनामाऽसि भृत्यस्त्वं ध्यानाज्जानाम्यहं हि तत् ॥५४॥
इत्युक्तः स ननामैनमृषिश्रेष्ठं नृपं तथा ।
सिंहत्वं च परित्यज्य द्रागभूद् यक्षरूपधृक् ॥५५॥
जातिस्मरस्तदा सर्वं विज्ञायर्षिकृपावशात् ।
आगतेन विमानेन दिव्येन द्यां ययौ हि सः ॥५६॥
ऋषिर्गतो वनं नैजं राजा मत्तोऽभवद् वने ।
विचचार पशुचर्यस्तमन्वेष्टुं प्रजा ययुः ॥५७॥
वने भ्रमन्तमुन्मत्तमानिन्युर्नर्मदातटम् ।
जैमिनेरन्तिकं प्राप्य जगदुश्चापराधनम् ॥५८।
श्रुत्वा जैमिनिराहैतान् सुवर्णमुखरीतटे ।
वेंकटाद्रौ स्वामिपुष्करिणीतीर्थेऽतिपावने ॥५९॥
स्नापयन्तु नृपं तेन शापमुक्तो भविष्यति ।
एवं गत्वा कृतवन्तो जनास्तद्राज्यवासिनः ॥६०॥
धर्मगुप्तोऽभवत्स्वस्थो धनरत्नादि संददौ ।
धान्यक्षेत्राणि रत्नानि वेंकटेशस्य संददौ ॥६१॥
एवं राजाऽभवच्छापान्मुक्तो राज्यं चकार ह ।
स्वामिपुष्करिणीतीर्थं वर्तते एवमर्थदम् ॥६२ ॥
धर्मदं कामदं मोक्षप्रदं दुःखविनाशकम् ।
भूतप्रेतपिशाचाद्युन्मादा नश्यन्ति तज्जलात् ॥६३॥
स्नानात्पानात्स्पर्शनाच्च दर्शनाद् वन्दनादपि ।
नश्यन्ति पातकान्येव स्मरणादपि पद्मजे ॥६४॥
स्वामितीर्थं स्वामितीर्थं स्वामितीर्थमिति प्रिये! ।
त्रिःपठन्तो नराः स्नाताः स्वामिस्नानफलं तथा ॥६५॥
पदं वै ब्रह्मणः श्रेष्ठं लभन्ते नात्र संशयः ।
श्रवणात्पठनाच्चास्य तत्र स्नानफलं भवेत् ॥६६॥
शृणु लक्ष्मि! कथां त्वन्यां सुमतेर्ब्राह्मणस्य वै ।
महाराष्ट्रे यज्ञदेवसुतः सुमतिनामकः ॥६७॥
गृहं त्यक्त्वोत्कलं देशं गतो दुष्टसमागमात् ।
कांचित् किरातीं स दृष्ट्वा मुमोह तद्गृहे स च ॥६८॥
तस्थौ रेमे च बुभुजे चौर्यं चक्रे पपौ सुराम् ।
कंचिद्विप्रं स निशिथे खड्गेन हतवानथ ॥६९॥
द्रव्यमादाय विप्रस्य किरातीभवनं ययौ ।
कृष्णवर्णा व्रह्महत्या ववल्गे तं भयंकरी ॥७०॥
तयोन्मत्तः स सुमतिः प्रययौ स्वगृहं प्रति ।
पितरं रक्ष रक्षेति त्वाक्रोशन् शरणं ययौ ॥७१॥
ब्रह्महत्या तज्जनकं समुवाच तदा ऋतम् ।
असौ सुरापी स्तेयी च ब्रह्महा चातिपातकी ॥७२॥
मातृद्रोही पितृद्रोही नीतित्यागी वृषोज्झितः ।
किरातीसंगदुष्टश्च मुञ्चैनं तु दुरात्मकम् ॥७३॥
नो चेत् त्वां तव भार्या च सुतमेनं तथेतरान् ।
भक्षयिष्यामि वंशं च मा कुलं हन्तुमर्हसि ॥७४॥
एकं त्यक्त्वा कुलं रक्षेत्युक्त्वाऽग्रहीद्गले तु तम् ।
तावत् तत्र समायातो दुर्वासास्तु यदृच्छया ॥७५॥
स्तुतस्तैराह पितरं स्वामिपुष्करिणीजले ।
संस्नापय प्रमुच्येत हत्याया नात्र संशयः ॥७६॥
साकं दुर्वाससा सोऽथ ययौ पुष्करिणीजले ।
स्नातो हत्याविनष्टा च पूतो बभूव भूसुरः ॥७७॥
एवंप्रभावं तत्तीर्थं पापवृक्षकुठारकम् ।
शृण्वतां पठतां चापि वाजपेयफलप्रदम् ॥७८॥
वेंकटे कृष्णतीर्थेऽपि स्नात्वात्पापात्प्रमुच्यते ।
पितॄन्मातॄर्गुरुँश्चावमन्यमानो ये खलाशयाः ॥७९॥
तेऽपि वै कृष्णतीर्थेऽस्मिन् शुद्ध्यन्ति स्नानमात्रतः ।
कृष्णनामा मुनिः कश्चिदकरोद्वै तपः शुभम् ॥८०॥
वेंकटाद्रौ हरिं ध्यायन् कृतवाँस्तीर्थमुत्तमम् ।
रामकृष्णाभिधश्चान्यो मुनिर्मोक्षपरायणः ॥८१॥
तपश्चकार कठिनं ह्यनेकशतवत्सरान् ।
वल्मीकाक्रान्तदेहोऽपि स्वस्थानान्न चचाल सः ॥८२॥
वासवो मेघवृष्टिं च चकार सप्तवासरान् ।
वल्मीकस्योपरिष्ठाद्वै निपपात महाशनिः ॥८३॥
वल्मीकशिखरं ध्वस्तं मुनिस्त्वस्थ्यवशेषितः ।
महेन्द्रेण तदा दृष्टो रक्षार्थं तस्य माधवः ॥८४॥
कांभरेयो महास्वामी गोपालबालकः स्वयम् ।
शंखचक्रादिसंयुक्तः आविर्बभूव चाह तम् ॥८५॥
उत्तिष्ठ भद्रं ते भक्त! तपसाऽहं प्रतोषितः ।
अत्र तीर्थे मकरस्थादिवाकरे तु यो जनः ॥८६॥
स्नाति वा पौर्णमास्यां वा मदाविर्भावसद्दिने ।
मत्पार्षदाः कोटिसूर्यप्रभास्ते यन्ति मत्पदम् ॥८७॥
त्वन्नाम्ना च परां ख्यातिं गमिष्यति सुतीर्थकम् ।
इत्युक्त्वा श्रीनिवासश्च तत्रैवान्तरधीयत ॥८८॥
रामकृष्णौ ययौ धाम श्रीकृष्णेन समं हरेः ।
पठनाच्छ्रवणाच्चापि तीर्थं मोक्षप्रदं न्विदम् ॥८९॥
जलदानं चान्नदानं वस्त्रदानं धनार्पणम् ।
कर्तव्यं वैंकटे तीर्थे शाश्वतं वै भवेद्धि तत् ॥९०॥
हेमांगो नाम राजर्षिरभूदिक्ष्वाकुवंशजः ।
गवां दानं भूमिदानं स्वर्णदानादिकं ददौ ॥९१॥
तेनाऽदत्तं जलं त्वेकं सुखलभ्यधिया प्रिये! ।
अमूल्यं सर्वतो लभ्यं तद्दातुः किं फलं भवेत् ॥९२॥
अलभ्यदाने पुण्यं स्यादित्यवादीत्स युक्तितः ।
दीनानानर्च स व्यंगान्दरिद्रान्वृत्तिकर्षितान् ॥९३॥
नाऽऽनर्च श्रोत्रियान्विप्रान्साधूँश्च ब्रह्मवादिनः ।
प्रख्यातान्पूजयन्त्येव सर्वे लोकाः समुत्सुकाः ॥९४॥
दरिद्राणां गतिश्चाहं तस्मात्ते मद्दयास्पदाः ।
इति दुष्टेषु पात्रेषु दत्तवान् तेन तस्य वै ॥९५॥
चातकस्य त्रिजन्मानि गृध्रस्यैकजनुस्तथा ।
शुनश्च सप्तजन्मानि ह्यभवँश्च ततो गृहे ॥९६॥
मक्षिकाखादयित्री वै गृहगोधा व्यजायत ।
मिथिलादिपतेर्गेहे श्रुतदेवः समागमत् ॥९७॥
तेन दृष्टा हि ऋषिणा ह्यष्टाशीतिसमामयी ।
श्रुतदेवं प्रसंपूज्य राजा तच्चरणामृतम् ॥९८॥
मूर्ध्नाऽवहत् तदोप्क्षितैर्बिन्दुभिः प्रोक्षिताऽपि सा ।
सद्यो जातिस्मरा जाता त्राहि त्राहीत्युवाच सा ॥९९॥
अहमिक्ष्वाकुकुलजो हेमांगश्च नृपोऽभवम् ।
पक्षपातः कृतो दाने जलं दत्त न वै तथा ॥१००॥
तथा पात्रं समुत्सृज्य ह्यपात्रे प्रतिपादितम् ।
ज्वलन्तमग्निमुत्सृज्य भस्मन्येव हुतं मया ॥१०१॥
तुलसीं तु समुत्सृज्य विषवल्ली प्रसिञ्चिता ।
पंग्वाद्या येऽप्यनाथाद्या दयापात्रं हि केवलम् ॥१०२॥
तपोविज्ञानसद्विद्याश्रया विष्णुस्वरूपिणः ।
पूजनीया ज्ञानिनश्च प्रिया विष्णोः सदैव ते ॥१०३॥
तस्माज् ज्ञानी सदा पूज्यस्तस्मै देयं फलाप्तये ।
पूज्यात्पूज्यतरः सोपि स्वर्गमोक्षप्रदो भवेत् ॥१०४॥
न जलं वै मया दत्तं साधवो वा न सेविताः ।
तेन मे दुर्गतिश्चेयं जाता स्वर्गे गतेऽपि वै ॥१०५॥
एतच्छ्रुत्वा वेंकटाद्रेस्तीर्थस्नानफलं मुनिः ।
गोधायै दत्तवान् सा चाऽप्येकदिवसपुण्यतः ॥१०६॥
दिव्यरूपधरो दिव्यविमानवरसंस्थितः ।
स्तुत्वा ययौ स्वर्गलोकं जलदानफलान्वितः ॥१०७॥
जलं स्वर्गे ततः प्राप तस्माज्जलादिदानकम् ।
कर्तव्यमेव सद्भक्त्या मानवैः सततं भुवि ॥१०८॥
अथ कालान्तरे सोऽभूत् ककुत्स्थाख्यो महीपतिः ।
सप्तद्वीपपतिर्भूत्वा विष्णोः सायुज्यमाप्तवान् ॥१०९॥
इति ते कथितं लक्ष्मि! पात्रमाहात्म्यमुत्तमम् ।
जलदानादिकं चापि श्रवणाच्चापि तत्फलम् ॥११०॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये वेंकटाद्रौ तोण्डमान्नामराज्ञः, धर्मगुप्तराज्ञः ऋक्षविश्वासघातिनः, सुमतिनामकविप्रस्य रामकृष्णर्षेः, हेमांगस्य च मुक्तिरित्यादिनिरूपणनामा द्व्यधिकचतुश्शततमोऽध्यायः ॥४०२ ॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP