संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४२५

कृतयुगसन्तानः - अध्यायः ४२५

लक्ष्मीनारायणसंहिता

श्रीनारायण उवाच-
शृणु लक्ष्मि! पुण्यशीलो द्वयोर्वृत्तान्तमाह यम् ।
विष्णुपातिव्रत्यपरं पार्षदत्वप्रदं शुभम् ॥१॥
विमानस्थो विष्णुसेवापरः पार्षदपुंगवः ।
पुण्यशीलोऽस्म्यहं विप्र! सुशीलोऽयं द्वितीयकः ॥२॥
त्वया युक्तं कृतं विप्र तारितेयं सुपुण्यतः ।
अस्या जन्मान्तरशतोद्भयं पापं लयं गतम् ॥३॥
वैकुण्ठं नीयते सा च विष्णुदासी भविष्यति ।
त्वं च कार्तिकव्रतवान् भार्याभ्यां सह भूसुर! ॥४॥
कालान्तरे हरेर्धाम प्रयास्यसि सुपुण्यतः ।
हरिव्रतं सदा भक्तकृतं पतिव्रताव्रतम् ॥५॥
भवत्येव न सन्देहः पुण्यदं मोक्षदं व्रतम् ।
बहून्यब्दसहस्राणि पुण्यं भुक्त्वाऽत्र भूतले ॥६॥
सूर्यवंशोद्भवो राजा दशरथो भविष्यसि ।
भार्याभ्यां सहितश्चैव ये स्तो विवाहिते तव ॥७॥
इयं तृतीया कलहा तव पुण्यार्धभागिनी ।
पत्नी भविता च तदा विष्णुर्यास्यति ते गृहम् ॥८॥
देवकार्यकरो भूत्वा प्रयास्यति स्वकं पदम् ।
कृष्णनारायणः सोऽयं रामनामा भविष्यति ॥९॥
ये तु रामस्य शरणं यास्यन्ति भूतले जनाः ।
तेऽपि मुक्तिं प्रयास्यन्ति वासुदेवप्रतापतः ॥१०॥
भावना प्रेम भक्तिश्च स्नेहश्चाऽऽर्द्रत्वमित्यपि ।
विशिष्यते हरौ क्रियात्मकात् काण्डादिति स्थितिः ॥११॥
कर्मणो ज्ञानमुत्कृष्टं ज्ञानाद् ध्यानं तथोत्तमम् ।
ध्यानाच्च भावना श्रेष्ठा भावतः स्नेह उत्तमः ॥३२॥
सकामस्नेहतः श्रेष्ठो निष्कामः स्नेह एव यत् ।
स्नेहाच्छ्रेष्ठः प्रह्वीभावस्तद्रूपं तद्रसात्मता ॥१३॥
न ततोऽधिकमेवाऽस्ति किञ्चिद् विप्र! हरौ सदा ।
शृणु तत्र कथां रम्यां दानाद् भावो विशिष्यते ॥१४॥
काञ्चीपुर्यां पुरा राजा चोलनामाऽभवद् व्रती ।
वैष्णवो दानकृद् रक्षाकरः प्रजासु वन्दितः ॥१५॥
देवपूजाकरो नित्यं यद्राज्ये सुखिनी प्रजा ।
ताम्रपर्णीतटे येन यज्ञाश्च बहवः कृताः ॥१६॥
विमानेन स नृपतिर्लोकान्तरं प्रयाति च ।
एवं विमानमारुह्य ययौ श्वेताख्यधाम सः ॥१७॥
ततः क्षीराब्धिशयनं धाम योगेन संययौ ।
अनन्तशयनं कृष्णनारायणं तु निद्रितम् ॥१८॥
चकार दण्डवत्तावन्नारायणः समुत्थितः ।
श्रीपतिं पूज्यामास मणियुक्ताफलादिभिः ॥१९॥
सुपत्रैश्च सुवर्णस्य कुसुमैर्हीरकादिभिः ।
धूपदीपसुनैवेद्यैर्वस्त्रैर्विभूषणैस्तथा ॥२०॥
दिव्यैः रत्नायुतैश्चापि पुपूज परमेश्वरम् ।
एवं सम्पूज्य सन्नत्वोपविष्टः सन्निधौ हरेः ॥२१॥
तावत्तस्यैव राज्यस्य ब्राह्मणो विष्णुदायकः ।
तुलसीं च जलं पुष्पं नीत्वा पूजार्थमागतः। ॥२२॥
तेनापि श्रीहरेः पूजा कृता पत्रादिवस्तुभिः ।
हीरकाद्यास्तया छन्नाः पत्रपुष्पादिभिः खलु ॥२३॥
आच्छादिनां स्वकृत्पूजां विलोक्य नृपतिस्तदा ।
विप्रं प्राह कथं स्वर्णमाणिक्यादिसुशोभिता ॥२४॥
पूजा कृता मया विप्र त्वया वै छादिता दलैः ।
गौरवं नैव जानासि न जानासि प्रपूजनम् ॥२५॥
मूल्यं नापि गणयसि श्रैष्ठ्यं करोष्यनुत्तमम् ।
पत्रादिकं निकृष्टं तु करोषि तूत्तमं द्विज ॥२६॥
इत्युक्तः स द्विजस्तत्र चौलं प्राह सुभाववान् ।
राजन् विष्णोः सदा पूजा भावनासहिता प्रिया ॥२७॥
गर्वयुक्ताऽहंकृतिस्था न प्रिया जायतेऽनघ ।
त्वया तु क्रियते पूजा रत्नस्वर्णादिपुष्पकैः ॥२८॥
मयाऽपि क्रियते सैव तुलसीदलवारिभिः ।
मम पूजा तव पूजा भावनातो विशिष्यते ॥२९॥
वद राजन् नृपलक्ष्म्या त्वया किंकिं कृतं व्रतम् ।
मया कृतं न वै किञ्चिद् वद् त्वं चेत् कृतं महत् ॥३०॥
तदा चौलः सगर्वस्तु प्राह विप्रं कृतं तु यत् ।
मया कृतं स्वर्णदानं रत्नहीरकदानकम् ॥३१॥
गोदानानि ह्यनन्तानि यज्ञाश्च बहवः कृताः ।
पूजने श्रीहरेर्नित्यं समर्पयामि हीरकान् ॥३२॥
निर्धनस्य तव भक्त्या मम भक्तिर्विशिष्यते ।
त्वया यज्ञः कृतो नैव देवालयो न वा कृतः ॥३३॥
मया सर्वं कृतं विप्र पश्य यज्ञान्तरं पुनः ।
करिष्यामि गमिष्यामि साक्षात्कारं हरेः पुरा ॥३४॥
विप्रा ज्ञास्यन्ति ये भक्तिं श्रेष्ठां तदैव नान्यथा ।
पूर्वं साक्षात्करणार्थं विष्णुयागं करोम्यहम् ॥३५॥
इत्युक्त्वा श्रीहरिं नत्वा ययौ चौलप्रदेशकान् ।
चौलः समारभद् यज्ञं कृत्वाऽऽचार्यं तु मुद्गलम् ॥३६॥
सत्यलोकात्तत ऊर्ध्वाद् वैराजा ब्रह्मचारिणः ।
मुनयः ऋषयो वृद्धाः पितरश्च सुरास्तथा ॥३७॥
यज्ञाश्च देवगन्धर्वा मानवाश्चापि भूसुराः ।
नदा नदश्च तीर्थानि तरवो वल्लिकास्तथा ॥३८॥
पुर्यः क्षेत्राणि चैत्यानि पातालभूगतानि च ।
तारकाणि प्रकृष्टानि वैष्णवा देवतास्तथा ॥३९॥
देव्यः सर्वाः सर्वधामनिवासा मुक्तनायकाः ।
आकारिता नृपतिना वैष्णवे स्वकृते क्रतौ ॥४०॥
स्वर्णं द्रव्यं हीरकादि सर्वं तत्र समर्पितम् ।
वस्त्रान्नपेयभोग्यानि समर्पितानि सर्वशः ॥४१॥
ऋषीणां वेदसंघोषा ह्यासंस्तत्र महाध्वरे ।
विप्राणां मूर्तयस्तत्र सन्तुष्टा ह्यभवन्मखे ॥४२॥
वह्नयस्तृप्तिमापन्ना मुक्ता देवाः प्रतोषिताः ।
मुदिताश्चाऽभवन् सत्यो देव्यो ब्रह्माण्डयोषितः ॥४३॥
कृतो यज्ञो महान् सर्वलोकेषु ख्यात एव सः ।
किन्तु गर्वात् कृतो नैव निष्कामभावतः कृतः ॥४४॥
स्पर्धया यत्कृतं चापि मत्सरेणाऽप्यथेर्ष्यया ।
तत्सर्वं न फलवत् स्याद् यथा निष्कामजं फलम् ॥४५॥
विष्णुदासो हरेर्देवालये चकार सेवनम् ।
शरीरेण च भावेन हरेः संस्नपनं तथा ॥४६॥
प्रबोधनं पूजनं च शृंगारं धूपदीपनम् ।
तुलसीपत्रदानं च जलाभिषेकमर्चनम् ॥४७॥
पुष्पपत्रफलार्घ्यानामर्पणं चन्दनार्पणम् ।
अक्षतकुंकुमदानं श्रीफलाद्यर्पणं तथा ॥४८॥
नीराजनं प्रदक्षिणं स्तुतिं दण्डवदादिकम् ।
क्षमायाचनमेवापि कीर्तनं श्रवणं तथा ॥४९॥
मार्जनं लेपनं गुणप्रगानं च निवेदनम् ।
ताम्बूलकं जलं सुगन्धिवद्द्रव्यार्पणं तथा ॥५०॥
व्यजनेन पवनस्य दानं चामरधारणम् ।
छत्रसन्धारणं चापि यथर्तुसेवनादिकम् ॥५१॥
पुष्पवाटीं तथा कृत्वा पुष्पहारादिकं शुभम् ।
तुलसीवाटिकां कृत्वा हर्यर्थं जलसेचनम् ॥५२॥
एवं स्नेहेन भावेन दिवानिशं हरेः प्रभोः ।
पातिव्रत्यपरां भक्तिमकरोद् विष्णुदासकः ॥५३॥
एकादश्यादिदिवसान् जपयुक्तान् व्रतानि च ।
संयमेन महाभक्त्या कृष्णसंस्मरणेन च ॥५४॥
पूजया षोडशवस्तुकृतया नृत्यगीतिभिः ।
भावातिसेवया सन्निर्गमयत्येव सर्वथा ॥५५॥
पश्यन् शृण्वन् स्पृशन् जिघ्रन् रसयन् संवदन्नपि ।
गृह्णन् गच्छन् शयानश्च स्तवन् ध्यायन् विनिश्चयन् ॥५६॥
चिन्तयन् मानयँश्चाप्यनुभवन् भावयँस्तथा ।
स्मरन् संप्रत्यभिजानन् संशयानो विपर्ययन् ॥५७॥
तर्कयन् चेतयन् चेच्छन् विष्णुमेव हि वर्तते ।
सर्वत्रात्मकृतावासं विदन् विष्णुमचिन्तयत् ॥५८॥
ओं नमः श्रीकृष्णनारायणाय ओं नमोनमः ।
एवं षोडशवर्णार्णं गृणन् विष्णुमयो ह्यभूत्। ॥५९॥
ब्राह्मणस्य सदा सेवां गृह्णाति भगवान् स्वयम् ।
राज्ञो यज्ञं हुतद्रव्यं गृह्णाति भगवान् स्वयम् ॥६०॥
ब्राह्मणस्याऽभवद् दृश्यो राज्ञस्त्वदृश्य ईश्वरः ।
भावाऽभावौ तथा गर्वाऽगर्वौ तत्र हि कारणे ॥६१॥
एकदा विष्णुदासेन नित्यमिव महानसे ।
कृतो मिष्टान्नपाकश्चाऽहस्त्वं कोऽप्यलक्षितः ॥६२॥
पूजाविघ्नं च मध्याह्ने पुनः पाके भवेदिति ।
विचार्य न पुनः पाकः कृतो न बुभुजे स्वयम् ॥६३॥
फलं जलं च नैवेद्येऽर्पितवान् शार्ङ्गिणे हि सः ।
द्वितीयेऽपि दिने तद्वत् कृतं पाकं जहार ह ॥६४॥
तृतीयेऽपि दिने तद्वत् पाकं जहार माधवः ।
एवं सप्तदिनान्येव पाकं जह्रेऽर्पणं विना ॥६५॥
चिन्तातुरो द्विजस्तस्थौ रक्षार्थं पाकसन्निधौ ।
पाकं कृत्वा गृहकोणे काष्ठपाषाणहस्तकः ॥६६॥
उपोषितश्च सप्ताहं ददर्श पाकहारिणम् ।
चाण्डालं मलिनं कंचित् क्षुधितं शुष्कदेहकम् ॥६७॥
द्विजो दृष्ट्वा दयायुक्तो जातस्तस्मिन् हरिं स्मरन् ।
उवाच तिष्ठ मा रूक्षं भुंक्ष्व घृतं गृहाण वै ॥६८॥
इत्युक्तवन्तं तं विप्र दृष्ट्वा दुद्राव भीतितः ।
पतितो मूर्छितस्तत्र तं गत्वा विष्णुदासकः ॥६९॥
जलं ददौ पवनं च वस्त्रान्तेन व्यमूर्छयत् ।
तावत् स उत्थितो विष्णुश्चतुर्भुजधरोऽभवत् ॥७०॥
साक्षात् श्रीमत्कृष्णनारायणं चतुर्भुजं हरिम् ।
शंखचक्रगदापद्मकौस्तुभादिविराजितम् ॥७१॥
प्रत्यक्षं श्रीहरिं दृष्ट्वा विष्णुदासोऽतिगद्गदः ।
बभूव प्रेमपूर्णश्च स्तोतुं वक्तुं न चाऽशकत् ॥७२॥
अथ यज्ञे स्थिता देवाः क्रतुं त्यक्त्वा समाययुः ।
चौलराज्ञा तु ते पृष्ठाः क्व गम्यते सुरेश्वरैः ॥७३॥
ते प्राहुर्विष्णुदासाय कृष्णनारायणः प्रभुः ।
साक्षात्कारं दर्शनं वै ददौ तत्र हि सन्निधौ ॥७४॥
प्रगच्छामो दर्शनार्थं आयास्यामश्च सत्वरम् ।
इत्युक्त्वा ते ययुस्तत्र यत्र चतुर्भुजो हरिः ॥७५॥
देवाश्चक्रुस्तवं तस्य गन्धर्वाऽप्सरसो जगुः ।
ननृतुर्देवगन्धर्वा आशिषः ऋषयो ददुः ॥७६॥
गीतवादित्रमोदाढ्यं स्थानं तत्त्वभवत्तदा ।
यज्ञाः सर्वदेवाद्याश्चतुर्दशभुवां जनाः ॥७७॥
सर्वे समाययुस्तत्र तीर्थाद्या वह्नयोऽपि च ।
यज्ञस्थानं तदा रिक्तं जातं देवैर्विना क्षणम् ॥७८॥
देवालयस्य निकटे विष्णुः प्राहेश्वरादिकान् ।
भक्त्या च सेवया स्नेहभावया प्रेमपूरया ॥७९॥
तुष्टोऽहं विष्णुदासस्याऽगर्वस्य किंकरस्य मे ।
साक्षात्कारो मम तस्य शीघ्रं जातोऽस्ति देवताः ॥८०॥
नाऽहं बहुविधैर्द्रव्यैः सगर्वस्याऽन्तिकप्रगः ।
साक्षात्स्वदर्शनप्रदो भवामीति विनिश्चयः ॥८१॥
इत्युक्त्वा भगवान् विष्णुराश्लिष्य विष्णुदासकम् ।
समारोप्य विमाने स्वे निनाय धाम शाश्वतम् ॥८२॥
चौलराजो ददर्शैनं यान्तं श्रीविष्णुमन्दिरम् ।
शीघ्रं तदाऽऽह्वयाञ्चक्रे गुरुं मुद्गरमेव सः ॥८३॥
जगाद च मुनिं तत्र यदर्थं यज्ञमारभे ।
यत्स्पर्धया सर्वद्रव्यं यज्ञे मया समर्पितम् ॥८४॥
स तु पूर्वं हरिं प्राप्य ययौ वैकुण्ठमेव ह ।
त्वया यज्ञः कर्मकाण्डात्मको नैव हि पार्यते ॥८५॥
कर्तव्यस्य फलं नैव मया प्रागत्र चार्जितम् ।
तस्माद् धनं क्रतुर्दानं सर्वं न तोषयेद्धरिम् ॥८६॥
हरिस्तु भावभक्त्यैव भजनेन जपेन च ।
स्मरणेन प्रसन्नः स भवतीति विनिश्चितम् ॥८७॥
कुरु यज्ञस्येतिभावं गृहाण दक्षिणां गुरो! ।
याहि गृहं समायातान् प्रस्थाप्य दत्तदक्षिणान् ॥८८॥
अहं गच्छामि च पश्चात् समाराधनहेतवे ।
भक्त्या तुष्यति भक्तेशो न यज्ञैर्दानविस्तरैः ॥८९॥
प्रसादने हरेरेषो विप्रो जातो निदर्शनम् ।
इत्युक्त्वा राज्यभारं च भागिनेये विसृज्य च ॥९०॥
ययौ यज्ञं हरिं समाराधयितुं जनाधिपः ।
वह्निकुण्डाग्रतः स्थित्वा ददौ हवनद्रव्यकम् ॥९१॥
विष्णो भक्तिं सदा देहि मनोवाक्कायकर्मभिः ।
उच्चैस्त्रिवारमेतद्वै समुच्चार्य हरिं स्मरन् ॥९२॥
सर्वेषां पश्यतां राजा वाह्निकुण्डेऽपतत्तदा ।
हाहाकारो महान् जातो विष्णुश्चाविरभूत्तदा ॥९३॥
नृपं चतुर्भुजं कृत्वा समादाय विमानके ।
वैकुण्ठमनयद्भूपं पार्षदत्वं ददौ हरिः ॥९४॥
पातिव्रत्यपरया च भक्त्या तुष्टो हरिः स्वयम् ।
मयि तुष्टो नृपे तुष्टः स्वयं कृष्णनरायणः ॥९५॥
धर्मदत्त स एवाऽहं विष्णुदासोऽस्मि पार्षदः ।
पुण्यशीलाभिधानश्च राजा सुशीलनामकः ॥९६॥
आवां त्वत्राऽऽगतौ नेतुं कलहां रामकारणात् ।
वैकुण्ठं तां तव पुण्यान्नीत्वा ते राजजन्मनि ९७।
दशरथाऽभिधाने च कलहा कैकयी तदा ।
भविष्यति तृतीया ते पत्नी धर्मांशभागिनी ॥९८॥
रथचक्रनाभिमध्ये हस्तं निक्षिप्य यास्यति ।
पातिव्रत्यपरां दृष्ट्वा त्वं तु मोहं गमिष्यसि ॥९९॥
वरदानाय सा चोक्ता भविष्यत्कालयोगि तत् ।
यथेच्छं दानमेवेयं न्यासवत् कारयिष्यति ॥१००॥
प्राप्ते रामस्याऽभिषेके राक्षसानां विनाशने ।
प्रेरिता विष्णुना रामे वन्यत्वमर्थयिष्यति ॥१०१॥
रावणादिविनाशश्च सीताछायामिषेण वै ।
भविष्यति ततस्त्वं च पुनर्वैकुण्ठमेष्यसि ॥१०२॥
इति ते कथितं सर्वं भाविवृत्तान्तवर्तनम् ।
पठनाच्छ्रवणाच्चास्य वैकुण्ठे गमनं भवेत् ॥१०३॥
शृणु लक्ष्मि! चौलराज्येऽभिषिक्तस्य नृपस्य तु ।
पट्टराज्ञ्याश्च नाऽद्यापि पुत्रे राज्याभिषेचनम् ॥१०४॥
स्वस्रीयस्येव तद्राज्ये जायते न्वभिषेचनम् ।
कलौ प्रजायाः शास्तौ च प्रधानः स्वसृजो भवेत् ॥१०५॥
अथापि शृणु कल्याणि! भक्तश्चौलनृपो यदा ।
स्वस्यैव हननं चक्रे विप्रास्तदा तु मुद्गलम् ॥१०६॥
जहसुश्च तिरश्चक्रुर्धिक्कारं च ददुस्तदा ।
असामर्थ्यं जगदुश्च राजहत्याकरं जगुः ॥१०७॥
श्रुत्वा श्रुत्वा मुद्गरोऽपि क्रद्धः प्रज्वलितान्तरः ।
यावत्प्रवर्तते कुण्डे पतिर्तु तावदेव तु ॥१०८॥
भूसुरैः सुदृढं सम्यग् धृतो न्यायेन वारितः ।
राज्ञ्या तद्योषिता चान्यैः रुद्धो बलात्प्रयत्नकैः ॥१०९॥
तदा क्रोधेन हस्ताभ्यां स्वजटामुदपाटयत् ।
शिखां जटां समुत्पाट्याऽऽजुहाव वह्निमण्डले ॥११०॥
तेन चाद्यापि तद्गोत्रे विशिखाः सन्ति भूसुराः ।
अथ ते निष्कृतिं चक्रुर्ययुः सर्वे निजालयम् ॥१११॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हरौ पातिव्रत्येन चोलराजविष्णुदासयोः सुशीलपुण्यशीलनामकविष्णुपार्षदरूपता, सौराष्ट्रीयकलहायाः कैकेयीरूपता, धर्मदत्तस्य दशरथजन्मादिवृतान्तकथननामा पञ्चविंशत्यधिकचतुश्शततमोऽध्यायः ॥४२५॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP