कृतयुगसन्तानः - अध्यायः २८५
लक्ष्मीनारायणसंहिता
श्रीलक्ष्मीरुवाच-
कृष्णनारायण स्वामिन्नाथ माधव केशव ।
पार्वतीप्रभयोर्नाथ लक्ष्मीमाणिक्ययोः पते ॥१॥
शुद्धैकादशका ग्राह्या व्रते विद्धा न वै कथम् ।
वद तत्कारणं पद्यापतेऽमृतपते हरे ॥२॥
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि ब्राह्मं जातं कथानकम् ।
विद्धैकादशिकायां वै प्रातस्तिष्ठति मोहिनी ॥३॥
वेधःपुत्री पुण्यहन्त्री तस्माद् ग्राह्या न सा व्रते ।
दशमीवेधरहिता सदोपोष्या व्रते मता ॥४॥
स्वर्गमोक्षप्रदा क्षेत्रराज्यपुत्रप्रदायिनी ।
कलत्रवित्तदाहार्दशरीरारोग्यदायिनी ॥५॥
क्षये वाऽप्यथवा वृद्धौ सम्प्राप्ते वा दिनोदये ।
उपोष्या द्वादशी पुण्या पूर्वविद्धा विवर्जयेत्॥ ६॥
पूर्वविद्धां प्रकुर्वाणो नरो धर्मं निकृन्तति ।
सन्ततेस्तु विनाशाय सम्पदां हरणाय च ॥७॥
पूर्वविद्धा पुरा दत्ता दानवेभ्यस्तु सा तिथिः ।
पूर्वविद्धतिथौ पुण्यं कृतं यात्यसुरेष्वथ ॥८॥
दत्तं जप्तं हुतं स्नातं सेवितं पूजनं हरेः ।
विद्धतिथौ क्षयं याति तमः सूर्योदये यथा ॥९॥
आसीद् रुक्मांगदो राजा सार्वभौमः सुराष्ट्रके ।
महावैष्णवधर्मस्थो हरिवासरतत्परः ॥१०॥
गजे धृत्वा पटहं वादयते हरिवासरे ।
भुनक्ति मानवो योऽद्य विष्णोरहनि मन्दधीः ॥११॥
स मे दण्ड्यश्च वध्यश्च निर्वास्यो नगराद् बहिः ।
पिता वा यदि वा भ्राता पुत्रो भार्या सुहृन्मम ॥१२॥
श्रीहरेर्वासरे भोक्ता निग्राह्यो दस्युवद् भवेत् ।
ददध्वं सात्वतेभ्यश्च मज्जध्वं तीर्थवारिषु ॥१३॥
ममेदं वचनं कृत्वा तिष्ठन्तु मम राष्ट्रके ।
एतत्प्रघुष्टं सम्मत्वा प्रजा भजन्ति केशवम् ॥१४॥
गच्छद्भिः श्रीहरेर्धाम्नो मार्गः संकुलितो जनैः ।
तद्राज्ये तु मृता ये ये ते यान्ति हरिमन्दिरम् ॥१५॥
यममार्गं न गच्छन्ति पृथ्वीतो मानवास्तदा ।
शून्यास्तु निरया जाताः पापिप्राणिविवर्जिताः ॥१६॥
भग्नो याम्योऽभवन्मार्गो द्वादशादित्यतापितः ।
सर्वे वै गरुडारूढा जना यान्ति हरेः पदम् ॥१७॥
लेख्यकर्मविनिवृत्तश्चित्रगुप्तोऽप्यथाऽभवत् ।
मानवा भजनात्पूर्वकर्माण्यपि विधूय वै ॥१८॥
प्रयान्ति वैष्णवं धाम चर्पटा व्यर्थतां गताः ।
देवानामपि नाकाद्यास्ते शून्या ह्यभवँस्तदा ॥१९॥
शून्ये त्रिविष्टपे जाते शून्ये च नरके तथा ।
नारदो धर्मराजं संगत्वा त्विदमुवाच ह ॥२०॥
कथं शून्यं यमक्षेत्रं न चायान्ति जनास्त्विह ।
चित्रगुप्तोऽपि निवृत्तः लिखत्येव न वै कृतिम् ॥२१॥
मायादंभसमाक्रान्ता दुष्टकर्मरता अपि ।
कथं नात्र समायान्ति कारणं त्वत्र मे वद ॥२२॥
यमो दैन्यान्वितः प्राह पृथ्व्यां रुक्मांगदो नृपः ।
सार्वभौमः साम्प्रतं स भक्तिमान् पुरुषोत्तमे ॥२३॥
प्रबोधयति पटहैर्न भोक्तव्यं हरेर्दिने ।
ये केचिद् भुंजते मर्त्यास्ते मे दण्ड्या ध्रुवं मताः ॥२४॥
तद्भयाद्धि प्रजाः सर्वा हरेर्दिनमुपासते ।
प्रयान्ति वैष्णवं लोकं व्याजेनैवाप्युपोषिताः ॥२५॥
तेन राज्ञा हरेर्भक्त्या शून्याश्च नरकाः कृताः ।
स्वर्गाश्चापि कृताः शून्या लेखका निष्क्रियाः कृता ॥२६॥
एकादश्युपवासेन मार्जितं लिखितं तु यत् ।
नश्यन्ति पूर्वपापानि ह्यभुक्त्वा हरिवासरे ॥२७॥
काष्ठमृगसमः सोऽहं जातोऽस्मि निष्फलक्रियः ।
त्यक्तकामोऽस्म्यहं त्वद्य लोकपालत्वमक्रियम् ॥२८॥
यास्यामि ब्रह्मलोको वै दुःखं ज्ञापयितुं स्वकम् ।
निर्व्यापारो नियोगी वेतनं धत्ते न जीर्यति ॥२९॥
स याति नरकं घोरं मानवो वा यमोपि वा ।
एवमुक्त्वा महालक्ष्मि! नारदं चित्रगुप्तकम् ॥३०॥
सह नीरवा ययौ ब्रह्मसदनं यमराट् स्वयम् ।
ददर्श च समासीनं मूर्ताऽमूर्तजनाऽऽवृतम् ॥३१॥
उपास्यमानं विविधैर्लोकपालैर्दिगीश्वरैः ।
वेदशास्त्रेतिहासाद्यैः सरःसरित्समुद्रकैः ॥३२॥
वृक्षवल्लीतृणसस्यैर्वनारण्यमरुद्गणैः ।
क्षेत्रभूभृत्स्थलीभिश्च मुनिदेवर्षिपितृभिः ॥३३॥
कलादिननिशावर्षयुगकल्पलयादिभिः ।
सुखदुःखाऽलाभलाभैर्नागसाक्षिगुणादिभिः ॥३४॥
गुणागुणैर्मायिकैश्चाऽनुक्तैरुपास्यते ह्यजः ।
तेषां मध्येऽविशत्सूर्यात्मजो भग्नहृदान्तरः ॥३५॥
विलोकयन्नधोभागं जातहानिं व्यदर्शयत् ।
निपपाताऽग्रतो ब्रह्मँस् त्राहि त्राहीति संवदन् ॥३६॥
विनिवृत्तोऽस्मि निष्कार्यः किं करोमि नियोजने ।
नाहं वेतनयोग्योऽस्मि राजपट्टं गृहाण ते ॥३७॥
इत्युक्त्वा राजपटकं निचिक्षेप विधेः पुरः ।
लेखिनीं चित्रगुप्तोऽपि चिक्षेप च विधेः पुरः ॥३८॥
म्लाननं यमं त्वाश्वासयामास पितामहः ।
विह्वलं भग्नहृदयं ह्यासने सन्न्यवेशयत् ॥३९॥
पप्रच्छ च शनैः केनाऽभिभूतोऽसि विवासितः ।
केनाऽपमार्जितो देवपटस्तवाऽपमानितः ॥४०॥
ब्रूहि सर्वमशेषेण दुःखं ते हृदये स्थितम् ।
इमे सर्वे तर्कयन्ति लोकान् रोदयते तु यः ॥४१॥
सोऽयं केन पराभूतो म्लानाऽऽस्योऽस्ति रवेः सुतः ।
अथवा सत्यगाथेयं द्रोग्धुर्वै परतो भयम् ॥४२॥
अथ श्रुत्वा यमः प्राह शृणु पूर्वपितामह ।
वेतनं यो विना कार्यं गृह्णाति कर्मयोजितः ॥४३॥
निपतत्यन्धकूपे सः यस्त्वन्यायेन जीवति ।
कर्मचारी नियोगं न करोति लोभकर्षितः ॥४४॥
प्रभोर्वित्तं समश्नाति स भवेत्काष्ठकीटकः ।
पश्चात् स नरकं याति यावत्कल्पशतत्रयम् ॥४५॥
स्वार्थमात्रपरो यस्तु स्वामिनं तु विलुम्पति ।
स भवेद् ग्रामखातेषु ह्याखुः कल्पशतत्रयम् ॥४६॥
नियोगी निस्पृहो भूत्वा स्वामिकार्यं करोति न ।
स्वामिवित्तं समश्नाति गृहे मार्जारतां व्रजेत् ॥४७॥
सोऽहं त्वया नियुक्तोऽस्मि दण्ड्याऽदण्ड्यान्प्रशासितुम् ।
पुण्येन पुण्यकर्माणं पापेन पापकारिणम् ॥४८॥
योजयामीति तत्राद्य रुक्मांगदेन भूभुजा ।
पराभूतोऽस्म्याधिकार्ये कृतोऽस्मि निष्क्रियोऽधुना ॥४९॥
रुक्मांगदभयाद् भूमिः सप्तद्वीपा ससागरा ।
न भुंक्ते वासरे विष्णोः सर्वपापप्रणाशने ॥५०॥
पापाश्च सत्क्रियाशून्याः सर्वधर्मविहीनकाः ।
प्रयान्ति वैष्णवं धाम ह्युपोष्य हरिवासरम् ॥५१॥
ये त्वागता यमपूर्यां तेऽपि वंशजपुण्यतः ।
यमपूरीं परित्यज्य धृत्वा पादं तु मूर्ध्नि मे ॥५२॥
प्रयान्ति वैष्णवं लोकं मत्क्षेत्रं शून्यतां गतम् ।
एतस्य व्रतपुण्येन शतं पितृपरम्पराः ॥५३॥
शतं मातामहपुंसां शतं भार्यापितुर्जनाः ।
शतं च भागिनेया वै भ्रातृभार्याजनाः शतम् ॥५४॥
शतं पितृभागिनेयः शतं मातृस्वसुर्जनाः ।
एकोत्तरं च प्रत्येकं यान्ति मोक्षपदं हरेः ॥५५॥
एतन्मे परमं दुःखं मार्जयित्वा लिपिं मम ।
अन्यकृतेन पुण्येन यान्ति त्वन्ये परं पदम् ॥५६॥
एकस्य पुण्यमाहात्म्यादन्यगोत्राः परं पदम् ।
छित्वा प्रयान्ति मत्पाशं तेन मे शिरसो रुजा ॥५७॥
न मे प्रयोजनं देव नियोगेनेदृशेन यत् ।
एकादश्युपवास्येकः कुलसप्तकमस्य तु ॥५८॥
प्रयाति श्रीहरेर्धाम त्यक्त्वा लोकं तु मामकम् ।
न यज्ञैर्न च तीर्थैर्वा व्रतैर्नापि जपैर्न च ॥५९॥
जलाग्निभृगुपतनैर्न गतिं याति तादृशीम् ।
यादृशीं याति तां हरेर्वासरस्य व्रतेन तु ॥६०॥
भूत्वा सोऽहं निराशोऽद्य तव पादसरोरुहम् ।
विज्ञप्तिं कर्तुमायातः कुरुष्वाऽत्र यथेप्सितम् ॥६१॥
यमक्षेत्रं यममार्गो यमशासनमित्यपि ।
मा स्युर्भग्ना यथा पूर्वपितामह तथा कुरु ॥६२॥
न दृष्टं न श्रुतं क्वापि त्वेतादृङ्न्यायवर्जितम् ।
स्वकर्मस्था विकर्मस्थाः शुचयोऽशुचयोऽपि वा ॥६३॥
उपोष्य वासरं विष्णोर्धाम यान्ति नृपाज्ञया ।
सोऽस्माकं तु महान् शत्रुर्निर्ग्राह्यः स्यान्न संशयः ॥६४॥
तेन वर्षसहस्रेण शासितं क्षितिमण्डलम् ।
अतिदुष्टा जना नीता वैष्णवं धाम तद्बलात् ॥६५॥
आरोपयित्वा गरुडे कृत्वा रूपं चतुर्भुजम् ।
नयत्यहर्निशं लोकमप्रमेयं पितामह ॥६६॥
यदि स्थास्यति दीर्घं सः समस्तं नेष्यतेऽमृतम् ।
एष दण्डः परो ह्येषस्तव पद्भ्यां विसर्जितः ॥६७॥
लोकपालत्वमस्माकं व्यर्थीकृतमनेन वै ।
धन्या सा जननी गर्भे धृतोऽयं मोक्षकृद् यया ॥६८॥
किमपत्येन जातेन मातृक्लेशकरेण वै ।
येन तृप्तिर्न तोषो न न सेवा न रिपुक्षयः ॥६९॥
नोद्धृतः पितृनिचयो विद्यया वा बलेन वा ।
यस्य न स्फुरते कीर्तिर्जनेष्वभिज्ञकेष्वपि ॥७०॥
वृथाशूला तु तन्माता कुक्षिप्रस्तररक्षिणी ।
वृथाजन्माऽपि षण्ढः स मातुर्जाठररोगवत् ॥७१॥
धर्मार्थकाममोक्षेषु विरोधी यो भवेत्सुतः ।
वरं तस्माद् गर्भनाशो दुःखं तत्र समाप्यते ॥७२॥
धर्महा यो भवेल्लोके वृथा तस्य तु जीवितम् ।
वीरप्रसूरिदानीं तु यया रुक्मांगदो नृपः ॥७३॥
जनितः श्रीहरेर्भक्तो मल्लिपेर्मार्जनाय वै ।
नैतादृशं कृतं पूर्वं केनापि परमार्चनम् ॥७४॥
सोऽहं कथं प्रजीवामि शृण्वँस्तत्पटहं सदा ।
लुम्पमानं मम मार्गं वृथावेतनपापभाग् ॥७५॥
इति निवेदयित्वैव विररामाऽतिदुर्मनाः ।
ब्रह्मा प्राह तदा लक्ष्मि शनैः सौरेर्विशोककृत् ॥७६॥
किं तत्रास्ति तवाश्चर्यं कथं वा खिद्यते भवान् ।
सद्गुणेषु कथं तापस्तव जातो यमाधिप ॥७७॥
यन्नामोच्चारणाद् यान्ति जना मोक्षपदं ध्रुवम् ।
तद्व्रतं समनुष्ठाय कथं नेयुः परं पदम् ॥७८॥
कृष्णनारायणस्यात्रैकः प्रणामः कृतो भवेत् ।
दशाश्वमेधफलदः फलं तु क्षयशालि तत् ॥७९॥
पुनर्जन्मप्रदं तच्च प्रणामस्त्वन्तकृज्जनेः ।
काशीगयाकुरुक्षेत्रैः किमस्त्यस्य प्रयोजनम् ॥८०॥
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षरद्वयम् ।
रजस्वलां तु चाण्डालीं गच्छन् भुञ्जन् सुरान्वितम् ॥८१॥
मासं कुर्वन्महच्चौर्यं तथापि स हि मोक्षभाग् ।
विष्णुलोकं प्रयात्येव विधूय पापसंचयम् ॥८२॥
यन्नामोच्चारणान्मोक्षः किमूत तदुपोषणे ।
यत्र संकीर्त्यते विचिन्त्यते कृष्णनरायणः ॥८३॥
अज्ञानाल्लीलया वाऽत्र हेलयाऽपि गृणन् हरिम् ।
शृण्वन्स्मरन्नुपहसन्नपि याति परां गतिम् ॥८४॥
कथं तस्य प्रभक्तेषु व्रतिष्वाशासनं तव ।
यस्त्वं न चूर्णितो बद्धः पाषदैस्तस्य वै प्रभोः ॥८५॥
तदस्माकं परं मानं रक्षितं त्वं न बुध्यसे ।
नियोगिना हि यत्नेन ज्ञातव्या राजकीयता ॥८६॥
राजानुग्रहपात्राणि सापराधान्यपि ध्रुवम् ।
नियोक्तव्यानि नैवेह नियोगी दण्ड्यतेन्यथा ॥८७॥
एवं पापा अपि कृष्णभक्तनियोगमाश्रिताः ।
प्रयान्ति श्रहिरेर्धाम मा तत्र शासनं कुरु ॥८८॥
अन्यभक्तैः सदोषैः पूरयिष्ये यम! ते गृहम् ।
न करिष्यामि साहाय्यं हरिभक्तैस्तु ते क्वचित् ॥८९॥
कृष्णनारायणभक्तनिग्रहो नैव विद्यते ।
तैः कृते ह्यवमाने तु तव नाऽस्मि सहायवान् ॥९०॥
चेत् ते साहाय्यमत्रापि करोमि यादि सूर्यज! ।
मम देहान्तदण्डः स्याद् भ्रष्टत्वं ब्रह्मणः पदात् ॥९१॥
तदात्र तव का वार्ता ततो मौनं गृहाण भो ।
प्रयान्तु ते हरेर्धाम यमक्षेत्रान्न रोधय ॥९२॥
भवत्वादित्यजन्मँस्ते रिक्तं क्षेत्रं हरेर्बलात् ।
मा शोकं व्रज चात्रार्थे काले त्विष्टं भविष्यति ॥९३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दशमीविद्धैकादशीव्रताऽकरणे महाभागवतरुक्मांगदनृपाख्याने एकादशीव्रतबलाद् यमपुरीरिक्तत्वे ब्रह्माणं प्रति यमस्य सशोकनिवेदनमितिनामा पञ्चाशीत्यधिकद्विशततमोऽध्यायः ॥२८५॥
N/A
References : N/A
Last Updated : March 29, 2021
TOP