कृतयुगसन्तानः - अध्यायः ३५६
लक्ष्मीनारायणसंहिता
श्रीलक्ष्मीरुवाच-
श्रुतं श्राद्धं प्रेतभोज्यं कृपया तव केशव! ।
ननु विप्राः प्रेतभागं दानं गृह्णन्ति भोजनम् ॥१॥
अनिष्टं गर्हितं चापि प्रेताऽऽवेशेन भोजनम् ।
भुक्त्वा प्रेतस्य विप्रस्तु मुच्यते केन कर्मणा ॥२॥
कथं स तारयेद् गर्ह्यो दातारं पुरुषोत्तम! ।
इति मे संशयं छिन्धि कृष्णनारायण प्रभो! ॥३॥
श्रीनारायण उवाच-
सम्यक् पृष्टं त्वया लक्ष्मि! संशयं नाशयामि ते ।
यस्तु यतिर्भवेद् विप्रो महाभागवतस्तु यः ॥४॥
महायोगी महाज्ञानी सिद्ध्यैश्वर्यादिभूषितः ।
महत्तपोधनो यश्च वेदशास्त्रविशारदः ॥५॥
ध्यानं च धारणा यस्य समाधिश्चापि विद्यते ।
त्रिकालज्ञो यमनियमादिसद्गुमण्डितः ॥६॥
षट्कर्मनिरतो नित्यं हर्याराधनतत्परः ।
प्रेतो यत्पद्रजःस्पर्शाद् दिवि देवोऽभिजायते ॥७॥
साधुशीलः सदा शुद्धो वह्निवच्छोधको भवेत् ।
स वै प्रेतान्नमाभुक्त्वा गृहीत्वा दानमित्यपि ॥८॥
कृत्वा कर्माणि प्रेतस्य न तद्दोषेण लिप्यते ।
पुंप्रकृत्योर्विवेकज्ञो ब्रह्मात्मैक्यपरायणः ॥९॥
पापक्षालनसामर्थ्यो न तद्दोषेण लिप्यते ।
न शर्वरीकृतं ध्वान्तं सूर्यं क्वचिद् विलुम्पति ॥१०॥
ध्वान्तं प्रकाशतां याति सूर्यकिरणसन्निधौ ।
प्रेतस्य प्रेतता तादृग्योगेन देवता भवेत् ॥११॥
प्रेतत्वं ब्रह्मयोगेन देवत्वे परिवर्तते ।
पापं पुण्यतमं स्याच्च समर्थे नास्ति दूषणम् ॥१२॥
यस्तु नात्मबलाढ्यो वा नापि ब्रह्मपरायणः ।
नापि ब्रह्मव्रतं पुष्टो न षट्कर्मादियोगवान् ॥१३॥
नाऽऽत्मज्ञो न विवेकज्ञः स विप्रो लिप्यते ह्यघैः ।
प्रेतभोजी प्रेत एव मलिनो जायते भुजेः ॥१४॥
स स्वदेहस्य शुद्ध्यर्थं कुर्यादेकमुपोषणम् ।
सन्ध्यां प्रातः स निर्वर्त्य कृत्वा चैवाग्नितर्पणम् ॥१५॥
तिलहोमं प्रकुर्वीत शान्तिमन्त्रान् पठन् द्विजः ।
प्राक्स्रोतसं नदं गत्वा स्नात्वा च पञ्चगव्यकम् ॥१६॥
मधुपर्कयुतं पीत्वा गृहं सम्मार्ज्य प्रोक्षयेत् ।
अग्निमुखान् सुराँस्तर्पयित्वा भूतबलिं चरेत् ॥१७॥
विप्रेभ्यो भोजनं दद्याद् गोदानं प्रसमाचरेत् ।
एवं यः कुरुते विप्रः स शुद्धो जायते ध्रुवम् ॥१८॥
एवं कृते ततो मृत्यौ स याति परमां गतिम् ।
अन्यथा कालधर्मं तु याते प्रेतान्नकोदरे ॥१९॥
प्रेत एव भवेत् सोऽपि निरये वासमाप्नुयात् ।
प्राप्नुयाद्राक्षसभावं ततो मुच्येत किल्बिषात् ॥२०॥
प्रायश्चित्तमनः कार्यं दातृभोक्तृसुखावहम् ।
गोहस्त्यश्वधनरत्नक्षेत्रदासीविभूषणम् ॥२१॥
प्रतिगृह्णन् समन्त्रं च प्रायश्चित्तं चरेत्तु यः ।
स शुद्धोत्तारयेच्चापि दातारं नात्र संशयः ॥२२॥
दैवे च जन्मनक्षत्रे श्राद्धकाले प्रपर्वसु ।
प्रेतकार्येषु सर्वत्र विप्रं षट्कर्मशालिनम् ॥२३॥
वेदविद्याव्रतस्नातं धर्मिष्ठं च तपस्विनम् ।
शीलसन्तोषसत्यादिगुणयुक्तं क्षमायुतम् ॥२४॥
अहिंसादियमयुक्तं भगवत्सुपरायणम् ।
पात्रं प्राप्य प्रकुर्याद्वै श्राद्धं दानं प्रपूजनम् ॥२५॥
स शुद्धस्तारयेत् सर्वानात्मानं चापि तारयेत् ।
न हि शिला शिला क्वापि तारयेत् तारकं विना ॥२६॥
न ह्यशुद्धः क्वचित्त्वन्यान् तारयेत्पापसंभृतः ।
शुद्धो वै तारयेच्चान्याँस्तस्मात् पात्रे प्रयोजयेत् ॥२७॥
शृणु लक्ष्मि! नृपः पूर्वं मेधातिथिरभून्महान् ।
अवन्त्यां त्वभवच्चन्द्रशर्मा तस्य पुरोहितः ॥२८॥
राजा गवां शतं दानं दत्वा भुंक्ते दिने दिने ।
राज्ञः पितुर्दिनं प्राप्तं वैशाखे श्राद्धकर्मणः ॥२९॥
आहूतान् ब्राह्मणान्नत्वा श्राद्धं कृत्वा विधानतः ।
पिण्डान्निर्वाप्य च श्राद्धे कल्पितान्नं ददौ बहु ॥३०॥
दानं वस्त्रविभूषाणां ब्राह्मणेभ्यो ददौ तथा ।
तन्मध्ये ब्राह्मणः कश्चिद्बलहीनोऽतिपापवान् ॥३१॥
व्यभिचारसमुत्पन्नः शूद्रबीजादिमिश्रितः ।
श्राद्धान्नं जगृहे तत्र तेन दोषेण भूभृतः ॥३२॥
पितरः पतिताः स्वर्गाद् भ्रष्टा वने सकण्टके ।
क्षुत्पिपासार्दिता नित्यं क्रन्दन्ति वै पुनः पुनः ॥३३॥
मेधातिथिर्दैवयोगाद् भ्रमणार्थं वनं गतः ।
तान्भ्रमतः स पप्रच्छ के भवन्तः सुदुःखिताः ॥३४॥
पितरस्तं तदा प्राहुरस्मद्वंशे हि विद्यते ।
नृपो मेधातिथिस्तस्य वयं स्मः पितरो वने ॥३५॥
पतिताः स्म दिवो भ्रष्टाः श्राद्धदोषेण भूभृतः ।
श्राद्धान्नं त्वर्थितं तेन पापिष्ठब्रह्मबन्धवे ॥३६॥
कर्मभ्रष्टव्यवायोत्थनाममात्रद्विजाय वै ।
तेनैव कर्मदोषेण नरकं गन्तुमिप्सवः ॥३७॥
तत्र दुःखं महद्भुक्त्ता पुनर्गच्छामहे दिवम् ।
विप्रेभ्यस्तु गवां दानात् तत्पुण्येन पुनर्दिवम् ॥३८॥
गमिष्यामः किन्तु तत्र नास्त्यन्न तृप्तिदायकम् ।
इति श्रुत्वा नृपः प्राह मेधातिथिरहं हि सः ॥३९॥
भवतां तारणार्थं किं पुनः कार्यं वदन्तु मे ।
पितरः प्राहुरेनं ते यथा तृप्तिर्भवेद्धि नः ॥४०॥
तथा श्राद्धं पुनः कार्यं भोजनीया द्विजोत्तमाः ।
तेषां तद्वचनं श्रुत्वा मेधातिथिरगाद् गृहम् ॥४१॥
आहूतवान् द्विजान् साधून् वेदपाठकृतश्रमान् ।
पुण्यान् धर्मपरान् क्षान्तान् सुशीलान् सुतपस्विनः ॥४२॥
यमैश्च नियमैर्युक्तान्महाभागवतान्सतः ।
राजा श्राद्धं चकाराथ पिण्डान्निर्वाप्य सर्वथा ॥४३॥
ब्राह्मणान् भोजयामास दक्षिणाभिः प्रपूज्य च ।
नत्वा विसर्जयामास ततः स बुभुजे नृपः ॥४४॥
ततो वनं स्वयं यातो दृष्टवाँश्च स्वकान् पितॄन् ।
हृष्टान्पुष्टान् बलैर्युक्तान् दिवं गन्तुं समुद्यतान् ॥४५॥
दृष्ट्वाऽतिमुमुदे भूभृत् प्राहुश्च पितरो नृपम् ।
स्वस्ति तेऽस्तु गमिष्यामः स्वर्गलोकं प्रति नृप! ॥४६॥
कदापि नैव प्रदातव्यं कुपात्रायाऽतिपापिने ।
दैवं पित्र्यं च वा तत्र दत्तं निष्फलमेव यत् ॥४७॥
दैवे पित्र्ये सुपात्रं चेद् ब्राह्मणो नैव लभ्यते ।
संकल्पितं तदन्नं तु गोभ्यो देयं यथाविधि ॥४८॥
गवामभावे नद्यां वा क्षिपेदन्न प्रयत्नतः ।
अपात्राय न दातव्यं नास्तिकाय गुरुद्रुहे ॥४९॥
गोलकाय न दातव्यं कुण्डाय संकराय च ।
इत्युक्त्वा पितरः सर्वे गताः स्वर्गं विमानकैः ॥॥५०॥
मेधातिथिर्गृहं प्रायाद् ज्ञात्वा पात्रबलाबले ।
तस्माल्लक्ष्मि! धर्मनिष्ठे! एकोऽपि ब्राह्मणोत्तमः ॥५१॥
सन्तारयति दुर्गेभ्यो विषयेभ्यो न संशयः ।
तस्माच्छ्राद्धे भोजनीयाः सन्तो भागवता द्विजाः ॥५२ ॥
मासे मासेऽथवा पितृपक्षे पात्रतपोधनाः ।
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ॥५३॥
तारका भोजनीया वै ब्रह्मबोधपरा जनाः ।
साध्व्यः सत्यो भोजनीया ब्रह्मचर्यपरास्तथा ॥५४॥
इति ते कथितं लक्ष्मि! सत्पात्रं तारयेत् पितॄन् ।
असत्पात्र भ्रंशयेद्वै प्रायश्चित्तं ततश्चरेत् ॥५५॥
श्रीलक्ष्मीः प्राह तच्छ्रुत्वा कृष्णनारायणं हरिम् ।
प्रेताः स्वकर्मभिर्यान्ति योन्यन्तरं शरीरिणः ॥५६॥
पशुपक्षिमनुष्याद्याः कथमागत्य भुंजते ।
क एते पितरः कृष्ण! श्राद्धं भोक्ष्यन्त्युपस्थिताः ॥५७॥
मृताः केचित्तु नरके यमपाशवशंगताः ।
केचित्तु देववर्गे वै कुटुम्बिसुवशंगताः ॥५८॥
केचित् कर्मवशाल्लोके चतुरशीतियोनिषु ।
देहिनो वशगास्तत्र बन्धने पतिताः सदाः ॥५९॥
श्राद्धे शक्ता न चाऽऽगन्तुं कथं श्राद्धं प्रभुंजते ।
इति मे संशयं नाथ! सम्मार्जय विरोधिनम् ॥६०॥
वंशपरम्परां श्राद्धं कर्तव्यं येन रक्ष्यते ।
युगे युगान्तरे चापि कर्तव्यं येन रक्ष्यते ॥६१॥
इति श्रुत्वा महालक्ष्मीवाक्यं कृष्णनरायणः ।
संशयं मार्जयन् लक्ष्म्याः प्रोवाच परमेश्वरः ॥६२॥
शृणु लक्ष्मि! प्रभोक्तारः पितृयज्ञेषु सर्वदा ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥६३॥
त्रय एते भवन्त्येव श्राद्धभोक्तार ईश्वराः ।
पिता तु ब्रह्मदैवत्यो वेधोगात्राद्विनिर्मितः ॥६४॥
पितामहो विष्णुदेवो विष्णुगात्राद्विनिर्मितः ।
प्रपितामहो रुद्रेशो रुद्रगात्राद्विनिर्मितः ॥६५॥
श्राद्धे नियोजितास्तेऽत्र ब्रह्मविष्णुमहेश्वराः ।
प्रथमं ब्रह्मणोंऽशाय दद्याच्छ्राद्धं सपिण्डकम् ॥६६॥
द्वितीयं विष्णोरंशाय दद्याच्छ्राद्धं सपिण्डकम् ।
तृतीयं रुद्रस्यांशाय ददेच्छ्राद्धं सपिण्डकम् ॥६७॥
पित्रे पितामहायाऽथ हि प्रपितामहाय च ।
त्रिदेवरूपतापन्नः स्वयं नारायणो विभुः ॥६८॥
यत्र मृता जनुं प्राप्तास्तत्रान्तर्यामिभावतः ।
व्यापकः संस्थितः कृष्णस्तृप्तिं तान्प्रापयत्यपि ॥६९॥
एवं विप्रेषु स कृष्णोऽन्तर्यामी सत्सु वर्तते ।
श्राद्धकाले यदुद्देशस्तद्रूपो भवति प्रभुः ॥७०॥
श्राद्धं पिण्डं गृहीत्वा च प्रेतो यत्र गतो भवेत् ।
तत्र प्रापयति तस्मै कृष्नारायणो हरिः ॥७१॥
इति विद्धि महालक्ष्मि! योन्यन्तरगतार्थदः ।
अहमेव भवाम्यत्र श्राद्धे पित्रादिरूपकः ॥७२॥
अथान्यच्च शृणु लक्ष्मि! विस्तरात्प्रवदामि ते ।
केचिद् यजन्ति वै ब्रह्मयज्ञं मूर्तौ सतां मुखे ॥७३॥
केचिद् यजन्ति वै देवयज्ञं कुण्डे हुताशने ।
केचिद् यजन्ति वै भूतयज्ञं पशौ गवां मुखे ॥७४॥
केचिद् यजन्ति मनुजक्रतु नरे द्विजानने ।
केचिद् यजन्ति वै पितॄन् जलेऽग्नौ भ्वां द्विजानने ॥७५॥
सर्वे ते मयि वर्तन्ते सत्यमेतद् ब्रवीमि ते ।
किञ्च सर्वविधे यागे वह्निर्मुख्यो मुखात्मकः ॥७६॥
वह्निमुखेन चाश्नन्ति प्रेतपितॄषिदेवताः ।
अहं च भगवान् कृष्णश्चाद्मि वह्निमुखेन वै ॥७७॥
कुण्डस्थाऽग्निरहं चास्मि दक्षिणाग्निरहं तथा ।
अहं चाहवनीयाग्निः पावनः पावकस्तथा ॥७८॥
वैश्वदेवाग्निरहं वै गार्हपत्योऽप्यहं तथा ।
बार्हस्पत्योऽप्यहं चैवाऽऽवसथ्योऽप्यहमेव च ॥७९॥
तन्मुखोऽहं त्रिदेवात्मा भुजे सर्वक्रतुष्वपि ।
पितृयज्ञे ब्रह्ममुखे भुंजेऽहं तत्त्रयात्मकः ॥८०॥
श्रोत्रियं धर्मशीलं च महाभागवतं द्विजम् ।
श्राद्धे संभोजयेज्जीतेन्द्रियं सन्तुष्टमेव च ॥८१॥
दत्वा हुताशनायाऽऽदौ देवतीर्थस्वरूपिणे ।
पश्चाद् विप्रमुखे दद्यात् पित्रे पितामहाय च ॥८२॥
वै प्रपितामहायापि स्मृत्वा दद्यात्पुनः पुनः ।
प्रच्छन्नं भोजयेद् विप्रं तत्र पितॄन् समाह्वयेत् ॥८३॥
पिण्डास्त्रयः प्रदातव्याः सह व्यञ्जनसंयुताः ।
अपसव्येन दातव्यं मासि मासि तिलोदकम् ॥८४॥
परमात्मा शरीरस्थो देवतानां वहाम्यहम् ।
एवं दत्तेन प्रीयन्ते पितरश्च न संशयः ॥८५॥
त्रयो देवास्त्रय एव पितरो हरिनिःसृताः ।
पितृदेवा भविष्यन्ति भोक्तारश्च युगे युगे ॥८६॥
आयुः कीर्तिं बल तेजो धनं पुत्रान् पशून् स्त्रियः ।
ददते पितरस्तस्य त्वारोग्यं पिण्डदायिनः ॥८७॥
विप्रे संभोजिते तृप्ते तिर्यङ्नारकमानुषाः ।
यत्र क्वापि स्थिताश्चान्ये तृप्यन्ति श्राद्धतर्पिताः ॥८८॥
ते सात्त्विकं शुक्लमार्गं तृप्ता यान्ति दिवं परम् ।
पुनरन्यत् प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ॥८९॥
अज्ञानतमसा व्याप्ताः पापा भ्रष्टा मृता जनाः ।
स्नेहपाशशतैर्बद्धाः पच्यन्ते नरकेऽशुचौ ॥९०॥
तेषां पुत्राश्च पौत्राश्च कदाचिदपि वंशजाः ।
मुञ्चन्ति जलबिन्दूँश्च अमां प्राप्य जलाशये ॥९१॥
तेनैव भाविता तृप्तिस्तेषां निरयगामिनाम् ।
तर्पणं श्राद्धमेवापि पिण्डान् तिलोदकं तथा ॥९२॥
समर्प्यं तारयेत् पितॄन् द्विजातिर्भक्तिभावतः ।
देयो नीलो वृषश्चापि नरकार्तिविनाशनः ॥९३॥
नीलषण्डस्य लांगूले तोयमप्युद्धरेद् यदि ।
षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः ॥९४॥
उद्धृतो यदि पंकस्य पिण्डः शृंगेण तेन वै ।
उद्धृताः पितरस्तेन सोमलोकं समापिताः ॥९५॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
सोमलोकेषु मोदन्ते क्षुत्तृड्भ्यां तु विवर्जिताः ॥९६॥
एवं गृहस्थधर्मोऽयं पुत्रपौत्रादिभिः कृतः ।
श्राद्धात्मकः सतृष्णानामुद्धाराय विनिर्मितः ॥९७॥
पिपीलिकादिभूतानि जंगमाश्च विहंगमाः ।
स्थावराश्चोपजीवन्ति गृहस्थेषु न संशयः ॥९८॥
मासि मासि तु ये श्राद्धं प्रकुर्वन्ति गृहाश्रमे ।
तिथौ पर्वणि सद्वारे स्वपितॄँस्तारयन्ति ते ॥९९॥
पितरो निर्गतास्ते वै ब्रह्मविष्णुशरीरगाः ।
पिता पितामहश्चैव तथैव प्रपितामहः ॥१००॥
एवं क्रमेण ते पश्चात् काश्यपा देवता इति ।
समभवँस्ततस्ते वै श्राद्धेषु विनियोजिताः ॥१०१॥
पितृयज्ञे विप्रमुखे दत्तं वै केवलं तदा ।
तदा त्वजीर्णतां प्राप्ताः पितरोऽजीर्णपीडिताः ॥१०२॥
सोमेन सहिता जग्मुः प्रणम्य च पितामहम् ।
प्रोचुर्वयं ह्यजीर्णेन पीडिता वारणं कुरु ॥१०३॥
येन नश्यत्यजीर्णं च पितॄणां च सुखं भवेत् ।
ब्रह्मा प्राह तदा योऽस्ति शाण्डिल्यस्य सुपुत्रकः ॥१०४॥
धूम्रकेतुर्विभावसुस्तेजस्वी जीर्णताकरः ।
श्राद्धे तु प्रथमं तस्य दातव्यं मानुषेषु वा ॥१०५॥
सह तेनैव भोक्तव्यं पितृपिण्डविसर्जितम् ।
तावत्स्मृतो हव्यवाहः सर्वभक्षो हुताशनः ॥१०६॥
योजितः पञ्चयज्ञेषु ब्रह्मणा सर्वकर्मसु ।
भोक्तव्यं प्रथमं वह्ने! पितृपिण्डविसर्जितम् ॥१०७॥
त्वया भुंक्ते प्रभोक्ष्यन्ति देवताः पितरस्त्विमे ।
श्राद्धं द्वितीयं भोक्तव्यं सहैव वह्निपितृभिः ॥१०८॥
तृतीयं पिण्डदानं तु सोमपितृहुताशनैः ।
मिलित्वैव प्रभोक्तव्यं ह्यजीर्णं न भविष्यति ॥१०९॥
इत्युक्ताः पितृयज्ञे ते भुंजते सहिता सदा ।
वह्निः पिता पितामहः प्रपितामह एव च ॥११०॥
सोमश्चेति भुंजते वै पितृदेवहुताशनाः ।
अपांक्तेयास्तदा विप्रा भोजनीया न वै क्वचित् ॥१११॥
अपांक्तेयान् प्रवक्ष्यामि कर्मतो हीनतां गतान् ।
नपुंसकाश्चित्रकाराः पशुपाला विनिन्दकाः ॥११२॥
स्वर्णचौरास्तथा काणाः कुष्ठिनो नास्तिकास्तथा ।
नर्तका गायकाश्चापि तथा नाटकजीविनः ॥११३॥
वेदविक्रयिणश्चापि सर्वयाजकयाजकाः ।
भृत्यकर्मकरा राज्यकिंकराः सकरास्तथा ॥११४॥
संस्कारहीनाः पतिता शूद्रकर्मोपजीविनः ।
गणका ग्राम्ययाजिनो लेखका दांभिकास्तथा ॥११५॥
सर्वकर्मकरा भ्रष्टा मद्यमांसव्यवायिनः ।
अन्ये ये दूषितास्ते वै द्विजरूपैस्तु राक्षसाः ॥११६॥
तान् भुंजतः प्रपश्यन्तः पितरो दुःखमाप्नुयुः ।
प्रायश्चित्तं ततः शीघ्रं कुर्याच्छ्राद्धं पुनश्चरेत् ॥११७॥
घृतं तु जुहुयादग्नावादित्यं त्ववलोकयेत् ।
पुनरावपनं कृत्वा पितरं च पितामहान् ॥११८॥
दद्याद् गन्धं तथा धूपं दीपमर्घ्यं तिलोदकम् ।
विप्राय भोजयेच्चापि तेन पितृप्रतोषणम् ॥११९॥
यस्तु विप्रो मृतान्नं न भुनक्ति शुद्धिमान् सदा ।
तस्मै दानं प्रदातव्यं वैश्वदेवेषु तण्डुलाः ॥१२०॥
गोधूमा घृतमित्यादि शर्करा शाकमित्यपि ।
दुग्धं दधि तथा वस्त्रं श्राद्धेषु तं न योजयेत् ॥१२१॥
प्रेतान्नं भुंजमानानां प्रायश्चित्तं विधीयते ।
माघमासे द्वादश्यां तु सर्पियुक्तं सुपायसम् ॥१२२॥
लिहेद्वै मधुना सार्धं देहशुद्ध्यर्थमित्यथ ।
सवत्सां कपिलां दद्यादात्मनः शुद्धये तथा ॥१२३॥
तीर्थे स्नायाच्च गायत्रीसहस्रं प्रजपेत्तथा ।
यद्वा देहात्मनोः शुद्धिकामः स श्राद्धमाचरेत् ॥१२४॥
स्नात्वा भूमिं प्रविलिप्य मन्त्रयेद् ब्राह्मणोत्तमम् ।
अमायां वै महालक्ष्मि! दन्तकाष्ठं न घर्षयेत् ॥१२५॥
हिंसितो यद्भवेत् सोमो देवताः पितरस्तथा ।
प्रभाते तेन विप्रेण श्मश्रुनखादिछेदनम् ॥१२६॥
कारणीयं स्नानमभ्यञ्जनं पक्वान्नमित्यपि ।
मध्याह्ने समये प्राप्ते विप्राय पाद्यमर्पयेत् ॥१२७॥
गृहान्तरं नयेद् दद्यादासनं चार्घ्यमुत्तमम् ।
गन्धमाल्यैर्धूपदीपैः सम्पूज्य सलिलं तिलान् ॥१२८॥
दत्वा पात्रं भोजनार्थं विप्राग्रे स्थापयेच्छुभम् ।
भस्मना मण्डलं कुर्यात् पंक्तिदोषनिवारकम् ॥१२९॥
अग्नौ हुत्वा ब्राह्मणाय मिष्टान्नं परिवेषयेत् ।
यथासुखेन भोक्तव्यमिति ब्रूयाद् द्विजं प्रति ॥१३०॥
तृप्तं ब्राह्मणं कृत्वा दद्याद्वै विकिरं ततः ।
उत्तरीयासनं दत्वा पिण्डप्रश्नं तु कारयेत् ॥१३१॥
टक्षिणाभिमुखो भूत्वा दर्भानास्तीर्य भूतले ।
पिण्डदानं प्रकुर्वीत पित्रादित्रितये तथा ॥१३२॥
पिण्डानां पूजनं कुर्यात् तन्तुवृद्ध्यै यथाविधि ।
ब्राह्मणस्य च हस्ते तु दद्यादक्षयमात्मवान् ॥१३३॥
दक्षिणाभिः प्रतुष्यापि स्वस्तिवाच्यं विसर्जयेत् ।
पिण्डास्त्रयस्तु तत्रैव यावत्तिष्ठन्ति भूतले ॥१३४॥
आप्यायमानाः पितरस्तावत् तिष्ठन्ति वै गृहे ।
उपस्पृश्य शुचिर्भूत्वा दद्याच्छान्त्युदकानि च ॥१३५॥
प्रणम्य वैष्णवीं भूमिं काश्यपीमक्षयां ततः ।
भक्षयेत्प्रथमं पिण्डं पत्न्यै देयं तु मध्यमम् ॥१३६॥
तृतीयमुदके दद्याद् विसृजेत् पितृदेवताः ।
प्रणमेदेवं विधिना तुष्यन्ति पितृदेवताः ॥१३७॥
दीर्घायुष्यं प्रयच्छन्ति पुत्रपौत्रधनानि च ।
शृणु लक्ष्मि! मधुपर्कं दद्यात्प्राणप्रयाणके ॥१३८॥
मधुपर्कः पुरुषो वै मे दक्षांगाद् विनिःसृतः ।
मया स सर्वकार्येषु भवमोक्षाय योजितः ॥१३९॥
मधुपर्को भवेद्यत्र यस्य वा तत्र मोक्षणम् ।
यत्र नास्ति मधुपर्कस्तत्र मुक्तिर्न विद्यते ॥१४०॥
मध्वेवं दधि सर्पिश्च कुर्यात्त्वेवं समं त्रिकम् ।
दद्याद् विप्राय पुण्यार्थं शवाय मोक्षणाय च ॥१४१॥
श्राद्धादेः कर्मणश्चान्ते शान्तिपाठं प्रकारयेत् ।
राधेशाय रमेशाय लक्ष्मीशाय च ते नमः ॥१४२॥
माणिकीशाय पार्वतीश्वराय व्यापिने नमः ।
प्रभेशायाऽनादिकृष्णनारायणाय ते नमः ॥१४३॥
दिशः पश्य त्वधः पश्य व्याधिभ्यो रक्ष नित्यशः ।
प्रसीद स्वस्य राष्ट्रस्य राज्ञः सर्वबलस्य च ॥१४४॥
गर्भिणीनां च वृद्धानां व्रीहीणां च गवां तथा ।
ब्राह्मणानां च साधूनां शान्तिं कुरु शुभं कुरु ॥१४१॥
अन्नं कुरु सुवृष्टिं च सुभिक्षमभयं कुरु ।
विभो! प्रवर्धतां राष्ट्रं शान्तिर्भवतु नित्यशः ॥१४६॥
देवानां मनुजानां च भक्तानां कन्यकासु च ।
पशूनां सर्वभूतानां शान्तिर्भवतु नित्यशः ॥१४७॥
एवं शान्तिं पठित्वा तु मधुपर्कं प्रयोजयेत् ।
सर्पिर्मधुदधीन्येव समे पात्रे ह्युदुम्बरे ॥१४८॥
अलाभे मधुनश्चात्र गुडेन सह मिश्रयेत् ।
घृताऽलाभे महालक्ष्मि! लाजैः सह विमिश्रयेत् ॥१४९॥
अलाभे चापि दध्नस्तु क्षीरेण सह मिश्रयेत् ।
दधिं क्षौद्रं घृतं चैव कारयेत् तत्समं च वा ॥१५०॥
समर्पयामि देवेश कृष्ण! सर्पिर्घृतं मधु ।
सर्वेषामप्यलाभे तु जलमेव ददेन्मुखे ॥१५१॥
यो वै प्राणान्प्रमुञ्चेत्तु मधुपर्कं ददेन्मुखे ।
अयं पवित्रो विमलः सर्वकामप्रपूरकः ॥१५२॥
शृणोति मधुपर्कादेराख्यानमेतदुत्तमम् ।
याति दिव्यां परां मुक्तिं ममानुग्रहकारणात् ॥१५३॥
राजद्वारे श्मशाने वा भये च व्यसने तथा ।
ये पठन्ति त्विमां शान्तिं शीघ्रं स्वेष्टं भविष्यति ॥१५४॥
अपुत्रो लभते पुत्रमभार्यस्तु प्रियां लभेत् ।
लभेताऽपतिका कान्तं बद्धो निर्बन्धनो भवेत् ॥१५५॥
अस्य संस्मरणाच्चापि श्राद्धादिफलभाग् भवेत् ।
इति ते कथितं लक्ष्मि! श्राद्धादिहार्दमुत्तमम् ॥१५६॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मथुरातीर्थमाहात्म्ये श्राद्धभोक्तुः प्रायश्चित्तेन पावित्र्यम्, अवन्तीनगर्या मेधातिथिराज्ञः कुपात्रब्राह्मणभोजने पितॄणां पातित्यं सुपात्रे श्राद्धकरणे पुनः पितॄणां स्वर्गामित्वम्, पितुः पितामहस्य प्रपितामहस्य ब्रह्मविष्णुमहेशगात्रोत्पन्नता, सोमपितृहुताशनाः साधौ विप्रे च सहभोजिनः, नीलवृषदानम्, मधुपर्कदानम्, शान्तिपाठश्चेत्यादिनिरूपणनामा षट्पंचाशदधिकत्रिशततमोऽध्यायः ॥३५६॥
N/A
References : N/A
Last Updated : March 31, 2021
TOP