संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १४२

कृतयुगसन्तानः - अध्यायः १४२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
वामनं श्रीहरेः रूपं यन्निमित्तमभूत् प्रिये! ।
तत्सर्वं सुस्फुटं तेऽहं कथयामि यथातथम् ॥१॥
सौराष्ट्रे पश्चिमे प्रान्ते रैवताद्रिर्महान्गिरिः ।
यत्र देवगणाऽऽवासाः सिद्धा वसन्ति लक्षशः ॥२॥
योगिन्यश्चापि तीर्थानि निवसन्ति निरन्तरम् ।
प्रह्लादस्याऽभवत् पुत्रो विरोचन इतीरतः ॥३॥
तस्य पुत्रो महाबाहुर्बली राजाऽभवद्बली ।
तेन यज्ञाः कृताः श्रेष्ठा बहवो भिन्नभूमिषु ॥४॥
एको यज्ञः कृतस्तत्र रैवताद्रितलस्थले ।
यत्रागत्य स्वयं देवो वामनोऽभ्यर्थयद्बलिम् ॥५॥
तत्कथां परमां दिव्यां पावनीं मोक्षदायिनीम् ।
कथयामि महालक्ष्मि ! तृप्तिर्नास्ति कथामृते ॥६॥
यत्र दामोदरं तीर्थं नारायणह्रदस्तथा ।
किमन्यैर्बहुभिस्तीर्थैस्तयोः स्नात्वा प्रमुच्यते ॥७॥
सिंहारण्यस्योत्तरे वै व्याघ्रारण्यमये स्थले ।
सोमनाथस्य सान्निध्ये ह्युदयान्तो गिरिर्महान् ॥८॥
यः कृतस्मर इत्युक्तो वाडवानलभस्मितः ।
तस्यैव पार्श्वभागे तु रेवताख्यो गिरिः स्मृतः ।
श्रीहरेः कौस्तुभमणेः खण्डोऽयं स्थूलतां गतः ॥९॥
रैवताख्यो मनुस्तत्र तदध्यात्मतया स्थितः ।
सोऽयं वै रैवतगिरिर्दिव्यः कृष्णहृदि स्थितः ।
महतो हस्तिनः कण्ठे स्वर्णघंटाद्वयं यथा ॥१०॥
पूर्णिमायास्तथा सायं चालम्बेते शशी रविः ।
स्वर्गं यावत् तदुच्छ्रायोऽन्तरीक्षं कटिसंश्रितम् ॥११॥
दत्तात्रेयादयः सिद्धा वसन्ति शिखरेऽस्य वै ।
शिखराणां कुक्षिभागे वसन्ति सर्वदेवताः ॥१२॥
पर्वतस्य कटिभागेऽर्हन्नाथगौतमादयः ।
वसन्ति भगवन्तो वै मुनयः साधुयोगिनः ॥१३॥
पर्वतस्योरुभागे तु गान्धर्वाः किन्नरास्तथा ।
विद्याधरास्तथा सौम्याः किंपुरुषा वसन्ति हि ॥१४॥
पर्वतस्य जानुभागे योगिन्यः शंकरप्रियाः ।
देव्यश्च कृत्तिकाश्चैवाऽऽभीराण्यः साध्विकास्तथा ॥१५॥
जंघाभागे पर्वतस्य कामधेनुकुलानि वै ।
देवाश्च देवकरिणः श्वेताश्चतुःसुदन्तकाः ॥१६॥
सिंहा व्याघ्रास्तथा दैवा नरसिंहकुटुम्बिनः ।
वसन्ति व्योमगतयो दिव्याः सूर्यसमप्रभाः ॥१७॥
पादस्थाने रैवतस्य गोप्यः कृष्णप्रियाः शुभाः ।
दिव्यास्तथापि मानुषरूपेण विचरन्ति हि ॥१८॥
मुचुकुन्दस्य महती गुहा पातालसंचरा ।
राधाया मन्दिरं रम्यं स्वर्णरक्षानदीगतम् ॥१९॥
रुक्मांगदादिराज्ञां वै राजधानी च वर्तते ।
पत्नीव्रताख्यविप्रस्य चमत्कारा भवन्ति च ॥२०॥
यत्रारण्यानि चूतानां क्षीरिकाणां वनानि च ।
कर्मदानां टिम्बुरूणां जाम्बूनां प्रवणानि च ॥२१॥
सीताफलानां सौवर्णकदलीनां वनानि च ।
इक्षूणां शर्कराकन्दमूलानां प्रस्थलानि च ॥२२॥
बोरियाख्यमहास्थल्यां देव्यः स्नान्ति वसन्ति च ।
नारायणहृदस्थल्यां योगिन्यो विचरन्ति च ॥२३॥
देव्यस्तु काष्ठवाहिन्योऽरण्ये तीर्थे भ्रमन्ति च ।
पारिजातप्रसूनानां कुन्दानां कल्पशाखिनाम् ।
वनान्यत्र भवन्त्येव सुगन्धशतयोजनम् ॥२४॥
परितः पवनो नीत्वा करोति सुरभिस्थलीः ।
अग्नेरुष्णाः प्रकुण्डाश्च क्वचिच्छैत्यजलाशयाः ॥२५॥
सरितः स्वर्णरूप्याभा निर्मलोदकसंचराः ।
सरसा ओषधिमिश्ररसवत्यो वहन्ति च ॥२६॥
यज्जलानि जनाः पीत्वा देवा देव्यो भवन्ति च ।
पार्थिवा अपि नृनार्यो तज्जलौषधिभोगिकाः ॥२७॥
षोडशाब्दाः सदा हृष्टपुष्टाः कामातिगोज्ज्वलाः ।
चन्द्रमुख्यो विलसन्ति स्वर्गभ्रमणकारिकाः ॥२८॥
नवरंगपनसादिफलानां नाल्पता क्वचित् ।
खर्जूराणां श्रीफलानां नारीकेलाऽमृतात्मनाम् ॥२९॥
आमलकत्रिफलानां संघात्संघा भवन्ति वै ।
गुंद्रकाणामिङ्गुदीनां शिम्बिपत्रफलत्वचाम् ॥३०॥
वृक्षाणां वंशमालानां बिल्वतिन्दुकशाखिनाम् ।
उदुम्बरवटसर्जतिलकानां वनानि च ॥३१॥
तुलसीनां वनान्यत्र देवदारुप्रशाखिनाम् ।
द्राक्षाणां नागवल्लीनां तिक्तानां वल्लयस्तथा ॥३२॥
मालतीमल्लिकाश्वेताजीवन्तीस्वर्णवल्लयः ।
फलपुष्पपत्रसम्पद्विलसन्त्योऽत्र भान्ति वै ॥३३॥
स्थले स्थल्यां निर्इारणा जलानां प्रवहन्ति च ।
स्वर्णकारास्ताम्रकाराः कायाकल्पकरास्तथा ॥३४॥
क्षुत्तृट्विनाशिकाश्चापि वल्ल्यो वृक्षा भवन्ति च ।
कुण्डा दिव्यास्तत्र सन्ति स्नानेनाऽदृश्यता भवेत् ॥३५॥
स्वर्णजलास्तथा कुण्डा लौहं स्वर्णं भवेज्जलात् ।
पत्रतृणानि वै सन्ति छिन्नो देहः सुसीव्यते ॥३६॥
रक्तं घट्टं भवत्येव संजीवनी च वर्तते ।
जलकुण्डास्तथा सन्ति स्नात्वा नारी नरो भवेत् ॥३७॥
नरो वा जायते नारी ततस्तु पर्वते गतिः ।
नान्यथा इति सामर्थ्यं रैवताद्रौ समीक्ष्यते ॥३८॥
क्वचित्कुण्डे कृतस्नानात् पक्षौ भवत उड्डने ।
पुनः स्नानान्मानवत्वं यथावस्थं भवेन्ननु ॥३९॥
यद्द्रोण्यां योनिदानेन नार्यो भवन्ति देवताः ।
नरा लिंगप्रदानेन जायन्ते सिद्धयोनयः ॥४०॥
क्वचिदोषधयोगेन जनः सिंहवपुर्भवेत् ।
मार्गयित्वा हरिणादीन् पुनश्च मानवो भवेत् ॥४१॥
कामरूपजलाः कुण्डाः स्वल्पकाः सन्ति पर्वते ।
यथेच्छति तथारूपं जायते स्नातुरत्र वै ।
तत्रत्यास्तु प्रजाः सर्वा स्वर्गान्न्यूनं न भुंजते ॥४२॥
वनानि विविधान्येव कामपूरणकानि हि ।
सर्वदा फलवन्त्येव पत्रपुष्पादिमन्ति च ।
मेघास्तत्र सदा मध्ये श्रोण्यां वसन्ति वृष्टिदाः ॥४३॥
विद्युतश्च सदा रात्रौ शनैस्तेजो ददत्यमुम् ।
ताराः स्थिराः क्वचित्तत्र वसन्ति श्रमनोदने ॥४४॥
राजत्यः स्वर्णखन्यश्च विविधधातुमिश्रिताः ।
खन्यो हीरकमाणिक्यस्फाटिकरत्नविद्रुमाः ॥४५॥
रसायनानि दिव्यानि पातालमूलवन्ति च ।
विद्यन्तेऽत्र रैवताद्रौ लभ्यन्ते पुण्यशालिभिः ॥४६॥
अप्सरसः स्वर्गवत्योऽत्राऽऽगत्य स्नान्ति यान्ति च ।
यात्रालवो लक्षकोटिसुरमानवसज्जनाः ।
नरा नार्यो महाप्रादक्षिण्यमूर्जे भ्रमन्ति हि ॥४७॥
गणाश्च गणिकाश्चैव शुद्ध्यन्ति तनुदानतः ।
परीसरोवरं तत्र परीणां स्नानकारणात् ।
इन्द्रसरोवरं तद्वद् देवीनां स्नानकारणात् ॥४८॥
रोहसरोवरं तत्र देवाऽऽप्लवनकारणात् ।
दातृसरोवरं द्रोण्यां दातॄणां स्नानकारणात् ।
वीरसरोवरं द्रोण्यां पितॄणां स्नानकारणात् ॥४९॥
सतीसरोवरं श्रेष्ठं सतीनां स्नानकारणात् ।
भवेश्वरतडागं च सर्वौषधिरसायनम् ।
भवन्त्येवं तत्र शैले दिव्यानि च सरांसि च ॥५०॥
परितस्तत्र सरितो निःसरन्त्यक्षयैर्जलैः ।
रैवताद्रौ स्थिताः सर्वे पश्यन्ति मेदिनीं दिशम् ।
समुद्रान्पर्वतान्देशान् ग्रामान् लोकान् प्रदेशकान् ॥५१॥
सदेहेन यदा वाञ्च्छा स्वर्गं गन्तुं भवेत् तदा ।
रैवताद्रेः शिखरे वै गत्वा स्नानेन सिद्धताम् ॥५२॥
प्राप्य यायात् ततो नैव पतेद् यदि न वासना ।
गौमुख्यां स्नानमात्राच्च कमण्डलुजलाप्लवात् ।
दत्तात्रेयजलबिन्दुपानात् सिद्धा भवन्ति हि ॥५३॥
ग्रहास्तच्छिखरे श्रान्तिं लब्ध्वा यान्ति दिशान्तरम् ।
दिवोजुषां विमानानि तत्र विश्रम्य यान्ति च ॥५४॥
ब्राह्मं चैशं वैष्णवं च मोक्षीयं चैश्वरं तथा ।
याम्यं स्वर्ग्यं च पन्थानं तच्छृंगाद् यान्ति वै जनाः ॥५५॥
भीरवजपनामानं स्थलमासाद्य मानवः ।
पतत्यरण्ये तस्यैव तत्र स्वर्गं भवत्यपि ॥५६॥
न स्वर्गान्न्यूनता तत्र किंचिन्मात्रमपि ध्रुवम् ।
तत्र तीर्थानि देवानामनेकानि भवन्ति वै ॥५७॥
रैवताद्रिं प्रदक्षिणं कर्तुमायान्ति देवताः ।
ऋषयो मुनयः स्वर्ग्याः पितरो योगिनस्तथा ॥५८॥
सिद्धा विद्याधराश्चैव चारणा देवयोनयः ।
साधुरूपेषु देवाश्च सिद्धाः क्राम्यन्ति तं परि ॥५९॥
साध्वीरूपेषु देव्यश्च परिक्राम्यन्ति तं गिरिम् ।
श्रीकृष्णः श्रीरामचन्द्रो दत्तात्रेयश्च नृहरिः ॥६०॥
कपिलो वामनो हंसः ऋषभो नारदस्तथा ।
पर्शुरामश्च वै व्यासः कुमारो बुद्ध इत्यपि ॥६१॥
सनन्दनादयः सर्वे व्यूहा ब्रह्मादयस्तथा ।
कार्तिक्यां तु प्रबोधिन्यां पूर्णिमायां च यावता ॥६२॥
सवे देवाश्च तीर्थानि पूर्यः क्षेत्राणि धाम च ।
पर्वताः सरितः सर्वे सागरा भूमयस्तथा ॥६३॥
आयान्ति च वसन्त्यत्र रैवताद्रौ स्थले स्थले ।
पत्रे पत्रे वसन्त्येते देवाः कर्तुं प्रदक्षिणम् ॥६४॥
रैवताद्रेस्तदानीं वै कृतं येन प्रदक्षिणम् ।
कृतं तेन पृथिव्यां वै सविधानप्रदक्षिणम् ॥६५॥
रैवताद्रिपरिक्रामयितारो मानवास्तदा ।
मनुष्या नहि द्रष्टव्या द्रष्टव्या देवकोटयः ॥६६॥
तेषां पादरजोलाभे मुच्यन्ते जन्मकोटयः ।
बालाः कुमाराः स्थविरा नरा नार्योपि ये तदा ॥६७॥
रैवतं परिक्रामन्ति पावनास्ते हरिश्रिताः ।
साधुः साध्वी च सन्यासी सन्यासिनी विरागिणी ॥६८॥
वैष्णवी शांकरी देवी वैष्णवः शांकरोऽथवा ।
गाणपत्याश्च वा मोक्षमार्गगास्ते तु देवताः ॥६९॥
तेभ्यो वै भोजनं दानं वस्त्रं वाऽन्यत् स्वकं भवेत्॥
तद्दातव्यं समस्तं वै सेवायां स्वर्गदं भवेत् ॥७०॥
यस्याग्रे यद्भवेद्वस्तु तद्देयं तत्र सर्वथा ।
सन्तः साध्व्यस्तोषणीयाः कायवाङ्मानसैरपि ॥७१॥
सर्वस्वार्पणकर्त्रे वै नारायणहरिः स्वयम् ।
स्वीयं सर्वं ददात्येव भक्ताय ब्रह्मरूपिणे ॥७२॥
दामोदरेऽतितीर्थे ये मृता वै यत्र तत्र हि ।
ते वसन्ति हरेर्गेहे न पतन्ति भवे क्वचित् ॥७३॥
स्वार्पणं प्रथमं दानं द्वितीयं तु धनार्पणम् ।
क्षेत्रादिकं तृतीयं च नैजार्पणं चतुर्थकम् ॥७४॥
एतत्सर्वं गिरेस्तस्य परिक्रमणजं फलम् ।
लभ्यते तत्र पापानि ज्वलन्ति नोद्भवन्ति वै ॥७५॥
यत्किंचिद्वा परोपकाराख्यं स्वार्थं परार्थकम् ।
दैह्यं चैन्द्रियिकं हार्दं कृतं पुण्यं च मोक्षकृत् ॥७६॥
जयेद् ब्रह्मात्मभावस्तु देहभावः पराजयेत् ।
असंशयो विमुच्येत संशयात्मा विनश्यति ॥७७॥
तन्ममापि महालक्ष्मि! स्थानं रैवतपर्वकम् ।
अतीव रोचते तत्र दामोदरो वसाम्यहम् ॥७८॥
रुक्मदुर्गे मन्दिरेऽहं त्रिविक्रमो वसामि वै ।
मध्येनगरं नृसिंहरूपेणापि वसाम्यहम् ॥७९॥
स्थले वृक्षे सुमे पत्रे मूले रजसि पर्वते ।
सरित्सु भूतले वाप्यां तडागे च वने जले ॥८०॥
तत्रत्ये कमले पद्मे कुमुदे स्थलपद्मके ।
पाषाणे भूविवरे च वल्मीके तरुगुल्मके ॥८१॥
यत्र क्वापि रैवतोस्ति तत्सर्वत्र वसाम्यहम् ।
अहं वै रैवतगिरिः रैवतोऽहं न भिन्नता ॥८२॥
मम भूषा मम तनुः रैवतः पावनः परः ।
सौराष्ट्रवासिनां नैव यमाः पश्यन्ति वै गृहम् ॥८३॥
आनर्तेन तपः कृत्वा गोलोकात् क्षत्रियेण वै ।
कृष्णात्प्राप्याऽत्र च मणेर्भागो बै स्थापितोऽस्ति सः ॥८४॥
सौराष्ट्र इतिविख्यातस्तत्रत्यानां कुतोभयम् ।
तदस्मिन्पर्वते दिव्ये गतानां तु कुतो भयम् ॥८५॥
यत्र वै धातवो रक्ताः श्वेता नीलाः सितास्तथा ।
पाषाणा कुंजराकाराः सन्त्यन्ये स्वर्णराजताः ॥८६॥
चणकाकृतयश्चान्या बालुका गोक्षुरायताः ।
दिव्याश्च तरवो वल्ल्यो गुल्माः सन्तानपादपाः ॥८७॥
सर्वं तेजोमयं स्वर्णं मूलं पुष्पं फलं दलम् ।
नहि पश्यति पापात्मा मुक्तः पापेन पश्यति ॥८८॥
सेव्यते स गिरिर्नित्यं धात्वादिखनिमार्गणैः ।
वर्णाश्चाश्रमिणस्तत्र भ्रमन्ति च वसन्ति च ॥८९॥
पक्षिणस्तत्र बहवः सारसा व्योमवासिनः ।
कोकिलाश्चातका मेना हंसा मयूरकास्तथा ॥९०॥
गरुडा गृध्रजातीयाः कपोता दीर्घदर्शिनः ।
चक्रवाकाः कृकवाकुः तित्तिरा दिव्यजातयः ॥९१॥
सर्वे शुभाक्षरभाषाः शिवाः शिवकराः सदा ॥१
मृगाश्च वानरेन्द्राश्च व्याघ्राः सिंहास्तथैव च ॥९२॥
भल्लुकाश्च गजाश्चैव दैवाश्वाः सात्त्वतास्तथा ।
तस्य तीर्थप्रभावेण दुष्टं नैवाऽऽचरन्ति ते ॥९३॥
कालेन निधनं चाप्ताः पशुपक्षिसरीसृपाः ।
सर्वे विमानमारूढा गच्छन्ति वैष्णवं पदम् ॥९४॥
वायुना पतितं यच्च पत्रपुष्पफलादिकम् ।
स्वर्णरक्षाजले तत्र सर्वं वै मुक्तिमेति यत् ॥९५॥
सुवर्णाख्या हरेः पत्नी प्रेमद्रवेण सर्वदा ।
दामोदरस्य सेवायां नदीरूपेण वर्तते ॥९६॥
नदी सुवर्णरक्षा सा स्वर्णवालुकया युता ।
चकास्ति स्वर्णमय्येव स्वर्णांश्चान्यान् करोति च ॥९७॥
तत्र स्नातुं नागराजो भित्वा भूमिं तु वासुकिः ।
तेन मार्गेण मूलेन विवरेणाऽऽगते ह्यभूत् ॥९८॥
स्वर्गादागत्य चेन्द्रोऽपि यष्ट्वा यज्ञेषु पुष्कलम् ।
पुण्यमादाय मुक्त्यर्थं गतः स्वर्गं निरामयम् ॥९९॥
कुर्वन्त्यनशनं चैकदिवसीयमथो जनाः ।
ते श्रीहरेः प्रतापेन चाप्नुयुर्धाम वै हरेः ॥१००॥
वासुदेवोऽनिरुद्धश्च प्रद्युम्नश्च सुकर्षणः ।
तथाऽन्ये त्वीश्वराः शतलक्षकोट्यो वसन्ति हि ॥१०१॥
प्रक्रीडन्ति प्रियास्तेषां नित्यं दामोदराग्रतः ।
सुचन्द्रवदना गौर्यः श्यामाश्च दृढमध्यमाः ॥१०२॥
नितम्बिन्यः सुकेश्यश्च सुनासायतलोचनाः ।
सुगुल्फाः सुभ्रुवस्तत्र सुकुक्ष्यः सुपयोधराः ॥१०३॥
शोभनास्याः सुजंघाश्च सुपादांघ्र्युदरास्तथा ।
रैवताख्ये गिरौ तस्मिन् रमन्ते च हसन्ति च ॥१०४॥
तत्राऽस्ति रेवतीकुण्डस्तत्र स्नात्वा तु याऽङ्गना ।
दद्यात् स्वर्णादिदानानि पुत्रिणी सुभगा भवेत् ॥१०५॥
गीतिकानर्तनैर्दामोदराग्रे तु पुनः पुनः ।
देशभाषाविभाषिण्यो रामा जाग्रति कार्तिके ॥१०६॥
तास्तु भूत्वा रमा लक्ष्म्यो यान्ति श्रीहरिमन्दिरम् ।
पञ्चपाषाणकं रम्यं सुन्दरं हरिमन्दिरम् ॥१०७॥
कृत्वा वा शिखरं दैवं बहुरूपसमन्वितम् ।
सर्वान् कामानतिक्रम्य परंब्रह्माऽधिगच्छति ॥१०८॥
पंचवर्णं ध्वजं दद्याद् दामोदरगृहोपरि ।
तन्तुप्रमाणवर्षाणि दिव्यानि विष्णुलोकगः ॥१०९॥
दामोदरस्वरूपेण वामनोऽत्र विराजते ।
तस्य षड्गव्यूतिमात्रं क्षेत्रं वस्त्रापथं शुभम् ॥११०॥
गिरेरारोहणाद् यावत् पश्चिमे वामनस्थलीम् ।
साषट्गव्यूतिदीर्घा वस्त्रापथाऽऽन्तरभूमिका ॥१११॥
गयो राजा हरेर्भक्तो ह्येकवारं समागतः ।
विष्णुयागं स कृतवान् प्रजाभिः सह वैष्णवः ॥११२॥
दत्वा दानान्यनेकानि हविर्हुत्वा हुताशने ।
विष्णुयागं चकारात्र रैवताचलसन्निधौ ॥११३॥
केचित् तदानी तद्यज्ञेऽपिबन् धूममधोमुखाः ।
शुष्कपत्राशनाश्चान्येऽपरे वै फलभोजनाः ॥११४॥
मूलानां भक्षकाश्चान्ये परे वाय्वशना द्विजाः ।
पंचाग्निसाधकाः केचित्केचिच्च सलिलासनाः ॥११५॥
केचिज्जपन्ति गायत्रीं दैवीमन्ये सरस्वतीम् ।
केचिज्जपन्ति सूक्तानि द्वादशार्णं जपन्ति च ॥११६॥
अष्टाक्षरं तथा केचित् कश्चिद्धरिरिति गृणन् ।
एकभक्तं तथा नक्तमयाचितमुपोषितम् ॥११७॥
एवमादीनि पुण्यानि कृत्वा दामोदराग्रतः ।
कृतकृत्याश्च ते जाता विष्णुयागे महामखे ॥११८॥
गयो राजा तु ऋष्याद्यैर्यावद्भिः सह राजते ।
विमानानां सहस्राणां सहस्राण्यागतानि च ॥११९॥
गन्धर्वाऽप्सरसस्तत्र सिद्धचारणकिन्नराः ।
विष्णोस्तु पार्षदैः साकं वैकुण्ठं नेतुमागताः ॥१२०॥
समारूढा विमानेषु ऋष्यादयस्तदा प्रजाः ।
सर्वैर्जानिपदैः सार्धं स राजा भार्यया सह ॥१२१॥
गतो विमानमारूढो विष्णोर्लोकं निरामयम् ।
तत्र क्षेत्रे वामनस्तु बलिं भिक्षामयाचत ॥१२२॥
तादृशं तत्परं क्षेत्रं न भूतं न भविष्यति ।
यत्र वासाद्भवेन्मुक्तिः कर्तव्यं नावशिष्यते ॥१२३॥
तत्र बहूनि तीर्थानि सन्ति तानि वदाम्यहम् ।
स्थानं बलवता पुंसा बलवद् भवतीत्यतः ॥१२४॥
तीर्थानि तत्र चायान्ति स्वपावित्र्याय पद्मजे ।
तानि वै प्रथमं स्मृत्वा वक्ष्ये त्रिविक्रमं ततः ॥१२५॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रैवताचले दामोदराख्यवामनप्रतापदेवादिनिवासचमत्कारिकमाहात्म्यविभूतिकार्तिकपरिक्रमणदिव्यवसतिगयकृतयज्ञादिनिरूपणनामा द्विचत्वा-
रिंशदधिकशततमोऽध्यायः ॥१४२॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP