कृतयुगसन्तानः - अध्यायः १२८
लक्ष्मीनारायणसंहिता
श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो देवः शंकरः पार्वतीपतिः ।
कथयामास पत्नीं स्वां व्यूहं तृतीयमुत्तमम् ॥१॥
तृतीयमेतद्वैकुण्ठं श्वेतद्वीपाख्यमुच्यते ।
क्षीराब्धेरुत्तरं कूलं श्वेतद्वीपस्य भूमिका ॥२॥
सन्दर्शनाय योगीन्द्रसनकादिमहात्मनाम् ।
सनकश्च सनन्दश्च तृतीयस्तु सनातनः ॥३॥
सनत्कुमारश्चतुर्थस्तथा सनत्सुजातकः ।
वोढुः पंचशिखश्चैव ब्रह्मणो मानसाः सुताः ॥४॥
ऋभुरष्टौ शुद्धसत्त्वा योगिनो सुमहौजसः ।
भगवद्दर्शनोद्भूतसुखैकरसवेदिनः ॥५॥
अन्येऽपि ऋषयस्तत्र तन्वाद्याश्च वसन्ति वै ।
नरनारायणाभ्यां च श्वेतद्वीपे वसन्ति च ॥६॥
तत्रत्यास्तु निरन्ना वै मुक्ताः सन्ति तपस्विनः ।
केचित्फलकृताहारा वाय्वाहाराश्च केचन ॥७॥
अन्ये मूलजलाहारा बाष्पाहाराश्च केचन ।
परे धूम्रकृताहाराः सूर्यकिरणभक्षकाः ॥८॥
चन्द्रकिरणपानाश्च पानाहारविवर्जिताः ।
शालत्वक्कृतवस्त्राश्च दिगम्बरनिवासिनः ॥९॥
पुंड्रकण्ठीनाममन्त्रमुद्राधारिण एव ते ।
नारायणं हरिं सर्वे भजन्ति च तपन्ति च ॥१०॥
विरक्ताः सर्वभोगेषु रागद्वेषविवर्जिताः ।
भक्त्याहारा भक्तिकार्याः कृष्णसत्संगमाश्रयाः ॥११॥
नरा नार्योऽपि तपसा क्षपयन्त्यशुभं स्वकम् ।
पुण्याः पुण्यतमाः सर्वे श्वेताः श्वेतकृतिप्रथाः ॥१२॥
सात्त्विकाः क्रोधकामादिवर्जिता मुक्तिभागिनः ।
अनन्तास्ते तपोऽर्थं वै वसन्ति वैष्णवा जनाः ॥१३॥
तेषां सन्दर्शनार्थाय तेषां सन्निहितो हरिः ।
कोटिचन्द्रसमे रम्ये नानामणिसुरत्नके ॥१४॥
श्वेतद्वीपे महायोगिजनैः संसेविते शुभे ।
नारायणः स्वयं त्वास्ते योगिनां दृशिहेतवे ॥१५॥
तत्रोद्यानानि रम्याणि विशाला वनभूमयः ।
सौधाः रैवतसदृशा नद्यो देवनदीसमाः ॥१६॥
पारिजाताम्रकल्पद्रुकल्पवल्ल्यो भवन्ति च ।
फलपुष्पकन्दपत्रव्याप्तास्ता भूमयो मताः ॥१७॥
चतुर्दशस्तराणां ये ऋषयो मुनयस्तथा ।
साध्व्यश्च साधवश्चान्ये यान्त्यायान्ति दृशिकृते ॥१८॥
सान्तानिकलता बह्व्यश्चन्दनानि बहून्यपि ।
सरःसु फुल्लपद्मानि स्थलपद्मादयस्तथा ॥१९॥
कुन्दबकुलशृंगारमालतीमल्लिकादयः ।
तृणराजनागरंगनारीकेलफलादयः ॥२०॥
पूगीलवंगजावंत्रीजीवफलवनादयः ।
बदरीकदलीजम्बूकर्मदाऽमृतजंबिराः ॥२१॥
वनेषु परितः सन्ति नानातोयालयानि च ।
कूपाश्च दीर्घिकाश्चैव शीतनिर्झरणानि च ॥२२॥
उष्णकुण्डा मिष्टखाता वनौषधिसुजीवनाः ।
भवन्ति द्वीपमध्ये वै द्वीपप्रान्तेऽपि सर्वथा ॥२३।
आश्रमाः सन्ति मुक्तानां तापसानामितस्ततः ।
सकुटुम्बाश्च ऋषयो वसन्ति तत्र सात्त्वताः ॥२४॥
दर्शनभक्तिकार्यास्ते वन्यवस्तुप्रजीवनाः ।
दिव्याश्चन्द्रसमा रम्याः सौम्याश्चोज्ज्वलमूर्तयः ॥२५॥
ते वसन्ति श्वेतधाम्नि तत्रास्ति नगरी शुभा ।
नाम्ना ऐरावती बोध्या बहुप्रासादसंकुलाः ॥२६॥
दिव्यपुंस्त्रीभिराक्रान्ता रत्निविमानशोभिता ।
तत्र वसन्ति भक्ता वै सकुटुम्बा नराः स्त्रियः ॥२७॥
सर्वाः स्मृद्धय एवात्र संकल्पोत्था भवन्ति वै ।
विमानानि विहाराणि शयनानि धनानि च ॥२८॥
विविधान्येव सन्त्येव खनेर्यथा मिलन्ति हि ।
कल्पवृक्षैरवाप्यन्ते तपोबलविभावतः ॥२९॥
वैकुण्ठान्नहि किंचिद्वै न्यूनं स्मृद्धौ विभूतिषु ।
ऐरावत्यां सत्यलोकवासिनो मुनयोऽपि वै ॥३०॥
महरादिवसतयः स्वर्गस्था अपि देवताः ।
ऋषयो भूगताश्चान्ये मेर्वादिक्षेत्रकास्तथा ॥३१॥
पातालगामिनो दैत्या भक्तात्मानस्तु ये मताः ।
तेषां तत्र निवासा वै प्रासादाः सन्ति भूरिशः ॥३२॥
बालसूर्यनिभास्तुंगा वर्तुलाः सन्ति कोटिशः ।
विमानान्यब्धियानानि जलयानानि कोटिशः ॥३३॥
समुद्रतलयानानि मार्गयानानि लक्षशः ।
पर्वतारण्ययानानि भवन्त्यपि च कोटिशः ॥३४॥
राजमार्गा महाव्यासा हस्तिसद्वाजिवाहनाः ।
भवन्ति सर्वदा दिव्याः सुशोभा मदसिञ्चिताः ॥३५॥
तथाविधायाः पुर्यास्तु मध्ये वै मण्डपो महान्।
दिव्योद्यानसमावृत्तो मणिकांचननिर्मितः ॥३६॥
चन्दनागुरुकर्पूरकुंकुमामोदगन्धितः ।
नानाकुसुमतोरणवितानैः समलंकृतः ॥३७॥
दिव्याप्सरः कृतावासः सामगानोपशोभितः ।
नृत्यगीतसमाजोत्कोत्सवजयादिनादितः ॥३८॥
नैसर्गिकभोग्यशालासहस्रक्लृप्तभूस्तरः ।
नवधाभक्तिसत्कार्याराधनार्थसुभूमिकः ॥३९॥
नारायणस्य पूजायाः सामग्रीभिर्बहुस्थलः ।
पानभोजनमर्दनलेपनार्हकृतगृहः ॥४०॥
वैष्णवीसेवनस्वीकारार्थकृतगृहान्तरः ।
स्वल्पमपि न वैकुण्ठान्न्यूनो वै वस्तुभिश्च सः ॥४१॥
विमानानि तु देवानामायान्ति यान्ति वायुना ।
संकुलो देवसंघैश्च राजाधिराजशोभनः ॥४२॥
मध्ये सिंहासनं तत्र नारायणकृतेऽस्ति वै ।
कोटिसूर्यसमाभं च मध्ये पद्मं शशिप्रभम् ॥४३॥
तत्र कोमलगद्दीकपार्श्वतूलादि कोमले ।
स्वर्णवर्णे मृदुलेऽत्र राजते तु स्वयं हरिः ॥४४॥
स्वर्णवर्णः स्वर्णमणिमुक्ताहारविभूषितः ।
शंखचक्रगदापद्महेतियुक्तकरोज्ज्वलः ॥४५॥
हारकेयूरकटकैरंगुलीयैः सुभूषितः ।
कांचनोज्ज्वलयुगलचरणाब्जविराजितः ॥४६॥
पूर्णचन्द्रनिभशुभ्रस्वल्पनखविराजितः ।
षोडशाब्दवयोरूपयौवनादिसुदर्शनः ॥४७॥
कृतोर्ध्वपुंड्रतन्मध्यसुगन्धिचन्द्रशोभितः ।
स्निग्धकबरीचंचद्वक्रकेशविराजितः ॥४८॥
दुग्धफेनशशिकान्तिसमसद्वस्त्रवेष्टितः ।
मुक्तामणिहीरकादिनद्धकुण्डलकर्णकः ॥४९॥
पद्मासनं शुभं कृत्वा समासीनो विराजते ।
तस्य नारायणप्रभोर्वामांके दिव्यरूपिणी ॥५०॥
द्वादशहायना लक्ष्मीः रूपे तस्यैव सदृशी ।
राजते सर्वसौख्यार्हकृतशृंगारशोभना ॥५१॥
पद्मकिंजल्कसद्रूपा यौवनाऽऽवेगसेविता ।
सर्वलक्षणसम्पन्ना शीलगुणगणाश्रया ॥५२॥
कांचनतारवसना सुगन्धिहारराजिता ।
स्थलपद्ममालतीसत्कुसुमाञ्चितमूर्धजा ॥५३॥
चतुर्भुजैः राजमाना केयूरांगदभूषिता ।
मुक्ताहारैः शोभमाना मन्दारकृतशेखरा ॥५४॥
निम्ननासा कुन्ददन्ता चंचत्कुण्डलकर्णिका ।
कस्तूरीकृततिलका नासाधृतसुमौक्तिका ॥५५॥
सूक्ष्मसुवर्णकलशप्रख्यसुघट्टसुस्तनी ।
दिव्यसुगन्धिसद्देहा पुष्पमालादिशोभिता ॥५६॥
धृतकमलपुष्पादिरमणीया मनोहरा ।
आदर्शमातुलुङ्गस्वर्णाब्जवस्वादिधृक्करा ॥५७॥
नारायणस्य पत्युर्वै चेतसाऽभीष्टकारिणी ।
राजते श्रीहरेर्वामांकार्धभागे सदा प्रिया ॥५८॥
तत्सदृश्यस्तथा कृष्णयोग्याश्चान्याश्च शक्तयः ।
विराजन्ते हि सेवायां नारायणपरायणाः ॥८६९॥
ईशावास्या महादेवी जाह्नवी कमला रमा ।
सावित्री च तथा शान्ता कान्ता ब्राह्मी सरोजिनी ॥६०॥
दास्यश्चापि तथा तत्र प्रज्ञा मेधा धृतिः क्षमा ।
श्रद्धा च धारणा शान्तिः श्रुतिर्मनीषिणी स्मृतिः ॥६१॥
वृष्टिर्वृद्धिर्मतिर्वन्याः श्रियः कैंकर्यकारिकाः ।
ततोऽन्याः कोटिशः पत्न्यः सन्ति नारायणस्य हि ॥६२॥
अनन्तो वैनतेयश्च हँसः करी सुवैष्णवाः ।
अनन्ताः किंकराः सन्ति नारायणपरायणाः ॥६३॥
साध्या मरुद्गणाश्चैव विश्वेदेवाश्च किन्नराः ।
विद्याधराश्च गन्धर्वा नारायणपरायणाः ॥६४॥
दासा दास्यश्च वर्तन्ते श्वेतद्वीपेऽत्र धामनि ।
प्रासादेषु विमानेषु गृहेषु नगरेषु च ॥६५॥
वनेषूपवनेष्वेवं गृहोद्यानेषु चाम्बरे ।
प्राकारेषु निकुंजेषु तटेषु तटिनीस्थले ॥६६॥
क्रीडन्ति नित्यसौख्याढ्या हेयनिष्फलवर्जिताः ।
नारायणकृपालब्धदिव्यभोगानुरञ्जिताः ॥६७॥
नारायणसमा रूपगुणाकृतिवयोंऽघ्रिभिः ।
ये विष्णुमन्त्रजप्तारो विष्णुस्मरणतत्पराः ॥६८॥
हरिवासरकर्तारस्तत्पदं यान्ति तेऽव्ययम् ।
भक्त्या त्वनन्यया लभ्यो विष्णुलोकः सनातनः ॥६९॥
कीर्तनं नामगृणनं ध्यानं मन्त्रजपो हरेः ।
तर्पणं होमकरणं विष्णोर्विष्णुपदप्रदम् ॥७०॥
तत्रत्या विष्णुसंकल्पसुखाधीनसुखार्थिनः ।
नरा नार्यश्चावसाने महावैकुण्ठगामिनः ॥७१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तृतीयश्वेतद्वीपाख्यवैकुण्ठस्थऋषिमुनितापसनरनारीरत्नोद्यानैरावतीनगरीमण्डपविभूतिसिंहासनलक्ष्मीदास-
दासीप्रभतिवर्णननामाऽष्टाविंशत्यधिकशततमोऽध्यायः ॥१२८॥
N/A
References : N/A
Last Updated : March 27, 2021
TOP