संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४३९

कृतयुगसन्तानः - अध्यायः ४३९

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! मम पितुर्धर्मदेवस्य वै पुरा ।
उपदेशं तु वर्धिन्यै चाऽप्सरसे तपःस्थले ॥१॥
पुरा धर्मः स्वयं तेपे तपो वै दारुणं महत् ।
प्रजानां श्रेयसे धर्मारण्ये वर्षसहस्रकम् ॥२॥
धर्मोपरि वंशवृक्षस्तम्बा वल्मीकमूलकाः ।
अभवँस्ते महेन्द्राद्या ज्ञात्वा जग्मुर्भयं भृशम् ॥३॥
यदि चेद्वै तपश्चोग्रं धर्मदेवः करिष्यति ।
तदुत्थेनाऽनलेनेद्ं जगद्भस्म भविष्यति ॥४॥
तपोरोधाय देवाद्यैर्मिलित्वा वर्धिनी तदा ।
अप्सरः प्रेषिता धर्मारण्ये रूपगुणान्विता ॥५॥
सा गत्वा वृद्धपितरं ववन्दे धूलिकाऽऽवृतम् ।
निःसार्य वंशवल्मीकं सुभानं धर्ममाह सा ॥६॥
किंहेतुकं तपस्तेऽस्ति धर्मः प्राह द्युवासिनाम् ।
भूस्थानां रक्षणार्थं च तपः करोमि दारुणम् ॥७॥
कथं त्वं चाऽऽगताऽरण्ये युवती सुन्दरी सती ।
सा तु प्राह महेन्द्राद्यास्तपसा भवतः पितः ॥८॥
भीता मां प्रेषयामासुस्तपःकारणवित्तये ।
ज्ञातं वै कारणं पूज्य ! कल्याणं न भयं यतः ॥९॥
कथयिष्ये सुरेन्द्रादीन् भविष्यन्ति निरामयाः ।
किन्तु चेत्तेऽपराधश्चेज्जातो मेऽनुग्रहं कुरु ॥१०॥
अहं परवशा नारी प्रेषिता पुण्यशालिनी ।
वृद्धपितुर्दर्शनं मे जातं जाताऽस्मि पावनी ॥११॥
रोचते मे न वै विघ्नं कर्तुं कस्यापि सुकृते ।
किन्तु देववशा तस्मात् प्रेर्यते तत्र यामि वै ॥१२॥
कल्याणं भवेद्येन शाधि चेन्मां पितामह ।
महेन्द्राय तपोहेतुं निवेद्याऽऽयामि वै पुनः ॥१३॥
अप्सरत्वं पितर्मे न रोचते नर्तनादिकम् ।
प्रेष्यत्वं दुःखदं सर्वसुकृतानां विनाशकम् ॥१४॥
यत्र वै नियमो नास्ति स्वामिनां किंकरीभवे ।
कैंकर्यं बहुपापानां नारीणां जायते पितः ॥१५॥
परहस्तगतत्वं च परभोग्यत्वमित्यपि ।
सुकृतानां प्रतिरोधि न मे संरोचते पितः ॥१६॥
श्रुत्वैतस्या वचो धर्मभृतं धर्मस्तुतोष ताम् ।
उवाच त्वं महेन्द्राय तपोहेतुं निवेद्य च ॥१७॥
शीघ्रमायाहि सत्पुत्रि! करिष्ये तव शोभनम् ।
वर्धिनि! त्वं भयं त्यक्त्वा समायाहि च मा चिरम् ॥१८॥
इत्युक्ता सा वृषं नत्वा प्रसन्ना त्वरिता ययौ ।
महेन्द्रादीन् तपोहेतुं निवेद्यैव प्रजाऽवनम् ॥१९॥
शीघ्रं धर्मं प्रतिधर्मारण्यं प्राप्ता सती शुभा ।
नत्वा धर्मं च सा वल्मीकान्तःस्थं परमादरात्। ॥२०॥
सिषेवे तु दिवारात्रौ फलमूलाशना सती ।
वंशानुत्पाटयामास वल्मीकस्थाँश्च सा शनैः ॥२१॥
मृत्तिकाश्च शनैर्दूरीचकार धर्मदेहतः ।
अस्थिमात्राऽवशिष्टं तं देहं तीर्थजलेन सा ॥२२॥
स्नापयामास कुशला देहः पल्लवतां गतः ।
तत्र दिव्यस्वरूपश्च शतसूर्यसमप्रभः ॥२३॥
धर्मो बभूव संकल्पाद् ददर्श सेविकां सतीम् ।
वर्धिनी पतिता धर्मपादयोश्चार्पयज्जलम् ॥२४॥
पत्रं पुष्पं फलाद्यं च समार्पयद् वृषाय सा ।
समप्रच्छन्निजं श्रेयश्चक्रे पादावनेजनम् ॥२५॥
प्रसन्नः श्रीधर्मदेवस्तामाह शाश्वतान् वृषान् ।
कृष्णनारायणः श्रीमान् ससर्ज जडचेतनान् ॥२६॥
नरान्नारीश्च सर्वात्मा धर्मरक्षणहेतवे ।
पत्नीव्रतं पुरा विप्रं ससर्ज भगवान् स्वयम् ॥२७॥
पतिव्रतां च तत्पत्नीं ससर्जाऽऽह च तद्वृषान् ।
शृणु साध्वि सात्त्विके ते कथयामि तु तान् वृषान् ॥२८॥
पालितैर्यैश्च नारीणां परं श्रेयो भवेत् सति! ।
यावत्कन्या भवेत्तावत् कुमारिकावृषाँश्चरेत् ॥२९॥
मातापितृप्रसेवां वै कुर्याच्च गुरुसेवनम् ।
ब्रह्मचर्यपरा कृष्णनारायणं समर्चयेत् ॥३०॥
विवाहिता तु सा नारी पातिव्रत्यं प्रपालयेत् ।
नो चेद् विवाहिता ब्रह्मचारिणी वर्तते यदि ॥३१॥
कृतभोगा क्षतपूर्वा विधवा चाऽधवाऽपि च ।
ब्रह्मचर्यपरं परंश्रेयःप्रदं चेच्छेद्यदि ध्रुवम् ॥३२॥
कृष्णपातिव्रत्यपरा जायेत ब्रह्मचारिणी ।
वर्तते सर्वदा धर्मे कृष्णकान्ते पतिव्रता ॥३३॥
पत्यौ कान्ते कृष्णकान्ते पातिव्रत्यपरा यथा ।
सन्तिष्ठेत्तान् वृषान् पुत्रि ते वक्ष्यामि हितावहान् ॥३४॥
वाङ्मनःकायशुद्धा स्यात् पूज्यपूजापरायणा ।
अलौल्या चास्तिका कृष्णस्वामिभक्तिमती भवेत् ॥३५॥
कृष्णः स्वामी पतिः कृष्णः कृष्णार्थं व्रतमास्थिता ।
पत्यर्थं व्रतसम्पन्ना कीर्तिता सा पतिव्रता ॥३६॥
पतिव्रता तु सा नारी पतिशुश्रूषणे रता ।
पत्यौ कान्ते तथा कृष्णमूतौ व्रतवती भवेत् ॥३७॥
श्रुत्वैतद् वर्धिनी प्राह धर्मदेवं तु पद्मजे! ।
पतिव्रतानां सर्वासां लक्षण कीदृशं वद ॥३८॥
धर्मदेवस्तदा प्राह प्रजाबोधाय विस्तरात् ।
पतिव्रता गृहे यस्य सफलं तस्य जीवनम् ॥३९॥
यस्य साऽङ्गसमा छायासमा सेवापरायणा ।
नित्यं पुण्यप्रदा यस्याः कथाऽपि पुण्यकारिणी ॥४०॥
भुंक्ते भुक्ते स्वामिनि सन्तिष्ठति त्वनुतिष्ठति ।
विनिद्रिते या निद्राति प्रथमं परिबुद्ध्यति ॥४१॥
अनलंकृतमात्मानं कान्ते देशान्तरं गते ।
कार्यार्थं प्रोषिते तावद् भवेन्मण्डनवर्जिता ॥४२॥
भर्तुर्नाम न गृह्णीयादायुषो वृद्धिकाम्यया ।
आक्रुष्टाऽपि च नाऽऽक्रोशेत् ताडिताऽपि प्रसीदति ॥४३॥
कार्याऽऽज्ञायां कृतं स्वामिन्निति वक्ति करोति च ।
आहूता स्वामिना शीघ्रं याति त्यक्त्वाऽन्यकार्यकम् ॥४४॥
वद कान्त करोम्यद्य सेविका तेऽस्म्युपस्थिता ।
एवं मिष्टं वदेत्सर्वं कुर्यात् सर्वं यदादिशेत् ॥४५॥
नकारं न वदेद् ब्रूयात् प्रसादो मे विधीयताम् ।
स्वामी यथा भवेत्तृप्तः प्रसन्नश्चाचरेत्तथा ॥४६॥
गृहद्वारे परान्नैव स्थित्वा पश्येन्नराँश्चिरम् ।
अदातव्यं न वै दद्यादन्यस्मै पत्यसन्निधौ ॥४७॥
स्नानपूजोपकरणाद्यनुक्ता साधयेत् स्वयम् ।
पत्रपुष्पादिकं सर्वं यथाकालं प्रसाधयेत् ॥४८॥
उद्विग्ना न भवेत् क्वापि हृष्टा सेवेत वै पतिम् ।
प्रतीक्षमाणा सत्प्रीतिं भर्तारं संप्रतोषयेत् ॥४९॥
भर्त्रा भुक्तं प्रसादं च भुंक्तेऽन्यद्वर्जयेत् सदा ।
समाजोत्सवयात्रादि विवाहप्रेक्षणादिषु ॥५०॥
विना कान्तं न वै गच्छेद् वर्धिनि! या पतिव्रता ।
पत्याज्ञया प्रगच्छेद्वै स्वामिधर्मपरायणा ॥५१॥
सुप्तमासीनमुत्स्थं च क्रीडन्तं कार्यतत्परम् ।
स्वार्थार्थं च सती वोपस्थापयेद् विघ्नमन्तरा ॥५२॥
राजस्वल्ये तु सम्प्राप्ते त्रिरात्रं मलिना सती ।
अशुद्धिं पालयेद् गृहाद् बहिर्गच्छेन्न सर्वथा ॥५३॥
अतेजस्कं मुखं स्वस्या दर्शयेन्न बहिः सती ।
शब्दं न श्रावयेत्त्वन्यान् गृहाद्बहिः पतिव्रता ॥५४॥
चतुर्थे दिवसे स्नात्वा शुद्धा भवति भामिनी ।
तुर्यरात्र्यां व्यतीतायां देवार्चनादियोगिनी ॥५५॥
शुद्धा भवति सेवार्हा कुर्यात् स्वस्वामिदर्शनम् ।
यद्वा स्वस्वामिनं स्मृत्वा कुर्यात्सूर्यस्य दर्शनम् ॥५६॥
अयुग्मासु बीजलाभे प्रसूयेत हि कन्यकाम् ।
युग्मासु गर्भलाभे तु प्रसूयेत हि पुत्रकम् ॥५७॥
आषोडशनिशं गर्भकमलोद्घाटनं सदा ।
ततः परं पिहीतं स्याद् व्यर्था भवन्ति धातवः ॥५८॥
रजस्वलायां रुग्णायां काचिदन्या तु भामिनी ।
द्वादशवारं प्रत्येकं स्पृष्ट्वा स्नात्वा पुनः पुनः ॥५९॥
पूर्वधृतानि वस्त्राणि तस्या दूरे प्रकारयेत् ।
जलेन प्रोक्षयेदन्ते रजस्वला प्रशुद्ध्यति ॥६०॥
विवाहे चोत्सवे याने समाजे वाहने पथि ।
प्रवासे तीर्थयात्रायां यज्ञ दाने विपत्स्थले ॥६१॥
संग्रामे सत्कथाख्याने ज्ञाने दीक्षाविधौ वने ।
त्यागभावे योगभावे चमत्कारे तपःस्थितौ ॥६२॥
अनाश्रये पराधीने कारागारे च निर्जने ।
असहाये कर्मभृत्यभावे विचित्तकस्थितौ ॥६३॥
अत्यावश्यककार्ये च शवयोगे च सूतके ।
प्रवासे परगेहादौ ब्रह्मचर्ये व्रते क्रतौ ॥६४॥
विद्यार्जने चोपवासविधौ चान्द्रायणादिके ।
भ्रातृसुतजनकाद्यैरावश्यके तु कार्यके ॥६५॥
स्नात्वा त्वेकोपवासेन शुद्ध्यत्येव रजस्वला ।
धर्ममूर्तिः स्वयं कान्तः कृष्णमूर्तिः स्वयं पतिः ॥६६॥
पतिर्धर्मः पतिः कर्म पतिः शुद्धिर्हि नान्यथा ।
पतियोगे भवेच्छुद्धा तावदेव रजस्वला ॥६७॥
चातुर्मास्ये यथा नद्यः सर्वदैव रजस्वलाः ।
वार्धियोगे तु शुद्धाः स्युस्तदयोगे रजस्वलाः ॥६८॥
तस्मात्पत्युर्वशे शुद्धिः पतियोगे हि शुद्धिकृत् ।
पतिविद्वेषिणीं नारीं प्रभाषेन्न सती क्वचित् ॥६९॥
हरिद्रां कुंकुमं बिन्दुं सिन्दूरं कज्जलं तथा ।
शिरोवस्त्रं च ताम्बूलं मांगल्याऽऽभरणानि च ॥७०॥
केशसंस्कारकरणं कंकणादिसुभूषणम् ।
भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिप्रिया ॥७१॥
नैकाकिनी बहिर्गच्छेन्न नग्ना स्नानमाचरेत् ।
रतिकार्ये कुशला स्यान्मानाऽऽलस्यविवर्जिता ॥७२॥
यत्र यथा रुचिर्भर्तुस्तथा तत्र सखी भवेत् ।
धर्मो व्रतं जपः सेवा पूजा पतिप्रसादनम् ।७३॥
मत्वा कुर्याद् भर्तृतोषे सर्वं भवति सुकृतम् ।
न कण्डन्यां न पेषण्यां न चुल्ल्यां मुशले न च ॥७४॥
न दर्व्यां न महास्थाल्यां न देहल्यां न यन्त्रके ।
न शिलायां पिष्टलोष्टे साधनादावुपाविशेत् ॥७५॥
निर्धनं रूपहीनं च क्लीबं जरठं रोगिणम् ।
रागहीनं कामहीनं शक्तिहीनं च दुःस्थितिम् ॥७६॥
कृष्णसमं पतिं ज्ञात्वा शक्ताऽपि न विलंघयेत् ।
सर्पिर्लवणतैलादिक्षयेऽपि सुखतो यथा ॥७७॥
प्राप्तिः स्यात्तत्तथा वाच्यं क्लेशयेन्न कदाचन ।
लोष्ठपात्रे भोजयेन्नोच्छिष्टं स्वस्याः प्रभोजयेत् ॥७८॥
पतिपादोदके तीर्थे स्नायात् पिबेद् वसेत्सदा ।
शिवाद्विष्णोः पञ्चदेवेभ्योऽधिकः स्वपतिः स्त्रियाः ॥७९॥
पतिमुल्लंघ्य सा नैव व्रतोपोषणमाचरेत् ।
उक्ता कष्टोत्तरं नैव दद्यात्साध्वी कदाचन ॥८०॥
पत्युरधिक्षेपकर्त्री क्रोधिता क्लेशदायिनी ।
सरमा जायते ग्रामे शृगाली निर्जने वने ॥८१॥
भर्तुः पादौ प्रपूज्यैव कुर्यात्प्रसादभोजनम् ।
भर्तुरुच्चासने नैव निषीदेन्न व्रजेद्बहिः ॥८२॥
परगृहस्थितिमती भवेन्नैव कदाचन ।
क्लिष्टपारुष्यवाक्यानि ब्रूयान्नैव कदाचन ॥८३॥
गुरूणां सन्निधौ नोच्चैर्वदेन्नर्म न चाऽऽचरेत् ।
सजने तु स्थले कान्तं स्वरेण नाऽऽह्वयेत् सती ॥८४॥
यस्याः स्वशयने कान्तो न रोचते सा दुर्मतिः ।
उलूकी चक्रवाकी च जायते वृक्षवासिनी ॥८५॥
पत्युस्ताडनकर्त्री च व्याघ्री मार्जारिका भवेत् ।
कटाक्षयित्री कान्तान्यं काणाक्षी सा भवेद् ध्रुवम् ॥८६॥
पतिं विना या मिष्टादा सूकरी वल्गुली भवेत् ।
पत्युस्त्वंकारयित्री सा मूका तोतलिका भवेत् ॥८७॥
सपत्न्या ईर्ष्ययित्री तु मुहुः रुग्णभगा भवेत्॥
अन्यस्मै मुखदर्शिका कुरूपा कुमुखी भवेत् ॥८८॥
अन्यं प्रहर्षयेद् भावैरन्यं संदर्शयेत्तनुम् ।
अन्यं स्पृशेच्च सा गोधा रण्डा वेश्या ततो भवेत् ॥८९॥
कार्यं परिश्रमं कृत्वा समायान्तं विलोक्य सा ।
जलासनैश्च ताम्बूलैः पादसंवाहनादिभिः ॥९०॥
व्यजनैः फलदानैश्च मिष्टवाण्या प्रसन्नयेत् ।
पत्युरेवं प्रीणयित्री शाश्वतं सुखमश्नुते ॥९१॥
पिता माता सुतो भ्राता स्वल्पदा मितदा मताः ।
अमितस्य तु सर्वस्य दाता कान्तः स्त्रियाः सदा ॥९२॥
इष्टो देवो गुरुः श्रेष्ठस्तीर्थं पात्रं पतिर्मतः ।
धर्मः पुण्यं व्रतं कृच्छ्रं सर्वं पत्यौ तमर्चयेत्। ॥९३॥
विनाऽऽत्मानं शवं व्यर्थं पत्नी कान्तं विना तथा ।
सुस्नाता गन्धिताऽलंकारिताऽप्यशुचिरेव सा ॥९४॥
धवः स्थानं मंगलानां तं विना मंगलानि न ।
धवं विना सुदुष्टाऽपि माता पुत्रस्य मंगला ॥९५॥
महाभागवती साध्वी भक्ता सर्वस्य मंगला ।
रण्डा मुण्डा त्यागवती वह्निवस्त्रा तु मंगला ॥९६॥
वैष्णवी विधवा कृष्णधवा शश्वद्धि मंगला ।
प्रिया पत्नीकृता या का जारस्यापि तु मंगला ॥९७॥
कृष्णनारायणशाटीधारिणी मंगला सदा ।
कृष्णपतिव्रता कृष्णाधारा या काऽपि मंगला ॥९८॥
तुलसीमालिका कण्ठे करे भाले तु पुण्ड्रकम् ।
लक्ष्मीबिन्दुश्च यस्याः सा मंगला कृष्णभामिनी ॥९९॥
गुरुमन्त्रप्रदात्री च ज्ञानदात्री च मंगला ।
रण्डा मुण्डा व्यंगषण्ढा वैष्णवी मंगला सदा ॥१००॥
कृष्णनारायणांकस्थाः कृष्णनारायणप्रियाः ।
कृष्णनारायणकान्ता दिव्याः सर्वा हि मंगलाः ॥१०१॥
कन्यादाने वाचयन्ति विप्राः प्रतिव्रतावृषान् ।
भर्तुः सहचरी भूया जीवतोऽजीवतोऽपि वा ॥१०२॥
श्मशानं या गृहाद्भर्तुः शवस्याऽनुप्रयाति सा ।
पदे पदेऽश्वमेधस्य पुण्यवती चिताऽनुगा ॥१०३॥
यमहस्तात्पतिमाकृष्य सा स्वर्गं व्रजेत् सती ।
सतीं वीक्ष्य पलायन्ते हित्वा पतिं यमानुगाः ॥१०४॥
सूर्यो वह्निर्वाडवाग्निर्विद्युत्ताराग्रहादयः।
पातिव्रत्यमहसोऽग्रे कम्पन्ते देवकोटयः ॥१०५॥
पतिव्रतावर्ष्मरोमसंख्या यावती तावताम् ।
कोट्ययुतवत्सराणां स्वर्गायुष्यवती सती ॥१०६॥
भर्त्रा दिव्यसुखं भुंक्ते ततो मुक्तिं व्रजेत्ततः ।
सुधन्यौ तस्याः पितरौ पतिर्धन्यः कुटुम्बकम् ॥१०७॥
पितृवंश्याः मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ।
पतिव्रतायाः पुण्येन स्वर्गे यान्ति तया सह ॥१०८॥
पतिव्रतायाश्चरणो भूमिं तीर्थीकरोति वै ।
सूर्यः सोमश्च गन्धर्वाः स्प्रष्टुं बिभ्यति वै सतीम् ॥१०९॥
पतिव्रतापादयोगं वाञ्च्छन्ति सलिलान्यपि ।
गायत्र्या यस्य पापस्य नाशो नैव भवेदिह ॥११०॥
पातिव्रत्येन तन्नाशं करोत्येव पतिव्रता ।
संसारो रूपलावण्यगर्वितस्त्रीमयो न किम् ॥१११॥
परं सती क्वचित्पतिव्रता लभ्येत वैष्णवी ।
गृहं पतिव्रतापत्नी तया गृहस्थ उच्यते ॥११२॥
पत्नीमूलं गृहधर्मे धर्मफले सुखे सुते ।
परलोके चेह पित्रतिथिदेवसमर्हणे ॥११३॥
गृहं स्यात्पावनं स्वामिव्रतया गंगयाऽथवा ।
कुलं स्यात्पावनं भक्त्या पतिव्रतया वा स्त्रिया ॥११४॥
विवाहितः पतिर्यस्यास्तया पतिप्रसेवया ।
स्वर्गो मोक्षः साधनीयौ श्रीकृष्णचरणौ तथा ॥११५॥
यस्याः पतिर्ययौ स्वर्गं सगर्भा भक्तितत्परा ।
वैधव्यवृषशक्ता सा भवेत् कृष्णपतिव्रता ॥११६॥
कृष्णं संपूजयेन्नित्यं भोजयेल्लालयेद्धरिम् ।
सेवयेत् सर्वथा नारी कृष्णं कृत्वा पतिं निजम् ॥११७॥
कृष्णं स्वशयने स्मृत्वा निद्रां लभेत् पतिव्रता ।
कृष्णं चोद्वर्तयेद् गन्धद्रव्यं कृष्णाय चार्पयेत् ॥११८॥
भर्तारं श्रीहरौ स्मृत्वा दद्यात् कुशतिलोदकम् ।
पतिं श्रीमत्कृष्णनारायणं ध्यायेत्प्रपूजयेत् ॥११९॥
पत्युरिष्टं यदासीत्तद्दद्यात्कृष्णाय सर्वदा ।
स्नानं दानं तीर्थयात्रां कथाश्रवणमर्चनम् ॥१२०॥
वैशाखे जलकुंभांश्च कार्तिके घृतदीपकान् ।
माघे धान्यतिलाद्याँश्च पतिकृष्णाय चार्पयेत् ॥१२१॥
वैशाखे तु प्रपां दद्याच्छिवे दद्याद्गलन्तिकाम् ।
उशीरं व्यजनं छत्रं सूक्ष्मवासांसि चन्दनम् ॥१२२॥
सकर्पूरं च ताम्बूलं पुष्पदानं सुभोजनम् ।
जलपात्रं पिष्टदानं द्राक्षारम्भादि सत्फलम् ॥१२३॥
श्रीकृष्णाय प्रदेयाद्वै पतिर्मे प्रीयतामिति ।
कार्तिकेऽन्नानि सर्वाणि शाकानि शिम्बिकास्तथा ॥१२४॥
घृतादिकं कम्बलादि प्रदद्यात्कृष्णतुष्टये ।
घण्टां शय्यां घृतपात्रं धनं धेनुं पयस्विनीम् ॥१२५॥
दीपदानं प्रदद्याच्च पतिकृष्णप्रतुष्टये ।
कुमारिकाऽथवा या चाऽधवा वा पतिवर्जिता ॥१२६॥
तथा कृष्णस्वामिधर्माः पालनीया हि सर्वथा ।
कृष्णनारायणः पूज्यः सेवनीयो हृदि प्रभुः ॥१२७॥
इत्युक्ता धर्मदेवेन वर्धिनी ब्रह्मचारिणी ।
धर्मारण्ये सदा स्थित्वा कृष्णभक्तिपरायणा ॥१२८॥
कृष्णनारायणे कान्ते पातिव्रत्यपरा सती ।
भेजे नित्यं मूर्तिरूपं श्रीकृष्णं पुरुषोत्तमम् ॥१२९॥
तपस्यन्तं धर्मदेवं सिषेवे पितृसेविका ।
अथ तुष्टो हरिः कृष्णो नारायणः समाययौ ॥१३०॥
तां कृत्वा दिव्यदेहां च निनाय निजमन्दिरम् ।
धर्मदेवं तथा दत्वा वरदानं यथेप्सितम् ॥१३१॥
प्रजाया रक्षणं शश्वत् करिष्ये तपसाऽप्यहम् ।
तपसो निवृत्तिः कार्या चेत्युक्तो वृष एव सः ॥१३२॥
निववृते तपसश्च ययौ सत्यं ह्यजस्थलम् ।
नारायणः सतीं नीत्वा वर्धिनीं स्वालयं ययौ ॥१३३॥
इत्येवं कथितं लक्ष्मि! वर्धिनीपातिव्रत्यकम् ।
पठनाच्छ्रवणाच्चास्य स्वर्गं मुक्तिं लभेज्जनः ॥१३४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने धर्मारण्ये धर्मतपस्याभंगार्थं समागताया इन्द्रप्रेषितवर्धिन्या अत्सरायाः धर्मकृतपातिव्रत्यबोधेन कृष्णनारायणपातिव्रत्येन मुक्तिरित्यादिनिरूपणनामैकोनचत्वारिंशदधिकचतुश्शततमोऽध्यायः ॥४३९॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP