कृतयुगसन्तानः - अध्यायः ३३६
लक्ष्मीनारायणसंहिता
श्रीनारायण उवाच-
शिवस्त्रिशूलमादाय चन्द्रभागानदीतटे ।
वटाऽधस्तान्निवासं स्वं त्वकरोदन्यरूपधृक् ॥१॥
पुष्पदन्तं पार्षदं च दूतं कृत्वा सुरान्तिकम् ।
हरः प्रस्थापयामास गन्घर्वोत्तममादरात् ॥२॥
पार्षदोऽपि ययौ शंखचूडस्य नगरं प्रति ।
पञ्चयोजनविस्तीर्णं दशयोजनमायतम् ॥३॥
सर्वस्फाटिकपाषाणप्राकारपरिवेष्टितम् ।
सप्तभिः परिखाभिश्च सजलाभिः सुरक्षितम् ॥४॥
मध्ये प्रजानां सुगमं शंखचूडालयं वरम् ।
ददर्श वलयाकारं चतुःप्राकाररक्षितम् ॥५॥
राजितं द्वादशद्वारैर्द्वारपालाभिरक्षतैः ।
मणिमुक्तादर्शरत्नस्वर्णमन्दिरशोभितम् ॥६॥
परितो रक्षितं शश्वद् दानवैः शूरजातिभिः ।
पुष्पदन्तो नवद्वारं प्रविष्याऽभ्यन्तरं गतः ॥७॥
तदन्तर्द्वारपेनाऽयं दूत इत्यवबोधितः ।
शंखचूडस्तमाजुहावाऽभिज्ञातुमुदन्तकम् ॥८॥
पुष्पदन्तः शंखचूडालयं ददर्श शोभितम् ।
मध्ये सिंहासनं स्वर्णं परितो रासभूमिकाः ॥९॥
मणयः खचितास्तासु रत्नपुष्पादिशोभिताः ।
कोटिशो दानवा यत्र भ्रमन्ति शस्त्रधारिणः ॥१०॥
स्वर्णसिंहासने छत्रचामरादिसुशोभिते ।
राजमानं पूर्वमित्रं शंखचूडमुवाच ह ॥११॥
राजेन्द्र! शिवदूतोऽहं पुष्पदन्ताभिधानकः ।
यदुक्तं शंकरेणैव तद् ब्रवीमि निशामय ॥१२॥
राज्यं देहि च देवानामधिकारान् प्रदेहि च ।
विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ॥१३॥
गत्वा वक्ष्यामि किं शंभुं तद्भवान् वक्तुमर्हसि ।
प्रहस्य शंखचूडश्च प्राह तं योधनाय वै ॥१४॥
प्रभाते त्वागमिष्यामि गच्छ कथय शंकरम् ।
पुष्पदन्तो वटं गत्वा शंभुं प्राह यथोदितम् ॥१५॥
शिवेन तु स्मृतास्तत्र तदाऽऽजग्मुर्गणेश्वराः ।
स्कन्दो गणेश्वरो वीरभद्रो नन्दी सुभद्रकः ॥१६॥
महाकालो विशालाक्षो बाणः पिंगाक्षकम्पनौ ।
विरूपो विकृतिर्मणिभद्रविकरबाष्कलाः ॥१७॥
कपिलाक्षो दीर्घदंष्ट्रो बलीभद्रः कुटीचरः ।
कालंटकः कालजिह्वस्ताम्राक्षो दुर्जयोऽगमः ॥१८॥
अष्टौ च भैरवा रुद्राश्चैकादशाष्टवासवाः ।
आदित्या द्वादश चापि वह्निश्चन्द्रोऽश्विनौ तथा ॥१९॥
विश्वकर्मा कुबेरश्च यमश्च नलकूबरः ।
वायुर्जयन्तो वरुणो बुधो धर्मश्च मंगलः ॥२०॥
शनिरीशश्च कामश्च तथाऽन्ये गणपुंगवाः ।
उग्रद्रंष्ट्रा चोग्रचण्डा कोटरी कैटभी तथा ॥२१॥
भद्रकाली तथा चण्डी काली कात्यायनी तथा ।
आययुश्च तदा तत्र नृत्यन्त्यः शंभुसंस्मृताः ॥२२॥
त्रिशूलशक्तिमुद्गरशंखचक्रगदाशरान् ।
वज्रखड्गचापचर्ममुशलपरिघादिकान् ॥२३॥
बिभ्रन्त्यस्ते च बिभ्रन्तः प्रस्तरोपलबर्बुरान् ।
वैष्णवास्त्रं वारुणास्त्रमाग्नेयं नागपाशकम् ॥२४॥
नारायणास्त्रं ब्रह्मास्त्रं गान्धर्वं गारुडं तथा ।
पार्जन्यं वै पाशुपतं जृम्भणार्थं च पार्वतम् ॥२५॥
माहेश्वरास्त्रं वायव्यं दण्डं संमोहनं तथा ।
धारयन्त्योऽथ योगिन्यो डाकिन्यो विकटास्तथा ।२६॥
भूतप्रेतपिशाचाश्च कूष्माण्डब्रह्मराक्षसाः ।
वेतालाश्चैव यक्षाश्च राक्षसाश्चैव किन्नराः ॥२७॥
शंखचूडादिनाशार्थं समाजग्मुर्हरस्थलीम् ।
स्कन्दो नत्वा हरं तत्र वटाधो निषसाद ह ॥२८॥
शंखचूडोऽपि तुलसीं रात्रौ दूतोदितां कथाम् ।
शंकरं प्रति युद्धाय प्रातर्गन्तव्यमाह ताम् ॥२९॥
तुलसी रणवार्तां तु श्रुत्वा शुष्काननाऽभवत् ।
उवाच दुःखमापन्ना हृदयेन विदूयता ॥३०॥
दक्षांगानि स्फुरन्त्यत्र मम नाथ न शोभनम् ।
दुःस्वप्नं च गतरात्रौ दृष्टं महिषवाहनम् ॥३१॥
भवनं मूलतो नष्टं पतितं जलपूरितम् ।
अग्निस्ततः पुनर्जातोऽवशिष्टेषु वने यथा ॥३२॥
अहं केनापि नीता च वृक्षशाखालयं गता ।
नाथाऽन्तोऽयं तु सम्प्राप्तः सम्पत्तेर्वाऽऽत्मनोऽपि वा ॥३३॥
आन्दोलयन्ति प्राणा मां मनो नष्टमिवाऽस्ति मे ।
इति तुलसीवाक्यानि श्रुत्वा भुक्त्वा निपीय च ॥३४॥
शंखचूडः प्राप्तकालं ह्युवाच तां तु तुलसीम् ।
कालेन योजितं सर्वं प्रिये ॥समुपतिष्ठति ॥३५॥
शुभं हर्षं सुखं दुःखं भयं शोकममंगलम् ।
काले वृक्षाः प्रजायन्ते फलन्ति च लिनन्ति च ॥३६॥
तथाऽण्डानि प्रजाश्चापि ब्रह्मादयोऽपि तत्तथा ।
सृष्टा पाता च संहर्ता कालात्मा कृष्ण एव ह ॥३७॥
भज कृष्णं तुलसि त्वं भावि तद् भवतु ध्रुवम् ।
जन्ममृत्युहरं कृष्णनारायणं भज प्रिये! ॥३८॥
कालस्य कालमेवैनं कृष्णं तं शरणं व्रज ।
को बन्धुः रक्षकश्चान्यो बन्धुं तं रक्षकं भज ॥३९॥
आवां तु कर्मणा तेन योजितौ स वियोक्ष्यति ।
अज्ञानी कातरः शोके विपत्तौ न तु पण्डितः ॥४०॥
मृत्यौ नारायणं कान्तं प्राप्स्यसि स्मर तुलसि! ।
तपः कृतं यदर्थं च पुरा बदरिकाश्रमे ॥४१॥
मया त्वं तपसा लब्धा त्वयाऽहं गणशापतः ।
इरेरर्थे तव तपो हरिं प्राप्स्यसि कामिनि ॥४२॥
वृन्दावने तु गोविन्दं गोलोके कृष्णमेव तम् ।
लभिष्यसि तथा चाऽहं लभिष्यामि परं प्रभुम् ॥४३॥
दानवीं तु तनुं त्वक्त्वा मुक्तिं यास्यामि शाश्वतीम् ।
तत्र दृश्यसि मां त्वं च त्वां च द्रक्ष्यामि सन्ततम् ॥४४॥
त्वं हि देहं परित्यज्य दिव्यरूपं विधाय च ।
हरिं द्रक्ष्यसि कान्तं तं मा कान्ते! कातरा भव ॥४५॥
दम्पती संविचार्यैवं क्रीडाकौतुकमंगलैः ।
सर्वं वै नश्वरं मत्वा निमग्नौ सुखसागरे ॥४६॥
पुलकांकितसर्वांगौ सुप्रीतौ सुरतोत्सुकौ ।
सुखसुप्तौ कथयन्तौ कथां रसभरां तथा ॥४७॥
हसन्तौ भुक्तवन्तौ च ताम्बूलं तु परस्परम् ।
ददन्तौ निद्रया व्याप्तौ रात्रिं निन्यतुरेव तौ ॥८८॥
प्रातरुत्थाय मनसा ध्यात्वा कृष्णं स दानवः ।
स्नात्वा वस्त्राणि धृत्वा च कृत्वा तिलकचन्द्रकौ ॥४९॥
देवपूजां पितृतृप्तिं गुरोर्वन्दनमित्यपि ।
कृत्वा गोपूजनं लाजादधिमध्वाज्यदर्शनम् ॥५०॥
रत्नाम्बरमणिस्वर्णाद्यं ददौ स द्विजातये ।
ददौ विप्राय शकुने मुक्तामाणिक्यहीरकान् ॥५१॥
गजाश्वधेनूः प्रददौ यात्रामंगलहेतवे ।
कोशक्षेत्रपत्तनानि ब्राह्मणेभ्यो ददौ मुदा ॥५२॥
पुत्रं कृत्वा च राजेन्द्रं सुचन्द्रं दानवेषु च ।
पुत्रं समर्प्य भार्यां च स्वराज्यं सर्वसम्पदम् ॥५३॥
स्वयं भुक्त्वा तथा पीत्वा प्रसम्मील्य सुतादिकान् ।
वर्म धृत्वाऽस्त्रशस्त्राणि धनुष्पाणिर्बभूव ह ॥५४॥
आहूय तत्र सैन्यानि समसज्जोऽभवत्तदा ।
अश्वानां लक्षमेकं द्वे पञ्चलक्षं च हस्तिनाम् ॥५५॥
रथानामयुतं धानुष्काणां कोटित्रयं तथा ।
चर्मिणां शूलिनां कोटित्रयं प्रत्येकमित्यपि ॥५६॥
दैत्यानां दानवानां च पत्तीनां गणना तु न ।
यत्र सेनापतिः सर्वशस्त्राऽस्त्रमन्त्रमायिकः ॥५७॥
वायुयानवारियानपातालयानशारदः ।
त्रिलक्षाणां सैनिकानामक्षौहिणीश्च तत्र वै ॥५८॥
त्रिंशत्कृत्वा श्रेष्ठभटमूर्धन्यानां महासुरः ।
बहिर्बभूव शिबिरान्मनसा श्रीहरिं स्मरन् ॥५९॥
शंकरस्यापि सैन्यानि पञ्चविंशतिकोटयः ।
सर्वयोद्धृप्रमुख्यानामभवंस्तत्र पद्मजे ॥६०॥
अन्येषां तु गणना वै नास्ति ते शतकोटयः ।
शंकरस्याऽभवत् सेनापतिः स्कन्दो महाबलः ॥६१॥
शंखचूडस्य तु सेनापतिः राहुस्तदाऽभवत् ।
तयोरवादयँस्तत्र रणे वाद्यानि वै मुहुः ॥६२॥
पुष्पभद्रानदीतीरे शंखचूडो विमानगः ।
ददर्श वटमूले तं शंकरं योगमास्थितम् ॥६३॥
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं वरम् ।
तप्तकांचनवर्णाभं जटाजालसुशोभितम् ॥६४॥
त्रिनेत्रं पञ्चवक्त्रं च नागयज्ञोपवीतकम् ।
भक्तमृत्युहरं शान्तं दृष्ट्वा मृत्युपतिं हरम् ॥६५॥
अवरुह्य विमानात्तु भक्त्या ननाम शंकरम् ।
महादेवश्च कृपया तं वै दत्वा शुभाशिषः ॥६६॥
उवाच ब्रह्मणः पुत्रो मरीचिस्तस्य कश्यपः ।
तस्मै दक्षो ददौ कन्यास्त्रयोदश हि धर्मतः ॥६७॥
अदितिर्दितिर्दनुः कालाऽरिष्टा सुरसा तथा ।
सुरभिर्विनता चापि ताम्रा क्रोधवशा इरा ॥६८॥
कद्रूर्मुनिश्च तासां वै प्रजा जाता विजातयः ।
अदितेर्द्वादशाऽऽदित्या जाताः प्रथमसूनवः ॥६९॥
धाताऽर्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ।
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ॥७०॥
ततस्त्वष्टा ततो विष्णुरेते कश्यपपुत्रकाः ।
दितेः पुत्रद्वयं हिरण्यकशिपुः सहाऽग्रजः ॥७१॥
हिरण्याऽक्षस्त्वपरश्चेत्युभौ पुत्री च संहिका ।
राहोः सा जननी देवी विप्रचित्तेः परिग्रहः ॥७२॥
हिरण्यकशिपोः पुत्राश्चत्वारश्च महाबलाः ।
प्रह्लादश्चानुह्रादश्च संह्रादो ह्लाद इत्यथ ॥७३॥
हिरण्याक्षस्य पुत्राश्च षड् वै सर्वे महाबलाः ।
उत्करः शकुनिश्चैव कालनाभस्तथाऽपरः ॥७४॥
महानाभश्च विक्रान्तो भूतसन्तापनस्तथा ।
दनोः पुत्राः शतं विप्रचितिमुख्यास्तु दानवाः ॥७५॥
द्विमूर्धा शंकुकर्णश्च तथा शंकुनिरामयः ।
शंकुनासो महाविश्वो गवेष्ठिर्दुन्दुभिस्तथा ॥७६॥
अजामुखोऽथ भगहृत् शिलो वामनसस्तथा ।
मरीचिरक्षकश्चापि महागार्ग्योऽङ्गिरावृतः ॥७७॥
विक्षोभ्यश्च सुकेतुश्च सुवीर्यः सुहृदस्तथा ।
इन्द्रजिद् विश्वजिच्चापि तथा सुरविमर्दनः ॥७८॥
एकचक्रः सुवाहश्च तारकश्च महाबलः ।
वैश्वानरः पुलोमा च प्रवीणोऽथ महाशिराः ॥७९॥
स्वर्भानुर्वृषपर्वा च मुण्डकश्च महासुरः ।
धृतराष्ट्रश्च सूर्यश्च चन्द्र इन्द्रश्च तापनः ॥८०॥
सूक्ष्मश्चापि निचन्द्रश्च ऊर्णनाभो महागिरिः
असिलोमा सुकेशश्च सदश्च बलकस्तथा ॥८१॥
व्योममूर्धा कुंभनाभो महोदरो महाहनुः ।
प्रमोदाहश्च कुपथो हयग्रीवश्च वीर्यवान् ॥८२॥
असुरश्च विरूपाक्षः सुपथोऽथ महासुरः ।
अजो हिरण्मयश्चापि शतमायुश्च शम्बरः ॥८३॥
शरभः शलभश्चापि प्रधाना दनुसूनवः ।
एते चान्येऽपि युद्धे वै दानवास्ते ह्युपस्थिताः ॥८४॥
कालायाः कालरूपाश्चाऽभवन् पुत्राः क्षणादयः ।
अरिष्टाया आरिष्टेया विघ्नाः पुत्राः सहस्रशः ॥८५॥
सुरसाया नागसर्पा वासुकितक्षकादयः ।
सुरभिः कश्यपाज्जज्ञे रुद्रानेकादशात्मजान् ॥८६॥
अंगारकं तथा सर्पं निर्ऋतिं सदसस्पतिम् ।
अत्रैकपादहिर्बुध्नावूर्ध्वकेतुं ज्वरं तथा ॥८७॥
भुवनं चेश्वरं मृत्युं कपालं चैव विश्रुतम् ।
विनतायास्तु पुत्रौ द्वावरुणो गरुडश्च ह ॥८८॥
षड्त्रिंशत् तु स्वसारश्च यवीयस्यस्तु ताः स्मृताः ।
ताम्रायास्तु शुकी क्रौंची धृतराष्ट्री च पक्षिणी ॥८९॥
श्येनी भासी तथा चान्या पक्षिण्यो ह्यभवन् प्रजाः ।
अथ क्रोधवशायास्तु कन्यका द्वादश स्मृताः ॥९०॥
मृगी च मृगमन्दा च हरिभद्रा इरावती ।
भूता च कपिशा दंष्ट्रा निशा तिर्या तथाऽपरा ॥९१॥
श्वेता चापि स्वरा चापि सुरसा चेति विश्रुताः ।
अथ इरा प्रजज्ञे वै तिस्रः कन्याः सुलोचनाः ॥९२॥
लतां वल्लीं विरुधां च तदपत्यानि भूरिशः ।
कद्रूर्नागसहस्रं वै काद्रवेयाश्च ते स्मृताः ॥९३॥
अथ मुनेस्तु मौनेया गन्धर्वाऽप्सरसश्च ते ।
एतेषां वंशविस्तारो कोटिसंख्याधिकोऽभवत् ॥९४॥
अदितिर्धर्मशीलाऽस्ति बलशीला दितिः स्मृता ।
तपःशीला तु सुरभिर्मायाशीला दनुः स्मृता ॥९५॥
मुनिश्च गन्धशीला वै गतिशीला त्वरिष्टिका ।
क्षुधाशीला तु कालास्या कद्रूः क्रूरस्वभाविनी ॥९६॥
इराऽनुग्रहशीला च अरिष्टा क्रोधशालिनी ।
वाहशीला तु विनता ताम्रा वै पाशशालिनी ॥९७॥
धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः ।
मातृतुल्याश्चाभिजाताः कश्यपस्याऽऽत्मजाः प्रजाः ॥९८॥
देवताऽसुरगन्धर्वा यक्षराक्षसपन्नगाः ।
पिशाचाः पशवश्चापि मृगाः पतगवीरुधः ॥९९॥
शंखचूड! विजानीहि तव पक्षे समागतान् ।
ते चैतेऽसुरपक्षीया दैत्याश्च दानवास्तथा ॥१००॥
सुराणां ते प्रतिपक्षा मच्छस्त्राऽतिथयस्तु ते ।
ये च देवसमाः सुरपक्षगास्ते मयाऽसुर! ॥१०१॥
रक्षणीया मया सर्वे सज्जो भवाऽत्र दानव! ।
दनोः पुत्रस्य तु विप्रचितेः दंभाभिधः सुतः ॥१०२॥
विष्णुभक्तो मम सखा तस्यासि त्वं सुतो महान् ।
पुत्रार्थं पुष्करे कृष्णमन्त्रं जजाप ते पिता ॥१०३॥
चचार तप उग्रं च सहस्राब्दं तु ते पिता ।
तत्प्रतापेन पुत्रस्त्वं सुदामा शंखचूडकः ॥१०४॥
किं ते वै कलहेनाऽद्य यदि जानासि मां हरम् ।
यदि जानासि भक्तं स्वं सुदामानं तु दानवम् ॥१०५॥
सालोक्यसार्ष्टिसारूप्यसामीप्यैक्यं हरेरपि ।
दीयमानं न गृह्णन्ति वैष्णवाः सेवनं विना ॥१०६॥
कृष्णभक्तस्य ते किं वा राज्येन कलहेन वा ।
देहि राज्यं तु देवानां मत्प्रीतिं कुरु दानव ॥१०७॥
सुखं स्वराज्ये त्वं तिष्ठ देवाः सन्तु स्वके पदे ।
अलं भ्रातृविरोधेन सर्वे हि कश्यपात्मजाः ॥१०८॥
यानि कानि च पापानि ज्ञातिद्रोहसमानि न ।
काले नाशो भवत्येव ब्रह्मणोऽपि तवाऽत्र किम् ॥१०९॥
सर्वावस्थासु समता सर्वदा नहि कस्यचित् ।
त्यज ज्ञानेन भक्तेन्द्र! मा विरोधेन दानव! ॥११०॥
सूर्यचन्द्रादयः सर्वे वर्धन्तेऽवतरन्ति च ।
कालेन पृथ्वी ससस्या कालेन श्रीवियोगिनी ॥१११॥
कालेन त्वं महास्मृद्धः स ते कालो विवर्तते ।
अहं मृत्युञ्जयः कालः संहरामि तु देहिनः ॥११२॥
करोमि सततं कृष्णनामसद्गुणकीर्तनम् ।
त्वं तु सर्वं परित्यज्य कुरु कृष्णस्य कीर्तनम् ॥११३॥
इत्युक्त्वा विररामैनं शंकरो लोकशंकरः ।
तथापि शंखचूडस्य मतं नाऽभून्मनागपि ॥११४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तुलसीविवाहाख्याने त्रिशूलयुक्तशंकरः पुष्पवन्तं दूतं शंखचूडं प्रति प्रेषयामास, शंखचूडतुलस्योर्ज्ञानं, शंखचूडस्य प्रातर्युद्धाय यानं, कश्यपस्य त्रयोदशपत्नीनां वंशे दानवस्त्वं शंखचूडः सुदामेति शंकरेण स्मारितम्, शंभोरुपदेशश्चेत्यादिनिरूपणनामा षट्त्रिंशदधिकत्रिशततमोऽध्यायः ॥३३६॥
N/A
References : N/A
Last Updated : March 31, 2021
TOP