संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ४०१

कृतयुगसन्तानः - अध्यायः ४०१

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
भगवन् श्रावितं मह्यं समाख्यानं सुखप्रदम् ।
विना त्वां कः समर्थोऽस्ति भक्तेच्छापूरणाय वै ॥१॥
पूर्वं केन कृतं तेऽत्र दर्शनं भक्तिभाविना ।
केन वा दृश्यते कृष्णनारायणो दयालयः ॥२॥
विमानं चापि देवार्थं कः करिष्यति भाविनि ।
तान्मे सर्वांश्चमत्कारान् श्रीशस्य वक्तुमर्हसि ॥३॥
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि चमत्कारान् पुरागतान् ।
यच्छ्रुत्वा च भवेद् भक्तिर्मयि रंकस्य चापि वै ॥४॥
राजा दीनः पशुः पक्षी नरो नारी सती सुता ।
या मे भक्ता महाभागवतीं तां विदधाम्यहम् ॥५॥
अवश्यं तु भवितव्यं तेन मदीयकेन वै ।
मत्तो येनेच्छनीयं तु सुखं शाश्वतिकं प्रिये ॥६॥
भविष्यन्तं सुवृत्तान्तं प्रवदामि निबोध मे ।
वेंकटाद्रौ वसुनामा निषादो भक्तिमान्मम ॥७॥
श्यामाकक्षेत्रपालोऽसौ श्यामाकजीवनोऽभवत् ।
श्यामाकतण्डुलान् पक्त्वा कृत्वा शर्करयाऽन्वितान् ॥८॥
निवेद्य श्रीनिवासाय श्रीभूमिसहिताय सः ।
भुंक्ते भार्यासहयुतस्ततः कार्ये प्रवर्तते ॥९॥
एवं प्रसादभक्ष्येण पवित्रः सर्वदा शुचिः ।
वैष्णवः परमो जातो भार्याऽपि वैष्णवी ह्यभूत् ॥१०॥
नाम्ना चित्रवती साध्वी पातिव्रत्यपरायणा ।
देवं यद्वत् पतिं तद्वत् सेवते तद्वशा सदा ॥११॥
स्नाति पूजां प्रकरोति जपं करोति शार्ङ्गिणः ।
कृष्णं ध्यायति स्मरति मूर्तीः शृणोति सत्कथाम् ॥१२॥
पतिं देवं समं कृत्वा मानयित्वा समं सदा ।
उभयोः किंकरी -भूत्वा दास्यं करोति सर्वथा ॥१३॥
मध्याह्ने च निशि सायं प्रातर्भोजनमीश्वरे ।
समर्पितं जलं पुष्पं सर्वं गृह्णाति सा सती ॥१४॥
धन्या निषादजातीया ब्राह्मी दिव्या हि वर्तते ।
विप्राणीव सुधर्मिष्ठा कुलत्रयस्य तारिणी ॥१५॥
प्राप्ते काले पुत्रवती बभूव भामिनी ततः ।
वीररुद्रइतिनाम चकार तस्य वै पिता ॥१६॥
वसुः पुत्रेण सहितो भार्यया भक्तिभक्तया ।
मोदते स्वस्य भोज्यादौ सन्तुष्टो देवसेवया ॥१७॥
अथैकदा स्वकं पुत्रं श्यामाकं पालयेति च ।
विसृज्य क्षेत्ररक्षार्थं पत्नीयुक्तो वनं ययौ ॥१८॥
मधुमार्गणकार्यौ तावुभौ भ्रमत एच्छिकम् ।
मध्याह्ने प्राप्तवन्तौ तौ मधु पुष्कलमेव यत् ॥१९॥
मध्याह्ने बालकः पक्वश्यामाकफालिकाः शुभाः ।
गृहीत्वाऽग्नौ निधायैव पिष्ट्वा वृक्षतले मुदा ॥२०॥
पर्णे निवेदयामास हरये भोजनं जलम् ।
नैवेद्यं तत्प्रसादं च भोजयित्वाऽऽस शान्तितः ॥२१॥
तावत् तत्पितरौ मिष्टं मध्वादाय समागतौ ।
श्यामाकान् भक्षितान् दृष्ट्वा सन्तर्ज्य सुतमेव तम् ॥२२॥
वसुर्दण्डं समुद्यम्य हन्तुं तं हस्तमुद्दधे ।
वीररुद्रस्य हृद्ये स्थितो वै भगवान् स्वयम् ॥२३॥
दण्डं जग्राह हस्तेन चाविर्भूय वसोः पुरः ।
दण्डो गृहीतः केनेति वसुः कृष्णं ददर्श ह ॥२४॥
शंखचक्रगदापाणिं दिव्यतेजोमयं विभुम् ।
वसुर्दण्डं परित्यज्य प्रणम्योवाच तं हरिम् ॥२५॥
किमिदं भगवन् पुत्ररक्षार्थं त्वं समागतः ।
अनेन नाशिताः पश्य पक्वश्यामाकफालिकाः ॥२६॥
दण्डपात्रं भवत्येव पुनः कुर्यान्न तत्तथा ।.
इतिश्रुत्वा हरिः प्राह पुत्रस्ते भक्तिमान् मयि ॥२७॥
त्वत्तोऽपि मे प्रियतमस्तस्माद् रक्षार्थमागतः ।
श्यामाका भर्जिताश्चूर्णीकृताः पिष्टास्ततः परम् ॥२८॥
नैवेद्यं मेऽर्पयित्वा स भुक्तवान् भक्तराट् मम ।
श्यामाकानां बीजभावं गतानामात्मनां मया ॥२९॥
कृता मुक्तिस्तथा तेऽपि पुण्यं दत्तं हि शाश्वतम् ।
यदर्पणं कृतं मह्यं त्वत्कृषीयकणादिकम् ॥३०॥
अत्र सर्वत्र तिष्ठामि मम भक्तस्य सन्निधौ ।
रक्षां करोमि भक्तस्य जाग्रतौ च सुषुप्तिके ॥३१॥
दिवानिशं भक्तरक्षाकरोऽस्म्येव वसो सदा ।
स्वामिपुष्करिणीतीरे रम्ये वसामि सर्वथा ॥३२॥
इत्युक्त्वा भगवान् वसुदत्तं मधु सुमिष्टकम् ।
चित्रवत्याऽर्पितं बृस्यासनं फलजलादिकम् ॥३३॥
गृहीत्वा श्रीनिवासः श्रीकृष्णनारायणः स्वयम् ।
प्रहसन् वै तिरोभूत् ते त्रयो वृक्षतलं श्रिताः ॥३४॥
इत्येव श्रीभगवता भक्तवश्येन पद्मजे ।
साक्षात् स्वदर्शनं दत्तं निषादाय महात्मने ॥३५॥
शृणु त्वन्यां कथां तत्र या जाता समये तदा ।
तावत् तत्र समायातो यात्रिकः शूद्रवर्णकः ॥३६॥
मार्गेण निर्गतो विष्णुभक्तः पाण्ड्यप्रदेशजः ।
द्वादशवर्षको बालः पप्रच्छ वीररुद्रकम् ॥३७॥
मार्गोऽयं श्रीनिवासस्य तीर्थं गच्छति किं न वा? ।
मया तीर्थविधानार्थं गन्तव्यं तत्र विद्यते ॥३८॥
इति पृष्ट्वा श्रीनिवासस्थानस्य वर्त्मना तु सः ।
वीरप्रदर्शितेनाऽसौ गतवान् भावसंभृतः ॥३९॥
नारायणपुरीं प्राप्य श्रीवराहं प्रणम्य च ।
हृदि स्मृत्वा श्रीनिवासं वेंकटाद्रिनिवासिनम् ॥४०॥
सुवर्णमुखरीं प्राप्य स्नात्वा चोत्तीर्य तां ततः ।
कमले सरसि स्नात्वा तत्तीरस्थं हरिं बलम् ॥४१॥
नमस्कृत्य वनं प्राप्य शेषाद्रिं तु ययौ हि सः ।
जलनिर्झरणं दृष्ट्वा कपिलापूजितं शिवम् ॥४२॥
पूजयित्वा चक्रतीर्थे स्नात्वा श्रीवेंकटाचलम् ।
शनैः शनैर्ययौ बालः समारुरोह पर्वतम् ॥४३॥
स्वामिपुष्करिणीं स्नात्वा तटे चिञ्चातरोरधः ।
वैखानसेन मुनिना गोपीनाथेन पूजितम् ॥४४॥
आकाशस्थं पीतनीलाकृतिं श्रीभूमिसेवितम् ।
शंखचक्रगदाखड्गपद्मादिहेतिशोभितम् ॥४५॥
सगरुडं स्वपक्षाभ्यां धृतवन्तं वितानकम् ।
ददर्श बालः संहृष्टो बभूवाऽथ कृतार्थताम् ॥४६॥
मेने तत्रेव वसितुं जन्मसार्थक्यमित्यपि ।
एवं दत्वा दर्शनं श्रीनिवासोऽदृश्यतां गतः ॥४७॥
दिव्यवाण्या वदन् पुत्र! मन्दिरं रचयात्र मे ।
श्रुत्वा बालो रंगदासस्तरोर्मूलेऽवसत् सुधीः ॥४८॥
वैखानसेन नैवेद्यं भिक्षां संगृह्य विष्णवे ।
समर्प्याऽत्ति फलाद्यं च नैवेद्येऽप्यार्पयप्यथ ॥४९॥
नित्यं वृक्षान् शनैश्छित्त्वा चिञ्चाभूरुहमन्तरा ।
रमायाश्चम्पकतरुं विहाय पार्श्वगान् स्थलीम् ॥५०॥
निर्वृक्षां प्रचकाराऽसौ रंगदासोऽतिशोभिताम् ।
निर्मूलां संस्कृतां कृत्वा बहुविस्तारमण्डलम् ॥५१॥
शिलाभित्तिमयदुर्गरक्षितं प्रचकार सः ।
तत्राऽभितः समुद्यानं पुष्पफलद्रुमाश्रितम् ॥५२ ॥
चकार कर्णिकामल्लिकाब्जमन्दारमालती ।
कुन्दचम्पकतुलसीः कदलीनवरंगकान ॥५३॥
आम्रपनसद्राक्षादीन् श्रीफलादीनवर्धयत् ।
खनित्वाऽतिसलिलं च कूपं वृक्षानतर्पयत् ॥५४॥
आरामपुष्पमालाभिः श्रीनिवासमपूजयत् ।
एवं सेवां प्रकुर्वन् स तस्थौ तत्रैव तं भजन् ॥५५॥
एकदा तत्र सरसि स्नातुं गन्धर्व आययौ ।
कन्याभिः सुन्दरीभिः सुयुवतीभिः समं तदा ॥५६॥
जलक्रीडां करोति स्म दिवि न्यस्य विमानकम् ।
पश्यन् श्रीरंगदासोऽपि मुमोह कन्यकासु सः ॥५७॥
मुग्धवद् दर्शनं तासां कृत्वा स्तब्धोऽभवद् यतः ।
व्यस्मरन्माल्यमालादि ग्रन्थितुं जडवत्तदा ॥५८॥
आमध्याह्नं तथा तस्थौ मालां पुष्पाणि नाऽस्मरत् ।
गन्धर्वोऽपि खेलयित्वा कान्ताभिः सह तद्बहिः ॥५९॥
विनिर्गत्य विमानेन ययौ स धनदालयम् ।
रंगदासोऽपि संस्नात्वा स्वस्थो भूत्वा च मालिकाः ॥६०॥
ग्रथित्वाऽऽदाय पुष्पाणि श्रीनिवासालयं ययौ ।
तत्रत्थपूजकेनोक्तं किमद्य चिरकार्यसि ॥६१॥
न वद्धा मालिका मित्र! पूजाकालोऽपि निर्गतः ।
एवमुक्तोऽपि नाऽवोचद्रंगदासो हि लज्जया ॥६२॥
तदा तं श्रीनिवासो वै स्वयं प्रोवाच लज्जितम् ।
रंगदास! हृद्ये ते स्मर्यन्ते तास्तु कन्यकाः ॥६३॥
मम मायाविमोहेन मा लज्जां वह भक्तराट् ।
गन्धर्वराजवद् राजा भविताऽसि महीतले ॥६४॥
भुंक्ष्व भोगान् बहुमतान् दिव्याँस्तृप्तिप्रदाँस्ततः ।
प्राकारं च विमानं मे मन्दिरं कारयिष्यसि ॥६५॥
ततो मुक्तिं प्रदास्यामि भक्ताय सेवकाय ते ।
अत्रैव कुरु सेवां त्वमाशरीरविमोक्षणात् ॥६६॥
इत्युक्त्वा श्रीनिवासश्च विष्णुर्जग्राह मालिकाम् ।
रंगदासः पूजयित्वाऽऽरामं पुनः समाययौ ॥६७॥
साग्रं शताब्दं संजीव्य सेवित्वा श्रीनिवासकम् ।
शरीरं तद्विहायैव जातः सोमकुले नृपः ॥६८॥
जातिस्मरो दिव्यदृष्टिस्तोण्डमानिति नामतः ।
सौवीराख्यनृपपुत्रो नन्दिनीजननीभवः ॥६९॥
सः पञ्चवर्षकश्चासीद् भगवद्भक्तिसंभृतः ।
सर्वभक्तिपुष्टिदातृसद्गुणादिसुमण्डितः ॥७०॥
पांड्यस्य तनयां चारुपद्माख्यां सुमनोहराम् ।
उपयेमे तथाऽन्याश्च कन्याः कामस्वरूपिणीः ॥७१॥
रेमे नारायणपत्तनाधिपस्तोण्डमान्नृपः ।
अथैकदा ययौ श्रीवेंकटाद्रौ मृगयामनु ॥७२॥
ददर्श गजयूथेशं ग्रहीतुं तमनुद्रुतः ।
सुवर्णमुखरीं तीर्त्वा शुकं नत्वा च रेणुकाम् ॥७३॥
वल्मीकाकारदेवीं च नत्वा स पश्चिमां ययौ ।
कंचिच्छुकं पञ्चवर्णं जिघृक्षुस्तमनुद्रतः ॥७४॥
शुको वदन् श्रीनिवास इति द्राक् पर्वतं ययौ ।
राजाऽप्यनुद्रवन् कीरं वेकटाद्रिं समारुहत् ॥७५॥
अग्रे गच्छन् हरितं स श्यामाकक्षेत्रमेयीवान् ।
क्षेत्रपालस्तोण्डमानं ज्ञात्वा सत्कृतिमाचरत् ॥७६॥
तोण्डमानोऽपि पप्रच्छ क्षेत्रपं कः शुकोऽस्ति सः ।
क्षेत्रपः प्राह राजेन्द्र! श्रीनिवासप्रियः सदा ॥७७॥
पार्श्ववर्ती सदा तस्य श्रीभूमिभ्यां विवर्धितः ।
स्वामिपुष्करिणीतीरे सदाऽऽस्ते हरिसन्निधौ ॥७८॥
दिवा विहृत्याऽद्रिवने सायं गच्छति मन्दिरम् ।
ग्रहीतुं शक्यते नैव केनापि स शुको नृप! ॥७९॥
इत्युक्त्वा भूभृता साकं क्षेत्रपो मन्दिरं ययौ ।
स्नात्वा स्वामिपुष्करिण्यां बिल्वमूलस्थितं प्रभुम् ॥८०॥
सुशृंगारिसन्मूर्तिं श्रीभूयुक्तं ददर्श ह ।
वल्मीकगूढपादाब्जमाजानुपुरुषोत्तमम् ॥८१॥
क्षेत्रपो भूपतिश्चोभौ ववन्दतुः प्रणेमतुः ।
क्षेत्रपः श्यामाकपाकं निवेद्य हरयेऽर्घकम् ॥८२ ॥
ददौ राज्ञे च शिष्टार्धं ततः क्षेत्रं पुनर्ययौ ।
तोण्डमानोऽप्येकरात्रिमुषित्वा रेणुकावनम् ॥८३॥
चैत्रशुक्लनवम्यामानर्च गत्वा स रेणुकाम् ।
हविष्यान्नं परमान्नं सोपस्करं ददौ नृपः ॥८४॥
देवी तुष्टा वरं राज्ञे ददौ राज्यमकण्टकम् ।
भविता तव नाम्ना च राजधानी ममाऽन्तिके ॥८५॥
श्रीनिवासप्रसादस्य पात्रं चिरं भविष्यसि ।
अथ तोण्डी शुकं गत्वा नत्वा तस्य मुखात्तथा ॥८६॥
माहात्म्यं पद्मसरसः श्रुतवान् पापनाशकम् ।
पुरात्र पद्मया साकं विष्णुश्चक्रे तपः परम् ॥८७॥
देवैः स्तुतो महाविष्णुर्नाम पद्मासरोऽकरोत् ।
इतिश्रुत्वा ययौ तोण्डी राजधानीं पितुः पुरीम् ॥८८॥
पित्राऽभिषिक्तो राज्ये स्वे वसुनाऽथ वसुस्ततः ।
वाराहवल्मीकयात्राकरणार्थं ययौ मुदा ॥८९॥
तत्र वाराहभगवान् रात्रौ निर्गत्य तत्स्थलात् ।
श्यामाकानत्ति चाऽदृश्यो दिवा विशति तत्स्थले ॥ ९०॥
क्षेत्रपः खनयामास वल्मीकं वल्मीकं वीक्ष्य तत्तथा ।
वल्मीकाद् वाराहरूपो भगवानुत्थितोऽभवत् ॥ ९१॥
क्षेत्रपसन्निधौ प्राह राजानं मम मन्दिरम् ।
कारयात्र तव पुत्रद्वाराऽत्र निवसाम्यहम् ॥ ९२ ॥
वल्मीकं कृष्णगोक्षीरैः क्षालयित्वा तदुत्थिते ।
शिलातले तु वाराहं चोत्कृत्य तत्र मन्दिरे ॥ ९३॥
प्रतिष्ठाप्य च मन्मूर्तिं प्रपूजय सदा नृप! ।
इत्युक्त्वा श्रीवराहस्तु तिरोऽभूत् स वसुस्ततः ॥९४॥
गत्वा गृहं तोण्डमानाभिधं प्राह सुतं कुरु ।
मन्दिरं श्रीवराहस्य मूर्तिं स्थापय तत्र च ॥ ९५॥
तोण्डमानोऽपि रात्रौ वै स्वप्ने सर्वं ददर्श तत् ।
प्रातरुत्थाय गा नीत्वा ययौ वल्मीकसन्निधौ ॥ ९६॥
क्षालयामास दुग्धैश्च शिलायां च वराहकम् ।
कारयित्वा स्थापयित्वा मन्दिरे तं परं प्रभुम् ॥९७॥
पूजां वै कारयामास राजधानीं चकार सः ।
स्वप्ने दृष्टं बिलं तेन वल्मीकसन्निधौ तु यत् ॥९८॥
बिलमन्तःपुरे कुत्वा प्राकारं समकारयत् ।
आशीर्वचोऽनुसारेण निर्ममे तत्र पत्तनम् ॥९९॥
चिञ्चां च चम्पकं चायं ररक्ष दुर्गमध्यतः ।
नित्यं बिलेन चागत्य देवं नत्वा स तोण्डमान् ॥१००॥
राज्यं चकार धर्मेण पृथ्वीं जिगाय तत्स्थितः ।
तोण्डमद्वंशजो राजा नाम्ना नारायणः शुभः ॥१०१॥
विमानं दिव्यमेवात्र प्राकारेऽकारयच्छुभम् ।
दिव्यमदृश्यमेवैतद् भक्तमात्राऽवलोकितम् ॥१०२॥
अभजच्छ्रीहरिं तत्र वाराहं दिव्यरूपिणम् ।
गोपालबालकं कृष्णं कांभरेयं श्रियः पतिम् ॥१०३॥
श्रीरंगं श्रीवेंकटेशं चाऽभजन्नित्यमेव सः ।
इत्युक्तं ते महालक्ष्मि! पूर्वाख्यानमनुत्तमम् ॥१०४॥
श्रीरंगाऽपरजन्मस्थतोण्डमत्कारितं महत् ।
मन्दिरं यत्र भगवान् वाराहः श्रीधरायुतः ॥१०५॥
वर्तते दर्शनं चापि ददाति सात्त्वताय सः ।
अथाऽन्यदपि सामर्थ्यं शृणु ते कथयामि च ॥१०६॥
दाक्षिणात्यो द्विजः पत्नीसहितस्तीर्थवाञ्च्छया ।
समायातो गर्भवतीं पत्नीं गन्तुं तदाऽक्षमाम् ॥१०७॥
विलोक्य वीरशर्मा सः राजानं समुपागमत् ।
अकथयच्च तत्सर्वं तीर्थे विघ्नतमं यथा ॥१०८॥
शृणु राजन् मम पत्नी गुर्विणी भजनोन्मुखी ।
संस्थाप्यैनां गृहे ते च तीर्थं निर्वर्तयाम्यहम् ॥१०९॥
तावत्त्वं रक्षय स्वामिव्रतां लक्ष्म्यभिधा प्रियाम् ।
काशीप्रभृतितीर्थानि कृत्वा यावन्निवर्तये ॥११०॥
इत्युक्त्वा तां विसृज्यैव ब्राह्मणो निर्ययौ ततः ।
राज्ञाऽन्नादि प्रदाप्यैव वाटिकायां निवासिता ॥१११॥
विप्रस्यागमपूर्वं सा मृता ज्वरेण पीडिता ।
ब्राह्मणोऽप्यकरोत् पद्भ्यां दीर्घकालिकयात्रिकाम् ॥११२॥
नवमासा व्यतीता वै यत्र यत्र गतो यथा ।
गंगां काशीं प्रयागं च गयां साकेतपत्तनम् ॥११३॥
बदरिकाश्रमं शालग्रामं च पुष्करं तथा ।
सरस्वतीं कुशस्थलीं रैवतं सोमनाथकम् ॥११४॥
अश्वपट्टसरश्चापि तपतीं नर्मदां तथा ।
कुकुमवापिकां सिंहारण्यं गोकर्णतीर्थकम् ॥११५॥
गोमतीं चेति तीर्थानि कृत्वा तु चैत्रके हि सः ।
मासे शुक्लैकादश्यां स राजानं प्रति चाययौ ॥११६॥
ब्राह्मणी कुशला चास्तीत्युवाच नृपतिं तदा ।
राजा तत्र ययौ यत्र रक्षिता ब्राह्मणी मृता ॥११७॥
दृष्टा राज्ञा मृता सा तु शीघ्रं बिलेन मन्दिरम् ।
श्रीवेंकटेशं गतवान् राजा प्राह तदा हरिम् ॥११८॥
भगवन्! ब्राह्मणी विप्रन्यासरूपा मृतास्ति सा ।
संशप्स्यति स विप्रो मां कृपां कुरु ममोपरि ॥११९॥
श्रीनिवासेन संप्रोक्तं दत्तं जलं प्रसादजम् ।
द्वादश्यामस्थिसरसि स्नापयैनां ततः खलु ॥१२०॥
प्राप्तजीवा यथापूर्वा भविष्यति न संशयः ।
शवं नीत्वा नृपस्तत्राऽऽययौ यत्राऽस्थिपल्वलम् ॥१२१॥
जलेनाप्लाव्य कुणपं राजा सस्मार तां सतीम् ।
तावत् दिव्यशरीरा सा नृपराज्ञ्यपरा यथा ॥१२२॥
समुत्थिता सगर्भा सा प्रसन्ना तदवस्थिका ।
आनीय शीघ्रं विप्राय ददौ विस्मयमाप सः ॥१२३॥
न गर्भो गलितः सोऽयं प्रतापोऽस्ति हरेः खलु ।
ततोऽपरे दिने तस्याः प्रसूतिः समजायत ॥१२४॥
पुत्रो देवसमो जातो नीत्वा मासोत्तरं द्विजः ।
राज्ञा प्रदत्तदानादि गृहीत्वा स्वगृह ययौ ॥१२५॥
इत्युक्तस्ते चमत्कारो भगवद्भक्तिकारिणः ।
अथ कृष्णः श्रीनिवासो राजानं पुनरब्रवीत् ॥१२६॥
नैवेद्यान्ते प्रत्यहं मेऽर्चनं सुवर्णपद्मकैः ।
कुरु राजन् यद्यदिष्टं सर्वं ते वै भविष्यति ॥१२७॥
राजा तोण्डी चकारैवं नित्यं कमलपूजनम् ।
एकदा तुलसीपुष्पं त्वपश्यत्स तु मृन्मयम् ॥१२८॥
विस्मितः श्रीहरिं राजा पप्रच्छ कोऽनुयाति हि ।
हरिः प्राह कुलालो मे भक्तोऽर्चयति मां तथा ॥१२९॥
स्वगृहेऽर्चयति क्ष्मेश! तदङ्गीक्रियते मया ।
इतिश्रुत्वा ययौ कुर्वत्पुरं द्रष्टुं कुलालकम् ॥१३०॥
भीमाख्यं तं तथाभूतं पूजयन्तं विलोक्य च ।
राजा तु विस्मयं प्राप कुलालस्तु स्वभार्यया ॥१३१॥
दिव्यरूपो विमानेन पत्न्या विष्णुपदं ययौ ।
यदा पूजाप्रसिद्धत्वं राज्ञस्त्वद्भुवनागमः ॥१३२॥
तदा मुक्तिरिति पूर्वं श्रीनिवासेन भाषितम् ।
तत्तथैव तु संजातं वर्णयितुं न शक्यते ॥१३३॥
श्रीनिवासचमत्कारान् भक्तेच्छापूरकान् प्रिये! ।
पठनाच्छ्रवणाद् बद्धो मुक्तो भवति पद्मजे ॥१३४॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पतिव्रतामाहात्म्ये तोण्डमाननृपकृतं श्रीवाराहभूमिकायां
सप्राकारपत्तनम्, मृताया ब्राह्मण्याः सजीवनता, भीमकुलालकृतमृत्तिकापुष्पस्वीकारस्ततो भार्यायुक्तकुलालस्य मोक्षश्चेत्यादिनिरूपणनामैकाऽधिकचतुश्शततमोऽध्यायः ॥४०१॥

N/A

References : N/A
Last Updated : March 31, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP