कृतयुगसन्तानः - अध्यायः २६५
लक्ष्मीनारायणसंहिता
श्रीलक्ष्मीरुवाच-
उद्यापनानि सर्वाणि सर्वदेवप्रपूजनम् ।
भगवन् कथितं सर्वं तन्मया विदितं प्रभो ॥१॥
एकादशीनां सर्वासां यद्युद्यापनमेकलम् ।
कर्तव्यं स्यात्तदा विस्तारः कियाँस्तं च मे वद ॥२॥
श्रीनारायण उवाच--
शृणु लक्ष्मि! प्रवक्ष्यामि सर्वासामेकलक्षणम् ।
उद्यापनं समस्तं वै सम्पूर्णफलदं यथा ॥३॥
मण्डपे निर्मिते रम्ये कदलीस्तम्भशोभिते ।
विधाय सर्वतोभद्रं तन्मध्ये स्थापयेद् घटम् ॥४॥
अश्वत्थोदुम्बरप्लक्षचूतन्यग्रोधपल्लवैः ।
युक्तं रत्नैर्वस्त्रकण्ठं तथा सलिलसंभृतम् ॥५॥
तन्मुखे सुमहत्पात्रं निदध्यात्कुंकुमान्वितम् ।
कमलं द्वादशपत्रं दलद्वादशकान्वितम् ॥६॥
कृत्वा मध्ये रमाजुष्टं वासुदेवं सुवर्णजम् ।
स्थापयेत्परितश्चतुर्विंशत्येकादशपतीन् ॥७॥
तत्तत्पत्नीसमेताँश्च स्थापयेत्पूर्वतः क्रमात् ।
आद्ये श्रीकेशवौ पद्मानारायणौ ततो दले ॥८॥
माधवो नित्यया साकं गोविन्दश्चन्द्रया सह ।
रमया सह विष्णुश्च माधव्या मधुसूदनः ॥९॥
त्रिविक्रमश्च पद्माक्ष्या वामनः कमलायुतः ।
श्रीधरः कान्तिमत्या च हृषीकेशाऽपराजिते ॥१०॥
पद्मनाभः पद्मवत्या राधादामोदरौ ततः ।
पत्रेषु पूर्वतः संकर्षणः सह सुनन्दया ॥११॥
वासुदेवो हरिण्याऽथ प्रद्युम्नश्च धिया सह ।
अनिरुद्धः सुशीलायुक् नन्दया पुरुषोत्तमः ॥१२॥
अधोक्षजस्त्रयीयुक्तः क्षेमंकर्या नृकेसरी ।
अच्युतो विजयायुक्तः सुन्दर्या च जनार्दनः ॥१३॥
उपेन्द्रः सुभगायुक्तो हरिः सह हिरण्यया ।
कृष्णः सुलक्षणायुक्तः स्थापनीयो विधानतः ॥१४॥
पंचामृतेन मध्यस्य स्नानमभ्यंगपूर्वकम् ।
महाभिषेकं कुर्याच्च वस्त्राभूषादि चार्पयेत् ॥१५॥
सर्वगन्धैः सुमनोभिः पूजयेत्तुलसीदलैः ।
धूपं दीपं चन्दनं च नैवेद्यं जलमर्पयेत् ॥१६॥
मोदकान् खाजकाँश्चैव चूर्णानि घृतपूरकान् ।
सोहिलकाँश्च कंसारं सक्तून् सेवाँश्च पोलिकाः ॥१७॥
पूरिकाः पायसं दुग्धसारं दध्योदनं तथा ।
पिण्डकान् वटकाँश्चैव शतच्छिद्राँश्च शष्कुलीः ॥१८॥
तिलपाकं शालिपाकं मुद्गचूर्णं गुडौदनम् ।
रंभाफलं तथाऽन्यच्च मिष्टान्नमर्पयेद् बहु ॥१९॥
शाकानि विविधान्येव फलानि विविधान्यपि ।
ताम्बूलं मुखवासादि जलं चापि समर्पयेत् ॥२०॥
महानीराजनं कृत्वा दद्यात्पुष्पांजलिं ततः ।
स्तुतिं नमो दण्डवच्च क्षमायाचनमित्यपि ॥२१॥
कृत्वा समाप्य पूजां च दद्याद् दानानि भावतः ।
गोभूतिलहिरण्याश्वगजवाहाम्बराणि च ॥२२॥
ततो देवगृहे गोष्ठे समिदाज्यतिलौदनैः ।
पुष्परसान्वितैर्होममाचरेत् तत्तदाह्वयैः ॥२३॥
गाश्चतुर्विशतिं दद्यादेका वा कांचनान्विताम् ।
मध्याह्ने पूजयेत्तद्वद् भोजयेच्च यथाविधि ॥२४॥
सायं नीराजनं कुर्यात्पूजयेद् भोजयेत्तथा ।
रात्रौ जागरणं कृत्वा प्रभात त्वर्चयेद्धरिम् ॥२५॥
सुवर्णनिर्मितां मूर्तिं दद्यात्स्वगुरवे व्रती ।
अलंकाराँश्च वासांसि शय्यां दद्यात्ततो व्रती ॥२६॥
चतुर्विंशतिभूदेवान् साधूँश्च भोजयेत् सतीः ।
घटाँश्च विष्णवे दद्यात् प्रदद्याद् दक्षिणां तथा ॥२७॥
ततः स पारणां कुर्याद् भोजयित्वा जनान्स्वकान् ।
एवं कृते चतुर्विंशत्येकादशीफलं भवेत् ॥२८॥
वित्तशाठ्यं न कर्तव्यमुद्यापनमहोत्सवे ।
लक्ष्मीकान्तः स्वयं कृष्णस्तुष्यत्येवर्द्धिसम्प्रदः ॥२९॥
अथ लक्ष्मि! कथयामि धेनुशैलादिकान् शृणु ।
पूजयित्वा ततो दद्याद् गुरवे बहुलं धनम् ॥३०॥
वैभवे विपुले दद्याद् धेनूर्दशविधा व्रती ।
मेरून्दशविधान्दद्यात् शृणु तत्र विधिं प्रिये ॥३१॥
तत्र गोमयलिप्तायां दर्भानास्तीर्य वै भुवि ।
उदक्पादाः प्राङ्मुख्यश्च कल्पनीयास्तु गा दश ॥३२॥
गुडधेनुं गुडेनैव शतप्रस्थमितेन वै ।
पञ्चविंशतिसीरैश्च तद्वत्स कल्पयेद् व्रती ॥३३॥
यद्वा गूढ यथाश्रद्धं धेनुस्थाने निधाय च ।
यथाश्रद्धं च तद्वत्सं कृत्वा गुडेन वै ततः ॥३४॥
अनर्घ्यैर्वसनैः सूक्ष्मैर्वेष्टयित्वा च तावुभौ ।
शुक्तिकर्णाविक्षुपादौ शुद्धमौक्तिकनेत्रकौ ॥३५॥
ताम्रपृष्ठौ क्षौमपुच्छौ श्वेतोर्णाकृतकम्बलौ ।
स्वर्णशृंगौ रूप्यखुरौ विद्रुमभ्रूकुटीयुतौ ॥२६॥
नानाऽऽभरणशोभाढ्यौ कांस्यदोहनसंयुतौ ।
विधायैवं तु गोवत्सौ पूजयेद्विधिना व्रती ॥३७॥
घृतधेनुं दुग्धधेनुं शर्कराधेनुमुत्तमाम् ।
तिलधेनुं मधुधेनुं रसधेनुं तथोत्तमाम् ॥३८॥
दधिधेनुं चाम्बुधेनुं स्वर्णधेनुं विधाय च ।
तत्तद्वत्सं प्रथमवत् कृत्वा संपूजयेद् व्रती ॥३९॥
यथाशक्ति प्रकुर्याद्वै धेनूँश्च वत्सकांस्तथा ।
प्रदद्याद् गुरवे सर्वाः पुरुषोत्तमतुष्टये ॥४०॥
तद्वच्च पर्वतान् रम्यान् वृक्षतडागसंयुतान् ।
कल्पयित्वा दशविधान् चतुरः कोणपर्वतान् ॥४१॥
पूजयेद्विधिना दद्याद्गुरवे हरितुष्टये ।
मण्डपे गोमयलिप्ते कुशानास्तीर्य भूतले ॥४२॥
मध्ये व्रीहिमयं मेरुं सहस्रद्रोणसम्मितम् ।
कुर्याद् द्रोणं तु द्वादशप्रस्थप्रमितमुत्तमम् ॥४३॥
पूर्वे मौक्तिकहीरकपद्मरागाँश्च दक्षिणे ।
पीतश्यामान् पश्चिमायामुत्तरे विद्रुमान्न्यसेत् ॥४४॥
इक्षुदण्डैर्गुहां कुर्याच्छुक्तिभिस्तु शिलादिकम् ।
घृतेन प्रस्रवणानि वस्त्रैर्मेघाँश्च कल्पयेत् ॥४५॥
शृंगाणि स्वर्णरौप्याणि मुनीन्देवान् हिरण्मयान् ।
इन्द्रादीन् दिक्पतीन् रौप्यान् कुर्याद् वृक्षाँश्च धातुभिः ॥४६॥
मन्दारं पारिजातं च कल्पद्रु च कदम्बकम् ।
कृत्वा संशोभयेत्पुष्पफलैः सौवर्णराजतैः ॥४७॥
मन्दराद्रिर्यवैः पूर्वे गोधूमैर्गन्धमादनः ।
विपुलाद्रिस्तिलैः पश्चे माषैः सुपार्श्व उत्तरे ॥४८॥
कार्याश्चैते नगाः शोभायुक्ताः स्वोपस्करैर्युताः ।
स्वस्त्ययनं वाचयित्वा त्वावाह्य देवपर्वतान् ॥४९॥
पूजयित्वा प्रदद्याच्च गुरवे स्मृद्धपर्वतान् ।
गाश्चतुर्विशतिं दद्याद् विप्रेभ्यो दक्षिणां तथा ॥५०॥
लवणाद्रिं गुडाद्रिं च हेमाद्रिं तिलपर्वतम् ।
कार्पासाद्रिं घृताद्रिं च रत्नाद्रिं राजताचलम् ॥५१॥
शर्कराद्रिं यथाशक्ति नगान्नव प्रकारयेत् ।
पार्श्वस्थान्पर्वताँश्चापि चतुरश्चतुरो यथा ॥५२॥
रचयित्वा पूर्ववच्च शोभां कुर्यादनेकधा ।
पूजयेद्विधिना सर्वान् दद्याच्च गुरवे तु तान् ॥५३॥
गोदानं पृथिवीदानं कन्यादानं गृहार्पणम् ।
यानवाहननगरग्रामदानं विधापयेत् ॥५४॥
सर्वस्वं गुरवे दद्याद् विप्रेभ्यस्तु यथार्हकम् ।
भिक्षुकेभ्यस्त्वन्नदानमन्येभ्यो यदपेक्षितम् ॥५५॥
एवमुद्यापनं कृत्वा पश्चाद् देवान् विसर्जयेत् ।
सर्वं तद्गुरवे दद्याद् देवालयाय वाऽर्पयेत् ॥५६॥
व्रतेषु त्याज्यवस्तूनां गृहीता नियमास्तु ये ।
तत्तद्वस्तुप्रदानं तु कार्यमुद्यापने तथा ॥९७॥
दत्तं सर्वं मिलत्येवेहाऽमुत्र त्वन्यथा न वै ।
तस्माद् यथा बलं कार्या प्रपूर्णता व्रतोत्तरम् ॥५८॥
वैवस्वतेन मनुना कृतमुद्यापनं पुरा ।
भृगुपुत्र्या रमया च कृतमुद्यापनं तथा ॥५९॥
पद्मया धरणिपुव्या कृतमुद्यापनं तथा ।
प्राप्य विष्णुं च वैकुण्ठे मोदन्ते सर्वदा तथा ॥६०॥
पार्वत्या च कृतं सर्वमुद्यापनं महत् पुरा ।
प्रभया च कृतं तद्वदुद्यापनं यथायथम् ॥६१॥
इति लक्ष्मि कथितानि व्रतानि विधितश्च ते ।
एकादशीनां सर्वासां किमन्यच्छ्रोतुमिच्छसि ॥६२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सर्वासामेकादशीनां महोद्यापनविधिस्वरूपनिरूपणनामा पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ॥२६५॥
N/A
References : N/A
Last Updated : March 29, 2021
TOP