कृतयुगसन्तानः - अध्यायः ५२
लक्ष्मीनारायणसंहिता
श्री लक्ष्मीरुवाच
कदा यज्ञः प्रवृत्तः स किमभूत्तत्र पापकृत् ।
केन कृतः कथं वसोः पतनं समभूत्कुतः ?॥ १॥
श्रीनारायण उवाच--
प्रथमे तु युगे त्रेतानामके राजचिह्नवान् ।
उत्तानपादपुत्रस्तु वसुनामाऽभवन्नृपः ॥२॥
विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः ।
आजानुबाहवश्चैव धनुर्हस्ता वृषांकिताः ॥३॥
ताम्रप्रभौष्ठदन्तौष्ठाः श्रीवत्साश्चोर्ध्वरोमशाः ।
केशस्थिता ललाटोर्णा जिह्वा चैषां प्रमार्जनी ॥४॥
न्यग्रोधपरिणाहाश्च सिंहस्कन्धाः सुमेहनाः ।
गजेन्द्रगतयश्चैव महाहनव एव च ॥५॥
ऐश्वर्येणाऽणिमाद्येन प्रभुशक्त्या बलेन च ।
अन्नेन तपसा चैव ऋषीनभिभवन्ति वै ॥६॥
नयेन तपसा चैव देवदानवमानुषान्॥
अभिभवन्ति योगेन विष्णुप्रदत्तशक्तिभिः ॥७॥
पादयोश्चक्रमत्स्यौ च शंखपद्मे तु हस्तयोः ।
धनुर्भुजे ह्युरौ छत्रं रेखास्ताश्चक्रवर्तिनाम् ॥८॥
चक्रं रथो मणिः खड्गं धनूरत्नं च पंचमम् ।
केतुर्निधिश्च सप्तैते रत्नश्रेष्ठा अचेतनाः ॥९॥
राज्ञी पुरोहितश्चैव सेनानी रथसारथिः ।
मन्त्र्यश्वः कलभश्चैते रत्नश्रेष्ठाः सचेतनाः॥१०॥
दिव्यैतानि चतुर्दश सर्वेषां चक्रवर्तिनाम् ।
अन्तरिक्षे समुद्रे च पाताले पर्वतेषु च ॥११॥
अहता गतयस्तेषां चतस्रश्चक्रवर्तिनाम् ।
चक्रवर्ती भवेदंशस्तस्य श्रीपरमात्मनः ॥१२॥
तेन तस्य प्रजायां वै प्रादुर्भवन्ति शक्तयः ।
दिव्याश्च लौकिकाश्चापि राज्यसीमान्तबोधिकाः ॥१३॥
दूरश्रवणयन्त्राणि दूरभ्यो दूरदर्शनाः ।
कालमानसुयन्त्राणि दूरवाचकरश्मयः ॥१४॥
दूरमूर्तिदर्शकानि दिव्यकाचानि भूरिशः ।
देहानावरणदृष्टिप्रदविद्युत्प्रसाधनम् ॥१५॥
धातुतन्तुधृतिविद्युत्प्रकाशाः सुप्रदीपकाः ।
अग्नियन्त्रोद्भवोद्योगा जलयन्त्राणि भूरिशः ॥१६॥
जलान्तर्गतियानानि व्योमयानानि चाप्यथ ।
विमानानि ह्यसंख्यानि काचिका दूरदर्शिनी ॥१७॥
वायुतन्तुध्वनिग्राह्यशब्दशक्तिनियन्त्रणा
प्रवासयानयन्त्राणि भूविमानानि भूरिशः ॥१८॥
जलप्रवासयन्त्राणि मेघोत्पादकशक्तयः ।
सैनिका व्योमगतिका जलान्तर्गतिका अपि ॥१९॥
धूम्रयानानि बाष्पाणां शकटानि रथास्तथा ।
मोहमारणद्रव्याणि संहाराण्डानि भूरिशः ॥२०॥
चक्रद्रावणगतयश्चौषधीनां सुशक्तयः ।
ग्रहान्तरगतिश्चाग्नौ गतिः पृथ्व्युदरेक्षणम् ॥२१॥
रूपान्तरधृतिश्चापि हयदृश्यभवनादिकम् ।
भौतिक्यः शक्तयश्चैताः सहाऽऽगच्छन्ति तेन वै ॥२२॥
तत्तच्छक्तिमया देवा मानुषा वा भवन्ति च ।
तत्तदाविष्कृतैर्भौमैर्जलीयैस्तैजसैरपि ॥२३॥
धातुजैर्मानसैश्चैव साधनैश्चक्रवर्तिनः ।
मानवा राज्यभारं निर्वहन्ति चालयन्ति च ॥२४॥
लोकान्तरगतं राज्यं द्वीपान्तरगतं च वा ।
समुद्रान्तरितं राज्यं करोति निकटे इव ॥२५॥
पश्यति च शृणोत्यपि स्पृशत्यपि प्रजिघ्रति ।
वदति चानुभवति स्वगृहे इव संस्थितम् ॥२६॥
चक्रवर्तिप्रजाः सर्वास्तत्समा भाग्यशालिनी ।
तत्समानप्रभोगा च पुण्ययुगबलाद्भवेत् ॥२७
उत्तानपादतनुजो व्योमगामी वसुर्नृपः ।
चक्रवर्त्यभवद्धर्मसत्येज्यादानसत्तपाः ॥२८॥
तदा विश्वभुगिन्द्रश्च यज्ञं प्रावर्तयच्छुभम् ।
देवैस्तु सहितैः सर्वैर्मुनिभिः ऋषिभिस्तथा ॥२९॥
पितृभिर्यक्षराक्षसगन्धर्वकिन्नरोरगैः ।
मानुषैर्नदनदीभिः समुद्रैस्तीर्थपर्वतैः ॥३०॥
नक्षत्रदैत्यदानवसाधुसाध्वीसुतत्त्वकैः ।
जलस्थलचरैर्वृक्षवल्लीगुल्मलतादिभिः ॥३१॥
सात्विकैर्मनुभिश्चापि राजसैर्नरमानवैः ।
तामसैर्देवदेवीभिः सहितश्चाकरोन्मखम् ॥३२॥
मानसी मैथुनी सृष्टिः सर्वा तत्राऽगमन्मुदा ।
अथाऽश्वमेधे वितते तामसाश्चाऽर्धतामसाः ॥३३॥
यजन्ते पशुभिर्मेध्यैर्हुत्वा मांसप्रियाशनाः ।
कर्मव्यग्रेषु ऋत्विक्षु सन्तते यज्ञकर्मणि ॥३४॥
संप्रगीतेषु तेष्वेवमागमेष्वथ सुस्वरम् ।
परिक्रान्तेषु लघुषु चाध्वर्युवृषभेषु च ॥३५॥
आहुतेषु च देवेषु यज्ञभांक्षु महात्मसु ।
आलब्धेषु च मेध्येषु तथा पशुगणेषु वै ॥३६॥
हविष्यग्नौ हूयमाने देवानां देवहोतृभिः ।
य इन्द्रियात्मका देवा यज्ञभाजस्तथा तु ये ॥३७॥
कल्पादिषु च ये देवास्तान् यजन्ते ह्यध्वर्यवः ।
तदा तु सात्विकाः प्रैषकाले ये वै महर्षयः ॥३८॥
वीक्ष्योत्थिता अध्वर्यवो दीनान्पशुगणान् स्थितान् ।
पप्रच्छुरिन्द्रं संभूय कोऽयं यज्ञविधिस्तव ॥३९॥
अधर्मो बलवानेषो हिंसाकार्येच्छया तव ।
नेष्टः पशुवधस्त्वेषस्तव यज्ञे सुरोत्तम ! ॥४०॥
अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया ।
नाऽयं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ॥४१॥
हिंसा नाम शरीरस्य सजीवस्य विघानतम् ।
सर्वेषां देहिनां तादृक् दुःखं नान्यत्तु विद्यते ॥४२॥
यथाऽकस्माच्छस्त्रघाताद् दुःखं भवति प्राणिनाम् ।
यत्कर्मणा भवेद् दुःखं पापं तत्तु प्रकीर्तितम् ॥४३॥
तस्मान्न हिंसया पुण्यं कस्यापि च कदापि च ।
कथं त्वं कुरुषे पापं देवो भूत्वा सुराधिप ! ॥४४॥
निरागसां च मौनानां पराधीनप्रजीविनाम् ।
हिंसनं मा कुरु चेन्द्र कर्मैतन्निन्द्यमेव यत् ॥४५॥
ऋषीनिन्द्रस्तदा प्राह यज्ञे हिंसा सुखप्रदा ।
यज्ञे हुता इमे जीवा यास्यन्ति स्वर्गमीप्सितम् ॥४६॥
मोक्षोऽथ भवते तेषां यान् भुंक्तेऽग्निमुखो हरिः ।
पशुयोनेश्च मोक्षोऽपि दुःखबाहुल्यनिभृतेः ॥४७॥
ऋषयः प्राहुरिन्द्रैवं यज्ञे होमाच्च मोक्षणम् ।
दुःखनाशस्तथा स्वर्गं ! सुखं तादृक् न को लभेत् ॥४८॥
सर्पसत्रे भावियुगे कुहकेन सह द्विजाः ।
तव होमं करिष्यन्ति तदा ते शिक्षणं भवेत् ॥४९॥
पारमेष्ठ्यं चैन्द्रपदं सार्वभौमं रसातलम्॥
वैराजं तत्त्वधामानि प्राकृतं लोकघट्टनम् ॥५०॥
सर्वे मायाफेनजन्या निरया ब्रह्मणो हरेः ।
तवाऽपीन्द्र ! पदं तादृङ् निरय एव नाऽपरम् ॥५१॥
दुःखदं क्लेशबहुलं पशुप्रायं विभाति नः ।
तस्मादिन्द्र ! इमं देहं पदं चैन्द्रं परित्यज ॥५२॥
यज्ञे स्वयं पशुर्भूत्वा होमं कुरु निजस्य वै ।
यदि स्वहोमे त्रासस्ते स्वं होमं न करिष्यसे ॥५३॥
वयं तु ऋषयस्त्वां वै जुह्मोऽव्यग्रः स्थिरो भव ।
तेन होमेन ते राजन् परं स्वर्गं भविष्यति ॥५४॥
यद्वै ब्रह्मपदं प्राहुर्मोक्षस्थानमनुत्तमम् ।
तत्र गन्ताऽसि चागच्छ त्वां प्रजुह्मो हरेऽद्य वै ॥५५॥
तव मांसेन यज्ञेशः प्रसन्नः संभविष्यति ।
अस्माकमपि पुण्यं स्यान्मांसहोमेन ते मतम् ॥५६॥
अन्नस्येन्द्रत्वलाभः स्यात्पशवः स्युः सुजीविनः ।
लाभाः सुबहवश्चेन्द्र ! हते त्वयि भवन्ति हि ॥५७॥
तत आगच्छ देवेन्द्र भवान् हुतो भवत्विति ।
इत्येवमृषिभिश्चोते शच्या ह्याक्रन्दनं कृतम् ॥५८॥
इन्द्रोऽपि त्रासमापन्नो मरणक्षणदर्शनात् ।
मण्डपे च सदस्येषु महान्कोलाहलोऽभवत् ॥५९॥
इन्द्रो हूयते ऋषिभिर्बह्वनिष्टं भवेदिति ।
इन्द्रस्तु मरणश्रावात् मुखेन श्यामलोऽभवत् ॥६०॥
तेजस्तिमिरतां यातं शुष्कास्यो ह्यभवत्क्षणात् ।
त्रासात् हृदयकंपश्च वेपथुर्देहजोऽभवत् ॥६१॥
शक्तिहीनानि गात्राणि ह्यभवन्मरणश्रवात् ।
अथवा ऋषिभिः प्रोक्तं मा ते होमोऽस्तु देवराट् ! ॥६२॥
बहवः सन्ति होतारस्तेषां होमो भवत्वथ॥
अध्वर्यवः ऋत्विजाश्च होतारश्च सदस्यकाः ॥६३॥
अनेके सन्त्युपस्थितास्ते हुताः संभवन्त्विति ।
तेनाऽद्य प्रीयतां कृष्णः पशवः सन्तु रक्षिताः ॥६४॥
हुताः सर्वे गमिष्यन्ति ब्रह्मणः पदमव्ययम् ।
देवमानुषनिरयात् प्रयास्यन्ति प्रमोक्षणम् ॥६५॥
श्रुत्वैतदिन्द्रः स्वस्थोऽभूत्कथंचिज्जीवनाशयः॥
अध्वर्युहोतृप्रमुखाश्चिन्तामग्नास्तदाऽभवन् ॥६६॥
अहो कष्टमिति प्रोचुर्नेच्छामो मोक्षणं जगुः॥
न च मुक्तिं न वै होमं न भोज्यं न च दक्षिणाम् ॥६७॥
वस्तु किमपि नेच्छामस्तव सर्वं भवत्विति ।
न स्थास्यामो वयं चात्र मरणं कस्य वै प्रियम् ॥६८॥
गमिष्यामो गृहान्स्वान्स्वान् होमद्रव्याणि नो वयम् ॥.
इत्येवं त्रासमाप्तानां महान् कोलाहलो ह्यभूत् ॥६९॥
तावत्तत्र समायातो राजोपरिचरो वसुः॥
विमानात्स समुत्तीर्य यज्ञमण्डपमागमत् ॥७०॥
इन्द्रादिभिः सत्कृतः सन्न्यषीदन्मध्यमासने ।
ऋषिभिस्तु तदा प्रोक्तं हिंसायज्ञो न वैदिकः ॥७१॥
आगमेन सदा यज्ञं करोतु यदिहेच्छसि॥
विधिदृष्टेन यज्ञेन धर्ममव्ययहेतुना ॥७२॥
यज्ञबीजैः सुरश्रेष्ठ ! येषु हिंसा न विद्यते ।
त्रिवर्षपरमं कालमुषितैरप्ररोहिभिः ॥७३॥
एष धर्मो महानिन्द्र स्वयं विचार्य साध्यताम् ।
एवं विश्वभुगिन्द्रस्तु मुनिभिस्तत्त्वदर्शिभिः ॥७४॥
प्रोक्तस्ते तु विवादेन खिन्ना दिव्या महर्षयः॥
संधाय पशुमुभयं पप्रच्छुश्चेश्वरं वसुम् ॥७५॥
वसो राजन्कथं दृष्टस्त्वया यज्ञविधिर्नृप ।
औत्तानपादे प्रब्रूहि संशयं छिन्धि नः प्रभो ॥७६॥
श्रुत्वा सर्वमुभयेषामविचार्य बलाबलम् ।
वेदशास्त्रमनुसृत्य यज्ञतत्त्वमुवाच ह ॥७७॥
इन्द्रस्य च सुरेशस्य छायामाश्रित्य पक्षतः ।
रागाच्चाऽप्यविरोधेन क्षत्त्रांशप्रबलेन च ॥७८॥
यथोपदिष्टैर्यष्टव्यमिति होवाच पार्थिवः ।
यष्टव्यं पशुभिर्मेध्यैरथ बीजैः फलैस्तथा ॥७९॥
हिंसास्वभावो यज्ञस्य इति मे दर्शयत्यसौ ।
यथेहसंहितामन्त्रा हिंसालिंगा महर्षिभिः ॥८०॥
दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः॥
तत्प्रामाण्यान्मया चोक्तं तस्मान्मां मन्तुमर्हथ ॥८१॥
यदि प्रमाणं तान्येव महावाक्यानि वै द्विजाः !॥
तदा प्रावर्ततां यज्ञो ह्यन्यथा नोऽनृतं वचः ॥८२॥
एवं प्राप्तोत्तरास्ते वै युक्तात्मानस्तपोधनाः॥
भूत्वा ह्यधोमुखा वसुं प्राहुर्मा वद पार्थिव ॥८३॥
वेदार्थस्तलस्पर्शित्वबुद्ध्या नैवाऽऽहृतस्त्वया ।
वेदस्य नहि तात्पर्यं कदापि हिंसने मतम् ॥८४॥
स्वभावप्राप्तहिंसाया निवृत्तौ युक्तिकृद्वचः ।
अनालोड्योच्यते हिंसा विधिश्चेत्यनृतो भवान् ॥८५॥
मिथ्यावादी वसुः सोऽयं सत्यं नैव ब्रवीत्यपि॥
इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम् ॥८६॥
ऊर्ध्वचारी वसुस्त्वासीद् रसातलचरोऽभवत् ।
वसुधाऽध: सदावासी मिथ्यावाक्येन सोऽभवत् ॥८७॥
तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशयात् ।
बहुद्वारस्य धर्मस्य सूक्ष्मात् सूक्ष्मतरा गतिः ॥८८॥
तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित् ।
ततो न हिंसा धर्मस्य द्वारं भवति कर्हिचित् ॥८९॥
पत्रं मूलं फलं शाकं मुन्यन्नं पय एव च ।
यज्ञे दत्वा महीयन्ते स्वर्गे लोके तपोधनाः ॥९०॥
अद्रोहश्चाऽप्यलोभश्च दमौ भूतदया तपः ।
ब्रह्मसेवा च सत्यं च ह्युपकारः क्षमा धृतिः ॥९१॥
सनातनस्य धर्मस्य मूलान्येतानि सर्वथा ।
तस्माद् द्रोहं मा कुरु त्वं पशून्मोचय यज्ञतः ॥९२॥
फलान्नादिद्रव्यहव्यैर्यज्ञं कुरु सुरेश्वर ।
इत्येतद्वाक्यमादृत्य शक्रेण हतपायसैः ॥९३॥
यज्ञः कृतस्ततः पश्चाद् यज्ञास्तु सात्त्विकाः सदा ।
वैष्णवाः सर्वथा त्रेतायां प्रावर्तन्त चाऽद्रुहः ॥९४॥
ऋषयस्तु तदारभ्य शं प्राकुर्वन् सुसत्तपः ।
यज्ञाँश्च वैष्णवाँश्चक्रुरहिंसाधर्मसंभृतान् ॥९५॥
'अजेन तु यजेते'ति अजस्त्रैवार्षिको ब्रिहिः ।
न जायतेंऽकुरो यस्य तद्धान्यमज उच्यते ॥९६॥
मैथुने मादके मांसे तामसानां स्वभावजा ।
प्रवृत्तिर्भवतीति तन्निरोधाय विधिर्मतः ॥९७॥
मैथुनेच्छा यदि तीव्रा विवाहेन प्रशाम्यतु ।
यदीच्छा मांसरसने यज्ञेनैव प्रशाम्यतु ॥९८॥
यदीच्छा मादके पाने सौत्रामण्या प्रशाम्यतु ।
कथंचिदनुभूयैतान्निवृत्ताः संभवन्त्विति ॥९९॥
विधिपूर्वो निषेधः स न विधिस्तत्त्रयेऽपि वै ।
मद्यमांसमिथुनैर्यो नाऽऽक्रान्तो मुक्त एव सः ॥१००॥
अहिंसा परमो धर्मो ब्रह्मचर्यं महत्तपः ।
अमादकं परा शुद्धिस्त्रिभिर्ब्रह्म सुविन्दति ॥१०१॥
अथापि कालवेगाश्च तामसाहारमिश्रणात् ।
अन्नादिलाभवैधुर्याद् रसनारसलोलनात् ॥१०२॥
तामसैस्तामसी रीतिर्गृह्यते तत्त्रयात्मिका ।
तेषां दण्डप्रदानार्थं धर्मो वैवस्वतो यमः ॥१०३॥
वर्तते न्यायकर्ता श्रीनारायणसमीहया ।
तदन्यायपरा शुद्धिर्यमलोके करोति सः ॥१०४॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने चक्रवर्तिचिह्नमहेन्द्रयज्ञसम्बन्धिहिंसाप्रतिपादकोपरिचरवसुप्रपतनादिनिरूपणनामा
द्विपंचाशत्तमोऽध्यायः ॥५२॥
N/A
References : N/A
Last Updated : March 26, 2021
TOP