संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः १९६

कृतयुगसन्तानः - अध्यायः १९६

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
ब्रह्मविष्ण्वोरन्तराले ब्रह्मणः किरणं च यत्॥
समुत्पन्नस्ततः शर्वः सोऽभवद्वै सदाशिवः ॥१॥
किरणं तद्ब्रह्मलिंगं श्रुतं तव मुखान्मया ।
निराकारं हि तद्ब्रह्म बाणरूपं निरूप्यते ॥२॥
तदेव शिवलिंगं वा चान्यद्वा लोकपूजितम् ।
इति मे संशयं छिन्धि यथावृत्तान्तबोधनात् ॥३॥
श्रीनारायण उवाच-
शृणु लक्ष्मि कथां दिव्यां साश्चर्यां पापनाशिनम् ।
दैवीं देवचमत्कारमयीं नाऽन्यस्य भाविनीम् ॥४॥
यतस्तपःप्रकर्तारो भवन्ति संयमैर्युताः ।
सस्त्रीका अपि मुनयो ब्रह्मध्यानपरायणाः ॥५॥
तथापि कामभावेन क्वचिद्बन्धजवेगतः ।
व्यवहारं समाश्रित्य ब्रह्मत्वमनवाप्य च ॥६॥
अज्ञत्वेन च देवानामनभिज्ञा भवन्ति ते ।
पुरा दारुवने ह्यासन् ऋषयः संशितव्रताः ॥७॥
न च क्रोधेन निर्मुक्ताः केवलं मूढबुद्धयः ।
यद्यपि मुनयः सर्वे काष्ठलोष्ठासमदृशः ॥८॥
वेदं त्वधीयमानाश्च कृताग्निसदनक्रियाः ।
वर्तन्ते स्म च शारीरभावेन गृहमेधिनः ॥९॥
पार्वत्यास्तपसः काले शिवोऽपि चाऽद्वितीयकः ।
सर्वस्वपरित्यागेनाऽवर्तत तापसो यथा ॥१०॥
न चर्म न च कौपीनं नान्यत् किमपि साधनम् ।
रक्षति स्माऽऽवरणार्थं दिगम्बरो ह्यटत्यपि ॥११॥
पुष्पमालां दधन् कण्ठे युवा सर्वांगसुन्दरः ।
वने वने ऋष्याश्रमे प्राऽटत् भिक्षाकपालभृत् ॥१२॥
देहि भिक्षां ततश्चोक्त्वा संभ्रमन्नाश्रमान् ययौ ।
द्विजर्षभाश्च दिवसे समिधार्थं वनं गताः ॥१३॥
आसन्नाश्रमवर्येषु ऋषिपत्न्यश्च केवलाः ।
तं विलोक्याऽऽश्रमगतं योषितो ब्रह्मवादिनाम् ॥१४॥
विह्वला विस्मिता जाताः काश्चिद्भयमुपागताः ।
काश्चिच्च मोहितास्तत्राऽऽजग्मुर्दर्शनलालसाः ॥१५॥
प्रोचुः परस्परं नार्यः पश्याम एहि भिक्षुकम् ।
दर्शनादर्चनात्तस्य भुक्तिर्मुक्तिश्च लभ्यते ॥१६॥
परस्परमिति प्रोक्त्वाऽऽदाय मूलफलादिकम् ।
आलिलिंगुस्तथा चान्या करं धृत्वा तथाऽपराः ॥१७॥
परस्परं तु संस्पर्शात्संमग्ना ऋषिपत्निकाः ।
गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः ॥१८॥
सोपि भिक्षाकपालं च प्रसार्य योषितः प्रति ।
देहि भिक्षां शिवं तेऽस्तु धनपुत्रवती भव ॥१९॥
भिक्षां दत्वा तु ता नार्यो जहसुश्चञ्चला बहु ।
पप्रच्छुश्च त्वया कोऽयं नग्नव्रतविधिर्धृतः ॥२०॥
भवान् वै तापसो हृद्यो ब्रूहि स्म यदि मन्यसे ।
शंकरस्तु हसन् प्राह रहस्यं व्रतमस्ति मे ॥२१॥
प्रकाशने फलं न स्यादिति मत्वा न पृच्छत ।
इत्युक्तास्ता ब्रह्मपत्न्यः प्रत्यूचुरेहि नो गृहम् ॥२२॥
इत्युच्चार्य तदा तं वै जगृहुः पाणिपल्लवैः ।
काश्चित् कण्ठे काश्चित्पृष्ठे काश्चिदुदरमण्डले ॥२३॥
काश्चिजान्वोश्च कट्यां च जटासु पार्श्वयोस्तथा ।
काश्चित्तु पादयोः काश्चिन्नासिकायां च कर्णयोः ॥२४॥
एवं समन्ततो भिक्षुकेश्वरं परिवार्य ताः ।
रंजयामासुराकृष्य स्वां स्वां प्रति द्विजांगनाः ॥२५॥
एतस्मिन्नन्तरे विप्रा आदाय समिधो ययुः ।
स्वगृहाणि च तत्रैतत्कौतुकं तैर्विलोकितम् ॥२६॥
विरुद्धं तच्च ते दृष्ट्वा सरोषा ह्यभवन् क्षणात् ।
कोऽयं कीदृक् प्रमत्तोऽयं योषितां क्षोभकारकः ॥२७॥
कोऽसि कस्मादागतोऽसि वस्त्रं न ध्रियते कथम् ।
पृष्ठोऽपि नाऽवदत् किंचित् सोऽवधूतो दिगम्बरः ॥२८॥
प्रत्युत तदनाश्रुत्य लिंगे चांचल्यमावहन् ।
प्रमत्तयोगिवत्तत्राऽदर्शयत् कामनाबलम् ॥२९॥
क्षोभं विलोक्य भूदेवा ज्ञात्वा प्रमत्तमेव तम् ।
दृष्ट्वा विकारवल्लिंगं जघ्नुर्दर्भशलाकया ॥३०॥
ताडयामासुरत्यर्थं काष्ठपाषाणपत्तलैः ।
समन्त्रया तया दर्भशलाकया तु मूलतः ॥३१॥
लिंगं भुवि प्रपतितं विहाय वृषणौ हतम् ।
शलाकया हतस्याऽस्य खण्डाश्च द्वादशाऽभवन् ॥३२॥
पातिते तु ततो लिंगे गतोऽन्तर्धानमीश्वरः ।
तदा शोकोऽभवत्तेषामृषीणां भावितात्मनाम् ॥३३॥
वर्तन्ते व्याकुलाः सर्वे विद्मो वयं न शंकरम् ।
कोऽयं योगी कथमायात् किमर्थं तापसः स्वयम् ॥३४॥
ब्रुवन्त एवं ते सर्वेऽमन्यन्त पापकं कृतम् ।
लिंगखण्डास्तदा सर्वे समुत्पतन्ति चाम्बरे ॥३५॥
यत्र यत्र च यः खण्डो याति तत्राग्निवत् तदा ।
ददाह पुरतः प्राप्तं पुनरुत्प्लुत्य गच्छति ॥३६॥
यत्र यत्र च यो याति तत्र दहति सर्वथा ।
पाताले च गताः खण्डाः स्वर्गे चापि तथागताः ॥३७॥
भूमौ सर्वत्र ते याता उड्डयन्ते पतन्ति च ।
दाहयन्त्यखिलं विश्वं स्थिरा नैवाऽभवन् क्वचित ॥३८॥
लोकाश्च व्याकुला जाताः ऋषयस्तेऽतिदुःखिताः ।
न शर्म लेभिरे केऽपि सुराऽसुरर्षिमानवाः ॥३९॥
शान्त्युपायविहीनास्ते ब्रह्माणं शरणं ययुः ।
तत्र गत्वा च ते सर्वे नत्वा स्तुत्वा विधिं तदा ॥४०॥
प्रलये तु निमित्तास्ते लज्जयाऽधोमुखाः स्थिताः ।
तत्सर्वमवदन्वृत्तं ब्रह्मणे सृष्टिकारिणे ॥४१॥
ज्ञात्वा तच्छांकरं कृत्यं ब्रह्मा वचनमब्रवीत् ।
अहो विप्राः सदा क्रुद्धा जानन्त्येव न तात्त्विकम् ॥४२॥
न धर्मं च क्रियां कांचिज्जानन्ति मूढबुद्धयः ।
ब्रह्मतत्त्वं विजानन्ति ब्राह्मणास्ते प्रकीर्तिताः ॥४३॥
ब्रह्मणि नैव कामोऽस्ति विकृतिर्न कुतश्च रुट् ।
देहधर्मा न वै देहाऽध्यक्षे सन्ति यथार्थतः ॥४४॥
आत्मधर्मा न वै देहे इति जानन्ति भूसुराः ।
ह्येतज्ज्ञानविहीना ये देहाहंममतान्विताः ॥४५॥
क्रुध्यन्ति देहमाश्रित्य घातयन्ति पराँस्ततः ।
द्रुह्यन्त्यपि च पारक्यस्वीयभेदसमाश्रिताः ॥४६॥
ततः कर्मवशास्ते वै भुंजते स्वर्गनारकान् ।
तन्मनः शोधयेद्धीमान् ज्ञानयोगात्मभावनैः ॥४७॥
तस्मिन् शुद्धे ह्यन्तरात्मा स्वयमेवाऽविकारवान् ।
न क्लिश्यति वपुःक्लेशैर्वपुर्धर्मैः शुभाऽशुभैः ॥४८॥
तथा सति च नाऽऽवेशः कामक्रोधादिमूलकः ।
तद्भावे च नाऽनर्थः समुत्पद्येत चेदृशः ॥४९॥
भवन्तः क्रोधकामाभ्यामभिभूताऽऽश्रमे स्थिताः ।
ज्ञानिनामाश्रमे क्रोधकामाभिभवनं वृथा ॥५०॥
वस्तुतो नास्ति नारीणां देहो नारीति नामभाक् ।
नापि नरस्य देहोऽपि नर इत्यपि नामभाक् ॥५१॥
उभयोस्तु सदा शारीराऽऽत्मास्ति नरशब्दभाक् ।
नृभोग्यशरीरं यत् तन्नारीति संप्रकीर्त्यते ॥५२॥
श्मश्रुलोऽश्मश्रुलको वा देहो नारीति वोच्यते ।
देहस्यैवोपभोगोऽस्ति नान्यदेहस्य कस्यचित् ॥५३॥
परदेहसुखदुःखे न भुज्येते परात्मना ।
स्वीयदेहसुखदुःखे भुज्येते हि निजात्मना ॥५४॥
तस्मात् केयं कस्य नारी कोऽयं कस्या नरस्तथा ।
क्व च न्यस्तसमस्तेच्छा क्व च नारीमयो भ्रमः ॥५५॥
क्व क्रोध ईदृशो घोरो येनात्मानं न जानथ ।
सक्रोधो यजते यच्च ददाति च जपत्यपि ॥५६॥
जुहोत्यपि न वै तस्य फलमाप्नोति मोघकृत् ।
ज्ञातारच्च भवन्तो वै कुर्वते गर्हितं द्विजाः ॥५७॥
अज्ञातारस्तर्हि कुर्युः किं तत्राश्चर्यमूह्यते ।
शिवं विरुद्ध्य कुशलं कस्य जातं च वा भवेत् ॥५८॥
मध्याह्नसमये प्राप्तमतिथिं न परामृशेत् ।
तस्यैव सुकृतं नीत्वा दत्वा स्वीयं च दुष्कृतम् ॥५९॥
निर्यात्यतिस्थितद्वासात् किं पुनर्यत्र शंकरः ।
यावल्लिंगं स्थिरं न स्यान्न वै स्याज्जगतां शुभम् ॥६०॥
भवद्भिस्तु तथा कार्यं यथा स्वास्थ्यं भवेदिह ।
श्रुत्वैतत् ऋषयः प्राहुर्ब्रह्मन् तत्त्वं समादिश ॥६१॥
ब्रह्मोवाच समाराध्य हरं सुखमवाप्नुमः ।
गच्छामः शरणं देवं कैलास तु शिवालयम् ॥६२॥
जग्मुश्च संहतास्तत्र ददृशुः शंकरं स्थितम् ।
अलिंगं च ततः स्तोतुं समारब्धाः सुरास्तदा ॥६३॥
अलिंगाय महाज्वालानलरूपाय ते नमः ।
दिगम्बरायाऽविकृतये पराऽऽकृतये नमः ॥६४॥
दिव्यलीलाप्रर्कत्रे ते क्षमाशीलाय ते नमः ।
नमः शान्तस्वरूपाय घोरलिंगाय ते नमः ॥६५॥
नोऽपराधान् क्षमस्वाऽत्र महादेव नमोऽस्तु ते ।
स्वलिंगं पतितं देव प्रभो समुपसंहर ॥६६॥
त्रैलोक्यं दहति वह्निमयं द्वादशरूपभाक् ।
कृपां कुरु महादेव तव लीलामयं जगत् ॥६७॥
एवं स्तुतः प्रसन्नश्च प्राहर्षीन् शंकरस्तदा ।
यस्य द्रोहः कृतस्तस्य पूजनं कुरुत द्विजाः ॥६८॥
तदा भविष्यति शान्तिर्लिगं स्थाने लगिष्यति ।
सलिंगोऽहं तथा स्यां वै येन मे प्रीतिरुत्तमा ॥६९॥
यथाऽभिलषितं सौख्यं ततः प्राप्स्यथ भूसुराः ।
देवा ऋषयो मुनयो ब्राह्मणा ह्यसुरास्तथा ॥७०॥
मिलित्वा मम लिंगस्य पूजां कुर्वन्तु षोडशैः ।
उपचारैस्ततः शान्ता भविष्यन्त्येव द्वादश ॥७१॥
शकला मम लिंगस्य नान्यथा तु कदाचन ।
कुरुक्षेत्रे तथाऽन्यत्र यत्र यत्र पतन्ति ते ॥७२॥
तत्र तत्र योनिपीठे स्थापयन्तु द्विजा नु तान्॥
प्रथमं कुरुक्षेत्रे च यूयं गच्छन्तु संहताः ॥७३॥
तत्र सरसि संस्नात्वा कुरुतैकस्य पूजनम् ।
तस्य शान्तौ भविष्यन्ति तदन्ये शान्तवह्नयः ॥७४॥
लिंगखण्डा यत्र यत्र पतितास्तत्र पूजनम् ।
प्रकुर्वन्तु महाभागा गच्छन्तु मा चिरं यतः ॥७५॥
आराध्य प्राग्भवीयां मे पत्नीं सतीं स्थिरायनाम् ।
योनिरूपां प्रसंकृत्वा स्थापयन्तु च तत्र तत् ॥७६॥
कुभमेकं च संस्थाप्य कृत्वाऽष्टदलमुत्तमम् ।
दुर्वायवांऽकुरैस्तीर्थोदकैरापूरयन्तु तम् ॥७७॥
वेदमन्त्रैस्ततस्तं च कुंभं प्रमन्त्रयन्तु च ।
पूजयित्वा कलशं तं तज्जलेनाऽभिषेचनम् ॥७८॥
शतरुद्रीयमन्त्रैश्च प्रोक्षणं शान्तिमित्यपि ।
कुर्वन्तु योनिरूपायां बाणं शान्तिं गमिष्यति ॥७९॥
संस्थाप्यैवं लिंगखण्डं लिङ्गाऽग्रे चाऽऽह्वयन्तु माम् ।
सुगन्धैश्चन्दनैश्चैव पुष्पधूपादिभिस्तथा ॥८०॥
नैवेद्यादिकपूजाभिस्तोषयन्तु परेश्वरम् ।
प्रणामैः संस्तवैर्नृत्यैर्गीतैश्चापि प्रदक्षिणैः ॥८१॥
ततः स्वस्त्ययनं कृत्वा जयेति व्याहरन्तु च ।
सर्वशान्तिं कुरु देव प्रसन्नो भव सर्वथा ॥८२॥
शान्तो भव महादेव रक्षां कुरु च नः सदा ।
एवं कुर्वन्तु भो विप्रा गच्छन्तु मा चिरं यतः ॥८३॥
इत्युक्तास्ते द्विजदेवादयो नत्वा महेश्वरम् ।
प्राप्ताः प्रसन्नमनसः कुरुक्षेत्रे सरस्तटम् ॥८४॥
तत्र त्वाराधिता देवी सती संस्मृत्य भूसुरैः ।
द्रागेव सा शंकरार्थं दिव्या ह्युपस्थिता ह्यभूत् ॥८५॥
ब्राह्मणैर्वन्दिता योनिरूपा दिव्याऽभवत्तदा ।
तत्र तु ब्राह्मणैर्मन्त्रैर्लिंगाग्रं स्थापितं तथा ॥८६॥
सर्वं रक्तादि संक्षाल्य मर्दनाद्यैः समीकृतम् ।
षोडशोपचारकैस्तद् वेदमन्त्रैः सुरादिभिः ॥८७॥
लिङ्गाग्रं पूजितं तत्र भक्त्या यथोपवस्तुभिः ।
सुप्रसन्नो महादेवो ह्याविरास च मूर्तिमान् ॥८८॥
स्वर्णवर्णोऽतितेजस्वी किरणैः परिवेष्टितः ।
प्रसन्नवदनः शान्तः सर्वानाह ततो हरः ॥८९॥
शान्तं च ब्राह्मणा युष्मत्कृतं द्रोहाख्यकर्म तत् ।
शान्ताश्च सकला यत्र यत्र सन्ति च ते तथा ॥९०॥
इदं तु पूजितं सत्या योन्यां संस्थाप्य यन्मम ।
लिंगाग्रं तत् हाटकेशसंज्ञं ख्यातिं गमिष्यति ॥९१॥
वसतु तच्च पाताले हाटकेश्वरसंज्ञया ।
अत्र च सृष्टिकृद् ब्रह्मा लिंगं शैलमयं तदा ॥९२॥
आद्यं लिंगं समास्थाप्य स्वयं पूजितवाँस्ततः ।
तस्य स्थाण्वीश्वरनाम्ना ब्रह्मणा ख्यातिरास्थिता ॥९३॥
ततः कालान्तरे तद्वै ख्यातिं नागेश्वराभिधाम् ।
दारुकावनमाश्रित्य समेष्यतीति जानथ ॥९४॥
अथ देवा यत्र खण्डाः पतिता ह्यभवँस्तदा ।
तत्र गत्वा पुपूजुस्तान् योनिपीठान् विधाय च ॥९५॥
तत्र तत्र च ते खण्डाः पूजां संगृह्य भक्तितः ।
स्वयमहृश्यतां याता योजिताश्च यथाक्रमम् ॥९६॥
लिंगाग्रं चापि पातालात्समुत्थाय समागतम् ।
तच्चापि च यथास्थानं संयोगं लब्धवत्तदा ॥९७॥
एवं सम्पूर्णतां यातं लिंगं सचेतनं ततः ।
शिवस्य वृषणौ प्राप्य यथास्थानमवस्थितम् ॥९८॥
संयोजितं यथावत्तत् शिवेनाऽद्भुतकर्मणा ।
ब्रह्मा वा शंकरो वाऽथ विष्णुर्वा शक्नुयात्तथा ॥९९॥
नाऽन्यस्यैतद्धि सामर्थ्यं मारणे योजने गतौ ।
पूजनार्थं तु सर्वेषां चमत्कारः कृतो ह्ययम् ॥१००॥
चैत्रस्य कृष्णपक्षे वै लिंगपातोऽभवत्तदा ।
तत्र दिनेऽर्हणीयानि लिंगानि दश च द्वयम् ॥१०१॥
चैत्रे मासे त्रयोदश्यां दिव्यनक्षत्रयोगतः ।
शुक्राऽर्कचन्द्रसंयोगे दिने पुण्यतमे शुभे ॥१०२॥
प्रतिष्ठितं स्थाणुलिंगं ब्रह्मणा लोकधारिणा ।
ऋषिभिर्देवसंघैश्च पूजितं शाश्वतीः समाः ॥१०३॥
एवं द्वादशलिंगानि ज्योतिर्लिंगानि तानि वै ।
शंकरस्य महाज्योतिर्मयलिंगानि सन्ति हि ॥१०४॥
सचेतनस्वरूपाणां खण्डानां यत्र संस्थितिः ।
पूजनं च प्रतिष्ठानं कृतं स एव शंकरः ॥१०५॥
साक्षादस्तीति तान्येव मूर्तिमान् शंकरः स्वयम् ।
विराजते महद्ब्रह्म ज्योतीरूपः स सर्वदा ॥१०६॥
ज्योतिर्लिंगानि तान्येव कथयामि शृणु प्रिये ।
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ॥१०७॥
उज्जयिन्यां महाकालमोंकारे चाऽमरेश्वरम् ।
केदारं हिमवत्पृष्ठे डाकिन्यां भीमशंकरम् ॥१०८॥
वाराणस्यां च विश्वेशं त्र्यम्बकं गोमतीतटे ।
वैद्यनाथं चिताभूमौ नागेशं दारुकावने ॥१०९॥
सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ।
ग्राह्यमेषां तु नैवेद्यं भोजनीयं प्रयत्नतः ॥११०॥
ततस्तत्तत्स्थले ह्रासे स्थापितानि पुनः पुनः ।
भक्तैर्लिंगानि तान्यत्र कथयामि शृणु प्रिये ॥१११॥
सौराष्ट्रे सोमनाथस्तु चन्द्रदुःखक्षयंकरः ।
चन्द्रसंस्थापितो देवः प्रत्यक्षो लीनतां गतः ॥११२॥
क्षयकुष्ठादिरोगाणां नाशकः पूजनात् प्रिये ।
शिवावतारः सोमेशो लिंगरूपेण संस्थितः ॥११३॥
मल्लिकार्जुनसंज्ञश्चावतारः शंकरस्य वै ।
द्वितीयः श्रीगिरौ प्रोक्तो लिंगरूपेण संस्थितः ॥११४॥
गणेशस्य विवाहेन कार्तिकेयस्तु रोषतः ।
व्रह्मचारिव्रतप्रतिज्ञां कृत्वा संययौ यदा ॥११५॥
तत्र पुत्रवियोगेन सशोकः शंकरो ययौ ।
संस्थितो लिंगरूपेण द्वितीयः स हरः स्वयम् ॥११६॥
उज्जयिन्यां नगर्यां तु महाकालाभिधाहरः ।
वेदविप्रस्य रक्षार्थं मूर्तिमान् शंकरो ययौ ॥११७॥
वेदधर्मविलोप्तारं दूषणाऽऽख्यासुरं तदा ।
हुंकारेणैव तूर्णं वै भस्मसात् कृतवान् हरः ॥११८॥
महाकालाभिधः सोऽयं लिंगरूपेण संस्थितः ।
देवैः सम्प्रार्थितः शंभुर्ज्योतिर्लिंगस्वरूपवान ॥११९॥
अथ विन्ध्याचलध्यातो मूर्तिमान् शंकरः स्वयम् ।
ब्रह्मणा स्थापितस्तत्र ज्योतिर्लिंगचतुर्थकम् ॥१२०॥
ओंकारेश्वरमित्याख्यं शंभुस्तत्र व्यवस्थितः ।
केदारे पर्वते साक्षात्स्वयं हिमगिरौ हरः ॥१२१॥
केदारेश्वर इत्याख्यो नरनारायणेच्छया ।
तिष्ठति पञ्चमो दिव्यो मूर्तिमान् बाणरूपतः ॥१२२॥
अथ षष्ठः शिवज्योतिर्लिंगावतार उत्तमः ।
सुदक्षिणाख्यं राजानं कामरूपाधिपं हरः ॥१२३॥
संररक्षाऽसुरं भीमं हत्वा भीमेश्वरो हि सः ।
ज्योतिर्लिंगस्वरूपेण डाकिन्यां संस्थितः स्वयम् ॥१२४॥
मन्दराद्रेः समागत्य स्वयं काश्यां तु यः स्थितः ।
ज्योतिःस्वरूपः काशीविश्वेश्वरः स तु सप्तमः ॥१२५॥
अथ गौतमसंस्तुत्या प्राविर्भूतो हरः स्वयम् ।
गोदावर्यास्तटे त्र्यम्बकेश्वराख्यस्तथाऽष्टमः ॥१२६॥
अथ रावणसंस्तुत्या चिताभूमौ हरः स्वयम् ।
आविर्भूतो वैद्यनायेश्वरो ज्योतिर्व्यवस्थितः ॥१२७॥
दशमो दारुकसंज्ञं राक्षसं हतवान् हरः ।
ररक्ष भक्तं वैश्यं सः सुप्रियाख्यं ततः स्वयम् ॥१२८॥
सन्तस्थौ साम्बिकः शंभुर्ज्योतिर्लिंगस्वरूपधृक् ।
अथैकादशसंख्याको रामादित्यप्रतिष्ठितः ॥१२९॥
रामेश्वरस्वरूपः स ज्योतिर्लिंगात्मकः स्वयम् ।
शंभुर्विराजते भक्तेभ्यो विजयवरप्रदः ॥१३०॥
भक्तेन घुष्मना संराधितो हरः स्वयं ययौ ।
घुष्मापुत्रस्य रक्षार्थं सुदेह्येन हतस्य वै ॥१३१॥
ततो घूष्मेश्वरज्योतिर्लिंगरूपो विराजते ।
इति ते कथिता लक्ष्मि हरद्वादशमूर्तयः ॥१३२॥
तान् दृष्ट्वा च समभ्यर्च्य ध्यात्वा श्रुत्वाऽपि मानवः ।
मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति ॥१३३॥
एवं निमित्तमालम्ब्य ज्योतिर्लिंगानि चाऽभवन् ।
अथ कालान्तरे स्थानह्रासाच्च युगभेदतः ॥१३४॥
अन्येऽन्ये स्थापयिष्यन्ति प्रजीर्णोद्धारकर्मभिः ।
युगान्तरप्रभेदेन किमन्यच्छ्रोतुमिच्छसि ॥१३५॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दारुवने भिक्षार्थं गतस्य नग्नस्य शंकरस्य दर्भशलाकया लिंगपतनं द्वादशखण्डाश्च ज्योतिर्लिंगानीतिनिरूपणनामा षण्णवत्यधिकशततमोऽध्यायः ॥१९६॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP