संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|
अध्यायः ८२

कृतयुगसन्तानः - अध्यायः ८२

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! महादेवो मन्दराचलमन्दिरे ।
सुखं नाऽऽप काश्ययोगात्सर्वथोपस्करान्विते ॥१॥
सुखदोमन्दरस्तस्य सुखमान्द्यकरोऽभवत् ।
लेपार्थं चन्दनं तस्य पांसुलेन्धनमाभवत् ॥२॥
कंकणानि मृणालानि कंकराण्यभवँस्तदा ।
भाल चन्द्रोऽभवत्तस्य विरहाऽनलचन्द्रकः ॥३॥
काशीवियोगमूर्धन्यतापशान्तिकृतेऽमुना ।
जटाघट्टधृता गंगा न त्यक्ता रक्षिता बलात् ॥४॥
देवैश्चापि न विदितो विरहाग्निवदीश्वरः ।
ध्यानमग्नो यथापूर्वमास्ते मन्दरभूभृति ॥५॥
ह्येषैव लीला देवस्य स्वमूर्त्या तप्यते प्रभुः ।
अष्टमूर्तिः स्वयं यो वै तापयत्यखिलं जगत् ॥६॥
विषं हालाहलं कण्ठगतं नो तापयत्यमुम् ।
काशीविरहतापस्तं तापयत्यतिवर्धितः ॥७॥
अपि शीतलचन्द्रकान्तजा ननु माला विधृता तु वक्षसि ।
विरहान्नवकाशिकाकृताद् रविकान्तभ्रममावहत्यसौ ॥८॥
यदपांगविमोक्षणोद्भवादनलालूलोकसुखावहोऽप्ययम् ।
ननु मानसभूश्च भस्मसादभवत्सोऽप्यनलेन तप्यते ॥९॥
श्रुतिमार्गमभिद्रुतोऽपि यो निजभक्तान्तरसौख्यसंप्रदः ।
स हि शान्तरयो वियोगजानलतप्तो भवतीति वैशसम् ॥१०॥
अपि काशिसुगंगजान्कणानभिसंगृह्य समागतोऽनिलः ।
स्पृशते यदि मां वियोगिनं परिसौख्यं मम जायते तदा ॥११॥
अपि काशिसुरथ्यगं रजो यदि चायात्यनिलेन वाहिना ।
तदपि प्रभु स्याद्वियोगजं ह्यसुखं वारयितुं बलादलम् ॥१२॥
इत्येवं शोकसंमग्नं शंकरं वीक्ष्य पार्वती ।
पतिदेवं नमस्कृत्य प्राह चान्तरखेदहृत् ॥१३॥
कथं देव महादेव जगतां नाथ चेश्वर ।
हृदि सन्तप्यसे लोकसन्तापहर शंकर! ॥१४॥
वामा वामस्वरूपा ते संस्थिताऽस्मि तवार्चने ।
तापहाराय मे नाथ कथमुत्तप्यसे त्वया ॥१५॥
भूवारग्न्यनिलाकाशचन्द्रसूर्यात्ममूर्तिक! ।
साक्षाऽनुमोपमाशब्दार्थापत्त्यैतिह्यमानवन्! ॥१६॥
अनुपलंभाऽसंभवचेष्टायोगजभानवन्! ।
कथं काशिवियोगस्ते सर्वयोगिन् प्रधर्षति ॥१७॥
सर्वान्तरात्मन् सर्वज्ञ काशवद्ब्रह्मरूपधृक् ।
त्रिशूलाऽग्रेऽस्ति ते काशी कस्तापस्तत्कृतस्त्वयि ॥१८॥
तथापि देवयोगात्सा दिव्या मोक्षकरी च पूः ।
न कालदेशवस्तुकृत्परिच्छेदोऽत्र वर्तते ॥१९॥
न विवृत्तिः परिणामो न ध्वंसो न मृषात्मता ।
न लयो न तिरोभावस्त्वद्योगात् काशिकाऽऽशवत् ॥२०॥
दिव्या दिव्यगणोपेता दिव्यतीर्था च पावनी ।
दिव्यमोक्षप्रदा काशी गन्तव्या नाथ! सर्वथा ॥२१॥
नैव काशीसमं सौख्यं नैव काशीसमा स्थितिः ।
नैव काशीसमा शान्तिः काशी सर्वार्थदायिनी ॥२२॥
कं सुखमाप्यते का सा शं सुखमीयतेऽतः शी ।
काशी सुखमयी तस्मात् सर्वसेव्या भवत्यपि ॥२३॥
कस्य वै ब्रह्मणो वासादस्य विष्णोः समाश्रयात् ।
शस्य शंभोर्निवासाच्च काशी त्रिदेवमूर्तिका ॥२॥
का तु सरस्वती प्रोक्ता आ तु लक्ष्मीः रमा स्वयम् ।
शी तु देवी पार्वती वै काशी देवीत्रयात्मिका ॥२५॥
न मन्दरो न हिमवान् नोद्यानानि वनानि च ।
वैहायसानि भूगानि सुखयन्ति तु काशिवत् ॥२६॥
न कर्मदेवो नाऽधर्मो न याम्यो नापि नाकजः ।
काशीवासिजनं दण्डयितुं शक्तो भवेदिह ॥२७॥
वासनानां क्षयो यत्र मरणान्न पुनर्भवः ।
निवासात्कर्मलेपो न कदा दृक्ष्ये नु तां विभो! ॥२८॥
पुराणि सन्त्यनेकानि नगराण्यपि वै तथा ।
पदे पदे स्मृद्धिमन्ति न काशीसदृशानि वै ॥२९॥
सत्यस्था भूमयः सर्वाः काशीतुल्या भवन्ति न ।
यथा त्वां च तथा मां च बाधते काशितापना ॥३०॥
काशी तापहरा यादृङ् न तादृङ् मम जन्मभूः ।
तपोयज्ञेष्टपूर्त्यर्हादानधर्मव्रतादिभिः ॥३१॥
न तथा प्राप्यते मुक्तिः काश्यां तु देहपातनात् ।
न योगसांख्यवेदान्तकर्मकाण्डात्मवित्तिभिः ॥३२॥
यथा काश्यां देहपातान्मुक्तिर्भवति शाश्वती ।
न वेदाध्ययनाद् ब्रह्मव्रतादपि गतिस्तथा ॥३३॥
न सत्ये चेन्द्रलोके वा मुनीनां निलयेऽपि न ।
नाऽतलादौ तथा क्वापि सुखं काश्यां तु यादृशम् ॥३४॥
मनसा संस्मृत्य काशीं योगाभ्यासफलं लभेत् ।
मानवात्खलु तिर्यक्त्वं काश्यां श्रेष्ठं मतं सदा ॥३५॥
मरणादेव मुक्तिः स्याज्ज्ञानजन्मनि किं फलम् ।
तस्माद् यायां यथा काश्यानन्दारण्यं तथा कुरु ॥३६॥
शंभुरुवाच देवेशि! जानासि मम यद्व्रतम् ।
अभुक्तपूर्वमन्येन वस्तूपाश्नामि नेतरत् ॥३७॥
ब्रह्मणा नोदितो दिवोदासो धर्मेण तां पुरीम् ।
शास्ति तत्र कथं गम्यमन्यशास्तरि संस्थिते ॥३८॥
दिवोदासः पुरीं काशीं त्यक्त्वा यायाद् यथा तथा ।
कर्तव्यमेव सम्मील्य ततो वासः सुखावहः ॥३९॥
अधर्मिणस्तु विघ्नानि भवेयुर्न तु धर्मिणः ।
धर्मस्थितस्य यो विघ्नमाचरेत् स विपद्यते ॥४०॥
विना छिद्रं कथं धर्मयुक्तो ह्युत्साद्यते स्थलात् ।
न जरा न महाकालो न मृत्युर्व्याधयोऽशमाः ॥४१॥
न विघ्ना नैव रोगाश्च न ग्रहा न पिशाचकाः ।
नेतयो नापि भूतानि बाधन्ते धर्मसंग्रहम् ॥४२॥
तस्मात्कं प्रेषयामीशे! यस्तं विद्रावयेत् ततः ।
एवं चिन्तयतः शंभोर्योगिनीमण्डलं पुरः ॥४३॥
उपस्थितं तु तच्चक्रं प्राह वाक्यमिदं हरः ।
सत्वरं यात योगिन्यो यत्र राजाऽतिधार्मिकः ॥४४॥
दिवोदास इति ख्यातः काश्यां धर्मेण शास्त्ययम् ।
यथा काशीं त्यजेच्छीघ्रं तथा कुरुत मायया ॥४५॥
अहं ततो नवीकृत्य पुरीं वाराणसीं शुभाम् ।
सन्निवत्स्यामि तत्रैव शीघ्रं सर्वं विधीयताम् ॥४६॥
इत्याज्ञां शिरसा ताश्च गृहीत्वा ययुरुत्सुकाः ।
प्रवदन्त्यो धन्यतमा वयं देवप्रसादिताः ॥४७॥
प्रेषिताश्चापि कार्यार्थं श्रीमदानन्दकाननम् ।
उड्डीय मन्दरद्रोण्या व्योम्नि काश्युपरि स्थिराः ॥४८॥
ददृशुर्दिव्यसौधाढ्यं पुरं स्वर्गमिवाऽपरम् ।
पताकाभिस्तु मार्गस्थान्पान्थानाह्वयतीव तत् ॥४९॥
श्वेतमणिमहाजालैर्नीलं व्योमापि निर्मलम् ।
सर्वं धवलयत्तेजःप्रवाहैः स्वर्गगामिभिः ॥५०॥
अथ व्योम्न्येव सर्वाभिः स्वरूपाणां विवर्तनम् ।
विविधं तु कृतं ताश्च विभिन्नज्ञानवर्तनाः ॥५१॥
विभिन्नवेषा ह्यभवन् काश्यां स्थले स्थले स्त्रियः ।
अवतेरुश्च योगिन्यः सुन्दर्यः कार्यसिद्धये ॥५२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मन्दराचलगुहायां शंभोः काशीविरहजतापोत्तरंदिवोदासस्य विघ्नार्थं योगिनीचक्रप्रेषणमित्यादिकथननामा द्व्यशीतितमोऽध्यायः ॥८२॥

N/A

References : N/A
Last Updated : March 27, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP