संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५२६

लक्ष्मीनारायणसंहिता


श्रीनारायण उवाच-
शृणु लक्ष्मि! वसोः पूर्ववृत्तान्तं चाऽभवद्यथा ।
कथयामि चमत्कारं रैभ्यस्यापि ततः परम् ॥१॥
वसुरासीन्महाभक्तः काश्मीरनृपतिः स्वयम् ।
अनादिश्रीकृष्णनारायणस्य शरणागतः ॥२॥
'ओं नमः श्रीकृष्णनारायणस्य स्वामिने नमः' ।
इतिमन्त्रं प्रजग्राह वार्धक्ये तु नरायणात् ॥३॥
बादरीं स समायाति प्रतिसंवत्सरं नृपः ।
नारायणस्य सेवार्थं दर्शनार्थं च भावतः ॥४॥
कण्ठे च तुलसीमालां सदा रक्षति शोभनाम् ।
करेऽपि जपनार्थं सर्वदा रक्षति मालिकाम् ॥५॥
जानन् क्षणस्थितिं स्वस्य संसारस्यापि तादृशीम् ।
संसारे निर्मिताः सर्वे संघाताः शोकभीप्रदाः ॥६॥
वायुश्च भूमिराकाशो जलं तेजश्च पंकजम् ।
शरीरं पञ्चभूतैश्च निर्मितं सर्वदेहिनाम् ॥७॥
मिथ्याभ्रमः कृत्रिमश्च स्वप्नवन्माययाऽन्वितः ।
को वा कस्य सुतस्तत्र का स्त्री कस्य पतिस्तथा ॥८॥
कर्मभिर्निर्मितं सर्वं कर्मबन्धनजं त्विदम् ।
सुख दुःखं भयं शोकं देहयोगे प्रगच्छति ॥९॥
मानुषे च पशौ देवे द्रुषु कीटेषु जन्तुषु ।
पक्षिष्वपि तृणे चापि जन्म याति स्वकर्मभिः ॥१०॥
पुनः पुनर्भ्रमत्येव यावत्कर्मलयो न वै ।
सत्यं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ॥११॥
निमेषस्य चतुर्भागस्त्रुटिः स्यात् तद्द्वयं लवः ।
लवद्वयं यवः प्रोक्तः काष्ठा तद्दशपंचभिः ॥१२॥
त्रिंशत्काष्ठाः कलाः प्रोक्ता क्षणस्त्रिंशत्कलो मतः ।
क्षणैः षष्ट्या पलं प्रोक्तं षष्ट्या तेषां च नाडिका ॥१३॥
नाडीद्वयं मुहूर्तं त्रिंशन्मुहूर्तं दिवानिशम् ।
मासस्त्रिंशदहोरात्रैर्द्वौ मासौ तु ऋतुर्मतः ॥१४॥
ऋतुत्रयं स्यादयनमयने द्वे तु वत्सरम् ।
अनेनैव तु मानेन मानवानां कृतेऽत्र वै ॥१५॥
लक्षैः सप्तदशाख्यैश्च सौराब्दैश्च तथा परैः ।
अष्टाविंशतिसाहस्रैर्निश्चितं वै कृतं युगम् ॥१६॥
अष्टशताधिक्ययुक्तचतुःसाहस्रसंख्यकाः ।
षष्ट्यधिकत्रिशतकैर्गुणितास्ते कृते मताः ॥१७॥
तत्र वै जायते शुक्लवर्णो हि भगवान् स्वयम् ।
लोकाः पापविनिर्मुक्ताः क्षान्ता दान्ता जितेन्द्रियाः ॥१८॥
दीर्घायुषस्तपोमग्नः कामक्रोधादिवर्जिताः ।
न पुत्रसंभवो मृत्युर्वीक्ष्यते जनकैः क्वचित् ॥१९॥
ततस्त्रेतायुगं स्याच्च लक्षैर्द्वादशभिस्तथा ।
षण्णवतिसाहस्रैः सौराब्दैर्निश्चितं सुरैः ॥२०॥
षट्शताधिक्ययुक्तत्रिसाहस्रसंख्यकाः खलु ।
षष्ट्यधिकत्रिशतकैर्गुणितास्ते त्रिके युगे ॥२१॥
पापेनैकेन पादेन रौद्रं धर्मं तदा विशेत् ।
ततो रक्तत्वमभ्येति श्रीमत्कृष्णनरायणः ॥२२॥
पापांशेन मिथो लोकः संस्पर्द्धी जायते तदा ।
स्वर्गार्थं दानयज्ञाश्च कुर्वन्ति यानि वै दिवम् ॥२३॥
केचित्स्वल्पायुषस्तत्र जायन्ते स्पर्धयाऽपि च ।
जनके विद्यमाने तु पुत्राणां मरणं न वै ॥२४॥
कामक्रोधादयस्तत्र भवन्ति न भवन्ति च ।
एकवारं तदा कृष्या वापितं क्षेत्रमुत्तमम् ॥२५॥
सप्तवारान् प्रगृह्णन्ति वैश्याः कृष्णपरायणाः ।
सर्वा घटस्तवा गावो महिष्यश्च चतुर्गुणाः ॥२६॥
शापानुग्रहकृत्येषु समर्था मानवास्तदा ।
न चौरो जो रू. श्च सर्वे धर्मरता जनाः ॥२७॥
ततस्तृतीययुगको द्वापरो विद्यते क्रमात् ।
द्वौ पादौ तत्र पापस्य द्वौ च धर्मस्य संस्थितौ ॥२८॥
तच्चाऽष्टलक्षमानेन सौराब्दानां प्रकीर्तितम् ।
चतुःषष्टिभिरन्यैश्च सहस्रैश्च युगं तदा ॥२९॥
चतुःशताऽऽधिकद्विसाहस्रप्रसंख्यकाः खलु ।
षष्ट्यधिकत्रिशतकैर्गुणितास्ते द्विके युगे ॥३०॥
कामः क्रोधो मदो लोभो दम्भो मत्सर एव च ।
षडेते तत्र जायन्ते ईर्ष्या चापि तु सप्तमी ॥३१॥
अथ तैरन्विताः सर्वे विरुद्धा वै परस्परम् ।
केऽपि शान्ताश्च दान्ताश्च जितेन्द्रिया भवन्ति हि ॥३२॥
ततः कलियुगं प्रोक्तं सर्वदोषाश्रयं तदा ।
एकपादो वृषो यत्र पापं पादैस्त्रिभिः स्थितम् ॥३३॥
श्वेतः सत्ये रक्तवर्णंस्त्रेतायां भगवानपि ।
नीलश्च द्वापरे कृष्णोऽलिवद् वै जायते कलौ ॥३४॥
प्रमाणं तु कलेर्दिष्टं लक्षाश्चत्वार एव च ।
द्वात्रिंशच्च सहस्राणि सौराब्दानि भवन्ति हि ॥३५॥
द्विशताधिकैकसाहस्रात्मप्रसंख्यकाः खलु ।
षष्ट्यधिकत्रिशतकैर्गुणितास्ते कलौ मताः ॥३६॥
एकद्वित्रीणि चत्वारि सहस्राणि दश क्रमात् ।
कलिद्वीतत्रीतसत्ययुगाऽब्दानि भवन्ति हि ॥३७॥
मानवानि द्विचतुःषडष्टशतान्यनुक्रमात् ।
भवन्त्यब्दानि साहस्रे द्वे, मिलित्वा तु तान्यथ ॥३८॥
द्वादशाब्दसहस्राणि मानवानां चतुर्युगम् ।
बोध्यं सौराणि त्रिचत्वारिंशल्लक्षाणि चाप्यथ ॥३९॥
विंशतिसाहस्रसंख्याधिकान्येव चतुर्युगम् ।
युगक्षयकृतश्चायुःक्षयः सृष्टौ मतोऽपि हि ॥४०॥
यस्य चास्ति गृहे वित्तं तथा नार्यो मनोरमाः ।
तैर्नरैस्तु समं मैत्रीं कलौ कुर्वन्ति मानवाः ॥४१॥
स्वार्थमात्रपराः पुत्रा भूषास्वार्थपराः प्रियाः ।
स्नुषा वेत्ति च वित्तेन यदि श्वश्रूः क्षयं व्रजेत् ॥४२॥
मम स्याद् गृहमैश्वर्ये सर्वे वाञ्छन्ति तत्तथा ।
अल्पोदकास्तदा मेघा अल्पसस्या च मेदिनी ॥४३॥
धूर्ता विडम्बकाः सन्तो गुरवश्च कलौ युगे ।
अल्पक्षीरास्तदा गावः क्षीरे सर्पिर्न विद्यते ॥४४॥
सर्वभक्षास्तदा विप्रा नृपा निष्करुणास्तदा ।
चौर्यकार्यपराः सर्वे पृथिवी गतयौवना॥ ॥४५॥
अतिक्रान्तशुभाः कालाः पर्युपस्थितदारुणाः ।
वर्षे चतुष्टये कन्या गर्भवती भविष्यति ॥४६॥
पञ्चदशन्यूनवर्षे मृत्युरेव भविष्यति ।
भविष्यन्ति कलौ चान्ते जना वितस्तिमात्रकाः ॥४७॥
दशवर्षायुषश्चान्ते गृहं बिलं भुवोऽन्तरे ।
प्रावरणं तदा वै स्याद् गुप्तवस्त्रं हि केवलम् ॥४८॥
एकवर्णा भविष्यन्ति वर्णाः सर्वे मिथोऽन्विताः ।
म्लेच्छीभूता दुराचारा धर्मकर्मविवर्जिताः ॥४९॥
चतुर्युगानां सप्ततिं त्वेकाधिकां मनुस्तथा ।
महेन्द्रश्च प्रभुंक्ते वै दीर्घमायुः पुनः पुनः ॥५०॥
मनोः समं महेन्द्रेण परमायुः प्रकीर्तितम् ।
चतुर्दशेन्द्रविच्छित्तौ ब्रह्मणो दिनमुच्यते ॥५१॥
एवं परिमिता रात्रिर्दिवारात्रं हि कल्पकः ।
ब्रह्मणस्तु वर्षशतं परमायुर्विनिर्मितम् ॥५२॥
सौरसावनचन्द्रर्क्षैर्मानैरेभिश्चतुर्विधैः ।
कालो निर्याति सर्वेषां भूतानां क्षितिमण्डले ॥५३॥
पञ्चषष्ट्यधिकैश्चापि दिनानां च शतैस्त्रिभिः ।
भवेन्मानववर्षं तत् पञ्चोनैस्तैश्च सावनम् ॥५४॥
चान्द्रमेकादशोनं तु त्रिंशद्धीनं तु ऋक्षजम् ।
शीतातपौ तथा वृष्टिर्मानवाब्देन जायते ॥५५॥
अग्निष्टोमादयो यज्ञा विवाहा उत्सवादयः ।
सावनेन भवन्त्येव सर्ववर्णेषु वै क्षितौ ॥५६॥
कुसीदाद्या व्यवहारा उत्पन्नानि च यान्यपि ।
अधिमासप्रयुक्तेन चान्द्रेणैव भवन्ति हि ॥५७॥
नक्षत्रेण तु मानेन भिद्यन्ते चाभितारकाः ।
एवं देवा मानवाश्च दैत्यास्त्वन्ये सदा क्षितौ ॥५८॥
प्रवर्तन्ते च जायन्ते म्रियन्ते चेदृशं जगत् ।
तत्र मायाबन्धनेनावृतः पारं न याति वै ॥५९॥
तस्मान्मया सदा कृष्णनारायणः पुमुत्तमः ।
भजनीयः पूजनीयो ध्यातव्यश्च निरन्तरम् ॥६०॥
कालो भक्षयति सर्वान् क्षणे वर्षे युगे तथा ।
मां शिखायां दत्तहस्तः कालो ग्रसितुमिच्छति ॥६१॥
इत्येवं बोधयुक्तः स राजा भक्तिपरायणः ।
वसुर्धर्मानुमत्या च स्वराज्यं प्रत्यपालयत् ॥६२॥
अयजद् बहुभिर्यज्ञैर्महद्भिर्भूरिदक्षिणैः ।
कर्मार्पणेन देवेशं कृष्णनारायणं हरिम् ॥६३॥
तोषयामास बहुभिर्दास्यभावैश्च वर्तयन् ।
ततः कालेन महता वसुर्वैराग्ययोगतः ॥६४॥
निवृत्तराज्यभोगेच्छाद्वन्द्वस्याऽन्तमुपेयिवान् ।
निजपुत्रं विवस्वन्तं श्रेष्ठं भ्रातृशतस्य च ॥६५॥
अभिषिच्य निजे राज्ये पुष्करं समुपाययौ ।
यत्र श्रीपुण्डरीकाक्षन्नारायणः संविराजते ॥६६॥
वसुः काश्मीरभूपः स तपोभिरुग्रसाधितैः ।
भक्त्या स्मरन् हरिं तत्र दिव्यदेहं ददर्श तम् ॥६७॥
कृष्णनारायणं देवं सर्वान्तर्यामिणं प्रभुम् ।
तुष्टाव तं नमस्तेऽस्तु पुण्डरीकाक्ष! ते नमः ॥६८॥
विश्वमूर्ते सर्वतेजोनिवास कृष्ण ते नमः ।
शरण्यं रक्षकं विष्णुं जिष्णुं व्योमनिवासिनम् ॥६९॥
गोपालकृष्णबालं त्वां नमस्ये चक्रपाणिनम् ।
नान्यत् किञ्चित्प्रपश्यामि व्यतिरिक्तं त्वयाऽच्युत ॥७०॥
एवं तु वदतस्तस्य मूर्तिमान् पुरुषः किल ।
निर्गत्य देहान्नीलाभो घनचण्डो भयंकरः ॥७१॥
रक्ताक्षो ह्रस्वकायश्चोवाच राजन् करोमि किम् ।
वसुः पप्रच्छ तं पापरूपं कोऽसि वदाऽत्र मे ॥७२॥
पापरूपः स वै प्राह तव पापं भवाम्यहम् ।
न चास्मि केवलं पापं पापप्रेतोऽस्मि तेऽनघ ॥७३॥
शृणु पूर्वं कलौ राजँस्त्वं राजा दक्षिणापथे ।
जनस्थाने कदाचित्त्वं मृगयार्थमुपागतः ॥७४॥
तत्र त्वया तु दण्डेन मृगवेषधरो मुनिः ।
प्रस्रवणे गिरौ सन्ताडितो मृतः स सत्वरम् ॥७५॥
हरिणं तं हतं मत्वा यावद् ग्रहीतुमिच्छसि ।
तावन्मृगवपुर्विप्रो वीक्षितो हि नरस्त्वया ॥७६॥
त्वं चातिभयमापन्नो हत्यया मानवस्य वै ।
हत्याऽहं तु महाघोरा प्रेतब्राह्मणनाशजा ॥७७॥
अहं ब्रह्मग्रहो राजन् शरीरे न्यवसं तव ।
अद्याऽवधिं पीडयितुं खादितुं तव वर्ष्म च ॥७८॥
राज्यभोगा मया दृष्टा भुक्ता देहे च ते नृप ।
रक्तं पीतं खादितं च मांसं ते नूतनं सदा ॥७९॥
त्वं च राज्यप्रभावेण कृशो नैव विलोक्यसे ।
बहुभोजनपानादिस्मृद्धिमत्त्वान्नृपोत्तम ॥८०॥
अथ त्वया तत्पापस्य प्रायश्चित्तं विचिन्तितम् ।
श्रीहरेर्द्वादशी शुद्धा त्वया राजन्नुपोषिता ॥८१॥
व्रतान्यन्यानि च नारायणो मे प्रीयतामिति ।
कृतानि च तथा दानं गवां दत्तं पुनः पुनः ॥८२॥
ततस्त्वं दक्षिणापथे स्वगृहे कुक्षिशूलतः ।
रुग्णो मृतस्तव पत्नी नाम्ना नारायणी सती ॥८३॥
ददौ जलं तवाऽऽस्ये च श्रीविष्णोश्चरणामृतम् ।
किन्तु त्वया तदा पत्नी स्मृता ध्याता मृतिक्षणे ॥८४॥
तेन त्वं कल्पमेकं च जातो विष्णुपुरे पुनः ।
कुमारो वासनायुक्तो मोक्षाद्वै वञ्चितो यतः ॥८४१॥
अहं तत्र त्वया सार्धं तव देहस्थ एव तु ।
संस्थितः कल्पपर्यन्तं सद्भोगान् बुभुजे त्वयि ॥८६॥
तत्र कल्पे त्वया स्वर्गं बहुधा भुक्तमेव च ।
स्वर्गस्य च त्वयि राजन् स्थितोऽहं स्वेन तेजसा ॥८७॥
पुना राजस्वरूपे च स्थितोऽहं बहुवत्सरान् ।
ततोऽहःकल्पनिवृत्तौ रात्रिकल्पे गतेऽपि च ॥८८॥
इदानीमादिसृष्टौ च सत्ये युगे नराधिप ।
संभूतस्त्वं महाराज! राज्ञः सुमनसो गृहे ॥८९॥
काश्मीरदेशाधिपतेरहं त्वङ्गरुहेषु ते ।
निवासाम्यद्यपर्यन्तं भुञ्जानो नूतनं नवम् ॥९०॥
यज्ञैरिष्ट त्वेयाऽनेकैर्बहुभिश्चाप्तदक्षिणैः ।
न चाऽहं तैरपहतो विष्णुस्मरणवर्जितैः ॥९१॥
इदानीं च विशालायां त्वया भक्तिः कृता हरेः ।
स्तोत्रं प्रह्वणभावेन कृतं सर्वात्मनाऽत्र च ॥९२॥
भक्तेस्तव प्रभावेण पुण्डरीकाक्षशार्ङ्गिणः ।
सर्वात्मनाऽर्पणेनापि प्रसादितो हरिः स्वयम् ॥९३॥
किंकरान् प्रेषयामास विष्णुर्नारायणः प्रभुः ।
पश्य त्वेतान् महाव्योम्नि विमानेष्वभ्यवस्थितान् ॥९४॥
तदेतैर्विष्णुपुरुषैर्मूशलैः प्रहतोऽस्म्यहम् ।
क्षयं यातश्च्युतश्चास्मि रोमकूपेभ्य एव ते ॥९५॥
तव भक्तिप्रभावेण विहायाऽङ्गरुहाण्यहम् ।
एकीभूतः पुनर्जातो व्याधरूपी तवान्तिके ॥९६॥
अहं भगवतः स्तोत्रं श्रुत्वा भक्त्या च ते नृप ।
विष्णुपार्षददण्डस्य स्पर्शेनाऽपि महाऽघतः ॥९७॥
मुक्तोऽस्मि प्रेतभावाच्च धर्मबुद्धिश्च मेऽस्ति च ।
ततो राजन्निजमित्रं त्वदाश्रितं निराश्रयम् ॥९८॥
भक्तं मां देहि सुखदं वरदानं कृपां कुरु ।
एवं श्रुत्वा वसुर्व्याधायापि ददौ वरं शुभम् ॥९९॥
शृणु व्याध! त्वया स्मारितोऽस्मि जन्मान्तरं मम ।
ततस्त्वं मद्वरेणातो धर्मव्याधो भविष्यसि ॥१००॥
एवमुक्त्वा तु भूपः स विमानवरमास्थितः ।
परेण श्रीकृष्णनारायणेनाऽक्षरधाम वै ॥१०१॥
ययौ पार्षदयुक्तः स पार्षदोऽभूद्धरेस्ततः ।
अथाऽयं धर्मकर्मा च धर्मव्याधो बभूव ह ॥१०२॥
इत्येतत् कथितं लक्ष्मि! वसोश्चरितमुत्तमम् ।
यः पठेच्छृणुयाच्चास्य तीर्थस्नानफलं भवेत् ॥१०३॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने काश्मीरनृपस्य वसोः प्राग्जन्म मृगरूप ब्रह्महत्याया भक्तिबलेन निःसृताया धर्मव्याधजन्मता, वसोस्ततो मुक्तिश्चेत्यादिनिरूपणनामा षड्विशत्यधिकपञ्चशततमोऽध्यायः ॥५२६॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP