कृतयुगसन्तानः - अध्यायः ५३१
लक्ष्मीनारायणसंहिता
श्रीनारायण उवाच-
शृणु लक्ष्म्येकदा रम्ये त्वश्वपट्टसरोवरे ।
कुंकुमवापिकाक्षेत्रे ऋषयश्चाययुर्मुदा ॥१॥
ऊर्जकृष्णाष्टमीं कर्तुं कृष्णनारायणस्य वै ।
जयन्त्या उत्सवे त्वन्ये रैवताचलवासिनः ॥२॥
व्योममार्गेण सशिष्या ज्वलन्तो ब्रह्मतेजसा ।
पुलहश्च पुलस्त्यश्च क्रतुश्च भृगुरङ्गिराः ॥३॥
प्रचेताश्च वशिष्ठश्च दुर्वासाः कण्व इत्यपि ।
कात्यायनः पाणिनिश्च कणादो गौतमस्तथा ॥४॥
सनकश्च सनन्दश्च तथा ऋषिः सनातनः ।
कपिलश्चासुरिश्चापि वायुः पञ्चशिखस्तथा ॥५॥
विश्वामित्रो वाल्मीकिश्च कश्यपश्च पराशरः ।
विभाण्डको मरीचिश्च शुक्रोऽत्रिश्च बृहस्पतिः ॥६॥
गार्ग्यो वात्स्यो वात्स्यायनो व्यासश्च जैमिनिस्तथा ।
मितवागृष्यसंगश्च याज्ञवल्क्यश्च मंकणः ॥७॥
सौभरिः शुद्धजटिलो भरद्वाजः सुभद्रकः ।
मार्वण्डेयो बगदाद आसुरिश्च विटंकणः ॥८॥
अष्टावक्रः शतानन्दो वामदेवश्च भागुरिः ।
संवर्तश्चाप्युतथ्यश्च नरश्च नारदस्तथा ॥९॥
जाबालिः पर्शुरामश्चाप्यगस्त्यः पैल इत्यपि ।
शालायनो गौरमुखोऽप्युपमन्युः श्रुतश्रवाः ॥१०॥
मैत्रेयश्च्यवनश्चापि वररुचिः सुपर्णकः ।
स्वयंप्रकाशो विश्वात्मा सायणः पिप्पलायनः ॥११॥
एते चान्ये प्रमूर्धन्याः समाजग्मुर्महोत्सवे ।
तान् दृष्ट्वा सहसोत्थाय नमस्कृत्य पुटांजलिः ॥१२॥
कुशासनेषु रम्येषु वासयामास लोमशः ।
पूजयामास विधिवत् कुशलप्रश्नपूर्वकम् ॥१३॥
एतस्मिन्नन्तरे व्योम्नि तेजोराशिः प्रकाशयन् ।
दिशः सर्वाः परितश्चावततार सनातनः ॥१४॥
तेजसोऽम्यन्तरे रम्यः कुमारः कनकप्रभः ।
यथैव पञ्चवर्षीयः सभामध्ये समागतः ॥१५॥
प्रणेमुर्मुनयः सर्वे लोमशो नारदादयः ।
चक्रुश्च स्वागतं भ्रातुः सर्वज्येष्ठस्य योगिनः ॥१६॥
भगवान् श्रीकृष्णनारायणः स्वागतमाचरत् ।
सनत्कुमारो भगवानुवाच तानृषींस्तदा ॥१७॥
भद्रं वो मुनयः शश्वत्तपसां फलमीप्सितम् ।
निष्फलः श्रीकृष्णनारायणे कुशलप्रश्नकः ॥१८॥
साम्प्रतं कुशलं वश्च दर्शनं परमात्मनः ।
भारावतरणायैव चाविर्भूतस्य साम्प्रतम् ॥१९॥
उवाच श्रीकृष्णनारायणस्तं योगिनं मुनिम् ।
देहिनः श्रीहरेश्चापि कुशलप्रश्नमीप्सितम् ॥२०॥
सनत्कुमारो भगवान् प्राह कृष्णनरायणम् ।
शरीरे प्राकृते नाथाऽकुशलस्य हि संभवः ॥२१॥
तत्र वै कुशलप्रश्नं युज्यते देहिनां सदा ।
नित्यदेहे क्षेममूर्तौ सुखप्रश्नमनर्थकम् ॥२२॥
रक्तबिन्दूद्भवा देहा जीवानां कृतकर्मणाम् ।
न तु वै श्रीकृष्णनारायणस्याऽकृतकर्मणः ॥२३॥
प्रकृतीशस्याऽक्षराधिपतेर्नित्यस्वरूपिणः ।
सर्वेषामवताराणां कारणस्य हरेः कथम् ॥२४॥
नित्यानन्दरवनेस्तस्य कुशलप्रश्नमुच्यते ।
रक्तवीर्याश्रितो देहस्तव नास्ति कदापि वै ॥२५॥
भक्तानुग्रहमात्रेण दृश्यसे दिव्यविग्रहः ।
यस्याश्रयेण जीवानां कुशलं सर्वदा भवेत् ॥२६॥
यत्स्पर्शेन च भक्तानां दिव्यत्वं त्वादृशं भवेत् ।
सत्वं धन्योऽसि भगवन् मान्योऽसि जगतामपि ॥२७॥
सर्वेश्वरेश्वरोऽसि त्वं त्वत्परो नास्ति विश्वतः ।
इति कृत्वा पुनर्नत्वा चार्चयामास भावतः ॥२८॥
श्रीपतिं श्रीकृष्णनारायणं चाक्षरधारकम् ।
एतस्मिन्नन्तरे ब्रह्मा सावित्र्या सह चाययौ ॥२९॥
पार्वत्या सह शंभुश्च धर्मो मूर्त्या सहाऽऽययौ ।
अनन्तो नागिनीयुक्तः सूर्यः संज्ञासमन्वितः ॥३०॥
शशी च रोहिणीयुक्तः शच्या युक्तः सुरेश्वरः ।
आदित्या वसवो रुद्रा दिक्पालाद्याश्च देवताः ॥३१॥
सहसा श्रीकृष्णनारायणश्चोत्थाय भक्तितः ।
मधुपर्कादिकं दत्वा सत्कारं सुसमाचरत् ॥३२॥
प्रणेमुः ऋषयः सर्वे देवानृषींस्ततः सुराः ।
आनर्चुः श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ॥३३॥
अथाऽऽसने स्थितः सनत्कुमारः प्राह संसदि ।
मया दृष्टं परंधाम न दृष्टः पुरुषोत्तमः ॥३४॥
धामाऽक्षरं लोकितं च न दृष्टश्चाक्षराधिपः ।
मया दृष्टस्तु गोलोको न दृष्टो राधिकापतिः ॥३५॥
ततो दृष्टं च वैकुण्ठं न दृष्टः श्रीरमापतिः ।
ततो दृष्टश्च दुग्धाब्धिर्नास्ति तत्र हरिः स्वयम् ॥३६॥
परिश्रान्तविषण्णेन स्नातं क्षीरोदधेस्तटे ।
विस्तीर्णे तत्र कमठो दृष्टो वै नैकयोजनः ॥३७॥
धन्योऽसीति मयोक्तः स नाहं धन्य उवाच माम् ।
क्षीरोदः सागरो धन्यो जन्तवो यत्र मद्विधाः ॥३८॥
ततो मया सागराय धन्यवादः प्रश्रावितः ।
समुद्रः प्राह मां नाहं धन्यवादस्य पात्रकम् ॥३९॥
धन्यवादस्य पात्रं तु पृथिवी लोकधारिणी ।
यत्र सप्ताब्धयो नित्यं वसन्ति च वितस्तिके ॥४०॥
ततो मया पृथिव्यै च धन्यवादः प्रवर्णितः ।
पृथिव्याह च मां नाहं धन्यवादस्य पात्रिका ॥४१॥
धन्यवादस्य पात्रं तु शेषोऽनन्तो ममाऽऽसनम् ।
यत्राऽनन्तानि चाण्डानि फणायां सन्त्यणुर्यथा ॥४२॥
ततो मया ह्यनन्ताय धन्यवादः समर्पिताः ।
अनन्तः प्राह मां नाऽहं धन्यवादस्य पात्रकम् ॥४३॥
धन्यवादस्य पात्रं तु कूर्मो ममाश्रयो महान् ।
यस्य पीठे मादृशा वै शेषा वसन्त्यसंख्यकाः ॥४४॥
ततो मया कच्छपाय धन्यवादः समीरितः ।
कच्छपः प्राह मां नाऽहं धन्यवादस्य भूमिका ॥४५॥
धन्यवादस्य वै भूमिरापो यत्र वसाम्यहम् ।
अप्सु सन्ति मादृशा वै कच्छपाः कोटिशो मुने ॥४६॥
ततो मया महाद्भ्यश्च धन्यवादः प्रवर्तितः ।
आपः प्राहुस्तु मां धन्यवादार्हा न वयं मुने ॥४७॥
धन्यवादस्य पात्रं तु महातेजो जलाश्रयम् ।
ततो मया महातेजोमूर्तये धन्यताऽर्पिता ॥४८॥
महातेजश्च मां प्राह महावायोर्हि धन्यता ।
योग्याऽस्ति च मया वायुर्धन्यवादेन योजितः ॥४९॥
यत्राऽनन्तानि वै सृष्टिमण्डलानि तरन्ति हि ।
वायुः प्राह च मां नाऽहं धन्यवादार्ह ईश्वरः ॥५०॥
धन्यवादस्य पात्रं तु व्योमाकाशो हि वर्तते ।
मया व्योम्नेऽर्पितो धन्यप्रवादो व्योम चाह माम् ॥५१॥
नाऽहं धन्यो जडाकाशश्चोत्पत्तिनाशवानहम् ।
धन्यवादस्य पात्रं तु चिदाकाशो यतो मम ॥५२॥
समुत्पत्तिर्विनाशश्च सृष्टौ सृष्टौ प्रजायते ।
अहं यस्यैकदेशेऽस्मि मयि ब्रह्मा हरो हरिः ॥५३॥
वैराजरोमभूमिस्था वर्तन्ते शतवार्षिकाः ।
अहं ततो ददौ चिदाकाशाय धन्यतां मुहुः ॥५४॥
चिदाकाशश्च मां प्राह नाऽहं धन्यस्य पात्रकम् ।
धन्यस्य पात्रता श्रीमत्कृष्णनारायणे प्रभौ ॥५५॥
अक्षरेशेऽनादिकृष्णनारायणे पुमुत्तमे ।
युज्यते परमेशानेऽवताराणां विधायके ॥५६॥
अनन्तपारे सर्वेशे यस्मात्सर्वे प्रवर्तते ।
यस्यैकरोमकिरणाच्चिदाकाशा अनन्तकाः ॥५७॥
यत्र गोलोकधामाद्याः प्रकाशन्ते स्थले स्थले ।
तादृक्चैतन्यगगनव्राता यत्किरणात् खलु ॥५८॥
तम्राऽनादिश्रीमत्कृष्णनारायणे हि धन्यताम् ।
देहि सनत्कुमार त्वं सर्वधन्यतमाश्रये ॥५९॥
यत्र मुक्ता निवसन्ति यतोऽवतारकोटयः ।
यतो व्यूहा वासुदेवप्रभृतयो भवन्ति च ॥६०॥
यतो धर्मो यतो वेदा यत्राऽन्तर्यामिता स्थिता ।
व्यापकश्चान्वयी यश्च सर्वज्ञः सर्वशक्तिमान् ॥६१॥
यतो यज्ञाः कर्मकाण्डाः प्रवृत्तिश्चात्मनां यतः ।
यत्र चान्ते निवृत्तिश्च कर्मफलं यतो भवेत् ॥६२॥
फलदाता कर्महेतुः सर्वादिः सर्वकारकः ।
धन्यवादेन योक्तव्यो नान्यो धन्याश्रयो मुने ॥६३॥
इत्युक्तोऽहं परे लोकेऽक्षरलोकात्परे स्थिते ।
योगशक्त्या गतो द्रष्टुं दातुं च धन्यवादकान् ॥६४॥
कारणं कारणानां तं प्रवीक्षितुं स्वधामनि ।
सोऽहं तत्रत्यमुक्तानां दिव्यतेजोभिरावृतः ॥६५॥
द्रष्टुं शक्तोऽभवं नैव सन्तं च दिव्यविग्रहम् ।
गन्तुं तु शक्यते योगाद् द्रष्टुं शक्तं त्वनुग्रहात् ॥६६॥
अदृष्ट्वा तं मुक्तवृन्दं पृष्ट्वा क्व भगवानिति ।
ज्ञात्वा विराजते त्वश्वपट्टसरोऽन्तिके शुभे ॥६७॥
क्षेत्रे कुंकुमवाप्यां वै लोमशाश्रमशोभिते ।
गेहे च कम्भरालक्ष्म्या गोपालकृष्णमन्दिरे ॥६८॥
दिव्याऽदिव्याक्षिभिः सर्वैर्दृश्योऽनादिनरायणः ।
गच्छ त्वं श्रीकृष्णनारायणं पश्य क्षितौ मुने ॥६९॥
इत्याज्ञाय समायातोऽस्म्यहं दर्शनहेतवे ।
धन्यवादान् प्रदातुं च तस्मै योऽत्र विराजते ॥७०॥
बालः श्रीकम्भरालक्ष्म्या गोपालकृष्णनन्दनः ।
वसन्ति यत्र वेदाश्च पराविद्याऽत्र वर्तते ॥७१॥
सर्वानन्दा मुक्तयश्च यस्याऽक्षिकोणके स्थिताः ।
सर्वे देवाश्च ऋषय ईश्वरा यन्मनोभवाः ॥७२॥
तस्मायनादिश्रीकृष्णनारायणाय वै नमः ।
स्वामिने बालरूपाय वल्लभाय च ते नमः ॥७३॥
मुक्तानां पतये धाम्नां पतये ते नमोनमः ।
अवतारवृन्दधर्त्रे ईश्वरेशाय ते नमः ॥७४॥
राधालक्ष्मीस्वामिने ते जयायाः पतये नमः ।
ललितामाणिकीपद्मापार्वतीशाय ते नमः ॥७५॥
प्रभावृन्दातुलसीश्रीपद्मावतीश ते नमः ।
मञ्जुलाकान्त हंसेश योगीशेश च ते नमः ॥७६॥
कमलाकान्त सिद्धीश ते प्रत्यक्ष नमोनमः ।
नमोहृदयवासाथ सर्वान्तर्यामिणे नमः ॥७७॥
नमः मयूरपिच्छाढ्यमुकुटधारिणे नमः ।
नमः कौस्तुभसंशोभद्वक्षःस्थलाय ते नमः ॥७८॥
नमः कुण्डलकर्णाय स्वर्णहाराय ते नमः ।
सर्वशक्तिस्वरूपाय कामकामाय ते नमः ॥७९॥
नैकासुरविनाशाय भक्तत्राणाय ते नमः ।
भक्तवाञ्च्छितदात्रे ते श्रीकृष्णाय नमो नमः ॥८०॥
धन्येयं कुंकुमवापी धन्योऽयं लोमशो मुनिः ।
अश्वपट्टसरो धन्यं धन्यं व्याघ्रवनं शुभम् ॥८१॥
धन्या इमे च ऋषयो धन्या द्रुतृणभूरुहाः ।
धन्याः पक्षगमा जीवा धन्या भूवासकारिणः ॥८२॥
धन्या नरास्तथा नार्यो धन्यं चराचरं त्विदम् ।
यत्र वै बालरूपस्त्वं वर्तसे पुरुषोत्तमः ॥८३॥
दृश्यसे सर्वविषयो गम्यसे ज्ञानिभिः खलु ।
अद्य नः सफलं जन्म पुण्यं नः पारवर्जितम् ॥८४॥
सृष्टिसञ्चालकैर्यो न प्राप्यते दृश्यसेऽत्र नः ।
अनेकजन्मशुद्धानां दर्शनं तेऽत्र युज्यते ॥८५॥
अस्माकं चात्र सञ्जातं पुरुषार्थचतुष्टयम् ।
शरण्यं यत्पदं लब्धं प्रत्यक्षं सेवनोचितम् ॥८६॥
इत्येवं स्तवनं कृत्वा बालवेषं पुमुत्तमम् ।
पुपूजुः परया भक्त्या शृंगारितं जगत्प्रभुम् ॥८७॥
उपदाः प्रददुः सर्वे चक्रुश्च तिलकं शुभम् ।
आरार्त्रिकं प्रचक्रुश्च नेमुस्तुष्टुवुरादरात् ॥८८॥
प्रदक्षिणं प्रचक्रुश्च नैवेद्यं विविधं ददुः ।
देवा देव्यः पुष्पवृष्टिं चक्रुः कृष्णस्य मूर्धनि ॥८९॥
महोत्सवे कोटिशो वै भुवनानां निवासिनः ।
समायाता जयन्त्यां श्रीकृष्णनारायणस्य ते ॥९०॥
दर्शनं च प्रसादं च चरणामृतमित्यपि ।
शुभाशिषश्च संगृह्य ययुर्निजालयं मुदा ॥९१॥
अनादिश्रीकृष्णनारायणस्यैतत् स्तवं शुभम् ।
परमैश्वर्यजनकं सुखदं सम्पदाप्रदम् ॥९२॥
निर्वाणमोक्षदं लक्ष्मि! हरिभक्तिप्रदं परम् ।
अक्षरेशपददातृ सर्वसिद्धिप्रदं वरम् ॥९३॥
लोभमोहकामक्रोधकर्ममूलनिकृन्तनम् ।
बलबुद्धिप्रदं चैव जन्ममृत्युविनाशनम् ॥९४॥
धनपुत्रप्रियाभूमिपतिसम्पत्प्रदं नृणाम् ।
शोकदुःखहरं यश्च पठेद्वा शृणुयाच्च वा ॥९५॥
बन्धनान्मुच्यते दुःखी भीतो मुच्येत वै भयात् ।
रोगाद्विमुच्यते रोगी दरिद्रश्च धनी भवेत् ॥९६॥
दस्युग्रस्तो रिपुग्रस्तो हिंस्रजन्तुसमावृतः ।
स्तोत्रेणाऽनेन वै लक्ष्मि! कल्याणं लभते जनः ॥९७॥
सनत्कुमारो भगवान् ददौ श्रीलोमशाय यत् ।
लोमशश्च ददावन्यऋषिभ्यो मोक्षहेतुकम् ॥९८॥
अनादिश्रीकृष्णनारायणभक्ताय सर्वथा ।
दासभक्ताय दातव्यं विदुषे च मुमुक्षवे ॥९९॥
अश्वमेधसहस्राच्च पृथिव्याश्च प्रदक्षिणात् ।
स्नानाच्च सर्वतीर्थानां स्तोत्रमेतत्तु पुण्यदम् ॥१००॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कुंकुमवापिकाक्षेत्रे लोमशाश्रमेऽनादिश्रीकृष्णनारायणस्य जयन्त्यांतिथौ धन्यवादाऽऽशीर्वादप्रदानार्थमागतेन सनत्कुमारेण क्रमशो धन्यवादार्हपराकाष्ठाश्रयाऽनादिश्रीकृष्णनारायणस्य ऋषिव्राताय कथितमहिमादिनिरूपणनामैकत्रिंशदधिकपञ्चशततमोऽध्यायः ॥५३१॥
N/A
References : N/A
Last Updated : April 01, 2021
TOP