कृतयुगसन्तानः - अध्यायः ५३९
लक्ष्मीनारायणसंहिता
श्रीनारायण उवाच--
शृणु लक्ष्मि ॥तथाऽन्यानि तीर्थानि कथयामि ते ।
यान्युक्तानि महादेव्यै महादेवेन वै तदा ॥१॥
वामदेवस्य सावर्णेरघोरस्य तथा परम् ।
कपिलस्य शुभं तीर्थं वर्तते तु प्रभासके ॥२॥
तथा श्रीमुखसंज्ञं च वनं लक्ष्म्या विराजते ।
यत्र वै वैष्णवा योगिसिद्धा वसन्ति सर्वदा ॥३॥
सगरेण पुराऽऽदित्यः स्थापितो यत्र भासकः ।
सागरादित्यतीर्थं तद् विद्यते तु प्रभासके ॥४॥
अन्त्यजस्य सुता चाऽक्षमालाऽभूद् युवती पुरा ।
पूर्वजन्मनि शूद्रा सा रजस्वला हि शंकरम् ॥५॥
पस्पर्श तेन दोषेण कन्याऽन्त्यजस्य चाऽभवत् ।
वसिष्ठेन तपोयोगाद् गृहीता जनकार्पिता ॥६॥
बहुवर्षे पुरा देवो न ववर्ष तदा तु ते ।
हिमभूमौ ददस्वाऽन्नं समयाचन्त चान्त्यजम् ॥७॥
तेन पुत्र्या सहान्नं वै दत्तं तदा वसिष्ठकः।
आपद्धर्मं समालोच्योवाच तत्राऽन्त्यजं यथा ॥८॥
जीवरक्षार्थमागृह्णन् नहि पापेन लिप्यते ।
अजीगर्तः सुतं हन्तुमुपासर्पद् बुभुक्षितः ॥९॥
भारद्वाजः क्षुधार्तस्तु उपजग्राह गाः पुरा ।
क्षुधार्तो ह्यभ्यगाद् गां तु विश्वामित्रोऽपि वै पुरा ॥१०॥
इत्युक्त्वा तामक्षमालां जग्राह स वसिष्ठकः ।
अन्नं भुक्त्वा चाययुस्ते प्रभासे त्वब्धिसन्निधौ ॥११॥
अक्षमाला तपश्चक्रेऽरुन्धती सा व्यजायत ।
तयाऽक्षमालिकेशश्च स्थापितः शंकरस्तदा ॥१२॥
अथ तत्र सिद्धलक्ष्मीतीर्थं वै वर्तते शुभम् ।
तथा तीर्थं महाकालीकृतं चापि विराजते ॥१३॥
पुष्करावर्तकानाम्नी नदी कमलदा शुभा ।
वर्तते शुभतीर्थे च प्रभासे सद्गतिप्रदम् ॥१४॥
अथ मित्राभिधः कश्चित् कायस्थोऽभूद् धरातले ।
तस्य पुत्रोऽभवच्चित्रश्चित्रा कन्याऽभवत्तथा ॥१५६॥
पित्रोर्मृत्यौ बालकौ तौ प्रभासं ययतुस्ततः ।
तुष्टुवतुस्तत्र सूर्यं तपसा बहुवासरान् ॥१६॥
चित्रस्य तु प्रसन्नोऽभूत् सूर्यः प्राह वरं वृणु ।
स वव्रे सर्वकार्येषु प्रौढत्वं रुचिमत्त्वकम् ॥१७॥
तथास्त्विति रविः प्राह धर्मराजश्च तं तथा ।
कुशलं तु परं ज्ञात्वा कृतवान् लेखकं निजम् ॥१८॥
सूर्योऽपि चाऽभवत्तत्र चित्रादित्य इति प्रथः ।
चित्राऽभवद्धर्मराजगृहिणी तपसः फलात् ॥१९॥
चित्रेश्वरीति सा तत्र देवी संराजते तथा ।
तीर्थं चापि शुभं जातं रोगदोषनिवारकम् ॥२ ०॥
अथात्र शीतला देवी वर्तते दुःखनाशिनी ।
विस्फोटकप्रशान्त्यर्थं मयूराँस्तत्र कूर्दयेत् ॥२१॥
विस्फोटं चर्चिका चापि बालानां प्रशमो भवेत्॥
कर्पूरं कुंकुमं चापि चन्दनं कुसुमानि च ॥२॥
नवम्यां शुक्लपक्षे तां नैवेद्यं घृतपायसम् ।
मालां बिल्वमयीं दद्याद् रोगा नश्यन्ति दूरतः ॥२३॥
शीतलातीर्थमेवैतदुक्तं बालसुखादिकृत् ।
चित्रा या यमपत्नी सा चित्रपथा सरिद्वरा ॥२४॥
द्वितीयेन स्वरूपेण जाता प्रभासके स्थले ।
तद्वै तीर्थं पापतापप्रशान्त्यर्थं समुच्यते ॥२५॥
धर्मराजकृतं तीर्थं प्रभासे वर्तते तथा ।
ब्रह्मणा निर्मितः कुण्डः कायाकल्पकरोऽस्ति वै ॥२६॥
नारदेन कृतं तीर्थं विद्यते स्वरभासितम् ।
यज्ञकुण्डो महत्तीर्थं ब्रह्मादिकसुरैः कृतम् ॥२७॥
हिरण्यायास्तटे स्वर्णदानादि पुण्यदं हि तत् ।
वैनतेयं तथा तीर्थं सर्पभीतिनिवारकम् ॥२८॥
रैवन्तकं महत्तीर्थं सूर्यपुत्रस्य वर्तते ।
अश्वस्य तं पूजयित्वा रवावापद् विनश्यति ॥२९॥
स्वर्गवैद्यकृतं तीर्थं सावित्रीतीर्थमित्यपि ।
तपसा जायमानं तद् विद्यते वै प्रभासके ॥३०॥
तलस्वामीतितीर्थं च उष्णजलान्वितं तथा ।
सिंहारण्ये वर्तते च पावनं स्वर्गदं शुभम् ॥३१॥
शृणु लक्ष्मि! पुरा तत्र सिंहारण्ये तलोद्भवम् ।
आसीन्महेन्द्रनामा तु दानवस्तपसो बलात् ॥३२॥
जिग्ये देवान् शंकरात् सः प्रार्थयामास संगरम् ।
युयुधे शंकरेणाऽऽदौ ब्रह्माण्डक्षयकारकः ॥३३॥
ततः कोपाच्छिवदेहाज्ज्वाला बह्व्योऽभवँस्तदा ।
तासां मध्ये तलो दग्धो दुद्राव च वनान्तरे ॥३४॥
शिवः सोमेश्वरं गत्वा सुस्थितः स तलस्ततः ।
महेन्द्रं पीडयामास बधान ककुभां पतीन् ॥३५॥
तलो विस्मयमापन्नो हर्षनृत्यमथाऽकरोत् ।
चकम्पे तस्य नृत्येन सर्वं स्थावरजंगमम् ॥३६॥
क्षुभिता गिरयः सर्वे विद्रुतो लवणार्णवः ।
त्रैलोक्यं व्याकुलीभूतं तदा वै लोमशो मुनिः ॥३७॥
प्रभासं तु समागत्य शंकरं प्राह रक्ष नः ।
तलं नाशय देवेश मा चिरं च द्रुतं कुरु ॥३८॥
रुद्र उवाचाऽवध्यो मे तलः पुत्रसमः स्थितः ।
किन्तु उष्णवने रम्ये तप्तोदकसमीपतः ॥३९॥
दुर्वासा वर्तते तं च प्रार्थयध्वं सुरादयः ।
अनादिश्रीकृष्णनारायणो गुप्तप्रयागके ॥४०॥
शत्रुंजयाचले त्वश्वपट्टसंज्ञसरोवरे ।
सौराष्ट्रे महति क्षेत्रे वर्तते भगवान् स्वयम् ॥४१॥
दुर्वाससा स्तूयमानो लोमशादिभिरादरात् ।
देवैः सम्प्रार्थ्यमानश्च तलं विनाशयिष्यति ॥४२॥
कल्पे कल्पे पूर्वभूमौ व्याघ्रारण्ये स्थितः प्रभुः ।
सिंहारण्यगतं दैत्यं तलं हन्ति पुनः पुनः ॥४३॥
एवमुक्तो लोमशः सः उष्णोदकसमीपतः ।
गत्वा दुर्वाससं देवान्नीत्वा कृष्णनरायणम् ॥४४॥
स्वस्थानं पावनं गत्वा प्राह कृष्णनरायणम् ।
भगवन् राक्षसश्चोग्रो हराऽवध्यो हि वर्तते ॥४५॥
भवता नाशनीयः स सुरमानुषदुःखदः ।
अनादिश्रीकृष्णनारायणो गत्वा सचक्रकः ॥४६॥
व्याघ्रारण्ये तलं दृष्ट्वा मुमोच वै सुदर्शनम् ।
तलो दुद्राव च सिंहारण्यमुष्णोदगह्वरम् ॥४७॥
तत्र चक्रेण तु द्वेधाऽभवद् दैत्यो ममार च ।
दुर्वाससा पूजितश्च मार्कण्डेयेन चार्चितः ॥४८॥
कृष्णनारायणः संज्ञां तलस्वामीति चाप यत् ।
तलस्वामी महत् तीर्थं कृष्णनारायणाश्रयम् ॥४९॥
नित्यमुष्णोदककुण्डत्रयमक्षयमस्ति च ।
पापक्षालनकं स्वर्गप्रदं मोक्षप्रदं तथा ॥५०॥
तत्र तीर्थं तु सावित्र्यास्तपःस्थानं प्रविद्यते ।
अथाऽन्यदस्ति तीर्थं च भूतमातृकसंज्ञकम् ॥५१॥
भूतप्रेतगणानां च स्थानानि सन्ति तत्र च ।
भूतानां मातरं तत्र पूजयेद् भयवारिणीम् ॥५२।
चाक्षुषस्याऽऽन्तरे लक्ष्मि! पुरा कृतयुगे सती ।
शंकरं संविवाह्यैव रमते स्म च कानने ॥५३॥
पार्वत्यां कामभावेन तृप्तोऽभूच्छंकरस्ततः ।
पार्वती कानने तत्र कैलासे स्नानमाचरत् ॥५४॥
पार्वत्याः स्नानमात्रेण निर्गता जलकर्दमात् ।
मातरो भूतिका भीमा असंख्या रूपवर्जिताः ॥५५॥
कृष्णाः करालवदनाः पिंगाक्ष्यो मुक्तमूर्धजा: ।
कपालमालाभरणा बद्धमुण्डार्धपिण्डिकाः ॥५६॥
कपालखट्वांगधरा मुण्डमालाधरास्तथा ।
द्वीपिचर्माम्बरधरा रणत्किंकिणिमेखलाः ॥५७॥
डिमड्डमरुकारावाश्चित्कारापूरिताम्बराः ।
दशकोट्यः सुसञ्जाताश्चतस्रोऽत्र हि नायिकाः ॥५८॥
रक्तकर्णी महाजिह्वा क्षया च पापकारिणी ।
एतासामन्वये जाता बहवो ब्रह्मराक्षसाः ॥५९॥
श्लेष्मान्तकस्त वृक्षे ते प्रायशश्च वसन्ति ते ।
उत्तालाश्चपलाश्चैते नृत्यन्ति च हसन्ति च ॥६०॥
वृक्षे कण्टकिते रौद्रे वसन्त्यपि वने वने ।
शंकरोऽपि तदा स्नानं चक्रे तज्जलकर्दमात् ॥६१॥
भूता असंख्याः सञ्जाता विकराला भयंकराः ।
द्वौ मुख्यौ तादृशावेव तद्रूपाभरणौ नरौ ॥६२॥
कपालखट्वांगधरौ जातौ चर्मावगुण्ठितौ ।
अनुगम्यमानौ बहुभूतैर्महाभयानकैः ॥६३॥
सिंहशार्दूलादिमुखैर्भीषणस्वरकर्मभिः ।
तौ च क्षुधायुतौ शिवां शिवं तदाहतुर्मुहुः ॥६४॥
भोजनं भोजनं चेति शंभुः प्राह तदा च तौ ।
युवयोर्हस्तसंपर्कान्मांसासृगादि जायताम् ॥६५॥
नक्ताहारविहारौ च दिवास्वप्नावभागिनौ ।
पुत्रवद् रक्षतं लोकान् धर्मं पालयतं सदा ॥६६॥
इत्युक्तौ तौ गणौ भूतमातृनायकसेवितौ ।
एकीभूतौ क्षणेनैव सहोदरौ सहायकौ ॥६७॥
आवयोः खलु शौचेन जातौ वै मलिनौ सदा ।
आभ्यां वासश्च दातव्यो दूरं पश्चिमभूतले ॥६८॥
सिंहारण्ये वने वासो सोमनाथसमीपतः ।
सिहव्याघ्रपशुक्षेत्रे सौराष्ट्रे जायतामिति ॥६९॥
यत्र कण्टकिनो वृक्षा रूक्षा रणप्रदेशकाः ।
कुड्यादौ चित्रिता यत्र मञ्जर्यश्च भवन्ति वै ॥७०॥
भार्या यत्र पुनर्भूश्च वल्मीकश्च शमी तथा ।
यत्र गृहे नराः पञ्च यत्र वा स्त्रीत्रयं भवेत् ॥७१॥
यत्र वा गोत्रयं तत्र तद्गृहे वसतिश्च वः ।
अन्धकारे भूविवरे गह्वरे धनपूरिते ॥७२॥
एकच्छागं द्विगर्दभं गोत्रयं पञ्चमाहिषम् ।
षडश्वं वा सप्तगजं तद्गृहे वसतिर्हि वः ॥७३॥
यत्र गृहे च कुद्दालो दातृकं पेटिका तथा ।
स्थाल्यादिभाजनं यत्र तत्रैवास्ति विशीर्णकम् ॥७४॥
क्षिप्तं स्थले स्थले नास्ति व्यवस्था शुद्धिरित्यपि ।
मुसलोलूखलयोश्च देहल्यां स्त्रीः निषीदति ॥७५॥
शकृन्मूत्रं च यत्रास्ति मलं यत्र च कच्चरम् ।
लंघ्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि ॥७६॥
लंघ्यन्ते यत्र शास्त्राणि तद्गृहे वसतिर्हि वः ।
मनुष्यास्थि गृहे यस्य सेवतीवल्लिका तथा ॥७७॥
रोहितश्च जटी यत्राऽऽगस्त्यको बन्धुजीवकः ।
कर्णिका च भवेद् यत्र स्थलपद्मं च यत्र वै ॥७८॥
मल्लिका च यत्र हर्म्ये तत्र वै वसतिर्हि वः ।
तालं तमालं भल्लावं चिञ्चावृक्षाश्च यत्र वै ॥७९॥
बकुलः कदलीषण्डं कदम्बः खदिरोऽपि वा ।
न्यग्रोधोऽश्वत्थ आम्र उदुम्बरः पनसस्तथा ॥८०॥
अशोक ओड्रवृक्षश्च तत्र भूतनिवेशनम् ।
देवार्चनं यत्र नास्ति यत्र नास्ति जपादिकम् ॥८१॥
कृष्णभक्तिर्यत्र नास्ति भूतानां वसतिर्हि सा ।
मलिनास्याश्च ये मर्त्या मलिनाम्बरधारिणः ॥८२॥
मलदन्ता गृहस्थाश्च भूतानां वसतिः सदा ।
दीपो नास्ति यत्र गेहे जनो नास्ति समान्तरे ॥८३॥
मलयुक्ता नालिकाद्यास्तत्र भूतादिवेशनम् ।
स्नानहीना नरा नार्यो वसतिर्भवतु ध्रुवम् ॥८४॥
मद्यमांसाशना लोका वासार्हाः सन्तु वः सदा ।
चत्वरे गोचरे ग्रामगोपुराग्रे श्मशानके ॥८५॥
मृतशाविकभूभागे चैत्ये द्रुमे च प्रस्तरे ।
मलभूमौ नालिकादौ भूतानां वसतिः सदा ॥८६॥
मन्त्रमान्त्रिकदेहे च मन्त्रिते च कणे तथा ।
मन्त्रस्य विषये देहे भूतानां वसतिर्भवेत् ॥८७॥
आकस्मिकमृतेर्भूमौ तडागस्य तटेऽनिले ।
दुष्टेऽपवित्रभूमौ च भूतानां वसतिः सदा ॥८८॥
अमायां च चतुर्दश्यां वैशाखे कार्तिके तथा ।
बलिदानां पूजकानां गृहे मा निवसन्तु वै ॥८९॥
नारायण हरे कृष्ण शिव राधे रमापते ।
विष्णो श्रीमत्कृष्णनारायण श्रीकमलापते ॥९०॥
प्रभानाथ महालक्ष्मीपते श्रीमाणिकीपते ।
पार्वतीश्वर पद्येश मुक्तधामाधिसत्पते ॥९१॥
अक्षरेशेत्यादिरूपं भजनं स्वामिनो हरेः ।
पूजनं यत्र देवानां तत्र मा निवसन्तु वै ॥९२॥
यत्र शुद्धिस्तथा धर्मः कलहो यत्र नास्ति च ।
मालिन्यं यत्र वै नास्ति तत्र मा निवसन्तु वै ॥९३॥
यत्र स्यादान्तरे शुद्धिस्तत्र भूतो न तिष्ठतु ।
उपासनाबलं यत्र भूतमाता न तत्र वै ॥९४.॥
वैशाखे शुक्लपक्षे च पञ्चदशदिनेष्वपि ।
भूतमातुः प्रपूजा च कर्तव्या प्रोक्षणीयकैः ॥९५॥
प्रोक्षणैर्जलसेचैश्च ग्रीवां सिन्दूरकैस्तथा ।
पुष्पैर्धूपैरर्चयेच्च बलिं ददेद् यथोचितम् ॥९६॥
माषादिकृष्णभोज्यं वै तेन तुष्टः प्रजापते ।
न शाकिन्यो गृहे तस्य न पिशाचा न राक्षसाः ॥९७॥
न भूताद्याः पीडयन्ति वंशः सुखं विवर्धते ।
भोजयेत् क्षीरसंयाव कृसरैः पूयपायसैः ॥९८॥
तेन पुत्रपशुस्मृद्धिं शरीरारोग्यमाप्नुयात् ।
एकादश्यां नवम्यां च प्रक्षाल्य कुड्यकं ततः॥०१९॥
मुखबिम्बानि चित्राणि कारयेद् रक्तकज्जलैः ।
मातॄणां चण्डिकानां च राक्षसीनां तथैव च ॥१००॥
भूतप्रेतपिशाचानां शाकिनीनां तथैव च ।
मुखानि कारयेत् तत्र हावभावयुतानि च ॥१०१॥
अमायां पूजयेत्तानि रात्रौ दीपेन संयुतः ।
मस्तके च निजे धृत्वा सुहृन्मित्रसमन्वितः ॥१०२॥
ग्रामान्ते च श्मशानान्ते वीरभ्रमणमाचरेत् ।
स दीपः सर्वभूतानां साधको बलवान् भवेत् ॥१०३॥
नित्यं च भ्रामयेद् दीपं रात्रौ ग्रामे श्मशानके ।
पञ्चदश्यां प्रकुर्वीत भूतमातुर्महोत्सवम् ॥१०४॥
पूजयेद्भोजयेन्नमेत् क्षमयित्वा गृहं व्रजेत् ।
एवं पूजाप्रकर्तुश्च भूतविघ्नो न जायते ॥१०५॥
अथ तस्या भूतमातुः शरीरात् पञ्चकोटयः ।
पिशाचाः स्वेदबिन्दुभ्यो जाताः सर्वे भयानकाः ॥१०६॥
धमनीसन्तताः शुष्काः श्मश्रूलाश्चर्मवाससाः ।
उलूखलाभरणाश्च शूर्पच्छत्राः खरस्वराः ॥१०७॥
पाणिपात्राः शिरोहारा बुभुक्षिताः कुरूपिणः ।
नखज्वालितकेशेभ्यश्चांगारानुद्गिरन्ति ते ॥१०८॥
आकर्णदारितास्याश्च लम्बभ्रूस्थूलनासिकाः ।
पृष्ठतः पाणिपादाश्च पृष्ठगाश्च विपादगाः ॥१०९॥
आक्रोशन्तश्च दीनास्याः सूतिकागृहवासनाः ।
तैः खाद्यं चार्थितं शंभोः शंभुर्वरं ददौ तदा ॥११०॥
अन्तर्धानं प्रजास्वेव कामरूपत्वमित्यपि ।
उभयोः सन्ध्ययोश्चारो भग्नगृहेषु चासनम् ॥१११॥
अनाचारगृहाण्येव भग्नान्यायतनानि च ।
राजमार्गोपरथ्याश्च चत्वराणि च वेदिकाः ॥११२॥
उपलाश्च तथा कोणान् रथ्यानां निर्गमांस्तथा ।
चैत्यवृक्षादिकांश्चापि शृंगाणि चोच्छ्रयांस्तथा ॥११३॥
स्थानानि च पिशाचानां निवासाय ददौ हरः ।
अधर्मिकान् जनाँश्चापि मद्यमांसाशिनस्तथा ॥११४॥
मलमूत्रभरांश्चापि निवासाय ददौ हरः ।
तेषां विघ्नविनाशाय बलिं कुर्याद् विचक्षणः ॥११५॥
पूपैर्हरिद्रकृशरैर्मधुना तिलचूर्णकैः ।
ओदनं साऽऽसवं दद्यात् तिलभक्तं गुडौदनम् ॥११६॥
कृष्णानि चैव वासांसि धूमाः सुमनसस्तथा ।
एवं कृत्वा च सन्तुष्टा विघ्नान् हरन्ति सर्वदा ॥११७॥
एवं हरेण भूतानां पिशाचानां च मातरः ।
सर्वपुत्रगणोपेताः प्रेषिताश्च प्रभासकम् ॥११८॥
सिंहारण्यं निवासार्थं दत्तं वै शतयोजनम् ।
यत्र खाद्यं मिलेत्तेषां पश्चिमे सागरे सदा ॥११९॥
ते कैलासं परित्यज्य सिंहारण्यं समागताः ।
उपद्रवानकुर्वंश्च प्रजास्वागत्य वै पुनः ॥१२०॥
अनादिश्रीकृष्णनारायणो हन्तुं च ताँस्तदा ।
सुदर्शनं मुमोचाऽत्राऽरण्ये दुद्रुवुरम्बरे ॥१२१॥
भूताः पिशाचकाद्याश्च मातरश्चेति पश्चिमम् ।
पारेसमुद्रं जग्मुस्ते कृष्णवर्णाः पिशाचकाः ॥१२२॥
कद्रूपा अब्रिक्तदेशे वसतिं तत्र चक्रिरे ।
कोटिशस्ते ततो जाताः कामरूपा हि मानवाः ॥१२३॥
ये तु चक्रेण निहतास्ते देवा मलिनास्तदा ।
सिंहारण्ये निवसन्तो देहान्तराणि जगृहुः ॥१२४॥
सोमनाथस्य शंभोस्ते शिष्याः प्रजाः सुपुत्रकाः ।
पुत्र्यः सुताश्च शिष्याश्च सिंहारण्ये वसन्ति वै ॥१२५॥
उष्णोदकस्य कुण्डस्याऽभितोऽद्रिषु वनेषु च ।
तामसानां कृते लक्ष्मि तामसा देवताः सदा ॥१२६॥
तीर्थरूपा भवन्त्येव स्वभावगुणभावनैः ।
तेषां तीर्थं महत्तद्वै सिंहाऽरण्येऽस्ति तामसम् ॥१२७॥
भूतमातुः पिशाचानां भूतानां च निवासनम् ।
चक्रेण सीदमानाः संसीदमाना हि जातयः ॥१२८॥
पश्चिमायां क्षितौ जाताः पिशाचसदृशास्तु ते ।
इत्येवं कथितं देव्यै शंभुना च प्रभासके ॥१२९॥
कैलासजन्यं वृत्तान्तं तीर्थमिषेण सोमके ।
मया ते कथितं लक्ष्मि! तलत्वामी त्वहं पुरा ॥१३०॥
तलनाशार्थमभवं तथाऽन्यच्छ्रुणु पावनम् ।
पठनाच्छ्रवणाच्चास्य पापहानिः प्रजायते ॥१३१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने प्रभासक्षेत्रे तीर्थव्रातवर्णनेऽरुन्धतीपूर्वजन्मवृत्तान्तः, चित्रायाः पूर्वजन्माख्यानं, शीतलायास्तीर्थं, तलस्वामितीर्थाख्यानं, भूतमातृतीर्थाख्यानं, भूतानां वासस्थानानि, अब्रिक्तदेशादौ सीदमानानां वासः, इत्यादिनिरूपणनामैकोनचत्वारिंशदधिकपञ्चशततमोऽध्यायः ॥५३९॥
N/A
References : N/A
Last Updated : April 01, 2021
TOP