संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५६३

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
भगवन् मधुधेन्वादि कथं देयं च मे वद ।
किं पुण्यं को विधिस्तत्र गोदानं च कियद् भवेत् ॥१॥
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि पुरा राजाऽभवन्महान् ।
विनीताश्वेति विख्यातो बहुयागकरः प्रभुः ॥२॥
स सर्वमेधमारेभे तेन गावो द्विपा वसु ।
स्वर्णं सर्वं च विप्रेभ्यो दत्तानि भवनानि च ॥३॥
नाऽन्नं तेन तदा दत्तं स्वल्पं मत्वा जलं तथा ।
अथ गंगातटे मृत्वा स कालेन ययौ दिवम् ॥४॥
तस्य देहो मृत्तिकायां निक्षिप्तो गह्वरे द्विजैः ।
पुण्यां गंगामृदं ज्ञात्वा पृथ्व्यां निहित एव ह ॥५॥
अथाऽयं भूपतिः स्वर्गे क्षुधितस्तृषितस्तथा ।
दिव्यविमानवासोऽपि पृथ्व्यां भोज्यार्थमाययौ ॥६॥
यत्र कलेवरं नैजं तत् खनित्वा चखाद सः ।
होतानाम्ना तदा राज्ञः पुरोहितो ददर्श तम् ॥७॥
खादन्तं निजदेहं च पप्रच्छ किं करोषि वै ।
राजा प्राह न मे स्वर्गे भोजनं चोपतिष्ठति ॥८॥
वदाऽत्र कारण मे किं श्रुत्वा होता ह्युवाच तम् ।
होता प्राह त्वया पूर्वं जलान्नानां प्रदानकम् ॥९॥
स्वल्पं मत्वा कृतं नैव तेनाऽमृतं न चाप्यते ।
अत्र कर्मक्षितौ यद्यत् कृतं दत्तमवाप्यते ॥१०॥
न दत्तं नोपतिष्ठेत तस्माद् देहि जलान्नकम् ।
तिलधेनुं शुभां देहि जलधेनुं च सतम ॥११॥
घृतधेनुं रसधेनुं दधिधेनुं प्रदेहि च ।
दुग्धधेनुं मधुधेनुं शर्कराधेनुमित्यपि ॥१२॥
अन्नधेनुं व्रीहिधेनुं स्वर्णगां च प्रदेहि वै ।
वस्त्रधेनुं कपिलां च सवत्सां संप्रदेहि च ॥१३॥
एवमन्यानि दानानि देहि तत्फलमाप्नुहि ।
अन्नदानेन च स्वर्गे क्षुधया वर्जितो भवेः ॥१४॥
विधानं तिलधेनोश्च त्वं शृणुष्व नराधिप ।
चतुर्भिः कुडवैश्चात्र प्रस्थ एकः प्रकीर्तितः ॥१५॥
धेनुः षोडशभिः कार्या चतुर्भिर्वत्सिका भवेत् ।
नासा गन्धमयी तस्या जिह्वा गुडमयी शुभा ॥१६॥
पुच्छं सूत्रमयं तस्या वस्त्रयुग्मं तु शुल्लरी ।
नेत्रे मुक्तामये दन्ता फलात्मकाश्च कम्बलम् ॥१७॥
गलकम्बलरूपं च नवनीतमयाः स्तनाः ।
स्वर्णशृगीं रौप्यखुरां घण्टाऽऽभरणभूषिताम् ॥१८॥
कांस्यदोहां चतुर्थांशवत्सिकासहितां शुभाम् ।
कृष्णाजीनयुतां सर्वरत्नयुक्ता च नन्दिताम् ॥१९॥
सर्वौषधिसमायुक्तां मन्त्रपूजां तु दापयेत् ।
अन्नं मे जायतामन्यत्पानं सर्वरसास्तथा ॥२०॥
सर्वं सम्पादयाऽस्माकं तिलधेनो नमोऽस्तु ते ।
शर्करासहितां त्वां प्रददामि विप्रमूर्तये ॥२१॥
एवं दत्तां विधानेन गृह्णीयाद् ब्राह्मणोत्तमः ।
हस्ते पुच्छं जलं चापि पुष्पं तन्दुलमित्यपि ॥२२॥
गन्धं गृहीत्वा नेत्रे च संस्पृश्य गा समर्पयेत् ।
गोमयं मण्डलं कृत्वा दाता दद्याद् विधानतः ॥२३॥
प्रदक्षिणं नमस्कारं कृत्वा दद्याद् द्विजातये ।
द्विजोऽहं त्वां प्रगृह्णामि कुटुम्बार्थं सुभक्तिमान् ॥२४॥
भजस्व कामान् मां देवि तिलधेनो नमोऽस्तु ते ।
दात्रे सर्वं भक्ष्यभोज्यं पानादि देहि यत्र सः ॥२५॥
एवं धेनुः प्रदातव्या तेन भुक्तिश्च मोक्षणम् ।
होता प्राह तथा देहि जलधेनुं विधानतः ॥२६॥
गोचर्ममात्रं भूभागं गोमयेनोपलेपयेत्॥
तत्र वारिपूरितं तं घटं पूज्याऽक्षतादिभिः ॥२७॥
तं धेनुं कल्पयित्वैव दुर्वास्रग्भिर्विभूषितम् ।
पञ्चरत्नयुतं कृत्वा सप्तधान्ययुतं तथा ॥२८॥
गोधूमास्तण्डुलाश्चापि यवाश्च चणकास्तथा ।
माषा मुद्गाश्च कंग्वश्च सप्तधान्यमिति न्यसेत् ॥२९॥
घृतपात्रं दधिपात्रं मधुपात्रं च शर्कराम् ।
स्थापयेद्वै चतुर्दिक्षु तथा चास्ये सुवर्णकम् ॥३०॥
मुक्ताफले चक्षुषी च शृंगे चन्दनकाष्ठजे ।
ताम्रपृष्ठं कांस्यदोहं दर्भान् रोमाणि कल्पयेत् ॥३१॥
ताम्रपत्रश्रवणे च पुच्छं सुत्रमयं तथा ।
कम्बले पुष्पमालां च गुडास्यां शुक्तिदन्तिकाम् ॥३२॥
जिह्वां शर्करया कृत्वा नवनीतेन च स्तनान् ।
इक्षुपादाँस्तथा कृत्वा गन्धपुष्पोपशोभिताम् ॥३३॥
कृष्णाजिनोपरि न्यस्य वस्त्रेणाऽऽच्छादितां तु ताम् ।
गन्धपुष्पैः समभ्यर्च्य पूर्वमुखां समर्पयेत् ॥३४॥
साधुविप्राय राजेन्द्र श्रोत्रियायाऽऽहिताग्नये ।
तपोवृद्धाय पात्राय दातव्या च कुटुम्बिने ॥३५॥
यो ददाति नरो राजन् यः पश्यति शृणोति च ।
प्रतिगृह्णाति यो विप्रो मुच्यते सर्वपातकात् ॥३६॥
ब्रह्महा पितृहा गोघ्नः सुरापो गुरुतल्पगः ।
विमुक्तः सर्वपापैस्तु विष्णुलोकं स गच्छति ॥३७॥
जलधेन्वा वत्सिकां च कलशे कल्पयेच्छुभाम् ।
जलाहारस्त्वेकदिनं तिष्ठेद्वै जलधेनुदः ॥३८॥
ग्राहकोऽपि त्रिरात्रं च तिष्ठेज्जलेन धर्मवान् ।
यत्र क्षीरवहा नद्यो मधुपायसकर्दमाः ॥३९॥
यत्र त्वप्सरसां गीतं तत्र यान्ति जलप्रदाः ।
यद्वा पापविनिर्मुक्ता विष्णुसायुज्यमाप्नुयुः ॥४०॥
अथ दद्याद् रसधेनुमैक्षवस्य रसस्य वै ।
घटं प्रपूर्य संपूज्य पूर्ववद् वत्सिकां तथा ॥४१॥
चतुर्थांशा कल्पयित्वा सप्तव्रीहिसमन्विताम् ।
सर्वोपस्करसंयुक्तां तिलपात्रादिसयुताम् ॥४२॥
दाता च ग्राहकश्चापि त्वेककालयभोजनः ।
सोमपानफलं तस्य पश्यतोऽपि तथा फलम् ॥४३॥
दश पूर्वान् परांश्चापि स्वात्मानं चैकविंशकम् ।
प्रापयेत्परमं स्थानं स्वर्गान्नावर्तते पुनः ॥४४॥
ददस्व च महाराज परं स्थानमवाप्नुहि ।
गुडधेनुं तथा कृत्वा सवत्सां कांस्यदोहिनीम् ॥४५॥
सौवर्णं मुखशृंगे च दन्ताश्च मणिमौक्तिकैः ।
ग्रीवा रत्नमयी त्वस्या घ्राणं गन्धमयं तथा ॥४६॥
शृंगे त्वगुरुकाष्ठेन पृष्ठं ताम्रमयं तथा ।
पुच्छं क्षौममयं तस्याः सर्वाभरणभूषिताम् ॥४७॥
इक्षुपादां रौप्यखुरां कम्बलं पट्टसूत्रकम् ।
आच्छाद्य पट्टसूत्रेण घण्टाचामरशोभिताम् ॥४८॥
प्रशस्तपत्रश्रवणां नवनीतस्तनीं व्रती ।
फलैः संशोभयित्वा च दद्याद् विप्राय भावतः ॥४९॥
गन्धपूष्पैः पूजयित्वा दत्त्वा छत्रं च पादुके ।
गुडधेनो प्रदत्ता त्वं सर्वसम्पत्प्रदा भव ॥५०॥
दानादस्माच्च मे मातर्भक्ष्यभोज्यं प्रयच्छ वै ।
वाचा कृतं कर्मकृतं मनसा यद् विचिन्तितम् ॥५१॥
मानकूटं तुलाकूटं कन्यागोऽर्थे ह्युदाहृतम् ।
अनृतं नाशमायातु गुडधेनो द्विजार्पिता ॥५२॥
गुडधेनोः प्रदानात्तु सौभाग्यमखिलं लभेत् ।
दश द्वादशसाहस्रा दश चाष्टौ च जन्मसु ॥५३॥
न शोकदुःखदौर्गत्यं तस्य संजायते क्वचित् ।
तद्वश्च शर्कराधेनुं देहि भारचतुष्टयम् ॥५४॥
सवत्सिकां विभूषाढ्यां प्रपूज्य पूर्ववद् व्रती ।
गां पूर्वाभिमुखीं कृत्वा वत्सामुत्तरतो न्यसेत् ॥५५॥
हस्ते तु दक्षिणां दत्वा गन्धपुष्पाढ्यचन्दनाम् ।
धेनुं समर्पयेत् तस्य मुखं च न विलोकयेत् ॥५६॥
एकाहं शर्कराहारो ब्राह्मणस्त्रिदिनं वसेत् ।
सर्वकामसमृद्धस्तु जायते नात्र संशयः ॥५७॥
मधुधेनुं प्रवक्ष्यामि सपातकनाशिनम् ।
धेनुं मधुमयीं कृत्वा सम्पूर्णघटषोडशाम् ॥५८॥
चतुर्थेन तथांशेन वत्सिका परिकल्पयेत् ।
पूर्वोक्तांगैः समायुक्तां सप्तधान्यान्वितां तथा ॥५९॥
तिलपात्रचतुष्ट्येनान्वितां पुष्पपूजिताम् ।
द्रव्यब्राह्मणसम्पत्तिं दृष्ट्वा तां प्रतिपादयेत् ॥६०॥
प्रीयन्तां पितरो देवा मधुधेनो नमोऽस्तु तैे ।
अहं गृह्णामि त्वां देवि कुटुम्बार्थे नमोऽस्तु ते ॥६१॥
दत्वा दानं पायसेन मधुना च दिनं नयेत् ।
यत्र नद्यो मधुवहास्तत्र गच्छन्ति धेनुदा ॥६२॥
दशपूर्वान् दश परानात्मानं चैकविंशकम् ।
नयते विष्णुसायुज्यं मधुधेनुप्रदानतः ॥६३॥
क्षीरधेनुं च ते वच्मि तां निबोध प्रदेहि च ।
गोमयैर्लिप्तभूभागे कुशेषु मृगचर्मणि ॥६४॥
गोरेखां परितः कृत्वा क्षीरकुंभं न्यसेच्छुभम् ।
वत्साख्यं कलशं चापि पूर्वोक्तांगानि सर्वथा ॥६५॥
वस्तूनि न्यस्य धान्यानि तिलपात्राणि दिक्षु च ।
विन्यस्य पूजितां दद्यात् क्षीरधेनुं द्विजाय वै ॥६६॥
दीयमानां प्रपश्यन्ति तेऽपि यान्ति परां गतिम् ।
षष्टिवर्षसहस्रं तु चेन्द्रलोके महीयते ॥६७॥
पित्रादिभिस्तु सहितो ब्रह्मणो भवनं व्रजेत् ।
ततो याति परंधाम विष्णुरूपधरो भवन् ॥६८॥
दधिधेनुः प्रदातव्या दधिकुंभात्मिकां शुभाम् ।
सप्तधान्यान्वितां वत्सायुतां शृंगारितां तथा ॥६९॥
पूजितां मण्डितां कृत्वा ब्राह्मणाय ददेद् व्रती ।
एकाहारी व्रती स्यात् त्रिदिनं तिष्ठेत्तु वै द्विजः ॥७०॥
दध्ना तेन परं लोकं याति दाताऽर्थिताऽपि च ।
नवनीतमयीं धेनुं दद्याद् वत्सायुतां शुभाम् ॥७१॥
पूर्ववत्सर्वशोभाढ्यां सर्वांगपरिकल्पिताम् ।
पूजितां धान्ययुक्तां च ब्राह्मणाय समर्पयेत् ॥७२॥
पुरा देवासुरैः सर्वैः सागरस्य तु मन्थने ।
उत्पन्नं दिव्यममृतं नवनीतमिदं शुभम् ॥७३॥
आप्यायनं तु भूतानां नवनीत! नमोस्तु ते ।
लवणधेनुं वक्ष्यामि दातव्या शुभमिच्छता ॥७४॥
षोडशप्रस्थमानां गां वत्सां चतुर्थपादिकाम् ।
सर्वशृंगारसंयुक्तां पूर्वोक्तांगप्रपूरिताम् ॥७५॥
ग्रहनक्षत्रपीडायां ब्राह्मणाय प्रदापयेत् ।
इमां गृहाण भो विप्र रुद्ररूपां नमोऽस्तु ते ॥७६॥
कामं पूरय मे देवि! रूद्ररूपे! नमोऽस्तु ते ।
दिनं व्रती लवणाशी त्रिरात्रं ब्राह्मणो भवेत् ॥७७॥
अथ कार्पासकीं धेनुं दद्यात् सुखप्रशान्तिदाम् ।
ग्रहपीडासु चोग्रासु दुःस्वप्नेऽरिष्टदर्शने ॥७८॥
पुण्येष्वायतनेष्वेव दद्यात् प्राग्वत् सुबृंहिताम् ।
चतुर्भारमितेनैव कल्पितां वत्सिकायुताम् ॥७९॥
पूजितां सोपकरणां सर्वांगां वै समर्पयेत् ।
रक्षां कुरु महादेवि परत्राऽत्र नमोस्तु ते ॥८०॥
धान्यधेनुः प्रदातव्या व्रीहिधेनुस्तथा शुभा ।
अंगानि पूर्ववत् कृत्वा पूजायित्वा च तां ततः ॥८१॥
दीपं प्रदक्षिणं कृत्वा प्रीयतां मधुसूदनः ।
सर्वलक्ष्मीमयीधेनो धान्यरूपे नमोऽस्तु ते ॥८२॥
एवमुच्चार्य तां धेनुं ब्राह्मणाय निवेदयेत् ।
यावच्च पृथिवी सर्वा वसुरत्नानि भूपते ॥८३॥
तावत्पुण्यं समधिकं व्रीहिधेनोश्च तत्फलम् ।
इह लोके च सौभाग्यमायुरारोग्यवर्धनम् ॥८४॥
विमानेनाऽर्कवर्णेन चान्ते याति हरेर्गृहम्!
अथातः संप्रवक्ष्यामि कपिलां धेनुमुत्तमाम् ॥८५॥
यत्प्रदानाज्जनो याति ब्रह्मलोकं सनातनम् ।
पूर्वोक्तेन विधानेन दद्याद् धेनुं सवत्सिकाम् ॥८६॥
सर्वालंकारसंयुक्तां सर्वरत्नादिमण्डिताम् ।
कपिलायाः शिरो ग्रीवा सर्वतीर्थानि भूपते ॥८७॥
कपिला शिरसो वारि प्रातर्यो वन्दति स च ।
दग्धत्रिंशज्जन्मपापो भवत्येव सुपुण्यवान् ॥८८॥
कल्य प्रदक्षिणं कुर्याद् भूप्रदक्षिणपुण्यदम् ।
प्रदक्षिणैक्यं निर्दहेद् दशजन्मोत्थपापकम् ॥८९॥
कपिलामूत्रसंस्नातो यावत्तीर्थाप्लुतो भवेत् ।
गोसहस्रेण तुल्यं वै कपिलादानमुच्यते ॥९०॥
मृतभस्म च जिघ्राति कपिला यावदेव ह ।
तावत्प्रेतो महापुण्यैः पूर्यते दिविवासकृत् ॥९१॥
गवां कण्डूयनं रक्षा गोशतार्पणसदृशम् ।
तृणोदकादिकं दत्तं गोमेधफलदं मतम् ॥१२॥
सुवर्णकपिला चैका द्वितीया गौरपिंगला ।
तृतीया चापि रक्ताक्षी चतुर्थी गुडपिंगला ॥९३॥
पञ्चमी बहुवर्णा स्यात् षष्ठी च श्वेतपिंगला ।
सप्तमी श्वेतपिङ्गाक्षी त्वष्टमी कृष्णपिंगला ॥९४॥
नवमी पाटला बोध्या दशमी पुच्छपिंगला ।
एकादशी क्षुरश्वेता त्वेतासां चोत्तमा मता ॥९५॥
कपिला ह्यग्निहोत्रार्थे यज्ञार्थे च सुरकृते ।
उद्धृत्य सर्वतेजोभिर्ब्रह्मणा निर्मिता पुरा ॥९६॥
दानानामुत्तमं दानं निधीनां ह्येतदक्षयम् ।
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ॥७॥
कपिलाया घृतेनेह दध्ना क्षीरेण सर्पिषा ।
निर्वृत्यन्तेऽतिथिपूजादीनि हूयन्त इष्टकाः ॥९८॥
अग्निहोत्राणि मन्त्रैश्च विविधैर्ब्रह्मवेदिभिः ।
कपिला या पिंगलाक्षी सर्वसौख्यप्रदायिनी ॥९९॥
सिद्धिबुद्धिप्रदा धेनुः सर्वलक्षणलक्षिता ।
सर्वास्तास्तारयन्त्येव दत्ता नद्योः समागमे ॥१००॥
अग्निपुच्छा चाग्निमुखी चाग्निलोमाऽनलप्रभा ।
तथाऽऽग्नायी श्वेतखुरा सुवर्णा नाम सा मता ॥१०१॥
आसन्नप्रसवां धेनुं दानार्थं प्रतिपालयेत् ।
जायमानस्य वत्सस्य मुखं योन्यां प्रदृश्यते ॥१०२॥
तावत् सा पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति ।
कपिलाऽर्धप्रसूता सा दातव्या वैष्णवाय वै ॥१०३॥
धेन्वा यावन्ति रोमाणि सवत्साया भवन्ति च ।
तावत्यो वर्षकोट्यस्तु ब्रह्मलोके वसन्ति ते ॥१०४॥
ब्राह्मणस्य करे दत्वा सुवर्णं पुच्छमित्यपि ।
उदकं च करे दत्वा वाचयेत् प्रददेत् तथा ॥१०५॥
समुद्रवसना तेन सशैलग्रामशोभना ।
रत्नपूर्णा क्षितिर्दत्ता भवत्येव न संशयः ॥१०६॥
दाता प्रयाति पितृभिर्विष्ण्वाख्यं च परं पदम् ।
यश्चोभयमुखीं दद्यात् सर्वपापनिवृत्तये ॥१०७॥
तद्दिने पायसाहारो जलाहारोऽथवा वसेत् ।
दद्याद्वै सुधनं चापि वित्तशाठ्यं विवर्जयेत् ॥१०८॥
इमां गृह्णोभयमुखीमुभयत्र शमस्तु वै ।
ददे वंशविवृद्ध्यर्थं सदा स्वस्तिकरी भव ॥१०९॥
प्रतिगृह्णामि त्वां धेनो कुटुम्बार्थे विशेषतः ।
शुभं भवतु मे नित्यं देवधात्रि नमोऽस्तु ते ॥११०॥
मे नित्यं स्वस्ति भवतु विष्णुरूपे नमोऽस्तु ते ।
ओं द्यौस्त्वां ददातु भूमिं स्वयं प्रतिगृह्णात्वपि ॥१११॥
ओं क इद्ं कस्मै अदात् ब्रह्म इदं ब्रह्मणेऽदात् ।
इत्युक्त्वा विधिना विप्रं गोयुक्तं वै समर्चयेत्। ॥११२॥
प्रणमेदनुयायाच्च तां धेनुं तद्गृहं नयेत् ।
एवं दानेन पृथिवीदानं भवेन्न संशयः ॥११३॥
श्राद्धकाले पठेत्तस्य पितरोऽश्नन्ति भावतः ।
अमायां पठने वर्षशतं तृप्यन्ति पूर्वजाः ॥११४॥
श्रोतुश्चापि वर्षकृतं पापं नश्यति दूरतः ।
माघशुक्लद्वादश्यां च द्वादश्यां श्रावणे सिते ॥११५॥
कातिक्यां पञ्चदश्यां वा द्वादश्यां वा विशेषतः ।
सर्वदा वा यथायोग्यं दानं श्रीगुरवेऽर्पयेत् ॥११६॥
ब्रह्माण्डोदरभूतानि तानि दत्तानि तेन वै ।
अथवा पीड्यसेऽत्यन्तं क्षुधया तृषया नृप ॥११७॥
वद ते वंशजं यश्च दानं दद्यात् तथाविधम् ।
अन्नानां च जलानां च रसानां च विशेषतः ॥११८॥
धेनूर्दद्याच्च तेनेव स्वर्गं ते भोजनं भवेत् ।
होता चैवं तमुक्त्वा च बदर्याश्रममाययौ ॥११९॥
राजा नाम्ना विनीताश्वः स्ववंशं वक्तुमुद्यतः ।
ययौ ततश्च दानादि वंशजेन कृतानि वै ॥१२०॥
तेन मुक्तिं गतो राजा शाश्वते ब्रह्मणः पदे ।
शंकरेण तथा लक्ष्मि! पार्वत्यै कथिता कथा ॥१२१॥
मया तेऽत्रोदिता सम्यग् भुक्तिमुक्तिप्रदा यतः ।
पठनाछ्रवणाच्चास्या गोप्रदानकृतं फलम् ॥१२२॥

इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वादशरसादिधेनुकपिलाधेनुदानादिविधिश्रवणं विनीताश्वेनराजा कृतमित्यादिनिरूपणनामा त्रिषष्ट्यधिकपञ्चशततमोऽध्यायः ॥५६३॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP