संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|कृतयुगसन्तानः|

कृतयुगसन्तानः - अध्यायः ५७०

लक्ष्मीनारायणसंहिता


श्रीलक्ष्मीरुवाच-
श्रुतं वै नार्मदं पुण्यं माहात्म्यं चामरेश्वरे ।
कोटितीर्थोद्भवं कृष्ण! कुरुक्षेत्रात् सहस्रगम् ॥१॥
कथमेवं त्वया नाथ रचितं मायया पुरा ।
क्वचित्पुण्यं कृते साम्ये क्वचिन्न्यूनं तथाऽधिकम् ॥२॥
श्रीनारायण उवाच-
सर्वं मे रचनालभ्यं नर्मदा सप्तकल्पगा ।
साप्तकाल्पिकदेवानामृषीणां च सतां तथा ॥३॥
योगान्ममाऽवताराणां नर्मदा सर्वतोऽधिका ।
नित्यं च प्रलये रेवा क्षीरोदे च ममान्तिकम् ॥४॥
पादसेवापरा भूत्वा तिष्ठते मम भामिनी ।
मम योगान्मम माया दिव्या भवति चोत्तमा ॥२॥
शृणु मायामयं सर्वं मया यादृक् प्रकल्पितम् ।
तत् सृष्ट्वाऽनुप्रविशामि मम योगेन शिष्यते ॥६॥
शृणु मां न विजानन्ति रुद्रेन्द्राः सपितामहाः ।
मया नारायणेनैव कृता अपि सुरेश्वराः ॥'७॥
सर्वे तीर्थमयाः सन्ति मम वासेन सुन्दरि ।
पर्जन्यौ वर्षति देशे देशो जलेन पूर्यते ॥८॥
व्योम निर्जलतां याति माया मत्कृतिरूपिणी ।
पुनर्जलैः समावृत्तं व्योम वै दृश्यते क्षणात् ॥९॥
पुनर्वृष्टिः पुना रिक्तं मायैषा निर्मिता मया ।
पावनं तु जलं सर्वं मम वासेन भामिनि! ॥१०॥
संकल्पितं विशेषेण पावनं वै विशेषतः ।
निर्झराणां जलं साधुसेवितं पावनं यथा ॥११॥
ततो देवैः सेवितं पावनतरं भवत्यपि ।
मया प्रसेवितं तत्पावनतमं प्रजायते ॥१२॥
किं मुहुः सेवितं तच्च तत्रापि प्रतिकल्पगम् ।
मया प्रसेविता रेवा क्षीरोदे मत्समा ततः ॥१३॥
पावनी पावनानां च मांगल्यानां च मंगला ।
मोक्षदानां परमोक्षप्रदा मन्मायया हि सा ॥१४॥
सोमो यत्क्षीयते पक्षे पक्षे पुनर्विवर्धते ।
अमायां दृश्यते नैव मायेयं मद्विनिर्मिता ॥१५॥
हेमन्ते सलिलं कूपे चोष्णं भवति सुन्दरि ।
जायते शीतलं ग्रीष्मे मायेयं च मया कृता ॥१६॥
भास्करश्चैकमार्गेण सदा याति न चान्यथा ।
उदेति पूर्वतो नित्यमस्तमेति च पश्चिमे ॥१७॥
निम्नतां मृदुतां शैत्ये चोर्ध्वं तु तिग्मतां ततः ।
प्रयाति क्लृप्तिवैचित्र्यान्मायेयं मम सुन्दरि ॥१८॥
शुक्रं च शोणितं भिन्नं भिन्नदेहे प्रजायते ।
तयोर्योगे भवेद्गर्भो नान्यथा तु कदाचन ॥१९॥
सजातीये च जायेत न वैजात्ये प्रजायते ।
गर्भे प्रविश्य जीवस्तु सुखदुःखे हि विन्दति ॥२०॥
विना देहं न वै दुःखं सुखं वा चात्मनः क्वचित् ।
जातश्च विस्मरेद् गर्भं मायैषा निर्मिता मया ॥२१॥
यथाकर्म भवेज्जन्तुर्भिन्नदेहोऽपि जीवति ।
यथाकर्म भवेन्मूृत्युर्देहस्थितोऽपि गच्छति ॥२२॥
शुक्रशोणितसम्मिश्रे गर्भे कर्कन्धुसदृशे ।
अङ्गुल्यश्चरणौ चापि भुजौ शीर्षं कटिस्तथा ॥२३॥
पृष्ठं तथोदरं चापि दन्तौष्ठपुटनासिकाः ।
कर्णौ नेत्रे कपालौ च ललाटं जिह्विका तथा ॥२४॥
मायया मे भवन्त्येते जायन्ते जन्तवस्ततः ।
तस्यैव जीर्यते भुक्तमग्निना पीतमेव च ॥२५॥
अधस्तु स्रवते मूत्रं मायैषा निर्मिता मया ।
शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथाऽपरे ॥२६॥
भूताद्या मानसाद्याश्च प्राणाद्या धातवोऽपि च ।
प्रवर्तन्तेऽन्नतत्त्वाद्वै मायैषा निर्मिता मया ॥२७॥
सर्वर्तुषु सहस्रेषु गतेष्वपि चिरं स्थितः ।
नवर्तुं नैव जानाति स्वास्थ्यानुकूलमित्यपि ॥२८॥
भोजनादीनि वस्तूनि नैव जानाति तत्त्वतः ।
कस्मात् कीदृग्भवेल्लाभो मायैषा मम सुन्दरि ॥२९॥
आपो दिव्या मया सृष्टा अदृश्याद् दृश्यरूपिकाः ।
भौमा नद्यो भवन्त्येव दृष्टौ बहूदकाश्च ताः ॥३०॥
ग्रीष्मे शुष्यन्ति सर्वास्ताः पुनश्चक्रं तथैव तत् ।
उद्भवन्ति प्रशुष्यन्ति मायैषा प्रतिवत्सरम् ॥३१॥
आकाशं शून्यरूपं वै वायुश्चापि प्रवाहकः ।
हिमालयं समासाद्य हिमात्मको भवत्यपि ॥३२॥
शिलात्मकं हिमं शृंगाद् द्रवत्येव शनैः शनेः ।
गांगता जायते सा तु गंगा देशसुखावहा ॥३३॥
मेघा वहन्ति सलिलमुद्धृत्य लवणार्णवात् ।
वर्षन्ति मधुरं लोके क्षरं वार्धौ कृतं मया ॥३४॥
क्वचित्तु कटुरूपं तत् क्वचिन्मिष्टं जलं मतम् ।
भिन्नगुणं जायते तन्मायैषा मम पद्मजे ॥३५६॥
रोगनाशकरं वीर्यमोषधे निक्षिपाम्यहम् ।
ओषधे दीयमाने वा कालो भूत्वा हराम्यहम् ॥३६॥
गर्भो बालो युवा वृद्धौ जरठः शक्तिवर्जितः ।
बीजमंकुरकं पत्रं काण्डं नालं च पुष्पकम् ॥३७॥
फलं रसादि तृप्तिश्च बीजाद् बीजसहस्रकम् ।
क्वचित्तु निष्फलं बीजं मायैषा मत्कृता प्रिये ॥३८॥
मत्सृष्टास्तु नरा नार्यो भवन्ति शतपुत्रकाः ।
मम ते च न पुत्रोऽस्ति मायैषा मम पद्मजे ॥३९॥
एकस्मादेव देहाच्च जायन्ते जन्तुकोटयः ।
मस्तके कीटका लिक्षा वस्त्रेषु मत्कुणादयः ॥४०॥
रोमकूपेषु कीटाश्च स्वेदाद् यूकादयस्तथा ।
अंगे छिन्ने मांसमध्ये कृमयश्च भवन्त्यपि ॥४१॥
मूत्रे कीटाः सूक्ष्मरूपा भवन्त्येव नलादिषु ।
वीर्यजन्यास्तथा गर्भा जायन्तेऽपत्यरूपिणः ॥४२॥
एकस्मादेव देहाद्वै जायन्ते भिन्नसृष्टयः ।
सर्वे पुत्राः स्वस्य बालाः स्वस्माज्जातास्तु ते यतः ॥४३॥
विसदृशास्तु कीटाद्यास्तेषु स्नेहो न विद्यते ।
सदृशे पिण्डके पुत्रे स्नेहो भवति देहिनाम् ॥४४॥
सर्वेषु जन्तुषु त्वेषा मया माया निधापिता ।
एकत्र शत्रुता कीटेऽन्यत्र पुत्रेऽतिरक्तता ॥४५॥
कीटारक्तपिबा एव पुत्राः सर्वपिबा अपि ।
गर्भे रक्तपिबा मातुश्चांके दुग्धपिबास्तथा ॥४६॥
बाल्ये द्रव्यपिबाश्चापि यौवने सम्पदाम्पिबाः ।
विचित्तत्वे मृतौ शान्तिपिबा असुपिबा अपि ॥४७॥
एवं सर्वपिबे स्नेहो मायैषा मम भामिनि! ।
नरे नार्या भवेत् स्नेहो नार्या स्नेहो नरस्य च ॥४८॥
नार्योश्च नरयोर्वा न तादृङ माया ममेदृशी ।
जले पृथ्व्यां रसे देहे वृष्टौ बीजे च भक्षिते ॥४९॥
तत्राऽमृतं विसृजामि क्षुधायां तद्विभाव्यते ।
अक्षुधायां विषं तत्स्यान्मायैषा मम सुन्दरि ॥५०॥
लोक एवं विजानाति गरुडो वहतेऽच्युतम् ।
किन्त्वहं गरुडं नीत्वा प्रयामि चान्तरस्थितः ॥५१॥
लोकाः सर्वे विजानन्ति देवा नित्यं मखाशिनः ।
किन्त्वहं मखरूपेण यक्ष्यामि त्रिदिवौकसः ॥५२॥
सर्वेलोका विजानन्ति गुरुर्ददाति दीक्षणम् ।
किन्त्वहं तु गुरौ दीक्षारूपस्तिष्ठामि मायया ॥५३॥
सर्वे लोका विजानन्ति वरुणः पाति सागरम् ।
किन्त्वहं वरुणे स्थित्वा रक्षामि सागरान् सदा ॥५४॥
सर्वे लोका विजानन्ति कुबेरो धनरक्षकः ।
किन्त्वहं धनरूपेण रक्षाम्यस्य कुबेरताम् ॥५५॥
सर्वे लोका विजानन्ति वृत्रः शक्रेण सूदितः ।
किन्त्वहं मायया शक्रे स्थित्वा वृत्रं व्यनाशयम् ॥५६॥
एवं लोका विजानन्ति सूर्यो नारायणो महान् ।
किन्त्वहं सूर्यमाविश्य प्रकाशयामि योग्यतः ॥५७॥
ध्रुवे ध्रौव्यं मया दत्तं मेरौ माध्यस्थ्यमित्यपि ।
अब्धौ वाडवरूपोऽस्मि मेघेषु वायुरूपवान् ॥५८॥
आकाशे तिष्ठते वारि नैव पश्यन्ति वै जनाः ।
देवा अपि न जानन्ति ह्यमृतं कुत्र तिष्ठति ॥५९॥
औषधं मायया सृष्टं वने तिष्ठति सर्वथा ।
वीर्यं तत्राऽऽदधाम्येव रोगनाशकरं सदा ॥६०॥
लोको ह्येवं विजानाति राजा पालयति प्रजा ।
किन्त्वहं नृपमाविश्य पालयामि प्रजा मम ॥६१॥
सृष्टौ सायंकालरूपो रात्रौ प्रलयरूपवान् ।
प्रातर्गर्भस्वरूपोऽहं माययैव भवामि च ॥६२॥
सूर्यः पाचयति सर्व माययाऽहं रवौ स्थितः ।
वह्निः पाचयति सर्वं मायया चानले स्थितः ॥६३॥
सूर्याशुरूपवानस्मि प्रकाशयामि गोलकम् ।
मायां प्रलयकालिनीं कृत्वा संहृत्य वै जगत् ॥६४॥
शेषे शयेऽपि शेषश्च शेते मे मायया तदा ।
पश्य मायाबलं मे त्वं स्त्रीरूपा वर्तसे सदा ॥६५॥
कथं न जायसे लक्ष्मि पुंस्वरूपा वदात्र मे ।
सेयं माया मम लक्ष्मि स्त्रीरूपे तेऽस्ति चेष्टता ॥६६॥
ममाऽस्ति पुंस्वरूपे चेष्टता माया ममास्ति सा ।
प्रजापतिं हरं विष्णुं सृजामि जलमध्यतः ॥६७॥
तेऽपि मां नहि जानन्ति मम मायाविमोहिताः ।
ऋषिर्विप्रः पुराकल्पे सोमशर्माऽभिधो मम ॥६८॥
भक्तोऽपि मायया छन्नो न विवेद निजं परम् ।
माया मम विशालाक्षि! रोहिणी लोमहर्षिणी ॥६९॥
क्वचिदिन्द्रियलौल्येन प्रबध्नात्यपि योगिनम् ।
सोमशर्मा मायया मे कर्शितः स्त्रीत्वमाप ह ॥७०॥
नासीत् तादृक् तस्य कर्म नापराधः कृतस्तथा ।
ममाऽऽराधनयुक्तोऽपि निषादीजन्म चाप्तवान् ॥७१॥
नित्यं चिन्तयते मूर्तिं मम लक्ष्मि! मनोहराम् ।
अथ दीर्घेन कालेन तुष्टोऽहं भक्तिकर्मभिः ॥७२॥
तपोभिश्चापि सततं प्रत्यक्षतामहं गतः ।
वरार्थं स मया प्रोक्तस्तुष्टोऽस्मीष्टं ददामि ते ॥७३॥
रत्नानि काञ्चनं गाश्च साम्राज्यं चाप्यकण्टकम् ।
अथवेच्छसि स्वर्गं च यत्र सौख्यं वराङ्गनाः ॥७४॥
धनं यानं वाहनानि सैन्यान्यपि च सम्पदः ।
हेमभाण्डानि सौधानि कानकानि द्युमन्ति च ॥७५॥
अक्षयानि च पात्राणि विविधान्यमृतानि च ।
भोगान् दिव्यानैश्वरांश्च वदाऽर्पयामि ते द्विज ॥७६॥
ददामि ते वरं विप्र यावत्ते चित्तचिन्तितम् ।
श्रुत्वा मद्वचनं विप्रो नत्वोवाच शनैर्हि माम् ॥७७॥
चेन्न प्रकुप्यते नाथ वरं समनुयाचते ।
यत् त्वया भाषितं देव सर्वं देयं मम त्वया ॥७८॥
एवं लक्ष्मि सुभक्तोऽपि ययाचे लालसान्वितः ।
मयोक्तः कथमेतद्वै सर्वं वै याचसेऽनघ ॥७९॥
बन्धनं मम भक्तस्य मम खेदाय जायते ।
तदाऽऽश्चर्यदर्शनेच्छुर्मम मायादिदृक्षुकः ॥८०॥
मां प्राह मधुरं वाक्यं विरागं रागमिश्रितम् ।
नाहं स्वर्णं गाश्च रत्नं राज्यं स्वर्गं वरांगनाः ॥८१॥
ऐश्वर्यं चाऽक्षयं पात्रं चामृतं यानवाहनम् ।
भोक्तुमिच्छामि भगवन् नेच्छामि दिव्यतां प्रभो ॥८२॥
तथा स्वर्गसहस्राणामेकं वापि न रोचये ।
किन्तु मे वर्तते चेच्छा कथं कृत्वा विक्रीडसि ॥८३॥
निदर्शनार्थं देवेश स्वल्पं द्रष्टुं वृणोम्यहम् ।
माया वै दृश्यते सत्या मिथ्योच्यते महर्षिभिः ॥८४॥
कीदृशीयं वेदितव्या दृष्टान्तार्थं प्रदर्शय ।
ततस्तस्य वचः श्रुत्वा स मया तत्र भाषितः ॥८५॥
ते किं मे मायया विप्र भक्तिं कुरु सुखं लभ ।
देवा अपि न जानन्ति मायया मे विमोहिताः ॥८६॥
त्वं तु नैव विजानासि मायायां पतितोऽपि सन् ।
जिज्ञाससि ह्ययोग्यं वै कृतकार्योऽपि वै पुनः ॥८७॥
भवितुं चाऽकृतकार्यः कथं चेच्छसि शोचनम् ।
एवमुक्तोऽपि मुग्धः स मायया मामुवाच ह ॥८८॥
यदि तुष्टोऽसि मे कृष्ण भक्त्या वा तपसा मम ।
मायां दर्शय मे स्वल्पां यथा जानामि तादृशम् ॥८९॥
सर्व संसारचक्रं वै पुनर्बद्धो भवामि न ।
ततो मयोदितं तस्मै याहि कुब्जाम्रकं स्थलम् ॥९०॥
गंगातीरं महादिव्यं तत्र सर्वमवाप्स्यसि ।
श्रुत्वा मद्वचनं कृत्वा प्रदक्षिणं च मां ततः ॥९१॥
ययौ कुब्जाम्रकं तीर्थं प्रातर्मायाभिलाषुकः ।
ततः कन्थां वंशदण्डं जलपात्रं च कञ्चुकम् ॥९२॥
पाथेयं च तटे न्यस्य नत्वा गंगां पुनः पुनः ।
जलमाधाय शिरसि कृत्वाऽऽचमनमित्यथ ॥९३॥
पीत्वा जलं च मां स्मृत्वा स्नातुं विवेश वारिषु ।
तावन्मे मायया विप्रो जले चाऽदृश्यतां गतः ॥९४॥
पार्श्वे निषादसदने तत्स्त्रीगर्भगतोऽभवत् ।
हृदयेऽचिन्तयत्तत्र गर्भक्लेशेन पीडितः ॥९५॥
अहो कष्टं मया प्राप्तं कस्यचिद् दुष्कृतस्य ह ।
योऽहं निषादिकागर्भे वसामि नरकात्मके ॥९६॥
धिक् तपो धिक् च मे कर्म धिक् फलं धिक् च जीवितम् ।
योऽहं निषादगर्भेऽत्र तिष्ठामि मूत्रसंकुले ॥९७॥
दुर्गन्धे दुःसहे वातपित्तश्लेष्मरजोवहे ।
अलं किं भाषणेनाऽत्र नष्टे किं रोदनेन वै ॥९८॥
मायाजिज्ञासया मूत्रकेदारिकां प्रवेशितः ।
कुतो विष्णुः कुतश्चाहं क्वास्ते गंगाजलं हि तत्। ॥९९॥
क्वाऽयं निषादिकागर्भः क्वाऽयं मूत्रह्रदस्तथा ।
गर्भसंसारनिष्क्रान्तः पश्चादाप्स्यामि शान्तताम् ॥१००॥
एवं चिन्तयमानस्य नवमासात्मकं क्षणम् ।
व्यतीतं दशमे मासि पूर्णे गर्भाद्बहिर्गतः ॥१०१॥
भूम्यां तु पततस्तस्य नष्टं गर्भे विचिन्तितम् ।
अजायत च सा कन्या निषादपुत्रिका ततः ॥१०२॥
विप्रत्वं विस्मृतं सर्वं तया मायाविमुग्धया ।
अथ पित्रा कृतोद्वाहा युवती धीवरप्रिया ॥१०३॥
षट् पुत्रान् सुषुवे कन्या सप्त वर्षद्वयान्तरे ।
भक्ष्याऽभक्ष्यं खादति स्म पेयाऽपेयं पिबत्यपि ॥१०४॥
शशादीन् घातयित्वा चामिषाहारं करोत्यपि ।
कार्याऽकार्यं न जानाति वाच्यावाच्यं न वेत्ति सा ॥१०५॥
गम्यागम्यं न जानाति मायाजालावृता यतः ।
पञ्चाशद्वर्षके काले मया सा प्रेरिता हृदि ॥१०६॥
घटं गृहीत्वा विट्लिप्तवस्त्रक्षालनकारणात् ।
ययौ स्नातुं तु तत्रैव यत्र न्यस्तं पुराऽम्बरम् ॥१०७॥
तीरे निःक्षिप्य वस्त्राणि घटं संस्थाप्य सा तटे ।
प्रस्वेदघर्मसन्तप्ता सशिरःस्नानमिच्छुकी ॥१०८॥
स्नातुं विवेश गंगायां तावज्जातः स भूसुरः ।
सोमशर्माऽभिधो विप्रः सस्मार पूर्ववृत्तकम् ॥१०९॥
बहिस्त्वागत्य वै कूले प्रातःकाले धृताँश्च यान् ।
वस्त्रदण्डकलशाँश्चाऽपश्यन्मध्याह्नके क्षणे ॥११०॥
पार्श्वे तत्रैव नार्या च धृता विड्वस्त्रगर्गरीः ।
अपश्यत्तु महाश्चर्यं प्राप मध्यन्दिने तदा ॥१११॥
विप्रः स धीवरीवस्त्रादिकं त्यक्त्वा ततः पुरा ।
त्यक्तं धौत्रं च जग्राह धारयामास लज्जया ॥११२॥
शुशोचाति तदा स्मृत्वा निषद्य समवालुके ।
मया किं कर्म पापेन कृतं निन्द्यं सुदुःखदम् ॥११३॥
येनाऽऽचारात् परिभ्रष्टो गतश्चैतादृशीं दशाम् ।
निषादी ह्यभवं भक्ष्याऽभक्ष्यं नैवाऽविचारयम् ॥११४॥
जीवानघातयं सर्वाञ्जलस्थलादिवासिनः ।
पेयाऽपेयं कृतवाँश्चाऽगम्यागमनमाचरम् ॥११५॥
वाच्यावाच्यं न वै दृष्टं चौर्यादिकं मुहुः कृतम् ।
पुत्रा दुहितरश्चापि निषादाज्जनिता मया ॥११६॥
वर्तन्ते बालकाः स्तन्यपानार्हाश्च गृहे मम ।
प्रतीक्षन्ते त्वागमं मे जातश्चाहं नरोऽत्र वै ॥११७॥
किं कार्यं किमकार्यं वै मायामोहं तरामि न ।
अपत्यशोकसंव्याप्तो विप्रतास्मरणं गतः ॥११८॥
विप्रो भूत्वाऽतिलज्जावान् मौनं च निषसाद सः ।
एतस्मिन्नन्तरे तत्र निषादो बालकास्तथा ॥११९॥
चिरकालगतत्वेन मार्गयितुं तदाऽऽययुः ।
तत्र तां ते मृगयन्ति भार्ये मातश्च रोदिनः ॥१२०॥
पृच्छति स्म च तं विप्रं निषादो बालकैर्युतः ।
त्वया दृष्टाऽस्ति मे पत्नी द्विजाऽत्र स्नातुमागता ॥१२१॥
बाला दुहितरस्तस्या रुदन्ति करुणं गृहे ।
स्तन्यपानं विना चापि मध्यभोजनमन्तरा ॥१२२॥
किन्नु पश्यथ भो विप्रा अन्ये नराश्च योषितः ।
मम भार्यां जलं नेतुं वस्त्रं क्षालयितुं तथा ॥१२३॥
स्नातुं समागतां चात्र यदि चेद् वदथाऽत्र मे ।
घटमादाय हस्तेन त्वागता भालिता यदि ॥१२४॥
किन्तु प्रत्युत्तरं नाप्त्वा रुरोद स तदा पुनः ।
जनाः पश्यन्ति तं विप्रं दण्डकलशसंयुतम् ॥१२९॥
न पश्यन्ति च तां नारीं दद्युः प्रत्युत्तरं कथम् ।
भीलो दुःखेन सन्तप्तो दृष्ट्वा कुंभपटादिकम् ॥१२६॥
अपश्यंश्च स्वकां पत्नीं करुणं पर्यवेदयत् ।
अपि ग्राहेण केनापि स्नायमाना धृता किमु ॥१२७॥
न चाऽप्रियं मयाऽस्त्युक्ता कदाचित्त्वपि कर्मसु ।
स्वप्नेऽपि नोक्तपूर्वाऽस्ति नात्मघातः प्रसंभवेत् ॥१२८॥
किन्तु क्रूरपिशाचेन भक्षिता वापि रक्षसा ।
यद्वा प्रसह्य केनापि नीता देशान्तरं भवेत् ॥१२९॥
किं कृतं दुष्कतं पूर्वं मया कर्म हि कष्टदम् ।
येन मत्पुरतो भार्याऽल्पाऽऽयुष्ये विगतिं गता ॥१३०॥
एहि मे सुभगे कान्ते मम चित्तानुवर्तिनि ।
पश्यैतान् बालकान् कन्या रुदतः क्षुधितांस्तथा ॥१३१॥
कामं मां क्षुधितं चापि ज्ञास्यसे त्वं पिपासितम् ।
यदि दैव शृणोष्यत्र धर्मेण देहि मे प्रियाम् ॥१३२॥
एव विलपमानस्य निषादस्य त्वितस्ततः ।
सव्रीडं भाषते विप्रो निषादं गच्छ नास्ति सा ॥१३३॥
यथा कर्म गता सा ते सर्वथा ह्यनिवृत्तये ।
बालाँस्तान् परिरक्षस्व गच्छ किं क्लिश्यसे वृथा ॥१३४॥
कारुण्यात्ते कथयामि तवाऽहं सा प्रियाऽभवत् ।
स्नानमात्रेण तु मुनिः पूर्ववन्माययाऽभवम् ॥१३५॥
निषादः प्राह तं विप्रं स्त्रीत्वं प्राप्तोऽसि वै कथम् ।
पुंस्त्वं चापि कथं प्राप्त एतदाचक्ष्व पृच्छतः ॥१३६॥
विप्रः प्राह हरिर्भक्त्या मया साक्षात्कृतस्तदा ।
वरेण छन्दयामास मयाऽपि चेप्सितं तदा ॥१३७॥
मायां मे दर्शय नाथ कीदृशी सा भवेदिति ।
ततोऽहं तेन चाप्युक्तो गच्छ कुब्जाम्रके जले ॥१३८॥
तत्र द्रक्ष्यसि चेत्युक्त्वा त्वन्तर्धानं जगाम सः ।
अहमागत्य गंगायां स्नात्वा निषादबालिका ॥१३९॥
निषादीगर्भसंभूता तव पत्न्यभवं ततः ।
अद्य स्नात्वा पुनर्जातो ब्राह्मणो वै यथापुरा ॥१४०॥
श्रुत्वैवं स निषादश्च बालकाश्च तिरोऽभवन् ।
अहं त्वासं च तद्रूपो लक्ष्मि! मायाप्रदर्शकः ॥१४१॥
मध्याह्ने चागता विप्राः स्नातुं ते सोमशर्मकम् ।
प्राहुः कथं नु पूर्वाह्णश्चाऽद्य तीरे प्रयापितः ॥१४२॥
प्रातरारभ्य चैवात्राऽऽमध्याह्नं तिष्ठसे कथम् ।
दिनार्धे दर्शिता माया पञ्चाशद्वार्षिकी प्रिये! ॥१४३॥
अथाऽह दर्शयित्वा स्वं तमवोचं पुराकृतम् ।
भवान्तरे त्वया भक्ताः साधवो नाभिवादिताः ॥१४४॥
तत्पापादीदृशो भोगो मायामिषेण तेऽभवत् ।
गच्छ विप्र परं धाम श्वेतद्वीपं सुखी भव ॥१४५॥
विप्रो ययौ ततो धाम नारायणस्तिरोऽभवत् ।
मायातीर्थमिदं लक्ष्मि! मोक्षदं वर्तते भुवि ॥१४६॥
श्रवणात् कीर्तनाच्चास्य भुक्तिर्मुक्तिर्भवेत् खलु ।
पार्वत्यै शंकरः प्राह नार्मदे क्षेत्रके पुरा ॥१४७॥

इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भगवत्कृतमायारचना, सोमशर्मविप्रस्य मायादर्शने निषादीस्त्रीत्वं, द्वादशाऽपत्यमातृत्वं, पुनर्जलनिमज्जने विप्रत्वं मोक्षणं, मायातीर्थमाहात्म्यं चेति-
निरूपणनामा सप्तत्यधिकपञ्चशततमोऽध्यायः ॥५७०॥

N/A

References : N/A
Last Updated : April 01, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP