अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीमहादेव उवाच ॥
एकत्रिंशत्तमं विद्धि देवं खंडेश्वरं प्रिये ॥
संपूर्णं जायते यस्य दर्शाद्दानव्रतादिकम् ॥१॥
आसीत्त्रेतायुगे देवि भद्राश्वोनाम पार्थिवः ॥
यस्य नाम्नाऽभवद्वर्षं भद्राश्वंनाम नामतः ॥२॥
तस्यागस्त्यः कदाचित्तु गृहमागम्य सत्तमः ॥
उवाच सप्तरात्रं तु वसामि भवतो गृहे ॥३॥
तं राजा शिरसा नत्वा स्वास्यतामित्यभाषत ॥
तस्य कांतिमतीनाम भार्या परमशोभना ॥४॥
तस्यास्तेजः समभवद्द्वादशादित्यसंनिभम् ॥
सपत्नीनां शतं तस्या विद्यते वरवर्णिनि ॥५॥
ता दास्य इव कर्माणि कुर्वंत्यहरहः सदा ॥
कांतिमत्याः प्रभावेन भयोत्त्र स्ताः सुलोचनाः ॥६॥
तामगस्त्यस्तथा दृष्ट्वा तन्मुखासक्तलोचनाम् ॥
एवंभूतां तथा दृष्ट्वा राज्ञीं परमशोभनाम् ॥
साधुसाधु जगन्नाथेत्यगस्त्यः प्राह हर्षितः ॥७॥
द्वितीये दिवसेप्येवं राज्ञीं दृष्ट्वा महाप्रभाम् ॥
अहो ह्यंगनया मुष्टं जगदेतच्चराचरम् ॥८॥
इत्यगस्त्यो द्वितीयेऽह्नि राज्ञीं दृष्टेत्युवाच ह ॥
तृतीयेऽह्नि च तां दृष्ट्वा पुनरेवमुवाच ह ॥९॥
अहो मूढा न जानंति लिंगमाहात्म्यमुत्तमम् ॥
महाकालवने क्षेत्रे च्यवनेशस्य पूर्वतः ॥१०॥
खंडव्रतानि जायंते पूर्णानि दर्शनाद्यदः ॥
चतुर्थे दिवसे हस्तावुत्क्षिप्य पुनरब्रवीत् ॥११॥
साधुसाधु जगन्नाथ साधु भद्राश्व सुव्रत ॥
पंचमे दिवसेऽप्येवं षष्ठे चैव पुनःपुनः ॥१२॥
नृत्यंतं सप्तमे दृष्ट्वा दिने पत्न्या समन्वितः ॥
प्रोवाच चैनं राजा स विस्मितेनांतरात्मना ॥
किं हर्षकारणं ब्रह्मन्येन नृत्यसमन्वितः ॥१३॥
॥ अगस्त्य उवाच ॥
अहो भूपाल मूढस्त्वं महामूर्खाश्च मंत्रिणः ॥
अहो पुरोहितो मुग्धो ये न जानंति मे मतम् ॥१४॥
ईदृशा अपि जायंते राजानो यस्य दर्शनात् ॥
एवमुक्तस्ततो राजा कृतांजलिरभाषत ॥१५॥
न जानीमो वयं ब्रह्मन्नभिप्रायं तवाधुना ॥
कथयस्व महाभाग यद्यनुग्रहकृद्भवान् ॥१६॥
॥ अगस्त्य उवाच ॥
इयं राज्ञी त्वदीयाभूद्दासी वैश्यस्य वैदिशे ॥
नगरे हरिदत्तस्य त्वमस्याः पतिरेव च ॥
खंडव्रतप्रभावेन जातः कर्मकरो भवान् ॥१७॥
स च वैश्यो महाकाले गत्वा देवं महेश्वरम्॥
अर्चयामास विविवद्गंधपुष्पादिभिः शुभैः ॥१८॥
अभ्यर्च्य तु गृहं यावद्भवंतौ रक्षपालकौ ॥
ततः कालेन महता मृतौ द्वावपि दंपती ॥१९॥
तेन पुण्येन ते जन्म प्रियव्रतगृहेऽभवत् ॥
इयं च पत्नी ते जाता पुरा वैश्यप्रदासिका ॥२०॥
परकीयप्रसंगेन संजाता भूभिरुत्तमा ॥
राज्यं पत्नी सुता साधुरित्युक्तं वचनं मया ॥२१॥
तस्य देवस्य माहात्म्याद्यजंतं विविधैर्मखैः ॥
पश्यामि त्वां महीपाल भूपालशतवेदितम् ॥२२॥
अतः साधुपुरा प्रोक्तं मया तव महीपते ॥२३॥
इति तस्य वचः श्रुत्वा कुंभयोनेर्महात्मनः ॥
महाकालवने गंतुं मतिं चक्रे महीपतिः ॥
ततः सांतःपुरः प्रायात्तेन सार्द्धं महर्षिणा ॥२४॥
अगस्त्यकथितं लिंगं ददर्श श्रद्धया पुनः ॥
पूजयामास विधिवत्पत्न्या सार्द्धं महीपतिः ॥२५॥
ततस्तुष्टस्तदा देवो नृपं प्राहामितद्युतिः ॥
मनोऽभीष्टं तपस्तेस्तु भोगमैश्वर्यमेव च ॥२६॥
कुलं प्रभावं सौभाग्यं दीर्घमायुररोगिताम् ॥
निःसपत्नं ततो राज्यं कृत्वा स्वर्गमवाप्स्यति ॥२७॥
इत्युक्तो देवदेवेन् गतोऽसौ विषयं स्वकम् ॥
निष्कंटकं ततो राज्यं कृत्वा स्वर्गं गतः प्रिये ॥२८॥
अनेकजन्मचरितं खंडव्रतकदम्बकम् ॥
संपूर्णमभवद्देवि लिंगस्यास्य प्रभावतः ॥२९॥
अतः खण्डेश्वरो देवो विख्यातो भुवनत्रये ॥
ये पश्यंति नरा देवि देवं खण्डेश्वरं शिवम् ॥३०॥
खण्डव्रतानि पूर्णानि तेषामाशु भवंति हि ॥
तपःखण्डं व्रते खण्डं दानखंडं च यत्कृ तम्॥
तत्सर्वं पूर्णतां याति श्रीखंडेश्वरदर्शनात् ॥३१॥
दृष्ट्वा खंडेश्वरं देवं पापविघ्नैः प्रमुच्यते ॥
सप्तजन्मकृतैर्देवि मनोवाक्कायकर्मभिः ॥३२॥
दृष्ट्वा खण्डेश्वरं देवं कृतकृत्यत्वमाप्यते ॥
तस्य नश्यति दौर्भाग्यं सप्तजन्मोद्भवं प्रिये ॥३३॥
खंडेश्वरेऽर्चिते देवे सर्वे देवाः सवासवाः॥
संतुष्टा वरदाश्चैव भवंति वरवर्णिनि ॥३४॥
देवं खंडेश्वरं ये वै यजंति श्रद्धया प्रिये ॥
पुण्यैर्नानाविधैः स्नानैः सुगन्धैश्च विशेषतः ॥३५॥
धूप दीपैर्नमस्कारैर्जपैः स्तोत्रैः पृथग्विधैः ॥
ते सर्वे कामसंपन्नाः श्रीमन्तो राज्यसंयुताः ॥३६॥
दीर्घायुषः शुभाचारा जायंते देहिनोऽमलाः ॥
अति श्रेष्ठा गतिस्तेषां विशोका नित्यमक्षयाः ॥
खंडेश्वरप्रसादेन जायंते नात्र संशयः ॥३७॥
एते च विष्णुब्रह्मेंद्रकुवेरदहनादयः ॥
परां सिद्धिं सुसंप्राप्ताः खंडेश्वरसमर्चनात् ॥३८॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
खंडेश्वरस्य देवस्य शृणु वै पत्तनेश्वरम् ॥३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्गमाहात्म्ये खण्डे श्वरमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ॥३१॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP