अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ५६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीमहादेव उवाच ॥
षट्पंचाशत्तमं विद्धि रेवंतेश्वरसंज्ञकम् ॥
यस्य दर्शनमात्रेण परा सिद्धिः प्रजायते ॥१॥
असहंती पुरा संज्ञा रवेस्तेजोऽतिदुःसहम् ॥
तपः कर्त्तुं गता देवि ज्ञाता सूर्येण सुव्रता ॥२॥
अश्वरूपं ततः कृत्वा जगामाथोत्तरान्कुरून् ॥
ददृशे तत्र संज्ञां च वडवारूपधारिणीम् ॥३॥
गता सा सम्मुखं तस्य पृष्ठरक्षणतत्परा ॥
ततोभून्नासिकायोगस्तयोस्तत्र समेतयोः ॥५॥
नासत्य दस्रौ तनयावश्ववक्त्रौ विनिर्गतौ ॥
रेतसोंऽते च रेवंतः खड्गी चर्मी तनुत्रधृक् ॥६॥
अश्वारूढः समुद्भूतस्ततो बाणधनुर्द्धरः ॥
तेन वै जातमात्रेण अश्वारूढेन लीलया ॥
निर्जितं च जगच्चेदं सदेवासुरमानुषम् ॥७॥
ततो देवाः पराभूता ब्रह्माणं शरणं गताः ॥
प्रणम्य कथयामासुर्भयकंपितकं धराः ॥८॥
अस्माकं विभवं तेजो रविपुत्रेण नाशितम् ॥
रेवंतेन सुरेंद्रेण शृणु लोकपितामह ॥९॥
तस्य गात्रसमुद्भूतो वह्निर्धावति काल जित् ॥
ज्वलंति पादपास्तेन पतंति शिखराणि च ॥१०॥
सर्वतो व्याकुलीभूतं हाहाकारमचेतनम् ॥
तेनैव पीडितं सर्वं ज्वालामालासमाकुलम् ॥११॥
दशदिक्षु प्रवृत्तोऽयं समृद्धो हव्यवाहनः ॥
सर्वं किंशुकसंकाशं प्रज्वलन्निव दृश्यते ॥१२॥
इति तेषां वचः श्रुत्वा ब्रह्मणोक्तं वरानने ॥
ज्ञातं मया सुरश्रेष्ठा भवतां कार्यमीदृशम् ॥१३॥
भविष्यति च वस्तच्च कांक्षितं यत्सुरोत्तमाः ॥
गच्छध्वं सहसा तस्माच्छंकरं शरणं सुराः ॥१४॥
ब्रह्मणो वचनं श्रुत्वा ममांतिकमुपागताः ॥
त्रिदशा भयसंत्रस्ता नत्वा मामि दमब्रुवन् ॥१५॥
आदित्यतनयेनैव रेवंतेन महेश्वर ॥
दग्धं त्रिभुवनं सर्वं शरीरस्थेन वह्निना ॥
तेजसा महता चैव विक्रमेण बलेन च ॥१६॥
असाध्यः किल सोऽस्माकं सर्वेषां देवसत्तम ॥
भवान्प्रभवते तस्य नान्यः शंकर कश्चन ॥१७॥
त्वां प्रपद्यामहे सर्वे भयार्त्ताः शरणार्थिनः ॥
शरणं वरदं देवं त्रिदशानां महेश्वर ॥१८॥
मया स्मृतः सूर्यपुत्रो रेवंतस्तत्क्षणात्प्रिये ॥
प्राप्तः प्रीतिप्रसन्नात्मा वचनं चेदमब्रवीत् ॥१९॥
किं मया देव कर्त्तव्यं ब्रूहि सर्वमशेषतः ॥
ततो मया सूर्यपुत्र उत्संगे च कृतस्तदा ॥२०॥
स्नेहादाचुंबितो मूर्ध्नि परिष्वक्तः पुनःपुनः ॥
ददामि ते महाभाग वरं वरय सुव्रत ॥२१॥
परितुष्टोस्मि ते कामं यथेष्टं काममाप्नुहि ॥
इदमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि ॥२२॥
ममाभीष्टं परं स्थानं विद्यते पृथिवीतले ॥
अक्षयं प्रलये पुत्र महाकालवनं शुभम् ॥
तत्र दास्यामि ते स्थानं तत्र कीर्त्तिर्भविप्यति ॥२३॥
पूर्वे कंटेश्वरस्यापि स्थानं परमदुर्ल्भम् ॥
तत्र त्वं वस रेवंत लिंगं द्रक्ष्यसि शाश्वतम् ॥२४॥
सर्वदा त्रिदशैः पूज्यो भविष्यसि न संशयः ॥
गुह्यकाधिपतिस्त्वं च स्वर्गलोके भविष्यसि ॥२५॥
अश्वशालासु सर्वासु पूजनीयो भविष्यसि ॥
नृपतीनां गृहे चैव वसिष्यसि सुपूजितः ॥२६॥
तेजो मदीयं तत्स्थानं लिंगाकारं सनातनम् ॥
पूजितं त्रिदशैस्तत्र संसेव्यं यत्नतस्त्वया ॥२७॥
एवमुक्तो मया देवि रेवंतो रविजस्तदा ॥
जगामाकाशमाविश्य महाकालवनं क्षणात् ॥२८॥
ददर्श तत्र तल्लिंगं ज्योतीरूपं सनातनम् ॥
सूर्यपुत्रस्तु रेवंतो दृष्टो लिंगेन पार्वति ॥२९॥
प्रोक्तः प्रणयपूर्वेण दिष्ट्या दृष्टोऽसि सूर्यज ॥
अद्यप्रभृति ते नाम्ना ख्यातिं यास्यामि भूतले ॥३०॥
स्थातव्यं मत्समीपे तु सूर्यपुत्र त्वया सदा ॥
अक्षया भविता कीर्त्तिस्त्वदीया भुवनत्रये ॥३१॥
रेवंतेश्वरसंज्ञोऽहं भविष्यामि न संशयः ॥
ये मां द्रक्ष्यंति रेवंत भक्त्या परमया युताः ॥
तेषामश्वा भविष्यंति विजयो यश ऊर्जितम् ॥३२॥
ऐश्वर्यं दानशक्तिश्च पुत्रपौत्रमनंतकम् ॥
गुह्यकानां पतिर्भूत्वा स्वर्गलोके स वत्स्यति ॥३३॥
लिंगस्य वचनं श्रुत्वा प्रोक्तं वै रविसूनुना ॥
रेवंतेन विशालाक्षि संतुष्टेनांतरात्मना ॥३४॥
देहि मे ह्यचला भक्तिं देहि मे स्थानमुत्तमम् ॥
देहि मे परमं ज्ञानं ध्रुवां कीर्तिं च देहि मे ॥३५॥
भगवन्भूतभव्येश भवबंधभयापह ।
संस्कृतार्थोऽस्मि संजातस्तव देवस्य दर्शनात् ॥३६॥
जन्मकोटिसुसंशुद्धा ये त्वां पश्यंति देहिनः ॥
न तेषां पुनरावृत्तिर्घोरसंसारसागरे । ॥३७॥
इत्युक्त्वा रविसूनुर्वै रेवंतो रविवल्लभः ॥
रेवंतेश्वरदेवस्य समीपे संव्यवस्थितः ॥३८॥
एष ते कथितो देवि प्रभावः पापनाशनः ।
रेवंतेश्वरदेवस्य घंटेश्वरमथो शृणु ॥३९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्ग माहात्म्ये रेवंतेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽयायः ॥५६॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP