संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्|
अध्याय ३७

अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ३७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीहर उवाच ॥
सप्तत्रिंशत्तमं विद्धि शिवेश्वरमनंतकम् ॥
यस्य दर्शनमात्रेण जायंते सर्वसंपदः ॥१॥
 राजा रिपुंजयोनाम ब्रह्मकल्पे पुराभवत् ॥
महाकालवने रम्ये प्रजापालनतत्परः ॥२॥
देवपूजां व्रतं दानं ध्यानं स्वाध्यायसत्क्रियाम् ॥
प्रजापालनकं कृत्वा न स जानाति किंचन ॥३॥
स प्रजाः पालयामास पुत्रवत्परिपालिताः ॥
प्रजास्ताः सुखसंवृद्धा जरामृत्युविवर्जिताः ॥४॥
पुत्रिणो धनधान्याढ्याः सर्वकामसमन्विताः ॥
तस्यैव तेजसा व्याप्तं महाकालपुरं प्रिये ॥५॥
एतस्मिन्नंतरे पृथ्वीं तस्मिञ्छासति पार्वति ॥
महाकालवनं देवि स्वपुरं चिह्नितं मया ॥
विना चोज्जयिनीं गंतुं न रतिं प्राप कुत्रचित् ॥६॥
तदा मया गणेशस्तु शिवसंज्ञो गणाग्रणीः ॥
चिंतितस्तत्क्षणात्प्राप्तः किं करोमीत्युवाच ह ॥७॥
मयाप्युक्तो गणेशो हि गच्छ पुत्र मम प्रियम् ॥
महाकालपुरं व्याप्तं राजा रिपुञ्जयेन हि ॥८॥
इत्युक्तः स मया देवि तथेत्युक्ता कृतांजलिः ॥
गतोऽसौ मानुषे लोके ममाज्ञाहर्षिताननः ॥९॥
गते शिवगणे देवि संतुष्टोऽहं शुचिस्मिते ॥
युक्तिज्ञानवृतो दक्षः प्रभोर्भृत्यो हि दुर्लभः ॥१०॥
ततः स भिक्षु रूपेण बह्वोषधिपरिग्रहः ॥
गृहीत्वा दुंदुभिं स्कंधे वचनं चेदमब्रवीत् ॥११॥
कश्च भूतविषग्रस्तो नानादोषैः समाश्रितः ॥
कस्य को व्याधिरत्युग्रो यमहं प्रशमं नये ॥१२॥
कोऽपुत्रः पुत्रवानस्तु मन्मंत्रबलमाश्रितः ॥
वैद्योऽस्मि सर्वयुक्तिज्ञः सर्वकामप्रदायकः ॥१३॥
तस्य वाक्यं समाकर्ण्य कौतूहलसमन्वितः ॥
सवृद्धबालनारीको जनस्तमभिजग्मिवान् ॥१४॥
तेषां स नाशयामास व्याधिं दुर्जयमप्यति ॥
ते च तस्मै सुमहतीं पूजां चक्रुः सुहर्षिताः ॥
हेमरत्नांबरधनैर्धान्यग्रामपुरादिभिः ॥१५॥
एवं स न्यवसत्तत्र वर्षाणि च चतुर्द्दश ॥
नृपतेरंतरप्रेक्षी न चांतर मवाप सः ॥१६॥
अहोऽतिदुष्करो राजा अहो लोकपरायणः ॥
अहो तेजोनिधिर्वीरो दुर्जयोऽसौ महामतिः ॥१७॥
एवं स चिंतयंस्तत्र भिक्षु रूपी शिवो गणः ॥
जीर्णोद्यानलताजालगहने संवृतः स्थितः ॥१८॥
अत्रांतरे तु नृपतेस्तस्य लोकव्रतस्य तु ॥
महिषी निर्जरा राज्ञः प्राणेभ्योपि गरीयसी ॥१९॥
रूपेणाप्रतिमा लोके सा चापुत्रा सुतार्थिनी ॥
सपत्नीबहुला देवी श्रुत्वा भिक्षुं समाश्रिता॥ २०॥
सर्वकामप्रदं ज्ञात्वा नाग राणां सकौतुकम्॥
स्वां सखीं प्रेषयामास सुनंदांनाम भामिनी ॥२१॥
भिक्षोरायतने गुप्तमंतःपुरमतंद्रिता ॥
तया चासादितो भिक्षुर्विचिंत्य नगरं तदा ॥
उवाच चिंतापरमं भिक्षुं भिक्षासमन्वितम् ॥२२॥
प्रणम्य प्रांजलिर्भूत्वा कार्यार्थं विगतव्यथा ॥
भगवन्महिषी राज्ञः प्राणेभ्योऽपि गरीयसी ॥
वंध्या पुत्रार्थिनी देवी गुप्तं त्वां द्रष्टुमिच्छति ॥२३॥
भवान्कृपाकरः प्रायः प्रजानामीहितप्रदः ॥
एवं श्रुत्वा शिवगणो लब्ध्वा रन्ध्र मुवाच ह ॥२४॥
॥ भिक्षुरुवाच ॥
भद्रे केयं तव मतिर्विपरीतप्रलापिनी ॥
अविज्ञातो नरपतेर्गृहमेहीति भाषसे ॥
अविज्ञातः पुरे दृष्टः साहसी पुरुषो भवेत् ॥२५॥
एवं मत्वा व्रज क्षिप्रं स्वमेवांतःपुरं शुभे ॥
नाहं तत्रागमिष्यामि यावन्न नृपतेर्वचः ॥२६॥
सा तु तस्य वचः श्रुत्वा भिक्षोः क्षुभितमानसा ॥
जगामान्तःपुरं तूर्णं देव्यै तच्च न्यवेदयत् ॥२७॥
सखीवचस्तु सा श्रुत्वा देवी दीना उवाच ताम् ॥
सुनन्दे क उपायोस्ति राजा येन प्रवर्त्तते ॥
भिक्षोरानयने क्षिप्रं यावन्नासौ व्रजेत्क्वचित् ॥२८॥
उवाच सा तां युक्त्यैव सुनंदा युक्तभाषिणी ॥
त्वं तस्य वल्लभा राज्ञः प्राणेभ्योपि गरीयसी ॥२९॥
तस्मादस्वस्थचित्तत्वं राज्ञः स्वं संप्रदर्शय ॥
हेतुना तेन राजा च वाक्यं तव करिष्यति ॥३०॥
एतस्मिन्नेव काले तु देव्या दर्शनलालसः ॥
जगामांतःपुरं राजा प्रियां दीनां ददर्श ह ॥
तामपृच्छत्ततो राजा स्नेहार्द्रीकृतमानसः ॥३१॥
॥ राजोवाच ॥
किमिदं देवि ते रूपं विमनस्केव भाषसे ॥
भग्नासि केन दुःखेन कस्यापकृतमीदृशम् ॥३२॥
नृपस्य वचनं श्रुत्वा राज्ञी वचनमब्रवीत् ॥
न पुत्रा नृप मे संति तेन मे नास्ति निर्वृतिः ॥३३॥
क्रीडनं पीडनायैव तेषां ये पुत्रवर्जिताः ॥
अपुत्रा जगतो दीना दुःखिताः पुत्रवर्जिताः ॥
अपुत्रे च गतिर्नास्ति सुतापुत्रविवर्जिते ॥३४॥
सुखिनस्ते जना लोके ये बालं पांसुभूषितम् ॥
परिष्वजंति स्वसुतमस्फुटाक्षरभाषकम् ॥३५॥
अनेन कारणेनास्मि निर्वेदं परमं गता ॥
उपायो हि मया दृष्टः पुत्रार्थे मम सांप्रतम् ॥३६॥
इह भिक्षुः समायातो देवरूपी सनातनः ॥
तस्य चाव्याहता शक्तिः श्रूयते सर्ववस्तुषु ॥३७॥
सस्त्रीबालो जनश्चात्र शरणं यस्य गच्छति ॥
तस्य भिक्षोः प्रसादेन सुतवत्यो वयं नृप ॥
भविष्यामोऽत्र संदेहो न मे मनसि वर्त्तते ॥३८॥
तस्याः स वचनं श्रुत्वा जीर्णोद्यानं जगाम ह ॥
प्रियया सहितो राजा तं च भिक्षुं ददर्श ह ॥३९॥
दृष्टमात्रो नृपतिना भिक्षुर्लिगत्वमागतः ॥
दृष्ट्वा सुमहदाश्चर्यं भक्तिनम्रो महीपतिः ॥
पूजयामास विधिवत्तल्लिंगं भिक्षु रूपकम् ॥४०॥
अपुत्रोऽस्मीत्युवाचेदं धन्येयं महिषी मम ॥
देहि मे तनयं देव शिवो भवान्महेश्वरः ॥४१॥
इत्युक्तो राजसिंहेन भिक्षुर्लिंगा कृतिस्तदा ॥
प्रत्युवाच महीपालं पुत्रस्ते भविता नृप ॥४२॥
ततःप्रभृति राजासौ सकलत्रो महामतिः ॥
सर्वभावेन तं देवं जगाम शरणं मुदा ॥४३॥
देवदेवस्य माहात्म्यात्पुत्रो जातो महाबलः ॥
धर्मात्मा च यशस्वी च सार्वभौमो गुणाधिकः ॥४४॥
अथाहं मन्दराद्देवि कौतु- कात्तु समागतः ॥
लिंगाकारं गणं दृष्ट्वा राजानं सेवकं तथा ॥४५॥
योगैश्वर्येण च मया कृतं वै पुरमात्मनः ॥
नानारत्नप्रभोद्द्योतं नानासिद्धिनि षेवितम् ॥
तच्छिवं शाश्वतं स्थानं दत्तं देवि तदा मया ॥४६॥
मार्कंडेयेश्वराद्देवादुत्तरे वरवर्णिनि ॥
तदाप्रभृति देवोऽसौ शिवेश्वर इति स्मृतः ॥. ॥४७॥
येऽर्चयिष्यन्ति सततं शिवेश्वरमनुत्तमम्॥
निर्धूतसर्वपापास्ते भविष्यंति गणोत्तमाः ॥४८॥
विदित्वार्भगुरुं लोकं ये द्रक्ष्यंति शिवेश्व रम् ॥
अन्तकाले प्रदास्यामि तेषां ज्ञानमनुत्तमम् ॥४९॥
मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् ॥
अपुनर्भवहेतुत्वात्संसेव्योऽसौ शिवेश्वरः ॥५०॥
सर्वावस्थोऽपि यो मर्त्यः संश्रयेत्तं शिवेश्वरम् ॥
स तां गतिमवाप्नोति यज्ञैर्दानैर्हि या गतिः ॥५१॥
आख्यानं प्रयतो मर्त्त्यो य इदं श्रावयेच्छुचिः ॥
पठेद्वा वाचयेद्वापि स मुच्येत्सर्वकिल्विषैः ॥५२॥
एष ते कथिता देवि प्रभावः पापनाशनः ॥
शिवेश्वरस्य देवस्य कुसुमेश मतः शृणु ॥५३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये शिवेश्वरमाहात्म्यवर्णनंनाम सप्तत्रिंशोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : December 05, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP