अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ८०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ईश्वर उवाच ॥
आशीतिकं विजानीहि देवं स्वप्नेश्वरं प्रिये ॥
यस्य दर्शनमात्रेण दुःस्वप्नं नश्यति ध्रुवम् ॥१॥
कल्माषपादेति ख्यातो लोके राजा बभूव ह ॥
इक्ष्वाकुवंशजो देवि तेजसा सूर्यवद्भुवि ॥२॥
स कदाचिद्वने राजा वशिष्ठसुतमौरसम् ॥
शक्तिं परमधर्मज्ञं ददर्श विजितेंद्रियम् ॥
मार्गस्थितं तपोनिष्ठमपगच्छेति चाब्रवीत् ॥३॥
अमुंचंतं तु पंथानं तमृषिं नृपसत्तमः ॥
जघान कशया मोहात्तदा राक्षसवन्मुनिम् ॥४॥
कशाप्रहाराभिहतस्ततः स मुनिपुंगवः ॥
तं शशाप रुषाविष्टो वाशिष्ठः क्रोधमूर्छितः ॥५॥
हंसि राक्षसवद्यस्माद्राजापसद तापसम् ॥
तस्मात्त्वमद्यप्रभृति पुरुषादो भविष्यति॥६॥
सततं पिशितासक्तश्चरिष्यसि महीमिमाम्॥
स तु शप्तस्तदा तेन तत्क्षणाद्वै नृपोत्तमः ॥७॥
जगाम शरणं शक्तिं प्रसादयितुम र्हयत्॥
यदा न तुष्टो विप्रर्षिः शक्तिः परमकोपनः ॥
प्रसाद्यमानो भूपेन तदा तेनापि भक्षितः ॥८॥
शक्तिं तं भक्षयित्वा तु वशिष्ठस्यापरान्तु तान् ॥
भक्षयामास सहसा सिंहः क्षुद्रमृगानिव ॥९॥
तदाप्रभृति संजातः पुरुषादो नृपोत्तमः ॥
रात्रौ पश्यति दुःस्वप्नान्पापसंघेन मोहितः ॥१०॥
दृष्ट्वा भयानकान्स्वप्नान्स राजा पर्य्यतप्यत ॥
पश्चात्तापेन संयुक्तो विललाप सुदुःखितः ॥११॥
अथाप्युक्तममात्यैश्च किं करोषि महीपते ॥
कस्मात्ते निष्प्रभा कांतिर्विवर्णो हरिणः कृशः ॥१२॥
स राजा कथयामास दुःस्वप्नाननुपूर्वशः ॥
स्वप्नेऽहं सागरं शुष्कं चन्द्रं च पतितं भुवि ॥१३॥
उपरुद्धां च जगतीं घनेन तमसा वृताम्॥
आत्मानं चाहमद्राक्षं मलिनं मुक्तमूर्द्धजम् ॥१४॥
पतंतमद्रिशिखरात्कलुषे गोमये ह्रदे ॥
पिबन्नंजलिना तैलं हसन्निव मुहुर्मुहुः ॥१५॥
तैलेनाभ्यक्तसर्वांगस्तैलमेवावगाहयन् ॥
पीठे कार्ष्णायसे चैव निषण्णोऽहमधो मुखः ॥१६॥
गायंति प्रमदा रक्ता रक्तमाल्यानुलेपनाः ॥
कृष्णांबरधराश्चान्याः कृष्णमाल्यानुलेपनाः ॥१७॥
ताभिराकृष्यमाणोऽपि नीतोऽहं दक्षिणां दिशम् ॥
बद्ध्वा रज्ज्वा सुवर्णस्य लोहस्य रजतस्य च ॥१८॥
पांसुकर्दमयोर्मध्ये मग्नोहं लोहयंत्रितः ॥
कपोतैस्तुद्यमानोऽहं गृध्रैः काकैश्च दारुणैः ॥१९॥
सृगालैर्भक्ष्यमाणश्च स्थितो मद्गुरमस्तके ॥
ऋक्षवानरयानस्थो गतोऽहं दक्षिणां दिशम् ॥२०॥
नदीं निमग्नो निश्चेष्टो जलहीनां महीसमाम्॥
दंतैर्विदारितो रात्रौ रासभेनाहमर्द्दितः ॥२१॥
ताडितो हदयेत्यर्थं चरणैर्वज्रसंनिभैः ॥
दृष्टिश्च हन्यतेऽत्यर्थं वेतालैर्लोहशं कुभिः ॥२२॥
करालैः कंटकैः कृष्णैः पुरुषैरुद्यतायुधैः॥
स्वप्नेहं ताडितोत्यर्थमप्रमाणैः शितैः शरैः ॥२३॥
एवमेतन्मया दृष्टमिमांरात्रिं भयावहाम्॥
संख्यां कर्तुं न शक्येत दुःस्वप्नानपरान्बहून् ॥२४॥
इमां तु दुःस्वप्नगतिं निरीक्ष्य वै ह्यनेकरूपामविचिंतितां पुरा ॥
भयं महन्मे हृदयं न शुद्ध्यति प्रगृह्य बाहू विलपाम्यनाथवत् ॥२५॥
नृपस्य वचनं श्रुत्वा अमात्या भृशदुःखिताः ॥
पश्यंतो दुर्निमित्ताश्च उल्कापातादिकास्तदा ॥२६॥
सौरि सूर्यकुजाक्रांतं नगरं दृश्यतेऽधुना॥
नागं चतुष्पदं विष्टिं किंस्तुघ्नं शकुनिं तथा ॥२७॥
करणानि न शस्यंते मुहूर्त्ता दारुणाभवन् ॥
विदित्वा नृपभंगं तु देशभंगकुलक्षयम्॥२८॥
आश्वासयंतो राजानमिदं वचनमब्रुवन् ॥
अलं शोकेन काकुत्स्थ सत्यासत्या हि विभ्रमाः ॥२९॥
दृश्यंते भाविताः पुंसि स्वप्ने धातुवशेन हि ॥
तथा पित्रादिदेवांश्च पूजय ब्राह्मणांस्तथा ॥३०॥
एभिस्ततो मोक्ष्यसे त्वं मानसादधिविभ्रमात् ॥
यस्माद्दैवोपघातानां दैवमेव हि रक्षणम्॥३१॥
एवमाश्वासितो भूपो ह्यमात्यैर्धर्मकोविदैः ॥
तत्पापं कथयामास गुरुपुत्रवधादिकम् ॥३२॥
वशिष्ठस्य सुतो ज्येष्ठः शक्ति र्वै भक्षितो मया ॥
नृशंसेन तथामात्या एकोनं भक्षितं शतम् ॥३३॥
तेन पापेन संतप्तः कथं स्वस्थो भवामि वै ॥
एकापि ब्रह्महत्याया सापि दैवात्सुदुष्करा ॥३४॥
मया पुनर्नृशंसेन सा तथा न तु वर्जिता ॥
कांस्तु लोकान्गमिष्यामि कृत्वा कर्म सुदारुणम् ॥
राक्षसोऽहमनेनैव शरीरेण कुलांतकृत्॥ ३५॥
जातः कुले रघूणां वै पापात्मा पापसंभवः ॥
सोऽहमत्र मरिष्यामि साधयित्वा हुताशनम् ॥३६॥
इति तस्य वचः श्रुत्वा सौदासस्य सुविस्मिताः ॥
अमात्या वेदतत्त्वज्ञाः सर्वशास्त्रविशारदाः ॥३७॥
अहो पापमिदं भूरि कृतं पापेन सर्वथा ॥
प्रायश्चित्तं न जानीमो वशिष्ठेन विनाऽधुना ॥३८॥
तस्मादद्यैव गंतव्यमस्य भूपस्य कारणात् ॥
यत्र तिष्ठति विप्रर्षिर्वशिष्ठो भगवान्मुनिः ॥३९॥
इत्युक्त्वा सहितास्तेन तेऽमात्या भृशदुःखिताः ॥
गत्वा यत्राश्रमे विप्रो वशिष्ठो भगवानृषिः ॥४०॥
अदृश्यंतीं वधूं दीनां यत्राश्वासयति प्रभुः ॥
अदृश्यंती तु तं दृष्ट्वा कूरकर्माणमग्रतः ॥
भयसंविग्नया वाचा वशिष्ठमिदमब्रवीत् ॥४१॥
असौ मृत्युरिवोग्रेण दण्डेन वहुगर्वितः ॥
प्रगृहीतेन काष्ठेन राक्षसोऽभ्येति भीषणः ॥४२॥
तन्निवारयितुं शक्तो नान्यो वै भुवि कश्चन ॥
त्वामृतेऽद्य महाभाग सर्ववेदविदां वर ॥४३॥
त्राहि मां भग वन्पापादस्माद्दारुणदर्शनात् ॥
राक्षसोऽयमिहागत्य नूनमावां समीहते ॥४४॥
॥ वशिष्ठ उवाच ॥
मा भैः पुत्रि न भेतव्यं राक्षसात्ते कथंचन ॥
नैतद्रक्षो भयं यस्मात्पश्यसि त्वमुपस्थितम्॥
राजा कल्माषपादोऽयममात्यैः सहितो विभुः ॥४५॥
स एषोऽस्मिन्वनोद्देशे समा यातो ममांतिकम् ॥
तमायांतमथालक्ष्य वशिष्ठो भगवानृषिः ॥
वारयामास तेजस्वी हुंकारेण नृपोत्तमम् ॥४६॥
मन्त्रपूतेन च ततः समभ्युक्ष्य च वारिणा ॥
मोक्षयामास वै भावाद्राक्षसाद्राजसत्तमम्॥ ४७॥
प्रतिलभ्य ततः संज्ञामभिवाद्य कृतांजलिः॥
उवाच नृपतिः काले वशिष्ठमृषिसत्त मम् ॥४८॥
सौदासोऽहं महाभाग दासोऽहं तव सुव्रत ॥
अस्मिन्काले यदिष्टं ते ब्रूहि किं करवाणि ते ॥४९॥
तस्य तद्वचनं श्रुत्वा नृपस्य द्विजसत्तमः ॥
ज्ञात्वा तपोबलेनैव विश्वामित्रस्य चेष्टितम् ॥
राजानं प्रत्युवाचेदं विनयावनतं तथा ॥५०॥
ज्ञातमेव यथाकालं गच्छ राजन्कुश स्थलीम्॥
महाकालसमीपे तु लिंगं दुःस्वप्ननाशनम्॥ ५१॥
राजसंपत्करं दिव्यं पुत्रपौत्रविवर्द्धनम् ॥
ब्रह्महत्यासहस्राणां स्फोटनं पापनाश नम् ॥
तस्य दर्शनमात्रेण विपाप्मा च भविष्यसि ॥५२॥
दुःस्वप्नजं भयं घोरं विनंक्ष्यति न संशयः ॥
ग्रहाश्च सानुकूलास्ते भविष्यन्ति नृपो त्तम ॥५३॥
इत्युक्तो गुरुणा भूयो वशिष्ठेन महात्मना ॥
जगाम त्वरितो देवि महाकालवनं शुभम् ॥
ददर्श तत्र तल्लिंगं दुष्टदुःस्वप्ननाशनम् ॥५४॥
नष्टाः सर्वेपि दुःस्वप्नाः सुस्वप्नाश्चाभवंस्तदा ॥
राजा निष्कल्मषो भूत्वा पुनः प्राप्नोन्निजं पदम् ॥
अयोध्यायां गतो राज्यं चकार मुदितस्तदा ॥५५॥
तदाप्रभृति देवोऽयं सुस्वप्नेश्वरसंज्ञकः ॥
बभूव भुवने ख्यातः सर्वदुःस्वप्ननाशनः ॥५६॥
अष्टम्यां च चतुर्दश्यां देवं स्वप्नेश्वरं शिवम् ॥
दर्शनं ये करिष्यंति स्नात्वा शिप्राजले शुभे॥
आजन्मप्रभवं तेषां दुःस्वप्नं च विनश्यति॥५७॥
स एव सर्वदा पूज्य इह लोके परत्र च ॥
यः पश्यति नरो भक्त्या देवं स्वप्नेश्वरं शिवम् ॥५८॥
यं यं काममभिध्याय मनसाभिमतं नरः ॥
तं तं दुर्ल्लभमाप्नोति सुस्वप्नेश्वरदर्शनात् ॥५९॥
नियमेन प्रपश्यंति देवं स्वप्नेश्वरं सदा ॥
ते प्रयांति तनुं त्यक्त्वा मदीयं भवनं प्रिये ॥६०॥
भक्तिहीनः क्रियाहीनो यः पश्यति प्रसंगतः ॥
सुपुण्यां गतिमाप्नोति योगिगम्यां यशस्विनि ॥६१॥
ये च पुष्पैर्विचित्रैश्च पूजयन्ति च पर्वसु ॥
ते सर्वकामसंपन्नाः श्रीबलारोग्यसंयुताः ॥
दीर्घायुषः शुभाचारा जायन्ते देहिनोऽमलाः ॥६२॥
एते च ब्रह्मविष्ण्विंद्रकुबेरदहनादयः ॥
सुस्वप्नं परमं प्राप्ताः श्रीस्वप्नेश्वरदर्शनात् ॥६३॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
स्वप्नेश्वरस्य देवस्य शृणु लिंगचतुष्टयम् ॥६४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे उमामहेश्वरसंवादे स्वप्नेश्वरमाहात्म्यवर्णनं नामाशीतितमोऽध्यायः ॥८०॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP