अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ६९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
ईश्वर उवाच ॥
एकोनसप्ततिं देवि शृणु पार्वति यत्नतः ॥
यस्य दर्शनमात्रेण संगमो जायते सदा ॥१॥
कलिंगविषये देवि सुबाहुर्नाम पार्थिवः॥
बभूव भुवि विख्यातो यज्वा परमधार्मिकः ॥२॥
तस्य पत्नी विशालाक्षी दुहिता दृढधन्वनः ॥
कांचीपुरनिवासस्य क्षात्रव्रतरतस्य च ॥३॥
परस्परानुरागत्वात्परा प्रीतिरभूत्तयोः ॥
तस्य राज्ञः शिरोऽर्त्तिस्तु मध्याह्ने जायते सदा ॥४॥
आयुर्वेदविदां मुख्यैः शरीरस्य चिकित्सकैः ॥
तैः प्रणीताः प्रिये योगा व्यथावृद्धिर्दिनेदिने ॥५॥
एवं बहुतरे काले गते देवि महीपतिम् ॥
प्रत्युवाच विशालाक्षी भर्त्तुर्दुःखेन पीडिता ॥६॥
कथमेषा शिरोरोगे जरा ते पृथिवीपते ॥
वैद्याश्च बहवो देव नानाशास्त्रविशारदाः ॥
प्रयतंतेऽस्य नाशाय तथाप्येष न शाम्यति ॥७॥
एवं स प्रियया प्रोक्तः सुबाहुः पृथिवीपतिः ॥
प्रत्युवाच प्रियां भार्यां प्रेम्णा प्रणयवत्सलाम् ॥८॥
सुखदुःखाश्रयं देवि शरीरं सर्वदेहिनाम् ॥
पूर्वकर्मानुसारेण सुखं दुःखं च जायते ॥९॥
इति संबोधिता राज्ञी तेन राज्ञा वरानने ॥
पुनः प्रोवाच हार्द्देन तमेवार्थं सुदुःखिता ॥१०॥
यदा सा वारितात्यर्थं पृच्छत्येव पुनःपुनः ॥
तदा राजा प्रहस्यैव तां च राज्ञीमुवाच ह ॥११॥
यदि त्वं श्रोतुकामासि रोगस्यास्य समुद्भवम् ॥
कारणं तत्त्वतो देवि नाख्यास्याम्यहमत्र वै ॥१२॥
महाकालवनं गत्वा सिद्धगंधर्वसेवितम् ॥
तत्र ते कथयिष्यामि यदि कौतूहलं तव ॥१३॥
श्वः प्रभाते गमिष्यामि त्वया सार्द्धं शुचिस्मिते ॥
इति तस्य वचः श्रुत्वा सा राज्ञी विस्मिता स्थिता॥
उत्सुका गमनार्थाय महाकालवनं शुभम् ॥१४॥
अथ सा रजनी वृत्ता प्रभाते नृपसत्तमः ॥
प्रतस्थे भार्यया सार्द्धं सैन्येन महता वृतः ॥१५॥
आजगाम क्रमेणैव महाकालवनं शुभम् ॥
आवासं विदधे धीमाच्छिप्रातीरे नृपस्तदा ॥१६॥
पातालवाहिनी तत्र गंगा त्रिपथगामिनी ॥
द्वितीया नीलगंगा च शिप्रया सह संगता ॥१७॥
तासां च संगमस्तत्र तल्लिंगं संगमेश्वरम् ॥
पूजितं गंगया सार्द्धं शिप्रया नीलगंगया ॥१८॥
अथ प्राप्ते सुबाहौ च सा राज्ञी विस्मयान्विता ॥
पप्रच्छ प्रणयोपेता कथ्यतामत्र कारणम् ॥
यत्त्वयोक्तं पुरा देव कथयिष्यामि तत्र वै ॥१९॥
एवमुक्तः सुबाहुस्तु प्रियया पृथिवीपतिः ॥
प्रत्युवाच प्रियां प्रेम्णा प्रहस्य च पुनःपुनः ॥२०॥
सुखं स्वपिहि भद्रांगि श्रांता वयमनिंदिते ॥
प्रभाते कथयिष्यामि शिरोरोगस्य कारणम् ॥२१॥
अथ सा रजनी वृत्ता प्रभाते नृपसत्तमः ॥
कथयामास माहात्म्यं देवस्य परमेष्ठिनः ॥२२॥
अहमासं कुशूद्रस्तु सर्वदा वेदनिंदकः ॥
विश्वासघातको नित्यं त्वमप्येवं तथाविधा ॥२३॥
पुत्रो जातस्तु दुःशीलो देवब्राह्मणवंचकः ॥
कुरूपः कर्कशो दुष्टः प्रकृत्या पापपूरुषः ॥२४॥
अथ दीर्घेण कालेन द्वादशाब्दं भयावहा ॥
अनावृष्टिस्तु संजाता सर्वप्राणिभयंकरी ॥२५॥
वियोगस्तु त्वया प्राप्तो मया सार्द्धं सुतेन च ॥
ततोऽहं दुःखसंतप्तो वैराग्यं परमं गतः ॥२६॥
इच्छता निधनं सद्यो मया प्रोक्तमिदं वचः ॥
मम पुण्यविहीनस्य पापध्यानरतस्य च॥२७॥
सुतेन भार्यया सार्द्धं संगमो दुर्लभः पुनः ॥
कथं स्वपिति पापिष्ठः कृत्वा पापं सुदारुणम् ॥२८॥
कुटुंबार्थे करोत्येवमेकाकी निस्तरत्यसौ ॥
धर्म एव परो बंधुर्धर्म एव परा गतिः॥
धर्मेण साध्यते सर्वं तस्माद्धर्मं समाश्रयेत् ॥२९॥
इति चिंतयतोऽत्यर्थं मम प्राणा गताः प्रिये ॥
विविधा यातना प्राप्ता मया नरककोटिषु ॥३०॥
अंतकालेऽपि धर्मस्य प्रशंसा या मया कृता ॥
मत्स्योऽहं तेन पुण्येन जातः शिप्राजले शुभे ॥३१॥
त्वं च श्येनी ततो जाता तस्मिन्नेव वनोत्तमे ॥
प्रावृट्कालेऽथ संप्राप्ते आश्लेषानुगते रवौ ॥३२॥
नदीत्रयरयेणैव निःसृतोऽहं जलात्ततः ॥
त्वया शिरसि संप्राप्तो नखैर्विद्धोऽस्मि सुंदरि ॥३३॥
आनीतोऽहं त्वया देवि संगमेश्वरसंनिधौ ॥
कैवर्तैर्निधनं प्राप्तं त्वया सार्द्धं वरानने ॥३४॥
म्रियमाणेन मे दृष्टो देवोऽसौ संगमेश्वरः ॥
शिप्रया स्नापितोऽत्यर्थं गंगया नीलगंगया ॥३५॥
तस्य दर्शन मात्रेण जातोऽहं पृथिवीपतिः ॥
कलिंगविषये देवि सर्वभूपालवंदितः ॥३६॥
सुता त्वं वल्लभा जाता कांचीपुरनिवासिनः ॥
क्षात्रव्रतरतस्यैव सुभगा दृढधन्वनः ॥३७॥
आवां राजत्वमापन्नौ तस्य लिंगस्य दर्शनात् ॥
त्वया कररुहैर्विद्धो मारितो लगुडैश्च तैः ॥३८॥
मध्याह्ने कदनं स्मृत्वा ततो मे शिरसि व्यथा ॥
स्मरामि जातिमात्मीयामस्य देवस्य दर्शनात् ॥३९॥
एतत्ते कथितं देवि पृष्टोऽहं यत्त्वया पुरा ॥
गच्छ सुंदरि भद्रं ते यत्र ते वर्त्तते मनः ॥४०॥
स्थातव्यं च मयात्रैव सेव्योऽसौ संगमेश्वरः ॥४१॥
ततः सा निरवद्यांगी नीलोत्पलविलोचना ॥
करुणं सुस्वरं कृत्वा भर्त्तार मिदमब्रवीत् ॥४२॥
मयापि संस्मृतं देव पूर्वजन्मनि चेष्टितम् ॥
अस्य लिंगस्य माहात्म्यात्तिर्यग्योनिगतावपि ॥४३॥
प्राप्तावावां मनुष्यत्वं निर्मलेषु कुलेषु च ॥
प्राप्ता श्रीरतुला लोके प्राप्तं राज्यमकंटकम् ॥४४॥
प्राप्ता भार्या प्रियाहं ते त्वं च प्राप्तो मया नृप ॥
ख्यातोयं त्रिषु लोकेषु नामतः संगमेश्वरः ॥४५॥
अस्य देवस्य माहात्म्याद्वियोगो न भविष्यति ॥
यथा कृष्णस्य लक्ष्म्या च पार्वत्या च शिवस्य च ॥४६॥
पुनः प्रणम्य प्रणता सहसा मन्मथाकुला ॥
भर्त्ता सुबाहुर्मे भूयादन्यस्मिन्निह जन्मनि ॥४७॥
तव देवप्रसादेन यदि त्वं संगमेश्वरः ॥
ततो विलोक्य सोन्मेषं कुसुमेषुतरंगिताम् ॥
कांतां पिबन्निव दृशा प्राह तां तरलेक्षणाम् ॥४८॥
सहजेनाभिजन्येन गुणैः कांत्या विभूषिता ॥
मया प्राप्ता विशालाक्षि प्राप्तं मज्जन्मनः फलम्॥४९॥
ततस्तां भयसंत्रस्तां कंपिताधरपल्लवाम्॥
गृहीत्वा च करे कांतां जगामांतःपुरं निजम्॥५०॥
वदन्कंदर्पसर्पेण दष्टोऽहं दैवतोऽधुना॥
चचार तत्र निःसारं संसारं कलयन्धिया॥५१॥
पुरे मम वरारोहे चिरं रेमे तया सह॥
एवं राजा प्रियां प्राप्य निवेद्य च निजां कथाम् ॥५२॥
भेजे राज्यं तया सार्द्धं विस्तारितमहोत्सवः ॥
अशाश्वतमिदं ज्ञात्वा अर्थिभ्योऽपि ददौ धनम् ॥५३॥
अपूर्वत्यागिना तेन त्रैलोक्यं विस्मयं ययौ ॥
राज्यं कृत्वा चिरं कालं सभार्यो नृपसत्तमः ॥५४॥
भुक्त्वा च विपुलान्भोगांस्तस्मिँल्लिंगे लयं गतः ॥
अतो देवि सुविख्यातो देवोऽसौ संगमेश्वरः ॥५५॥
यः पश्येत्परया भक्त्या तल्लिंगं संगमेश्वरम् ॥
न वियोगो भवेत्तस्य पुत्रभ्रातृप्रियादिभिः ॥। ५६॥
नियमेन तु यः पश्येत्तल्लिंगं संगमेश्वरम् ॥
राजसूयसहस्रस्य फलं तस्याधिकं भवेत् ॥५७॥
गांगं च सफलं पुण्यं यामुनं नामर्दं तथा॥ ।
जायते चांद्रभागं च संगमेश्वरदर्शनात् ॥५८॥
यः पश्येच्छ्रावणे मासि तल्लिंगं संगमेश्वरम् ॥
कार्तिकस्वामिनो यात्रा कृता तेन न संशयः ॥। ५९॥
मासि चाश्वयुजे देवं यः पश्येत्संगमेश्वरम्॥
कृतं तेन सहस्रं तु वाजपेयं वरानने ॥६०॥
यः पश्येत्कार्त्तिके मासि तल्लिंगं संगमेश्वरम्॥ ।
राजसूयसहस्रं तु कृतं तेन न संशयः ॥६१॥
चतुरो वार्षिकान्मासान्यः पश्येत्संगमेश्वरम् ॥
स याति परमं स्थानं ममाभीष्टतरं प्रिये ॥६२॥ ।
एष ते कथितो देवि प्रभावः पापनाशनः ॥
संगमेश्वरदेवस्य शृणु दुर्द्धर्षमीश्वरम्॥ ६३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनंनामैकोनसप्ततितमोऽध्यायः ॥६९॥छ ॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP