अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम् - अध्याय ४९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ईश्वर उवाच॥
शृणु पंचाशदेकोनं देवेशं पृथुकेश्वरम्॥
यस्य दर्शनमात्रेण सार्वभौमो नरो भवेत् ॥१॥
वंशे स्वायंभुवे देवि ह्यंगो राजा बभूव ह ॥
मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा ॥२॥
वेननामा सुतो जातो नास्तिको धर्मदूषकः ॥
देवब्रह्मस्वहारी च परभार्यापहारकः ॥३॥
स च शप्तो द्विजैर्देवि तत्क्षणान्निधनं गतः ॥
तदूरोर्मथ्यमानात्तु निपेतुर्म्लेछजातयः ॥४॥
शरीरे मातुरंशेन कृष्णांजनचयप्रभाः ॥
पितुरंशात्समुत्पन्नो धार्मिको द्विजसत्तमैः ॥
मथिताद्दक्षिणाद्धस्तात्पृथुः प्रथितविक्रमः ॥५॥
स विप्रैरभिषिक्तश्च तपः कृत्वा सुदुष्करम् ॥
विष्णोर्वरेण महता प्रभुत्वमगमन्नृपः ॥६॥
स च स्वाध्यायरहिता निर्वषट्कारनिर्द्धनाः ॥
हाहाभूताः प्रजा दृष्ट्वा ततोऽभूद्दुःखितो नृपः ॥७॥
स दोग्धुमैच्छत्त्रैलोक्यं सदेवासुरमानुषम् ॥८॥
एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तयः ॥
क्रोधाविष्टं पृथुं दृष्ट्वा वाक्यं चेदमुवाच ह ॥९॥
लोकत्रयविनाशाय मा कोपं कुरु भूपते ॥
पृथ्व्यानया ग्रासितानि सस्यानि विविधानि च ॥
गिलितानि च अन्नानि विद्ध्येवैतन्मतं मम ॥१०॥
नारदस्य च वाक्येन क्रोधं चक्रे पृथुस्तदा ॥
निर्दग्धुमैच्छत्पृथिवीं सशै लवनकाननाम् ॥११॥
मुमोच शस्त्रमाग्नेयं तेन सा धरणी तदा ॥
दह्यमाना भयार्त्ता च गौर्भूत्वा पृधुमभ्यगात् ॥१२॥
सा वध्यमाना तेनैव नृपं वचनमब्रवीत् ॥
शरणं समनुप्राप्ता गौरहं नृपसत्तम ॥१३॥
गौरवध्या महीपाल वत्सं कृत्वा च दुग्धि माम् ॥१४॥
तस्यास्तद्वचनं श्रुत्वा दुदोह नृपसत्तमः ॥
भास्वद्रत्नानि सस्यानि कृत्वा वत्सं हिमालयम् ॥१५॥
जाताः प्रजाश्च सुमुखाः प्रवृत्तश्च महोत्सवः ॥
प्रवृत्ता यागदानादि क्रिया मगलपूर्विकाः ॥१६॥
राजाथ चिंतयामास मया पापमिदं कृतम् ॥
अवध्याश्च स्त्रियः प्रोक्ता गौरवध्या द्विजस्तथा ॥१७॥
स्त्रीरूपधारिणी पृथ्वी मोहादेषा मया हता ॥
गोवधे च कृता बुद्धिरहो पापपरंपरा॥
तस्माद्वह्निं प्रवेक्ष्यामि चितां कृत्वा न संशयः ॥१६॥
एवं चिंतयतस्तस्य पृथोरमिततेजसः ॥
आजगाम पुनस्तत्र नारदो भगवानृषिः ॥१९॥
दृष्ट्वा तथाविधं दीनं चिंतयानं पृथुं प्रिये ॥
उवाच नारदो धीमान्किमेतदिति पार्थिव॥ २०॥
ततः स कथयामास मया पापमिदं कृतम्॥
अवध्या स्त्री हता विप्र कृता बुद्धिश्च गोवधे ॥२१॥
काँल्लोकानु गमि ष्यामि कृत्वा कर्म सुदारुणम् ॥
मरिष्यामि न संदेहो ब्रह्महा पापपूरुषः ॥२२॥
अथ चेष्टोपदेशेन दुःखादुद्धर मां द्विज ॥
तस्य तद्वचनं श्रुत्वा कथयामास नारदः ॥
महापापप्रशमनं लिंगमाहात्म्यमुत्तमम् ॥२३॥
महाकालवने लिंगमभयेश्वरपश्चिमे ॥
महापापक्षयकरं विद्यते तत्र भूपते ॥
गच्छ त्वं सहसा राजंस्तत्र पूतो भविष्यसि ॥२४॥
नारदस्य वचः श्रुत्वा पृधुस्तत्र जगाम सः ॥
दृष्ट्वा लिंगं च वै रम्यं विपापस्तत्क्षणादभूत् ॥२५॥
द्वादशादित्यसंकाशो बभूव पृथिवीपतिः ॥२६॥
ततोंऽतरिक्षगैर्देवि कृतं नाम वरानने ॥
पृथुना पूजितो यस्माद्भविष्यति महीतले ॥
अद्यप्रभृति विख्यातो देवोऽयं पृथुकेश्वरः ॥२७॥
ये च द्रक्ष्यंति देवेशं पृथुकेश्वरमीश्वरम् ॥
ते सर्वकामसंपूर्णा भविष्यंति महीतले ॥२८॥
अज्ञानाज्ज्ञानतो वापि यत्पापं जायते नृणाम्॥
तत्पापं यास्यति क्षिप्रं पृथुकेश्वरदर्शनात् ॥२९॥
वाचिकं मानसं वापि कायिकं गुह्यसंभवम् ॥
प्रकाशं वा कृतं पापं प्रसंगादपि यत्कृतम् ॥
तत्सर्वं यास्यति क्षिप्रं पुथुकेश्वरदर्शनात् ॥३०॥
पूजयिष्यंति ये भक्त्या देवं वै पृधुकेश्वरम् ॥
राज्यं प्राप्स्यंति ते सम्यङ्नृलोके च त्रिविष्टपे ॥३१॥
भुक्त्वा राज्यं मनुष्याणां देवानां च महीतले ॥
यास्यंति परमं स्थानं ब्रह्मणः परमेष्ठिनः ॥३२॥
इत्युक्त्वा देवसंघैश्च पूजितः पृथुकेश्वरः ॥
पृथुः शशास पृथिवीं सपत्तनां सपर्वताम् ॥३३॥
एष ते कथितो देवि प्रभावः पापनाशनः ॥
पृथुकेश्वर देवस्य शृणु वै स्थावरेश्वरम् ॥३४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये पृथुकेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽध्यायः॥ ४९॥
N/A
References : N/A
Last Updated : December 05, 2024
TOP